Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 125
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ 'न च' रत्नमालिका न च कालनिरूपितावच्छेद्यताविलक्षणावच्छेद्यताशून्यत्वरूपस्य देशानवच्छिन्नत्वस्य निवेशाददोषः, तादृशवैलक्षण्यस्य निर्वक्तुमशक्यत्वात् । एवं कायव्यूहस्थले एकशरीरावच्छेदेन बाधबुद्धिसत्त्वे देशानवच्छिन्नविशेषणतया बाधाभावस्य तदात्मन्यसत्त्वाच्छरीरान्तरावच्छेदेनापि विशिष्टबुद्धयनुदयप्रसङ्गः । नूतनालोकः कालिकसम्बन्धावच्छिन्नाधिकरणत्वरूपकालत्वाच्छिन्ननिरूपकताकान्यत्वरूपस्य, कालिकसम्बन्धावच्छिन्ननिरूपकताकान्यत्वरूपस्य वा वैलक्षण्यस्य सुवचत्वादाहएवमिति । कायव्यूहेति । स च आत्मनो वै शरीराणि बहूनि मनुजेश्वर । प्राप्य योगबलं कुर्यात्तैश्च कृत्स्नां महीं चरेत् ।। भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिव ।। इत्यादिप्रमाणसिद्धस्तत्त्वज्ञानसाध्यस्तपःप्रभावमात्रसाध्यो वा झटिति सकलकर्मभोगनिर्वाहको वामदेवसौभरिप्रभृतिषु प्रसिद्धो युगपदनेकशरीरपरिग्रह रूपः । न च __ आलोकप्रकाशः पदमव्ययं तादृशविवक्षणानुपूर्वी विशिष्टपरम् । इतिशब्दार्थोऽभेदः। आकारशब्दार्थो वाक्यम् । तत्कत्वं तजनकत्वम् । तथा च तादृशविलक्षणानुपूर्वीविशिष्टाभिन्नवाक्यजनकं ज्ञानमिति बोधः । भूतले घट इत्येतादृशशब्दप्रयोगं प्रति भूतलवृत्तित्वप्रकारकघटविशेष्यकज्ञानस्य कारणत्वान्नायोग्यतेत्याहुः; तदसत् , एवं सति भूतले घट इत्याकारकं ज्ञानं भूतले घट इति वाक्यजनकमिति वाक्यस्य निराकाङ्क्षतयाऽप्रामाण्यापत्तेः । अन्ये तु भूतले घट इत्येकं पदमव्ययं भूतलवृत्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकार्थकम् । आकारशब्दार्थश्चाभेदः । तथा च भूतलवृत्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकाभिन्नं ज्ञानमित्यन्वयबोधः । न चाकारशब्दस्याभेदार्थकत्वे इतिशब्दवैयर्थ्यम् ; पूर्वशब्दस्याव्ययत्वद्योतकतया तस्य सार्थकत्वात् । यदा तु इतिशब्दस्याव्ययार्थकत्वमध्यवसीयते तदा न प्रयुज्यत एवाकारशब्दः, भूतले घट इति ज्ञानमित्येव तदा प्रयोगात् । अथवा वाक्यजन्यशाब्दबोधसमानविषयकत्वमाकारशब्दार्थः। आनुपूर्वीविशेषविशिष्टात्मकाव्ययान्विताभेद इतिशब्दार्थः। तस्याकारपदार्थघटकवाक्येऽन्वयः। तथा च आनुपूर्वीविशेषविशिष्टाभिन्नवाक्यजन्यशाब्दबोधसमानविषयकं ज्ञानमित्यन्वयबोध इत्याहुः; तदप्यसत् , भूतले घट इत्यस्य विनैवाव्ययत्वमुपपत्तौ तत्कल्पनानौचित्यात् , प्रत्यक्षादिसाधारणशाब्दबोधसमानविषयकत्वस्य निर्वक्तुमशक्यत्वाच्च । अधिकमन्यत्रानुसन्धेयमिति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215