Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 148
________________ 5 S 10 १२६ 15 20 25 नृ० २० को० - उल्लास २, परीक्षण ३ द्वितीयोल्लासे तृतीयं परीक्षणम् । [ मङ्गलम् । ] . नानादेशेषु यं देवमेककालमुपासकाः । पश्यन्ति सहशाकारं तस्मै सर्वात्मने नमः ॥ * [ देशीचार्यः । ] अव (?) देशी (श) स्थचारीणामुद्देशः प्रतिपाद्यते । रथचक्रा परावृत्ततला नूपुरविद्धिका ॥ तिर्यङ्मुखा मराला च करिहस्ता कुलीरिका । विश्लिष्टा कातरा पाणिरेचिताप्यूरुताडिता ॥ ऊरूवेणी तलोद्वृत्ता हरिणत्रासिका परा । अर्धमण्डलिका तिर्यक्कुञ्चिता च मदालसा ॥ सञ्चारितोत्कुञ्चिता च स्तम्भक्रीडनिका ततः । चारी लङ्घितजङ्घाख्या स्फुरिताप्यपकुञ्चिता ॥ अपि संघट्टिता खुत्ता खस्तिका तलदर्शिनी । पुराव्यर्धपुराटी च सरिका स्फुरिका ततः ॥ निकुहका लताक्षेपाप्यडुस्वलितिका परा । समस्खलितिका भौम्यः पञ्चत्रिंशदितीरिताः ॥ विद्युद्भान्ता पुरःक्षेपा विक्षेपा हरिणहुता । अपक्षेपा च डमरी दण्डपादाङ्गिताडिता ॥ जङ्गालङ्घनिकालाता जङ्घावर्ता च वेष्टनम् । उद्वेष्टनमथोत्क्षेपः पृष्टोत्क्षेपश्च सूचिका ॥ विद्धा प्रावृतमुल्लाल' इत्यत्रैकोनविंशतिः । आकाशिक्य उभय्यस्तु चतुःपञ्चाशदीरिताः । अथोद्देशानुरोधेन लक्ष्यन्ते क्रमतस्त्विमाः ॥ * [देश्यो भौमचार्यः । ] चतुरस्रं समं कृत्वा संलग्नौ चेत् प्रदर्शयेत् । पादावग्रेऽथ पृष्ठे वा रथचक्रा तदा स्मृता ॥ ॥ इति रथचक्रा ॥ १ ॥ * 1 ABO उल्लास, but verse 60 gives उल्लाल° । [ देशीचार्यः . १० ११

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166