Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
Catalog link: https://jainqq.org/explore/020673/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सरस्वती भवन-ग्रन्थमाला 'न च' रत्नमालिका श्रीशास्तशर्मणा विरचिता वाराणसेय संस्कृत विश्वविद्यालयः For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SARASVATI BHAVANA GRANTHAMĀLĀ Vol. 93 GENERAL EDITOR Surati Narayana Mani Tripathi Vice-Chancellor Varanaseya Sanskrit Vishvavidyalaya, Varanasi. सियसंस्कृ श्रतम् 'मे saldar गोवाय Acharya Shri Kailassagarsuri Gyanmandir NACA-RATNAMĀLIKĀ by ŚRI SASTṚ SARMĀ with his own commentary NŪTANĀLOKA and ĀLOKAPRAKĀSA by the disciples of the author VARANASI 1965 For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Published by ;Director, Research Institute Varanaseya Sanskrit Vishvavidyalaya Varanasi Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Printed by :Manager, Sansar Press (Private) Ltd., Kashipura, Varanasi, Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . u सरस्वतीभवन-ग्रन्थमाला (६३) श्रीशास्तृशर्मणा विरचिता 'न च' रत्नमालिका स्वोपजनूतनालोकटीकासंवलिता ग्रन्थकारशिष्यैः संकलितया आलोकप्रकाशटिप्पण्योपबृहिता च । वाराणस्याम् १८८७ तमे शकाग्दे For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राप्तिस्थानम्प्रकाशनधिमाग: वाराणसेयसंस्कृतविश्वविद्यालयः वाराणसी-२ मूल्यम्- ६-५० For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org.. Acharya Shri Kailassagarsuri Gyanmandir प्रास्ताविकम् ___ संस्कृतं भारतस्य चिरन्तनधारणानुसारेण सृष्टेः सर्वप्रथमा भाषा, यां जगत्पिता परमेश्वरो नियोज्यनियोजकविग्रही परिगृह्य सर्गस्यादिमान् मानवानुपादिशत् । नव्यन्यायभाषा च तस्याः प्रौढः परिपूर्णश्च विकासो यो गङ्गेशप्रमुखैायविद्याऽभिवृद्धः समग्रप्रमेयप्राणप्रतिष्ठानां प्रमाणानां स्वरूपनिरूपणे प्रायोजि । प्रमाणानि च न्यायनये चत्वारि । यथाऽह महर्षिोतमो न्यायदर्शने 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इति । तत्रापामरप्रसिद्धप्रमाणभावतया स्वेतरसर्वप्रमाणोपजीव्यतयाऽन्याखिलप्रमाणतोऽधिकतरविसम्भकरतया च प्रत्यक्षस्य प्रथममुल्लेखेऽपि तस्य तदन्येषां च समेषां प्रमाणानां प्रामाण्यसिद्धरनुमानेकतन्त्रतयाऽनुमानस्य सर्वप्रमाणतो वैशिष्ट्यं वारिष्ठ्यं च नितान्तं निर्विवादम् । अत एव निखिलैरेव नैयायिकैरनुमानस्य व्युत्पादने प्रामाण्यप्रतिष्ठापने च निरन्तरं पर्यश्रमि। तच्चानुमानं साध्यव्याप्यतया जायमानो हेतुः, व्याप्तिविशिष्टपक्षधर्मतया परामृश्यमानो हेतुः, हेतौ साध्यव्याप्तिज्ञानम् , पक्षे साध्यव्याप्यतया हेतुमत्ताज्ञानम् , तत्सहितं मनो वेत्यादिषु सर्वेष्वेव मतवादेषु व्याप्तेरनुमानाङ्गत्वं निश्चप्रचम् । व्याप्तिश्चान्वयतो व्यतिरेकतश्च द्विधा, तत्र व्यतिरेकतो व्याप्ति म साध्यव्यतिरेके हेतुव्यतिरेकनियमः, हेतौ साध्याभावव्यापकीभूताभावप्रतियोगित्वपर्यवसितः । अन्वयतो व्याप्तिश्च हेतौ साध्यसहचारनियमः, साध्याभावबदवृत्तित्वसाध्यवदन्यावृत्तित्वहेतुव्यापकमाध्यसामानाधिकरण्यादिरूपेण बहुप्रकारं विततः । तत्र तत्साध्यकतद्धतुकानुमितौ तद्धतौ तत्साध्यव्याप्तरेव प्रयोजकत्वौचित्येन साध्यव्यतिरेके हेतुव्यतिरेकव्याप्तेः साध्यानुमितावनङ्गत्वस्यैव न्याय्यतयाऽन्वयव्याप्तरेवानुमित्यौपयिकत्वाभ्युपगमो मान्यः । तत्प्रकारेष्वपि व्यापकत्वगर्भप्रकारस्य तदम्युपगतेौरवग्रस्ततया साध्याभाववदवृत्तित्वात्मनोऽन्वयन्याप्तिप्रकारल्यैवानुमितिप्रयोजकत्वं समुचितम् । तथात्वे परं केवलान्वयिसाध्यकस्थले साध्याभावस्याप्रसिद्धतया केवलान्वयिसाध्यकानुमितेरुच्छेदो दुष्परिहर आपद्यते । अतः सोन्दडप्रभृतिभिस्तार्किकधुरन्धरैः घटवत्स्वपि देशेषु पटत्वेन घटो नास्तीति सार्वजनीनप्रतीतिपारमार्थ्यमनुसन्दधानरमावीयप्रतियोगिताया व्यधिकरणधर्मावच्छिन्नत्वं स्वीकृत्य साध्याभावगर्भव्याप्तीनां केवलान्वयिसाध्यकस्थलसाधारण्यसम्पादनार्थमनेकधा यतितम् । तादृशेष्वेव तार्किकेषु प्रोद्दीप्तप्रतिभाप्रभापुञ्जनान्वर्थनाम्ना तत्र भवता प्रगल्भेन साध्यतावच्छेदकविशिष्टसाध्यसामानाधिकरण्यावच्छेदकस्वसमानाधिकरणसाध्याभावत्वकत्वम् , यत्समानाधिकरणसाध्याभावप्रमायां साध्यवत्ताज्ञानप्रतिबन्धकत्वं नास्ति तत्वम् , साध्याभाववति यवृत्तौ प्रकृतानुमितिविरोधित्वं नास्ति तत्त्वं वेति व्याप्तेर्लक्षणत्रयं प्राणायि । प्रकृतः 'न च रत्नमालिका ग्रन्थस्तेषु मध्यमं लक्षणमाश्रित्य केरले कोटिलिङ्गपुरप्रसाधनविदग्धस्य महामहोपाध्यायभट्टश्रीगोदवर्यराजस्यान्तेवसता न्यायविद्याविख्यातविपश्चिता श्रीशास्तृशर्मणा पाण्डित्यप्रकर्षनिकष इव निरमायि । ग्रन्थोऽयमनेकेषां नवनवकल्पनाप्रसवपाटयोपजुष्टप्रज्ञासाक्षिणां तर्कशास्त्रीयविशिष्टविचाराणामाकरत या विद्वजनानां महते मनस्तोषाय कल्पत इति निस्संशयम् । सोऽयं ग्रन्थो ग्रन्थकारस्यैव शिष्यैः सोत्साहं प्रसाधितया 'आलोकप्रकाश टिप्पण्योपहितेन तस्यैव For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकृष्टया शेमुष्या समुद्भावितेन 'नूतनालोक'नाम्ना व्याख्याग्रन्थेन सुविशदं विवृतस्तदीयेने सुहृदा श्रीरामशर्मविदुषा समुपहृतया भन्यभूमिकयाऽभिभूषितश्च नव्यन्यायनीरधेरुत्तुङ्गतरङ्गमाणय मनोविनोदकामानां नैयायिकानां नितान्तं काम्य इत्यनया भावनयाऽस्माभिरस्य संस्कृतविश्व विद्यालयप्रकाश्येष्वन्तर्भावस्य सम्यक्त्वं विभाव्य साम्प्रतमयं सम्मुद्रथ विदुषां समक्षं सबहुमानमुप ह्रियते । तदद्य सम्भाविसामुद्रणत्रुटीर्मर्षयन्तो मनीषिणोऽनया 'न च रत्नमालिकया' अमन्द मानन्दमनुविन्देयुरिति कामयते । सुरतिनारायणमणित्रिपाठी वाराणसेयसंस्कृत विश्वविद्यालयस्य उपकुलपतिः For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूमिका प्रमाणतः प्रतिपार्थो हि लोकः प्रवर्तते तेषु तेष्विष्टेषु, निवर्तते च द्विष्टेभ्यः । अतथानुक्तिसिद्धं भवति लोकयात्रा प्रमाणेष्वायतत इति । प्रत्यक्षादिषु तेषु प्रमाणेषु शब्दः प्राधान्यं भजति । यः खलु परोक्षस्वभावान् देशकालविप्रकृष्टांश्चाप्यानितरप्रमाणनिरपेक्षं प्रत्याययति । यदि न दीप्येत शब्दाहयं ज्योतिः, तर्हि कृत्स्नं जगदन्धं तमो जायेतेति हि स्म प्राह