Book Title: Nyayacharya Yashovijayji Krut Granthmala
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 325
________________ वृत्ति अत्यन्तापकर्षवद्वृत्तित्वात् परिमाणत्ववदित्याद्यनुमानमेव । न चाप्रयोजकत्वं ज्ञानतारतम्यस्य सर्वानुभवसिद्धत्वेन | तद्विश्रान्तेरत्यन्तापकर्षोत्कर्षाच्यां विनाऽसंजवात् । न चेन्द्रियाश्रितज्ञानस्यैव तरतमभावदर्शनात्तत्रैवान्त्यप्रकर्षो युक्त इत्यपि शंकनीयं, अतीन्द्रियेऽपि मनोज्ञाने शास्त्रार्थावधारणरूपे शास्त्रजावनाप्रकर्षजन्ये शास्त्रातिक्रान्तविषयेऽतीन्द्रियविषयसामर्थ्य योगप्रवृत्तिसाधनेऽध्यात्मशास्त्रप्रसिद्धप्रातिजनामधेये च तरतमभावदर्शनात् । नन्वेवं जावनाजन्यमेव प्रातिजवत्केवलं प्राप्तं, तथा चाप्रमाणं स्यात्, कामातुरस्य सर्वदा कामिनीं जावयतो व्यवहितका मिनी साक्षात्कारवनावनाजन्य| ज्ञानस्याप्रमाणत्वव्यवस्थितेः अथ न जावनाजन्यत्वं तत्राप्रामाण्यप्रयोजकं, किंतु वाधितविषयत्वं, जावनानपेक्षेऽपि शुक्ति| रजतादिचमे बाधादेवाप्रामाण्यस्वीकारात्, प्रकृते च न विषयबाध इति नाप्रामाण्यं, न च व्यवहितका मिनी विभ्रमादौ दोषत्वेन जावनायाः क्लृप्तत्वात्तजन्यत्वेनास्याप्रामाण्यं, बाधितविषयत्ववद्दोष जन्यत्वस्यापि चमत्वप्रयोजकत्वात्, तथा चोक्तं मीमांसानाष्यकारेण - "यस्य च दुष्टं कारणं यत्र च मिथ्येत्यादिप्रत्ययः स एव समीचीनो नान्य इति", वार्तिककारेणाप्युक्तम्" तस्माद्बोधात्मकत्वेन, प्राप्ता बुद्धेः प्रमाणता । श्रर्थान्यथात्वहेतूत्यदोषज्ञानादपोद्यते ॥ १ ॥ इति " अत्र हि तुल्यवदेवाप्रामाण्यप्रयोजकघ्यमुक्तं, तस्माद्वाधाजावेऽपि दोषजन्यत्वादप्रामाण्यमिति वाच्यं, जावनायाः क्वचिद्दोषत्वेऽपि सर्वत्र दोषत्वा निश्चयात्, अन्यथा शंखपीतत्वज्रमकारणीभूतस्य पीतव्यस्य स्वविषयकज्ञानेऽप्यप्रामाण्यप्रयोजकत्वं स्यादिति न किंश्विदेतत् क्वचिदेव कश्चिद्दोष इत्येवांगीकारात्, विषयबाधेनैव दोषजन्यत्वकल्पनाच्च, डुष्टकारणजन्यस्याप्यनुमानादेर्वि| पयाबाधेन प्रामाण्याच्युपगमात्, अन्यथा परिभाषामात्रापत्तेः । मीमांसानाष्यवार्तिककारान्यामपि बाधितविषयत्वव्या

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364