Book Title: Nyayacharya Yashovijayji Krut Granthmala
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 315
________________ संशयादीनामपि ज्ञानत्वस्य महाजाष्यकृता परिजापितत्वात् । न च सम्यक्त्वसाहित्येन ज्ञानस्य रुचिरूपत्वं संपद्यते, रुचिरूपं च ज्ञानं प्रमाणमिति सम्यक्त्वविशेषणोपादानं फलवदित्यपि सांप्रतम्, एतस्य व्यवहारोपयोगित्वेऽपि प्रवृ | त्त्यनुपयोगित्वात् । न च घटाद्यपायरूपा रुचिरपि सम्यक्त्वमिति व्यवहरन्ति सैधान्तिकाः, जीवाजीवादिपदार्थनवक विषयकसमूहालंबनज्ञानविशेषस्यैव रुचिरूपतयाम्नातत्वात्, केवलं सत्संख्यादिमार्गणास्थानैस्तन्निर्णयो जावसम्यक्त्वं, | सामान्यतस्तु प्रव्यसम्यक्त्वमिति विशेष इति । न च घटाद्यपायेऽपि रुचिरूपत्वमिष्टमेव, सदसद्विशेषणा विशेषणा दिना | सर्वत्र ज्ञानाज्ञानव्यवस्थाकथनात्, तदेव च प्रामाण्यमप्रत्यूहमिति वाच्यं, अनेकान्तव्यापकत्वादिप्रतिसंधाना हितवासनावता| मेतादृशबोधसंभवात्, तदन्येषां तु प्रव्यसम्यक्त्वेनैव ज्ञानसनावव्यवस्थितेः । अत एव चरणकरणप्रधानानामपि स्वसम| यपरसमयमुक्तव्यापाराणां प्रव्यसम्यक्त्वेन चारित्रव्यवस्थितावपि जावसम्यक्त्वाभावः प्रतिपादितः संमतौ महावादिना । व्यसम्यक्त्वं च, "तदेव सत्यं निःशंकं यजिनेन्द्रैः प्रवेदितमिति” ज्ञानाहितवासनारूपं, माषतुपाद्यनुरोधानुरुपारतंत्र्यरूपं || वेत्यन्यदेतत् । तस्मान्नैते प्रामाण्यप्रकाराः प्रवृत्त्यौपयोगिकाः । तति तत्प्रकारकत्वरूपं ज्ञानप्रामाण्यं तु प्रवृत्त्यौपयिकमवशिप्यते, तस्य च स्वतो ग्राह्यत्वमेवोचितम् । न्यायनयेऽपि ज्ञाने पुरोवर्तिविशेष्यताकत्वस्य रजतत्वादिप्रकारकत्वस्य चानुव्यवसायग्राह्यतायामविवादात्, इमं रजतत्वेन जानामीति प्रत्ययात्, तत्र विशेष्यत्वप्रकारत्वयोरेव द्वितीयतृतीयार्थत्वात्, तत्र | पुरोवर्ति इदंत्वेन रजतत्वादिनापि चोपनयवशाद्भासतां । न चेदंत्ववैशिष्ट्यं पुरोवर्तिनि न जासत इति वाच्यं, विशेष्यतायां पुरोवर्तिनः स्वरूपतो जानानुपपत्तेः तादृशविशेषज्ञानाजावात्, अन्यथा प्रमेयत्वादिना रजतादिज्ञानेऽपि तथाज्ञानापत्तेः,

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364