परमाचार्यों दण्डी। उभाविहोपलभ्येते महापरीवाही शब्दप्रमाणस्य--वैदिको लौकिकश्चेति । तत्र प्रथमं प्रभुसम्मितं नित्यनिरवद्यतया धर्माधर्मानुशासनेन, मन्त्रतन्त्रोपदेशेन, भुवनभावुकभावकतया च प्रमाणेषु मूर्धाभिषिक्तं प्रचक्षते प्रामाणिकाः । तदुपजीविनस्तन्मतानुवर्तिनश्च द्वितीयस्य सन्ति शास्त्रपुराणादिरूपाः प्रभेदा बहवः । तेषु शास्त्राणि तत्तदर्थानुशासनानि विचारशैली परिचाययन्ति । अवधानशक्तिं सूक्ष्मावेक्षणदक्षताञ्च चित्तस्योत्तेजयन्ति । बुद्धिं प्रवर्धयन्ति । पुराणादीनां प्रभेदान्तराणां तात्पर्यनिर्णयादौ भृशमुपयुञ्जते च। अतः सविशेषमाद्रियन्ते च मेधावन्द्रिः । तानि न्यायव्याकरणादीनि कारुणिकैलोकानुग्रहकुतूहलिभिः पूर्वसूरिभिर्बहुकालपरिश्रमेण बहुप्रकारं विस्तरं परिष्कारञ्च प्रापग्य सम्पन्नानि सुखप्रवेशानि चाकारिषत । अध्ययनाध्यापनादिद्वारकं सार्वत्रिकमत्र प्रचारमनायिषत च । तत्रापि 'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्' इति विशेषतः समाद्रियेते । परन्तु दृश्यमानानि तिरस्कृत्य अदृश्यमानानि चाविष्कृत्य यथेच्छं विहरतो महाकालस्य वैभवात् प्रत्यहं प्रक्षीयमाणप्रचाराण्येवाद्य हन्त ! तान्यालक्ष्यन्ते, शास्त्रपाण्डित्यवतां सङ्ख्यापि क्रमशो ह्रासं भजते । सम्प्रति शास्त्राणामध्ययने प्रवर्तमाना विरलाः । प्रवृत्तेष्वप्यनापातरमणीयां व्युत्पत्तिं प्रपद्यमाना विरलतराः । व्युत्पन्नेष्वपि प्रयत्नार्जिताया व्युत्पत्तेः पालने पोषणे च यतमाना विरलतमाः। ईदृशे सार्वत्रिके शास्त्रवैमुख्ये किन्नाम स्यान्निदानमिति विचार्यमाणे प्रथममिदं बुद्धिमारोहेत् सर्वस्यापि, यत्संस्कृतशास्त्राणामध्ययनं लाभपूजाख्यातिषु पुरेवाधुना नोपकुरुत इति । तदेतत् त्रयमेव हि प्रधानं कामनास्पदं मुख्य प्रवृत्तिलक्ष्यञ्च लोकस्य । किञ्च पिपठिषूणां पाठसौकर्यमपि नाद्य विद्यते यथापूर्वम् । न खलु वचन नूतनाः शास्त्रपाठशालाः स्थाप्यन्ते । स्थापितपूर्वासु भूरिशो विनष्टाः । शिष्टाश्च यथावन्न परिपाल्यन्ते । अपि च व्यवस्थापितकमा चिराय परम्पराहता च पाठपद्धतीः राष्ट्राधिकारस्थानेषु डिग्री विना नियमनं न कर्तव्यमिति व्यवस्थापनात्तदुपयोगितया परिष्करणाभिमानेन संकुलतां नीता सम्भ्रमविभ्रमजननी दुस्सञ्चरा पलवप्राहिपाण्डित्यमात्रोपयोगिनी च क्रियते । एवं हेतुभिर्बहुभिरापादितेन शास्त्राणां प्रचारविलोपेन सीदतां विदुषामिदमिदानीमस्ति किश्चित्समाश्वासजनकम् ; यदद्य भारतभरणाधिकारिणः संस्कृतसंरक्षणे साभिनिवेशा दत्तावधानाच For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " (घ) दृश्यन्त इति । पूर्वपण्डितपरम्परावशेषभूता इहाय ये कतिपये सुधियो विद्यन्ते, ताननुक्रमेण यथार्हमादृत्य बहु मन्वते | संस्कृतसर्वकलाशालानां स्थापने साह्यं विदधति, स्वयं ताः स्थापयन्ति च, संस्कृतग्रन्थानां प्रणेतृभ्यः प्रकाशयितृभ्यश्च धनप्रदानेनानुकूल्यं कलयन्ति । संस्कृत विद्यार्थिभ्यो जीविकां पारितोषिकाणि च यथायोग्यं वितरन्ति । कालोपक्रान्तोऽयं संस्कृत समुज्जीवनसमुद्यमो यद्यनुबध्यमान एव वर्तेत, यदि चाद्यापि भारतस्य वचन कोणेषु विरलतया विद्यमानेभ्यः प्राप्तप्रायदशान्तेभ्यो विज्ञानमहाप्रदीपेभ्यः सत्वरमेव दीपान्तराणां प्रवर्तने, प्रवर्तितानां प्रकाशावकाशदाने च भरणधुरन्धराणां भवेदविकला श्रद्धा, तर्हि स्यादचिरेण पूर्वावस्थाप्रत्यापत्तिः शास्त्राणामिति शक्यते सुदृढं वक्तुम् अत्रौदासीन्यावलम्बने तु तेषान्निरवशेषविनाशेनानुशय एव प्रसज्येत, तादृशी दुरवस्था यथा नोपतिष्ठेत् तथा साम्प्रदायिक शास्त्रपाठरीतिं रक्षितुमधिकारिणः श्रद्दद्धयुरित्याशास्महे । > Acharya Shri Kailassagarsuri Gyanmandir पूर्वेषां शास्त्रसंरक्षणे नित्यनित्रदीक्षाणां पण्डितोत्तमानामुत्तंसायमाना आसन् केरलेषु "मान्तिकुञ्चुनम्पूतिरि" इति विख्यातव्यपदेशाः शास्तृशर्माणः । विश्रुतवैदुष्याणां नैकनिबन्धनिर्मातॄणां श्रीकोटिलिङ्गपुरवास्तव्यराजन्यवंशमहाहीरमणीनां महामहोपाध्यायभट्ट श्रीगोदवर्मराजानामन्तेवसन्त एते गुरुं सुपात्र समर्पित विशिष्टज्ञानसर्वस्वतया कृतकृत्यतामनयन् । अवसिताध्ययनाश्च शासितुरादेशतः श्रीपूर्ण वेदपुरीमवाप्य राजकीयास्थानगते विदुषां सदसि सन्न्यदधत । सा खलु पुरी तावद् महिमनि महेन्द्रेण, विशेषज्ञतायां विबुधाचार्येण, औन्नत्ये कुलशैलेन, गाम्भीर्ये महाम्भोधिना च समानैर्मानधनैः परिणते वयसि परिग्रहीत पारमर्षपावनपथतया राजर्षिपदप्रथितैरस्मद् गुरुभूतैर्मातुलमहाभागैः श्रीरामवर्ममहाराजैरध्यासीनसिंहासना विक्रमस्योजयिनीव विद्यावतां महोत्सवभूरेवाभूत् । तत्र सदसि प्रवृत्तासु विविधासु शास्त्रार्थचर्चासु भागभाजः स्वाभाविकविनयाभिरामेण वैदुष्यप्रकर्षेण विस्मापितसभाजनानेतान् महीपतिर्यथोचितसभाजने - रमोदत | अथ गुरोः स्मारकतया स्थापितायां तन्नाममुद्रिताभिधानायां श्रीशेषाचार्य संस्कृतपाठशालायामध्यापकपदे पुनरनतिचिरादेव स्वकीय षष्ट्यब्दपूर्तिसुदिने प्रतिष्ठापितायां शास्त्रमहापाठशालायां न्यायाचार्यपीठे च न्ययोजयत् । महीपतेरनुग्रहोऽयमेतेषां प्रियतरस्य न्यायशास्त्रपरि चयसातत्यस्य साधकश्चाजायत । सत्यपि वैयासिकादिषु नयान्तरेषु साहित्याध्वनि च समीची ने परिचये काप्यसामान्या प्रतिपत्तिरासीदमीषामक्षपादीये, तत्रापि वादप्रस्थाने । तत् खलु प्रबलयुक्तिनि कुरुम्बकरम्बिततया, तलान्तावलोकनमात्रविश्रान्तिशीलविचारमेदुरिततया अपूर्वानल्पकल्पनाशिल्पेन च मेधाविना विमर्दक्षमं विनोदस्थानम् । मणिदीधितिव्याख्यासु जागदीशीगादाधर्यादिषु वा तदीयविस्तृतविवृतिषु वा न किञ्चन प्रकरणं शक्यं निर्देष्टुम्, यत्रामीभिर्निशा न जागरैराषित । प्रौढेषु विविधेषु क्रोडपत्रेषु क्रीडायां कुशला कुतूहलिनी चादसीया कुशाग्रवन्निशिताशेमुषी दुर्गमानुगममार्गेष्वपि निरर्गलाटनपाटवमधिजग्मुपी चासीत् । तदानीं न्याये मीमांसमानपाण्डित्यानां संवत्सरात् पूर्वमस्मदौर्भाग्याद्यशश्शेषभूतानां श्रीशेषाचार्यदौहित्राणां महाराजसतीर्थ्याना श्रीसेतुमाधवदीक्षितानां सततसम्पर्कश्चैतेषां शेमुषीवैदुषपोषक सायाञ्च For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ड) आसीत् । तैरेवोक्तमसकृद्दीक्षिताचार्याणां सहवास एवात्मानं दुर्गमेष्वनुगममार्गेषु विचित्रेषु क्रोडterry चाक्लिष्टप्रवेशमकरोदिति । एवमजस्रपरिश्रमेण विद्वत्सहस्रसंसर्गेण च समासादितपाण्डित्यपारम्याः श्रीशास्तृशर्माण: शासितृपीठस्य