Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 275
________________ २० भश्रीचक्रधरप्रणोतः [का पृ० १९४, पिपृ० १४३ इह तूपलब्धिलक्षणप्राप्तस्यानुपलब्धिर्न सम्भवतीति । अयं भावःमानुपलब्धिमात्रादसत्त्वं सिद्धयति, अपि तूपलब्धिलक्षणप्राप्तेऽनुपलब्धेः । न चात्र रूपादिपृथग्भूतस्यो[59]पलब्धिलक्षणप्राप्तत्वमस्तीति हेतोरभावः, निर्विशेषणाया अनुपलधेरभावप्साधने सामर्थ्याभावाद् हेतोरभाव इत्यर्थः । वैधर्म्यदृष्टान्तस्यानेन प्रकारेण कुशिक्षितैरभिधानादिति । अयं भावः- नित्यः शब्दः सर्वस्य(स्या-) नित्यत्वादिति । यदि शब्दस्य नित्यत्वे साध्ये सर्वस्यानित्यत्वं हेतुरुच्येत स्यात् प्रतिज्ञा-हेतुविरोधः । सर्वश्चेदनित्यः कथं शब्दो नित्यः ? तस्यापि सर्वमध्येऽन्तर्भावादिति । यावता तु नित्यः शब्दोऽमूर्तत्वादिति हेतुस्तस्याभिमतं सर्वस्यानित्यत्वादिति वैधHदृष्टान्तः सर्वशब्दं सावयवपर्यायमाश्रित्य, यत् पुनः सावयवं तदनित्यमिति, एवं च प्रतिज्ञा-हेतुविरोधस्य किमायातमिति । अथ यदि वैधHदृष्टान्तो विवक्षितः स्यात् साध्याभावे साधनव्यावृत्तिप्रदर्शनेनानित्यस्य 'सर्वत्वादिति ब्रुयात् । नैवम् । एवं दृष्टान्तानुभणनमस्य, न त्वेतावता हेतुपदत्वमस्य सिद्धयति । स हि दृष्टान्त एवोक्त इत्यस्य पूर्वमर्धम् "हेतुप्रतिज्ञाव्याघाते प्रतिज्ञादोष इत्यसत्" [प्रमाणवा०भा० ४.२८६] इति । सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसम्भवेऽपि इति । नित्यः शब्दः कृतकत्वादिति साङ्ख्यं मीमांसकं च प्रति सिद्धसाध्यत्वम् , कृतकस्य नित्यत्वेन व्याप्तस्यान्यत्रानुपलम्भाच्च दृष्टान्तहीनता । यमदृष्ट्वा परैरुक्तमदूषणमिदं किलेति । ‘गुणव्यतिरिक्तं द्रव्यम्' न्यायभा०, ५.२.४] इत्यादि यद् भाष्यकारेण प्रतिज्ञाहेतुविरोधाख्यं दूषणं निग्रहस्थानमुक्तं न तैरदूषणतया समर्थितम् । इदं तु स्पष्टमुदाहरणम् , अस्यादूषणत्वं नैवोद्भावयितुं शक्यत इत्यर्थः । यं च अदृष्ट्वा दिग्नागेन ‘स हि दृष्टान्त एवोक्तो वैधर्येण सुशिक्षितैः' इति वदता नित्यः शब्दः सर्वस्यानित्यत्वादिति प्रतिज्ञाहेतुविरोधाख्यमिदं दूषणणं) न भवतीत्युक्तम् । प्रकृत्यन्तररूपसमन्वयाभावादिति । सुखदुःखमोहात्मिकायाः प्रधानलक्षणायाः प्रकृतेरन्यत् प्रकृत्यन्तरम् । विशेषणमाह समन्वयादिति । एकप्रकृतिसमन्वये सति विकाराणां परिमाणादिति सविशेषणो हेतुः । कीर्तिनाऽप्य[नुमोदितम् । स ह्याह-“कश्चिदाह नास्त्यात्मेति वयं बौद्धा ब्रूमः । के बौद्धाः ?, ये बुद्धस्य भगवतः शासनमभ्युपेताः । को बुद्धो भगवान् ?, १ सर्वत्वात् सावयवत्वात् । २ लो. वा. निरालम्बमबाद १५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312