महाराजानुगृहीतस्य शास्त्रपाठशालायाश्व महार्हाभरणायमानाः शिष्यजनभागधेयसमाहाररूपाश्च चिरायाचकासन् । एतादृशाः समग्रमायुष्कालं विज्ञानस्य विवर्धने वितरणे च विनियुज्य कृतकृत्यतामुपेयिवांसो विद्वांसो न खलु सन्तीह भूयांसः । तर्ककर्कशा धीर्न खलु पेलवां काव्याङ्गनामनुकूल्यतीति प्रवादः सहृदयैरेतैविशथिलितः । तस्य निदर्शनमेतेषां कृतिमतल्लिका गङ्गातरङ्गिणी गङ्गां प्रस्तुत्य विरचिता चतुर्विंशतितरङ्गात्मिका शतत्रयाधिकपद्यगुम्फिता स्वकृतव्याख्याभिख्याता सरसगम्भीरा चेयमस्मन्मातुलैः श्रीमूलनगर्यो विहितान्त्यविश्रान्तिभिः श्रीमूलक्षजातैः श्रीरामवर्ममहीपतिभिः साकं कृतकाशीयात्रायाः फलभूता प्रकाशपदवीनीता पण्डितानां सहृदयानाञ्च हृदयमावर्जितवती । पुराणेतिहासादिषु प्रपचितं गङ्गायाः श्रीकाश्याश्च विश्वातिशायि माहात्म्यमवजिगमिषुभिरवश्यमेषा सव्याख्या पठनीयेत्यपि प्रस्तावेऽत्र प्रस्तुमः । किंबहुना, उभयत्रैव प्रवृत्तिरेषामाचार्याणां दृष्टा, शास्त्रालापे शिवपूजायाञ्च । शास्त्रेण समानमिह विनोदस्थानम् । शिवपूजया तुल्यमिहामुत्र कल्याणकारणञ्च न किञ्चनामी प्रत्यपद्यन्त । अहो ! परिपक्वमनस्कतायाः पारम्यम् । श्रान्तेर्विश्रान्तिभुवः, सदाचाराणां सङ्केतभूमयः, वैदुष्योत्कर्षस्य सीमानः, मितमधुरभाषिणश्वामी राजर्षेरनन्तरमुदूढराज्यभारैर्भूपालैरपि कुलगुरुवदादृता महर्षिवन्महिताश्व पण्डितराजभिरुदवीरशृङ्खला द्युपहारैर्बह्वमन्यन्त । इयमधुना सुधियां समक्षमवतारयितुमिष्यमाणा 'नचरत्नमालिका' सकलमनीषिलोकस्य प्रतीत वैदुषीविलासैस्तैर्मथितेत्येतावदेव वचनं मन्यामहे गुणसामस्त्यमस्याः प्रत्याययितुं पर्याप्तमिति । साध्याभावेन साध्यवद्भेदेन वा घटितानां व्यातिलक्षणानां केवलान्वयितावा शङ्कितामव्यासिं निराकर्तु तैस्तैराचार्यैरभावीयप्रतियोगिताया व्यधिकरणेन धर्मेणावच्छिन्नतां वदतां सौन्दलोपाध्यायानां मतमवलम्ब्य निरुक्तेषु चतुर्दशसु तलक्षणेषु प्रगल्भनिरुक्तयोर्द्वितीयं हि " यत्समानाधिकरणसाध्याभावप्रमायां साध्यवत्ताज्ञानप्रतिबन्धकत्वं नास्ति तत्त्वम्" इति । तस्य लक्षणस्य व्याक्रियारूपमिदं ग्रन्थरत्नम् । यद्यपि गदाधर भट्टाचार्यप्रभृतिभिरितराणीव व्याख्यातमेतदपि, तथापि तेषां व्याख्याभिः प्रहतादन्यं पन्थानमेषा प्रतिहन्तीति नात्र गतार्थता शङ्कापदं निधातुं क्षमते । मार्गभेदश्च ग्रन्थोपक्रम एव प्रेक्षकाणां प्रत्यक्षीभवति । तत्र हि यत्समानाधिकरणपदेन विवक्षितोऽर्थः किं यन्निरूपिताधिकरणतावद्वृत्तित्वम् किं वा यन्निष्ठाधेयतानिरूपकवृत्तित्वम् उत वा यन्निष्ठाधेयतानिरूपिता धिकरणतावद्वत्तित्वमिति त्रेधा विकल्य विकल्पितानामर्थानां तस्मात्पदालाभप्रकारञ्च प्रबोध्य कल्प यदूषणोद्भावनपूर्वकं लक्षणघटकत्वेनाभिमतो निर्दुष्टार्थो निरदर्शि, तथापि कल्पत्रयदोपोवने परमन्याशी रीतिर्ग्रन्थकारैरवालम्बि । या चासुलभा प्रेक्षावतां कौतुकाय कल्पते । ) 1 तत्र तावन्निरूपितत्वं निरूपकत्वञ्च द्वेधा विद्यते, यथा घटनिरूपितत्वं भूतलनिष्ठाधिकरणताया वर्तते, घटनिष्ठाधेयतानिरूपितत्वमपि । उभयमपि विलक्षणम् । एवं घटनिष्ठाधेयता - निरूपकत्वं भूतलस्य भूतलनिष्ठाधिकरणतायाश्च वर्तते, ते अपि विलक्षणे । लक्षणघटकत्वेनाभिमते प्राथमिके निरूपितत्वनिरूपकत्वे विहायापरे परमादाय दोषोद्घाटनम् । यथा - " नाद्यः, घटाभावे साध्ये स्वरूपसम्बन्धावच्छिन्नघटनिरूपिताधेयत्वहेतौ हेतुनिरूपितां घटनिष्ठाधिकरणता 1 For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मादा य” इत्यादि । “नापि. द्वितीयः, प्रकारताविशेष्यतयोरिव आधारत्वाचेयत्वयोरपि परस्परं निरूप्यनिरूपकभावसत्त्वेन वह्निमान् धूमादित्यादौ धूमादिनिष्ठाधेयतानिरूपकीभूता या पर्वतादिनिष्ठाधिकरणता, तनिष्ठसाध्याभावमादाय" इत्यादि च । एवमेतादृशदूषणोडावनार्थ "धूमाधिकरणताभिन्नत्वे साध्ये धूमाधिकरणत्वधूमाधिकरणत्वनिष्ठाधेयत्वैतदन्यतरस्मिन् हेतावित्यादिस्थलविशेषप्रदर्शनं बहुरात्रजागरणफलमिति बादं ब्रूमः। एवं प्रतियोगितानुयोगितादीनामपि आधेयतादिनिरूपितत्वनिरूपकत्वे उपादाय दोषोत्थापनं विस्मयावहमेव विदुषाम् । तदुपरि पुनर्गन्धकाराणां विज्ञानवैपुल्यं विषयविचारचातुर्यञ्चावगमयन्ती पूर्वान्तरपक्षाणां निश्श्रेणिरत्र सम्मुखीना भवति । सा च कं नाम धिषणाशालिनं विस्मयस्तिमितमस्तमितान्यभावमानन्द मन्दञ्चन कुर्वीत । ग्रन्थस्य न च रत्नमालिकेति नाम कृतवद्भिग्रन्थकृन्द्रिः संसूचितश्च सुचिन्तितानामाक्षेपतत्प्रतिक्षेपकोटीनामिह बाहुल्यम् । रीतिरियमापरिसमाप्ति ग्रन्थस्य समादृता दरीदृश्यते । आवलित्रयवत्यामस्या मालिकायां प्रथमावली नचरत्नानामेकोनविंशत्या गुम्झिता । यत्र व “केचित्तु सामान्यधर्मावच्छिन्नाधारत्वाधेयत्वयोरतिरिक्तत्वाद्वह्निमान् धूमादित्यादौ धूमनिष्ठद्रव्यत्यावच्छिन्नाधेयतानिरूपितद्रव्यत्वाद्यवच्छिन्नाधिकरणतावत्वं हृदस्यापीत्यव्याप्त्यापश्या" इत्यादिना व्युत्पत्तिवादसंगृहीतं सामान्यधर्मावच्छिन्नाधारत्वाधेयत्वयोरतिरिक्तत्वं व्यवस्थापितम् । द्वितीया च पञ्चविंशत्या, या च हेत्वधिकरणनिष्ठत्वं किं रूपमिति पूर्वोक्तरीत्या त्रेधा विकल्प्य प्रत्येकं दूषणेनारभ्यते। तादृशनिष्ठत्वं केन सम्बन्धेनेति विचारावसरे भावाभावसाधारणः स्वरूपसम्बन्धो व्यवस्थापितः। ततश्च व्यधिकरणधर्मावच्छिन्नप्रतियोगितायाः प्रसङ्गात् सम्बन्धविशेषावच्छिन्नत्वमपि सयुक्तिक व्यवस्थापितम् । अथ च यत्समानाधिकरणसाध्याभावप्रमेत्यत्र प्रमापदेन समूहालम्बनासमूहालम्बनरूपान् विचित्राकृतीन् प्रमाभेदानुपादायाव्याप्त्याशङ्कनम् , तत्परिहारानुरूपविशेषणोपादानम् धर्मविशिष्टत्वेन तदनुगमनञ्च ग्रन्थकृतां सूक्ष्मेक्षिकापाट वमवगमयति । अत्र च तद्वत्ताबुद्धौ तदभाववत्तानिश्चयादेनं निश्चयत्वादिना प्रतिबन्धकत्वम् , जन्यज्ञानमात्रस्यान्याय वृत्तितया तदभाववत्तानिश्चयकालेऽपि तदभावसत्त्वेन तद्वत्ताबुद्धयापत्तेरवारणात् । अतः समवायेन विशिष्टबुद्धिं प्रति बाधनिश्चयविशिष्टत्वेनैव प्रतिबन्धकत्वं वक्तव्यम् , वैशिष्टयञ्च सामानाधिकरण्यसम्बन्धेन । तथा च बाधनिश्चयकालेऽन्यावच्छेदेन तदभावसत्त्वेऽपि न तद्विशिष्टस्याभावः । व्याप्यवृत्तरपि सामानाधिकरण्येन तद्विशिष्टत्वादिति सूक्ष्मदर्शिनां केषाञ्चिन्मतम् । एवञ्च प्रकृतलक्षमस्प प्रतिबन्धकतायां ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशेन तादृशप्रतिबन्धकत्वाप्रसिद्ध था. असम्भवः, निश्चये प्रतिबन्धकताघटित हेत्वाभासादिसामान्यलक्षणमयसम्भवग्रासेन व्याहन्येत, मतमेतदाक्षेपसमाधानः प्रदW स दोषो ज्ञानवैशिष्टयानवच्छिन्नेत्यनेन विषयतानिष्ठस्वनिरूपकज्ञानवैशिष्टयावच्छिन्नावच्छेदकत्वानिरूपकत्वस्य विवक्षणेन निपुणतरं निवारितः। मतमेतन दूषितमपि तु परिहता एव सर्वानुपपत्तयः। अतो ग्रन्थकतृणामत्रैव स्वारस्यमिति मन्यामहे । हेत्वाभासादिसामान्यलक्षणानामेतत्पक्षे दोषपरिहारस्तु सुधीभिरूह्यः । तृतीया च चतुष्पञ्चाशता । सा च "अथ संयोगसमवायादिनानासंसर्गकसाध्यवत्ताज्ञानत्वव्यापिका कामिनीजिज्ञासादि प्रतिबध्यतैव । तदनिरूपकत्वञ्च साध्याभावप्रमासामान्यस्वेत्यतिव्याप्तिः" इत्याशङ्कया प्रक्रमते । प्रतिबध्यतायाः प्रतिबध्यस्वरूपत्वे प्रसक्तमसम्भवं निवारवितुं कथं ना For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निवेशः कर्तव्य इति विचारोऽत्र प्रौढतरं क्रियते । अथ च स्वरूपसम्बन्धलपसाध्यवत्ताज्ञानत्वावछिनत्वनिरासः, विविधसामग्रीघटकतया साध्याभावप्रमामादाय दोषोडायनतन्निरसनानि, तव सामग्रीप्रतिबन्धकतावच्छेदकरूपविचिन्तनञ्च विशेषतो विदुषां प्रतिपत्तिमर्हन्ति । संशयोत्तरप्रत्यक्षं प्रति विशेषदर्शनस्य हेतुत्वमुत्तेजकत्वं वा नावश्यकमिति व्यवस्थापनं प्रसङ्गागतमत्र परं सङ्गच्छते । उभयाभावमादायातिव्याप्त्यादिवारणं परं दुर्घटम् । पर्याप्तिनिवेशे प्रत्येकापर्यातस्य समुदायापर्यातत्वमिति न्यायेन तद्दोषतादवस्थ्यम् । व्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताकत्वनिवेशे तत्रायुभयाभावमादाय पुनरपि तद्दोषः प्रसज्येत । तदिदं प्रायशो दृश्यमानं वैषम्यं निपुणतरमनेकधा निवारितं ग्रन्थकारैः । अथ च “यत्समानाधिकरणसाध्याभावनिष्ठप्रमीयप्रकारतानिरूपितहेतुमनिष्ठविशेष्यतासामान्ये स्वावच्छेदकावच्छिन्नविशेष्यताकसमध्यवत्ताज्ञानसामान्यप्रतिबन्धकतावच्छेदकत्वाभावः कुतो नेह विवक्षितः" इति शङ्कामुत्थाप्य तत्प्रतिक्षेपेण लघुलक्षणपरित्यागानौचित्यं परिहृत्य, स्थलविशेषे केषाञ्चिदतिव्याप्तिशङ्काम् , मध्ये संशयत्वनिर्वचनं भगवज्जानस्य प्रतिबन्धकत्वव्यवस्थापनञ्च पटुतरं कृत्वा परिहरन्तः पण्डितसार्वभौमाः प्रौढतमं ग्रन्थमिभं समापयन्ति । एक्माहत्य द्वयूनशतेन पूर्वपक्षकोटिभिस्तावतीभिरुत्तरपक्षकोटिभिश्च यथोचितं सन्निवेशिताभिनिष्पादितमिदं दार्शनिकममूल्यं महाभाल्यम् । दुर्घटानुगमानां विशेषणादीनामनुगमांश्च तत्र तत्र निरायासमत्र निफ्यूढाः। प्रमायां प्रदत्तविशेषणस्यानुगमनमेवात्र प्रबलमुदाहरणं भवति । एतावता सुगम स्यादेव क्रोडपत्रप्रक्रियां भूयसा विडम्बयत्येषा व्याक्रियेति । ___अस्ति च नचरत्नमालिकायास्तत्कर्तु रेव कृतिः कापि विस्तृता विवृतिः "नूतनालोकाभिधाना। सापीह पुस्तके समायोजिता च । विवृतावस्यां प्रवितता बहुमुखा विचाराः सारेषु सारतरान् , सूक्ष्मेषु चातिसूक्ष्मान् पूर्वविषयानाविष्कुर्वाणा ग्रन्थस्य प्रौढतां व्युत्पादकताञ्च सम्पउहयन्ति । तत्र च प्रथमालोके एकदेशान्वयनियामकविचारः, धर्मिपारतन्त्र्येण भानस्य स्वरूपविमर्शनमित्यादयः, सामान्यधर्मावच्छिन्नाधिकरणताया अतिरिक्तत्वव्यवस्थापने पूर्वोत्तरपक्षमलोपबृंहणञ्च विशेषतः सारज्ञतां विज्ञापयन्ति ग्रन्थकृताम् । एवं द्वितीये ज्ञाननिष्ठसमानाकारकत्वस्य पक्षभेदान् प्रक्षिप्यानुगमनेन निर्वचन् , तत्त्वज्ञानस्य कर्मनाशकत्वविचारश्च परं श्रद्धेय एव । अत्रानाहार्यत्वविचारः प्रौढो विस्तृतश्च विशिष्य व्युत्पादक एव । विशेषणतावच्छेदकप्रकारकधीजन्यतावच्छेदकं विशिष्टवैशिष्टयावगाहिबोधत्वं परं दुर्वचम् । तृतीये समर्थमेतन्निर्वचनं कृतमितीदं वैदग्थ्यमेव ग्रन्थकृताम् । - गहनेषु वादप्रस्थानारूढेषु तेषु तेषु विषयेषु इहापरामृष्टा विवेचनवैदग्ध्येन सुग्रहतामप्रापिता . असत्कल्पा इति सुवचमतिशयोक्तिस्पर्शमन्तरेणैव । श्रद्धावतां जिज्ञासूनामुपकृतिकामनया ग्रन्थ निर्मिती व्यापूतानामेषां पण्डितवरेण्यानां विवक्षितवचनस्वातन्त्र्यं नियन्त्रयितुं नाभूप्रभावो "विस्तरभीतेः, नाप्यप्रकृतत्वाशङ्कायाः। कचन प्रकरणेषु हि अनतिप्रसक्ता अपि केचन विषयाः कथचन प्रसक्त्युत्थापनेन निरूप्यता प्रापय्यात्र निरूपिता वर्तन्ते । अतश्च केषाञ्चन प्रतीतिदियात् , अनवधानेन वा, प्रकृतविस्मरणेन वा, स्वपाण्डित्यप्रौदिप्रकाशनाभिनिवेशेन वा कदा For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ज ) चिदमी ग्रन्थकृतः प्रकृतं विस्मृत्य ग्रन्थकार मर्यादामतिक्रममागा विचारमार्गे सुदूरं चरन्तीति । परन्तु ग्रन्थकर्तृणामभिसन्धौ यथावदवगम्यमाने नूनमिदन्न दूषणं ते मन्येरन् प्रत्युत भूषणमेव । यतः स्वयं परिशीलितेयसंख्येयेषु पूर्वाचार्यग्रन्थेषु तत्र तत्रोपलब्धानां स्वयं सन्निहितेषु बहुषु विद्वत्सदस्सु विचारप्रचारे प्रक्रान्तानाञ्च प्रयत्नतः सम्भृतानामुच्चावचानामपूर्वतत्त्वरहस्यानां नानानिबन्धनावलोकनादिप्रयासमन्तरा प्रतिपत्त्यर्थमेकत्र समाहारे हि नैर्भर्यमेतन्निबन्धनकाराणाम्, न तु प्रगल्भलक्षगविवरणमात्रे । विवरणं हि स्वाभिमतपूरणायाश्रितं व्याजमात्रम् । मूलमात्रेण न स्वाभिमतं कार्त्स्न्येन पूरितं भवेदितीदमपि निदानं मन्यामहे स्वकृतस्य स्वेनैव व्याख्याकरणे । अत एव केषाञ्चन विवक्षितविषयाणामनतिप्रसक्तावपि कथञ्चन प्रसक्तिसम्पादनम्, विषयवैविध्यवैपुल्याद्यनुरोधेन ग्रन्थविस्तरश्चापरिहार्यतामगमताम् । वस्तुस्थितास्यामवबुद्धायां न खल्वनवधानम्, प्रकृतविस्मरणम्, पाण्डित्यप्रौढिप्रकाशनाभिनिवेशम् ग्रन्थकृन्मर्यादातिक्रमणं वा कश्विदुद्भावयेदिहाभिशः । सर्वथापीदमत्र निस्सन्देहं ब्रूमहे यन्यायशास्त्रे व्युत्पत्सूनां व्युत्पन्नानामपि सदसि वादविनोदकुतूहलिनाञ्च महाननुग्रह एवायं सव्याख्यो महनीय ग्रन्थ इति । " अस्ति चैतद्ग्रन्थकाराणां गिरा तदीयमुख्यशिष्यैः पण्डितराजविरुदधारिभिः श्रीरामननम्पियार- श्रीरामवारियर्- श्री अच्युतपोतुवालू इत्येतैर्महाशयैर्विलिखिता कापि टिप्पणी नूतनालोकस्यालोकप्रकाशाभिधा, या चात्र संयोजिता चकास्ति । मूलकृतामन्तेवासित्वस्यानुरूपमेवैते विवरणकृत्ये विचारसरणौ च व्यापृता इति वक्तुं महानस्माकं प्रमोदः । अप्रामाण्यज्ञानानास्कन्दितत्वसंशयान्यत्वविशिष्टावच्छेदकधर्मदर्शनानां प्रतिबन्धकीभूतानां नैकविधानुगमनमेकमेवालं तेषां कुशलधियामनुगमनपाटवं विशदयितुम् । क्वचिदालोकेनाप्रकाशितान् रत्नमालिका निगूढनूनभावानपि प्रकाशयन्ती मूलेन व्याख्यानेन वा क्वाप्यस्पृष्टान् विषयानपि विशदीकृत्य परिपूरयन्ती सा साराविष्करणसम्भाविताशङ्कानिराकरणप्रतिपक्षप्रतिक्षेपादिभिर्व्याख्यानधर्मैः परिकर्मिता नितरामुपकरोति तत्त्वबुभुत्सुनामित्यत्र न विशयलेशावकाशः । प्रथमप्रकाशे " न च वाच्यम् " “ यद्यपि तथापि " इत्यादिपदघटितस्थळे तत्तत्पदार्थप्रदर्शनपूर्वकं वाक्यार्थत्रोधवर्णनं परमसुलभमेत्र। भिन्नविषयकप्रत्यक्षत्वस्यानुगमयितुं शक्यत्वेऽपि बहुविधोत्तेजकानामननुगमादनुगतशाब्दसामग्रीप्रतिबध्यतावच्छेददुर्भिक्षं तत्रैव प्रदर्शितं सङ्गतमेव । एवं द्वितीये आरोपार्थविचारःस्तदादित्वविचारश्च टिप्पणीकाराणां विचारने पुर्णी विशदयति । प्रकारताया एव सम्बन्धावच्छिन्नत्वं तत्र तत्र ग्रन्थकारैर्विलिखितं दृश्यते न तु विशेष्यतायाः घटोsवृत्तिरिति बुद्धिं प्रति घटवत्तानिश्वrer araar विशेष्यतामनन्तर्भाव्य घटवानिति निर्धर्मितावच्छेदकनिश्चयसाधारणघटत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेनैव प्रतिबन्धकत्वस्य कल्पनीयतया प्रकारतायां तत्सिद्धिः एवच प्रमाणाभावान्न विशेष्यतायास्तथात्वमिति चेदेवंविधलाघवमन्यत्रापि सुवचम् सर्व समवायेन घटावृत्तिरित्यादिबुद्धिं प्रति प्रकारतामनन्तर्भाग्य समवायावच्छिन्नघटत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेनैव रूपवान् घट इत्यादिनिश्चयानां प्रतिबन्धकत्वस्य लाघवेन कल्पनीयत्वात् । एवं स्थिते प्रकारताया एव सम्बन्धावच्छिन्नत्वमन्यत्र तदवच्छिन्नत्वस्वीकारे दोषोद्भावनपुरस्सरं स्थापयतीति युक्ततरम् । घटो गगनाभाववदभाववत्काली नगगनाभाववानिति निश्चयस्य गगनवत्ताबुद्धिं प्रति विशिष्टविषयकत्वेन प्रतिबन्धकत्वान्तरं न कल्पनीयमिति निगमने पर्यवसानं विषयपरिशोधन , For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कौशलं विशदयति टिप्पणीकृताम् । अवच्छेदकधर्मदर्शनानां तत्तन्निश्रयानुत्तरतद्वत्ताबुदिं प्रति तत्तनिश्चयत्वेन प्रतिबन्धकत्वम् , न तु ज्ञानविशिष्टज्ञानत्वेनेति मतनिरासावसरे उत्तरत्वघटकतया मूले प्रस्तावप्रस्तुतस्य प्रागभावस्य व्यवस्थापने पूर्वपक्षसमाधानैरालोकोपस्करणं प्रकाशस्य प्रकाशावहमेव । एवं तृतीये "न च प्रथमान्तमुख्यकत्वमेवासिद्धम् , 'ते विभक्त्यन्ताः पदम्' इति गौतमसूत्रे 'क्रिया प्रधानमाख्यातं यथा पचति' इति न्यायवार्तिककारवचनात् , 'भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि' इति यास्कवचनाच्च क्रियाप्रधानस्यैव स्वरसतः सिद्धत्वात् । एवं कर्तुः प्राधान्ये पश्य मृगो धावति, शृणु कूजति कोकिल इत्यादे दर्शनाद्यन्वयानुपपत्तेश्च तस्य कर्तृत्वविशेषणत्वादिति वाच्यम्” इति शङ्कामुत्थाप्य प्रपञ्चेन तत्स्थापनम् । अन्ते "वस्तुतस्तु नैयायिकमते सर्वत्र प्रथमान्तमुख्यविशेष्यक एव बोध इति न नियमः, कैरप्यभियुक्तैस्तथाऽलिखनादनिर्वाहाच, किन्तु यथासम्भवं तत्तद्विशेष्यक एव" इति निगमनञ्च सर्वथा समञ्जसमेव । यद्यपि अथवेत्यादिना प्रथमान्तपदासमभिव्याहारे उक्तरीतिरेव, तत्समभिव्याहारे च सर्वत्र प्रथमान्तार्थमुख्यविशेष्यक एवेति कल्पान्तरमनुस्रियते, तथाप्यत्रैव टिप्पणीकृतां स्वारस्यमिति मन्यामहे, अन्यथा प्रयासाधिक्यात् । ___ इदमपि विद्यते किञ्चिदत्र वक्तव्यम् । यदयं ग्रन्थो यथावकाशं विशोधनीय इति मत्सकाशे श्रीशास्तृशर्मभिनिवेदितमासीत् । निरङकुशविचारसारवादप्रस्थानान्तर्गतत्वादेष मनोविनोद इति, एतत्कर्तारोऽस्माकं सन्ततप्रत्यासन्नाः परमोत्तमाः सुहृद इति, आप्तजनेषु मुख्यतमा इति, मान्येषु मूर्धन्या इति, मत्पूर्वगुरूणामपि प्रीतिबहुमत्योः पूर्णपात्रतां प्राप्ता इति हेतुभिर्बहुभिस्तां निवेदनांसपरितोषमुरर्यकर्षाम । वाचनलेखनचर्चासु च तदा तदा यथापेक्षं साहाय्यमादधातु शिष्यवयों श्रीरामन्नम्पियार् रामवारियरमहाशयौ स्वीयां सन्नद्धता सकौतुकमावेदयंश्च । परन्तु ग्रन्थस्याव. लोकने संशोधने च तेषामपि सान्निध्यमभिलषन्तो द्वयोरावयोः कार्यान्तरव्यग्रतारहितमवसरं प्रतीक्षमाणाः कञ्चन कालमवर्तिष्महि । अत्रान्तरे विधिबलात्तेषां ब्रह्मभूयप्राप्त्या हन्त ! अस्माकं मनोरथः फलेग्रहि भूत् । एवमप्यभ्युपगतं कृत्यं कथञ्चन निर्वोदुमेव निश्चिन्वानास्तत्र प्रावर्तिष्महि सहायाभ्याम् । अहो ! गभीरमिमं ग्रन्थमहाह्रदमवगाह्य परितः प्रहितदृष्टयः किं किं नापश्याम ! कियन्तमानन्दं नानुभवाम ! स्मृत्युपनीतानां ग्रन्थकर्तृणामग्रतोऽस्माकं पाणी मुकुलीभावमभजताम् । एतावान् ग्रन्थपरिचयः, एतादृशी सूक्ष्मनिरीक्षणदक्षता, ईदृशं कल्पनाकौशलम् , एवम्भूतश्चानुगमपाटवं न कुत्रचिदन्यत्रादर्शि, दृश्यते वा । तेषु महानुभावेषु प्रागेव प्राप्तप्रतिष्ठा अस्माकं गौरवधी: शतगुणाधिका समैधत | एवंविधपण्डितप्रकाण्डनिर्मितस्य ग्रन्थस्य शोधनावश्यकतामपश्यन्त आत्मनस्तत्राईतां सन्दिहानाश्च नवनवविषयोपक्षेपतत्परीक्षानेपुणनिरीक्षणाकाङ्क्षया केवलं समनं ग्रन्थमवालोकयाम तदा तु क्वचित्क्वचिदीषद्वयत्ययकरणं शोभनतया प्रतिभाति स्म, यथामति तन्निरवहाम च । क्वचिदेकत्र स्थितानि वाक्यानि प्रकरणानुगुण्यमभिसन्धायान्यत्रायोज्यन्त, क्वचिदर्थवैशद्याय वाक्यानां पदानाञ्च व्यत्ययोऽप्यकारि, क्वचित्पुनर्विशेषप्रतिपत्यनुपयोगितया वाक्यानि कानिचन त्यक्तानि, क्वचित्तदुपयोगिताधिया योजितानि च । न चैतत्सर्वे स्वप्रतिभामात्रं प्रमाणीकृत्याकरवाम, किन्तु ग्रन्थकारमुख्यशिष्यैरालोकटिप्पणीकृद्भिः समं समालोच्य तेषां संवादपूर्वमेव । किञ्च इह वाक्यानां तत्प्रतिपादितविषयाणाञ्च ग्राह्यत्याज्यविवेको विशोधनावसरे कार्य इत्युक्त For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( अ ) वद्भिर्ग्रन्थकृद्भिरौचित्यानुसारेण क्वचिद्वयत्ययकरणप्रसक्तिसम्भवस्य सूचितत्वात्तेषामप्यनुमतं स्यादेतदिति तर्कयामः । पूर्णवेदपुरी १-११-१९६४ Acharya Shri Kailassagarsuri Gyanmandir ग्रन्थस्यास्य मुद्रणप्रकाशधुरां सकरुणमुद्धृतवतां वाराणसीस्थसंकृत विश्वविद्यालयाधिकृतानामुदारहृदयतां संस्कृतप्रणयिताश्च को नाम मनस्वी मुक्तकण्टं न श्लावेत ! तथा विद्यानां विदुषाञ्च निर्व्याजबन्धुभिरनवरतपरिश्रमशीलै रस्मदातसुहृद्भिर्मान्यतमैः सौजन्यनिधिभिर्महामहोपाध्यायैः श्री मदनन्तकृष्णशास्त्रिमहाभागैर्ग्रन्थमिमं महाजना लोकपथमानेतुमाहितं महत्साह्यमपि कृतज्ञतानिर्भरां प्रशंसामहं त्येव । यत्तु मनोऽयमस्य भूमिकालेख ने न्ययुज्यत तैः, तत् किमर्थमिति परं नावगम्यते, ग्रन्थकृत्परिचायनं ग्रन्थवैशिष्ट्योत्कीर्तनञ्च प्रेक्षावत्प्रवृत्यङ्गतया क्रियते प्रायेण भूमिकया । अत्र तदुभयमपि व्यर्थमेवाकल्यामः । एतद्ग्रन्थकृतः सकलेन मनीषिलोकेन गुरुवर्हणीयतया परिगणिताः सर्वत्र सुविदितनामानश्च विद्यया कथञ्चिदभिसम्बन्धवतः कस्य वा स्युरपरिचिताः, यं प्रति परिचायनस्य प्रसक्तिः स्यात् । ग्रन्थे प्रवर्तनाय तु तदीयताख्यापनमात्रं पर्याप्तमित्युक्तप्रायम् । यदि स्यात्तेनाप्रवर्तमानो यः कोऽपि, नूनं स न प्रवर्तेत शतेनापि भूमिकानाम् । नायं ग्रन्थः कीर्तिकामुकस्य, अपि तु कीर्तितस्येति विशेषः । एवमपि महतां नियोगमनुसरन्तः कृतकृत्या भवेमेत्यभिलाषमात्रेण यत्किञ्चिदेतदलिखाम । केवलं भूमिकाया द्राधिम्ने नेच्छामस्तूलिकां व्यापारयितुम् । किञ्च श्रद्धया निबन्धनमिदं निद्धयायन्तः सन्तः स्वयमेव जानीयुरस्य बन्धुरतामित्यधिक लेखनमफलमपि पश्यामः । बाटं विश्वसिमो गुणानुरागिणस्ते स्वपुरोभुवि समवतार्यमाणमिदं सादरावलोकनेनानुगृह्णीयुरिति । तस्माद्भूमिकामेतामेतावता समापयन्तः रत्नमालिकेयमभिरूपाणां कण्ठभूषायमाणा प्रचुरं प्रचारम् एतत्प्रणेतॄणां यशश्व शाश्वतीमिहावस्थितिं भजतु भगवतः करुणार्णवस्य श्री पूर्णत्रयीश्वरस्य प्रसादेनेति प्रार्थयामह इति " i सुधीजनविधेयः रामवर्मा परीक्षपराभिख्यो गोश्रीमहाराजः । For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मङ्गलश्लोकः लक्षणस्थयत्समानाधिकरणपदविवरणम् अस्यैव विवरणान्तरम् यत्समानाधिकरणपदस्य त्रयो विकल्पाः कल्पत्रयेऽपि दोषोद्भावनम् यत्समानाधिकरणपदस्याभिमतोऽर्थः निरूपकत्वनिरूपितत्वयोर्द्विप्रकारकत्वम् नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिताया नचरत्नमालिकायाः कतिपयप्रधानविषयाणां सूचीपत्रम् न च रत्नमालिका **** .... सामान्यधर्मावच्छिन्नाधारत्वाधेयत्वयोरतिरिक्तत्वव्यवस्थापनं व्युत्पत्तिवादोक्तम् त्वधिकरणपदार्थस्य त्रयो विकल्पाः स्वरूपसम्बन्धो भावाभावसाधारणः व्यधिकरणधर्मावच्छिन्नप्रतियोगिताया अपि सम्बन्धावच्छिन्नत्वम् लक्षणस्थप्रमापदेन नानाविधानां समूहालम्बनासमूहालम्बनज्ञानानां समुल्लेखः तत्रोपयुक्तानां प्रमाज्ञानानामनुगमः समानाकारकत्वविचारः **** विविध सामग्रीघटकतया साध्याभावप्रमामादाय दोषोद्भावनम् तत्रैव सामग्रीस्वरूप चिन्तनम् .... .. .... तद्वत्ताबुद्धेर्न तदभाववत्तानिश्वयत्वेन प्रतिबन्धकत्वम् किन्तु सामानाधिकरण्यसम्बन्धेन बाधनिश्वयविशिष्टत्वेनैवेति मतम् एतन्मते प्रतिबन्धकताघटितं लक्षणम् प्रतिबध्यतायाः प्रतिवध्य स्वरूपत्वमाक्षिप्यासम्भवप्रक्रमः www. 9*** .... 0.00 .... एकदेशान्वयविचारः धर्मिपारतन्त्र्येण भानस्य स्वरूपनिर्वचनम् ज्ञाननिष्ठसमानाकारकत्वस्य पचभेदानुपक्षिण्यानुगमनेन निर्वचनम् Acharya Shri Kailassagarsuri Gyanmandir संशयोत्तरप्रत्यक्षं प्रति विशेषदर्शनस्य हेतुत्वमुत्तेजकत्वं वा नावश्यकम् उभयाभावमादायातिव्याप्तिवारणस्य दुर्घटत्वं प्रत्येकापर्यातधर्मस्य समुदायपर्याप्तत्वनियमा तद्दोषस्य तादवस्थ्यम् नूतनालोकः For Private And Personal Use Only .... 9**4 १ १४ १६ १७ १६ २० २९ ५३ ६९ ७३ ७४ ८१ ९४ १०७ ११९ ११७ १४१ १४३ १४५ १५१ १७४ 20 २७ ९४ Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्वज्ञानस्य कर्मनाशकत्वविचारः . ... .... अनाहार्यत्वविचारः .... विशेषणतावच्छेदकप्रकारकधीजन्यतावच्छेदकविशिष्टवैशिष्ट्यावगाहिबोधत्वस्य विशेषणतावच्छेदकप्रकारकधीजन्यतावच्छेदकत्वविमर्शः ... " प्रकाशटिप्पणी 'नच' 'वाच्यम् एतत्पदद्वयघटितवाक्यार्थोपन्यासः .... 'यद्यपि' 'तथापि' एतत्पदद्वयघटितवाक्यानामभिप्रायोपवर्णनम् .... बहुविधोत्तेजकानामननुगमात् शाब्दसामग्या अनुगतं प्रतिवध्यतावच्छेदकं दुर्वचम् .. । आदित्वविचारः ... .... ... प्रकारतायां सम्बन्धावच्छिन्नत्ववन्न विशेष्यतायां सम्बन्धावच्छिन्नत्वम् शाब्दबोधानां प्रथमान्तार्थमुख्यविशेष्यकत्ववत्रस्थलविशेषेषु क्रियादिमुख्यविशेष्यकत्वस्यापि नैयायिकाभिमतत्वम् ... . प्रागभावस्यावश्यस्वीकर्तव्यत्वम् .... १२५ Sad For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीहरये नमः ॥ व्याप्तिद्वितीयलक्षणं श्रीप्रगल्भमिश्रविरचितम् B**★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★★ परममूलम् ★★★★★★★★★★★★★★★★★★★★★★O यत्समानाधिकरणसाध्याभावप्रमायां साध्यवत्ताज्ञानप्रतिबन्धकत्वं नास्ति तत्वं व्याप्तिः॥ D********************** ******************************* * *** ******* For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता श्रीमद्गुरुपदाम्भोजं नत्वा भूयो द्वितीयके । प्रगल्भलक्षणे किञ्चिदुच्यते शास्तृशर्मणा ।। ( यत्समानाधिकरणपदविवरणम् ) यत्समानाधिकरणेत्यादिलक्षणवाक्यम् । तत्र यस्य समानं यत्समानम् , यत्समानमधिकरणं यस्येति विग्रहः । तत्र प्राथमिकविग्रहवाक्ये तत्पदोपस्थाप्यता नूतनालोकः श्रीमहुरुपदनलिनं नामं नामं वितन्यते प्रीत्या । 'न च' रत्नमालिकायाः स्वकृतायाः कोऽपि नूतनालोकः॥ ( यत्समानाधिकरणपदविवरणस्यालोकः) . शिष्टाचारपरम्परापरिप्राप्तप्रन्थारम्भसमयकर्तव्यताकं गुरुपदप्रणामलक्षणं मङ्गलं समाचरन् समीहितं प्रतिजानीते-श्रीमदिति । विकल्पिष्यमाणानर्थान् लम्भयितुमाहयस्य समानमित्यादि। यस्य समानं यत्समानमिति 'इति विग्रह' इत्यनेन सम्बन्धः । आलोकप्रकाशः नत्या गुरूंस्तद्राि तन्नूतनालोकटिप्पणी । रामाच्युताख्यैः क्रियते तेन संप्रीयतां शिवः ॥ मूले श्रीमदिति । श्रीमान् विद्याविनयादिगुणसंपन्नो यो गुरुर्विद्योपदेष्टा पिता च, "गुरुस्तु गीष्पती श्रेष्ठे गुरौ पितरि दुर्भरे" इत्युभयत्र शब्दार्णवः। अत्र “विभासि नृपभीम” इत्यादाविव शब्दशक्त्या बृहस्पतेरभेदः साम्यं वा तयोर्ध्वन्यते । यद्वा मम गुरुः मद्गुरुः, श्रिया युक्तो मद्गुरुः १. अनेन सि० के० रामन् नम्पियार् , टि. रामवारियर् , के० भन्युतप्पोतुवाक्-एते महाशया विवक्षिताः। For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका आलोकप्रकाशः श्रीमद्गुरुः । श्रीरघुनाथनामेत्यादाविव मध्यमपदलोपी समासः । मदीयत्वोक्तिर्गुरौ भक्तिबहुमानादिप्रकर्ष द्योतयति । शेषं पूर्ववत् । अथ च श्रीमानिति नित्ययोगे मतुप् । लक्ष्मीवल्लभ इत्यर्थः । स चासौ गुरुः। जगतो गुरुः पिता च । स्मर्यते च-"पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुगरीयान्" इति । श्रीमान् निरतिशयसार्वज्यसंपन्नः, अतिशायने मतुप । गुरुरादिगुरुः सर्वेषां पिता वा परमेश्वरः । उक्तं हि पातञ्जले ईश्वरं प्रस्तुत्य "तस्य निरतिशयं सार्वज्यबीजम्", "स पूर्वेषामपि गुरुः कालेनानवच्छेदात्" इति । शिवपुराणेऽप्युक्तम् प्रतिसर्ग प्रसूतानां ब्रह्मणां शास्त्रविस्तरम् । उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् । कालावच्छेदयुक्तानां गुरूणामण्यसौ गुरुः । सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ।। इतीत्याद्यनेकार्था विवक्षिताः । तथा च 'सर्वदो माधवः' इत्यादाविव प्रकृतश्लेषः । तस्य पदाम्भोजमित्यत्रोपमा, नत्वेत्यस्य तत्साधकत्वात् । पदस्याम्भोजसाम्यं विशिष्टजनोपादेयत्वादिना बोध्यम् । __ श्रीमदिति पदाम्भोजविशेषणतयापि योजयितुं शक्यते । अस्मिन् पक्षे श्रीमत्त्वं पूज्यत्वरूपम् । तदतिरिक्तस्यैव सामान्यधर्मतया न तत्प्रयोग उपमाबाधकः, यथा-"भाष्याब्धिः क्वातिगम्भीरः" इत्यादौ । _गुरुपदाम्भोजं नत्वेत्युक्तिः पदाम्भोजस्य प्रभावातिशयद्योतनद्वारा कैमुतिकन्यायेन गुरोरपि तद्योतनार्था । भूय इति । पौनःपुन्येनेत्यर्थः । भक्तिप्रकर्षानुभावोऽयम् । द्वितीयके प्रगल्भलक्षण इति । "न सामिवचे' इत्यनेन ज्ञापिसोऽत्यन्तस्वार्थिकः कन् । चतुर्दशलक्षणीघटकद्वितीयप्रगल्भलक्षणइत्यर्थः । तस्मिन् विषय इति यावत् । किञ्चिदिति । अल्पमिति वाच्योऽर्थः । अन्यैरनिर्दिष्टमिति व्यङ्गयोऽर्थः । लक्षणे किञ्चिदुच्यत इत्यनेन वचनमिदं न गदाधरीयव्याख्यानरूपम् , किन्तु लक्षणघटकतत्तदर्थप्रयोजनादिविमर्शनरूपमिति प्रकाश्यते । शास्त्रिति । शास्तेति नाम । “शर्मान्तं ब्राह्मणानाम्" इति स्मृतिमनुरुध्य शास्तृशर्मणेत्युक्तम् । व्याख्यायां श्रीमदिति । नाम नाममिति णमुलन्तम् , "आभीक्ष्ण्ये णमुल च" इत्यनुशासनात् । पौनःपुन्यात्मकाभीक्ष्ण्यं णमुलोऽर्थः । तदर्थतात्पर्यग्राहकं द्विवचनम्। पौनःपुन्यं प्रकृतधात्वर्थसजातीयक्रियोत्तरतादृशक्रियानन्तर्यरूपम् । तच्च विशेषगत्वेन प्रकृत्यर्थे नमनेऽन्वेति । तथा च नमनोत्तरनमनानन्तर्यवन्नमनमित्यर्थः । For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नतनालोकटीका तत्प्रकाशटिप्पण्योपहिता आलोकप्रकाशः द्विः क्रियाकरणे न निरुक्तं पौनःपुन्यमिति न तत्र तथा प्रयोगः । नमनोत्तरत्वादिकञ्च तत्समानकर्तृकत्वगर्भम् । नातः पुमन्तरीयनमनोत्तरत्वादिकमादायातिप्रसङ्गः। गुरुपदनलिनमिति द्वितीयान्तपदप्रतिपाद्यस्य तत्कर्मकत्वस्य णमुलन्तोपस्थाध्यासु सर्वासु क्रियास्वन्वयो व्युत्पत्तिवैचियात् । यद्वा नमनविशिष्टनमनविशिष्टत्वं णमुलोऽर्थः । वैशिष्टयं चोभयत्रापि स्वाव्यवहितोतरत्व स्वसमानकर्तृकत्व स्वसमानकर्मकत्वैतत्त्रितयसम्बन्धेन । इत्थञ्च न णमुलथैकदेशे द्वितीयार्थान्वयक्लेशः । तेन यत्र क्रमेण मातापितरौ नत्वा गुरुपदं नमति तत्र न तथा प्रयोगः । पौनःपुन्यविशिष्टनमनस्य चानन्तर्यरूपापरणमुलथे, तस्य वितन्यत इति तनुधात्वर्थे चान्वयः। वितन्यत इति । विस्तार्यत इत्यर्थः । मयेति शेषः । स्वकृतस्य स्वेनैव वितननं न प्रायशो दृष्टचरमतस्तत्र निमित्तमाह-प्रीत्येति । प्रीतिः शिष्यादिविषयकप्रेम । तात्पर्यानवबोधनिमित्तकशिष्यादिक्लेशपरिजिहीर्षेति यावत् । तया हेतुना । अथ च प्रीतिः शिष्यादीनां स्फुटतरार्थावबोधनिमित्तकः सन्तोषः, तया तदर्थम् । अध्ययनेन वसतीत्यादिवत् फलात्मकहेतौ तृतीया । न चेति । अत्र “न चेत्यनेन 'न च' घटितानि वाक्यानि विवक्षितानि । नचानां रत्नानि 'न च' रत्नानि । उत्कृष्टानि 'न च' घटितवाक्यानीत्यर्थः । "रत्नं स्वजातिश्रेष्ठेऽपि" इत्यमरः । 'न च' रत्नान्येव रत्नानि मणय इति श्लिष्टरूपकम् । रत्नानीव 'न च' रत्नानीति श्लिष्टोपमा वा । मालैव मालिका । स्वार्थ कः । 'न च' रत्नानां मालिका पङ्क्तिरेव मालिका सक् । तस्या मालिकेव मालिकेति वा । प्रथमे श्लिष्टपरम्परितरूपकम् । द्वितीये श्लिष्टपरम्परितोपमा। तयोरत्र सन्देहसङ्करः। परम्परितोपमा यस्तीति चित्रमीमांसायां स्पष्टम् । तस्याः । कोऽपीति । अल्प इति बाह्योऽर्थः । आन्तरस्तु अतिमहानिति । नूतनेति । नूतनः अपूर्वः, आलोकः अर्थप्रत्यायको व्यापारो व्याख्यानरूपः, आलोक्यते ज्ञायते अर्थोऽनेनेति व्युत्पत्तेः । स एवालोकः प्रभा, आलोक इव स इति वा प्रभाया अपूर्वत्वमदृष्टपूर्वत्वम् । व्याख्यानस्य तु परानुलिखितार्थबोधकत्वमिति बोध्यम् । यथा केनचिन्मणिकारेण स्वकृतपूर्वाया रत्नमालायाः संस्कारविशेषाधानेनापूर्वप्रभाविशेष उत्पाद्यते, तथा मया स्वकृताया न चेत्यादिवाक्यपङ्क्तेस्तत्तदर्थपर्यालोचनेनापूर्वव्याख्या क्रियत इत्यर्थः । वितन्यत इति वर्तमानसामीप्ये भविष्यति लट् । शिष्टेति । शिष्टाचारपरम्परा अनान्तानां पूर्वपूर्वपण्डितानां प्रयोज्यप्रयोजकमावापन्नतादृशमङ्गलाचरणसमुदायः । तत्परिप्राप्ता तदर्शनानुमिता ग्रन्थारम्भसमयकर्तव्यता ग्रन्थारम्भकालीनसफलकृतिविषयता यस्य तथाभूतमित्यर्थः। अनुमानञ्च-गुरुपादनमस्कारादिकं ग्रन्थारम्भसमयकर्तव्यताकम् , तादृशसमये शिष्टेरनुष्ठीयमानत्वादित्येवंरूपं बोध्यम् । For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका नूतनालोकः अधिकरणं यस्येति । एतेन हेतुमद्विशेष्यकत्वलाभाय यत्समानाधिकरणपदस्य प्रमापदेन सह कर्मधारयाश्रयणमयुक्तम् , हेतुमद्विशेष्यकत्वोपादानेऽपि वक्ष्यमाणरीत्या साध्याभावे यत्समानाधिकरणत्वविशेषणस्यावश्यकतया अधिकरणपदस्य यथाश्रुतार्थपरित्यागानौचित्यादिति सूचितम् । विग्रह इति । समासार्थवात्पर्यग्राहकवाक्यमित्यर्थः। तेन बहुव्रीहेनित्यसमासतयाsसमस्यमानपदाघटितत्वघटितलक्षणस्य विग्रहस्यासत्त्वेऽपि न क्षतिः। तदुक्तं मणौ आलोकप्रकाशः विग्रहस्यैव प्रथमं प्रदर्शनादाह-लम्भयितुमिति । विग्रह इत्यनेन सम्बन्ध इति । तथा च यस्य समानमित्यनन्तरम् 'इति वाक्यम् ' इति, यत्समानमितित्यनन्तरम् 'समासस्य' इति च पूरणीयम् । इतिशब्दसमभिव्याहारस्थले तत्पूर्ववाक्यस्य तदानुपूर्व्यवच्छिन्नपरताया नीलो घट इत्याहेत्यादौ क्लप्ततया यस्य समानमिति वाक्यं यत्समानमिति समासप्रतिपाद्यार्थप्रतिपादकमिति बोधः। एतेनेति । यस्येति निर्देशेनेत्यर्थः । यथाश्रुतार्थपरित्यागेति । वृत्तिनियामकसम्बन्धेन तदधिकरणसम्बन्धिन एव यथाश्रुतार्थत्वादिति भावः।। ___ असमस्यमानपदार्थघटितत्वेति । समासाघटकपदाघटितत्वे सति समासार्थतात्पर्यकत्वे च सति तदधीनलोपप्रतियोगित्व-तदधीनलोपप्रतियोगित्वाभावान्यतरविशिष्टविभक्तिघटितत्वरूपं यल्लक्षणम् , तद्वत इत्यर्थः। चित्रा गौर्यस्येत्यादिवाक्यव्यावृत्तये प्रथमं सत्यन्तम् । चित्रा गौरित्यादिवाक्यव्यावृत्तये द्वितीयम् । स्वस्य, स्वसमानानुपूर्वीकसमासव्यक्त्यन्तरस्य · च वारणाय विशेष्यदलम् । स्वन्तराजपुरुष इति वाक्ये विग्रहत्ववारणाय विभक्तावन्यतरविशिष्टत्वनिवेशः । राज्ञः पुरुष इति विग्रहसंग्रहाय लोपप्रतियोगित्वस्य, कण्ठे काल इति विग्रहसंग्रहाय लोपप्रतियोगित्वाभावस्य चान्यतरकुक्षौ प्रवेशः, कण्ठे कालगृहमिति पष्ठीतत्पुरुषे तद्विग्रहत्ववारणायाभावे समासाधीनत्वनिवेशः, राजपुरुष इति षष्ठीतत्पुरुषस्थले राजसम्बन्ध्यर्थकराजपदघटितराजा पुरुषइति विग्रहे राजपुरुष इति कर्मधारयाधीनलोपप्रतियोगिप्रथमारूपविभक्तिघटितेऽतिव्याप्तिवारणाय लोपे समासाधीनत्वनिवेशः, निवेशे च प्रथमालोपस्य षष्ठीतत्पुरुषानधीनत्वान्न तमादाय दोषः । न चैवमपि दधि द्रव्यमिति कर्मधारयविग्रहेऽव्याप्तिः, विभक्तिघटितत्वाभावादिति वाच्यम् ; विभक्तिघटितत्वस्थाने विभक्तिघटितत्व-शास्त्रान्तरविहितलोपकविभक्तिप्रकृतिघटितत्वा For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता वच्छेदकतद्वयक्तित्वविशिष्टवाचकयत्पदोत्तरविभक्तनिरूपितत्वं निष्ठत्वं वार्थः । समानपदस्य च अधिकरणम् , आधेयतानिरूपकमाधेयतानिरूपिताधिकरणतावदिति वार्थः। प्रथमकल्पे षष्ठ यर्थनिरूपितत्वस्य समानपदार्थैकदेशाधिकरणत्वे, नूतनालोकः "बहुव्रीहेर्नित्यसमासत्वेन विग्रहाभावाच । चित्रा गौर्यस्येति वाक्यं बहुव्रीहेरन्यपदार्थकथनाय" इति । नित्यानित्यभेदेन समासद्वैविध्यमुक्तं जयादित्येन विभक्तिमात्रप्रक्षेपान्निजान्तर्गतनामसु । स्वार्थस्याबोधबोधाभ्यां नित्यानित्यौ समासकौ ॥ इति । निष्ठत्वं वार्थ इति । वाकारार्थः प्रकृतेऽन्यतरत्वाश्रयः, द्वयोरेव कल्पयोवैकल्पिकोपादानात् । आलोकप्रकाशः न्यतमत्त्वनिवेशेन तद्वारणात् । न चैवमपि कण्ठे काल इति समासेऽतिव्याप्तिः, लोपाभाववद्विभक्तिघटितत्वादिति वाच्यम् ; आनुपूर्वीभेदाभावेनेष्टापत्तेः । यदि च स्वस्मिन् स्वविग्रहत्वव्यवहारो नास्तीति नेष्टापत्तिसम्भवस्तदा तृतीयदलस्थाने प्रातिपदिकसंज्ञाशून्यत्वं निवेशनीयम् , समासस्यैतत्संज्ञानियमान्नातिव्याप्तिः । .. चाकारार्थ इति । वाकारद्योत्योऽर्थ इत्यर्थः । चादीनां वाचकतायाः सिद्धान्तविरुद्धत्वात् । वाकारद्योत्यत्वं च स्वनिष्ठलक्षणातात्पर्यग्राहकवाकारकत्वम् । एवञ्च वाकाराव्यवहितपूर्ववृत्तिनिष्ठत्वपदस्य निरूपितत्वनिष्ठत्वान्यतरत्वावच्छिन्ने लक्षणा, वाकारस्तात्पर्यग्राहकः। एवं निरूपितत्वपदमपीति न तद्वैयर्थ्यमिति । उपादानादिति । बहूनां कल्पानां समभिव्याहारे अन्यतमार्थकत्वादिति भावः । केचित्तु वाकारोऽन्यतरत्ववाचकः। अन्यतरत्वं चान्योन्याभावद्वयावच्छिन्नान्योन्याभाववत्त्वम् । अन्योन्याभावद्वये चानुयोगितासम्बन्धेन समभिव्याहतप्रथमान्तपदार्थयोरन्वयः । ननु जगत एव यत्किञ्चिदन्योन्याभावद्वयवत्त्वेन तदवच्छिन्नप्रतियोगिताकान्योन्याभावाप्रसिद्धिः । अपि च अन्योन्याभावद्वयेऽनुयोगितासम्बन्धेन निरूपितत्वत्वावच्छिन्नस्याधेयतात्वत्वावच्छिन्नस्य चान्वयोपगमे पृथिवीजलोभयं स्नेहवत् गन्धवदित्यादिवाक्यवदुक्तवाक्यस्याप्रामाण्यापत्तिः । निरूपितत्वत्वावच्छिन्नभेदे निष्ठत्वप्रतियोगिकत्वस्य, आधेयत्वत्वावछिन्नभेदे निरूपितत्वप्रतियोगिकत्वस्य च बाधादिति चेन्न; यतो वाकारस्यान्योन्याभावे, अवच्छिन्नप्रतियोगिताकत्वे, आश्रयत्वे च खण्डशः शक्तिः । यत्र वाकारसमभिव्याहृतपदार्थयोद्वित्वम् , तत्र तत्तदन्वितान्योन्याभावयोरव For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका नूतनालोकः केचित्तु, "समानाः सत्समैके स्युः” इति कोशात् सादृश्यविशिष्टार्थकमपि समानपदं प्रकृते लक्षणया अधिकरणसादृश्यविशिष्टार्थकम् , सादृश्याश्रयतया अधिकरणनिर्देशात् , यथा “त्वन्नेत्रसमानकान्ति” इत्यादौ समानपदं कान्तिसादृश्यविशिष्टार्थकम् । सादृश्यं चात्र भेदाघटितं तद्वयक्तित्वादिरूपम् , अथवा एकपदसमानार्थकतया अधिकरणनिष्ठभेदाप्रतियोगित्वरूपकैवल्यविशिष्टार्थकं तत् , यथा “तत्समानोदरोऽयम्” इत्यादौ उदरनिष्ठभेदाप्रतियोगित्वविशिष्टाद्यर्थकम् । यद्वा अधिकरणतादात्म्यरूपाधिकरणाभेदविशिष्टार्थकं तदित्याहुः। तन्न, अधिकरणे लक्षणायाः सम्भवे तद्धटिते तत्कल्पनमन्याय्यम्। एतदभिप्रायेणैवासमानाधिकरणपदं दीधितिकृता अधिकरणानधिकरणपदेन व्याख्यातमित्यभिप्रेत्याह-अधिकरणमित्यादि । आलोकप्रकाशः च्छिन्नविशेषणतया भानम् , अवच्छिन्नप्रतियोगिताकत्वविशेष्यतया चान्योन्याभावस्य भानम् , तस्य चाश्रयत्वे भानम् । इत्थं चान्योन्याभावस्यात्र त्रेधा भानम् । वाकारस्यान्यतमार्थकत्वस्थले चतुर्धा पञ्चधेत्यादिकमूह्यमित्याहुः । नव्यास्तु-वाकारस्य भेदोऽर्थः । भेदे वाकारसमभिव्याहृतपदार्थयोस्तत्तद्भेदावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वय इति प्राहुः । निरुक्तसर्वपक्षेष्वप्यन्यतरत्वस्याव्यासव्यवृत्तित्वेऽप्युभयोवृत्तित्वादुभयविधार्थोपादानमेकदा वारयितुं न शक्यते । एवं निरूपितत्वादेरर्थतावच्छेदकत्वभानमपि न सिद्धयेत् , किन्तु अन्यतरत्वस्यैवेति वाशब्दस्यात्र निष्ठत्वविषयिताशून्यत्वं निरूपित्वविषयिताशून्यत्वं चार्थः । अर्थपदार्थघटकबोधव्यक्त्योरेकैकस्यामेकैकस्यान्वयः । तथा च निरूपितत्वनिष्ठत्वाविषयकबोधविषयत्वेनेच्छाविषयः, निष्ठत्वं निरूपितत्वाविषयकबोधविषयत्वेनेच्छाविषय इति प्रकृते बोध इति तु तत्वम् । अधिकरणसादृश्यविशिष्टार्थकमिति । इयं च लक्षणा निरूढा ग्राह्या, समानपदस्याभेदेन स्वार्थान्वयितावच्छेदकावच्छिन्नसदृशे भूरिप्रयोगदर्शनात् । दृष्टान्ते भेदघटितसादृश्यस्यैव प्रतीतेराह---अथवेति । अधिकरणनिष्ठभेदाप्रतियोगित्यरूपेति । अत्र खण्डशक्तिरेवोपेया, अतो नाप्रसिद्धिः । तत्समानोदरोऽयमित्यादावित्यादिपदेन समानग्रामा क्यमित्यादिपरिग्रहः । ___अत्र निरुक्तकैवल्यप्रतीतेः सविवादत्वादाह-यद्वेति । अधिकरणतादात्म्येति । कोशस्थैकपदस्याभेदार्थकत्वादित्याशयः । For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता द्वितीयतृतीययोः षष्ठ्यर्थनिष्ठत्वस्य तादृश्यामाधेयतायामन्वयः, आकाङ्क्षावैचि नूतनालोकः एतेन यस्य येन वा समानमिति प्राथमिकविग्रहः। यत्पदं यदधिकरणपरम् , समानपदश्च भेदाघटितसादृश्यविशिष्टार्थकमिति निरस्तम् , यत्पदस्य यदधिकरणार्थकत्वे उत्तरत्र तत्पदेन हेतोः परामर्शासम्भवाच्च । एतदेव सूचयितुमुक्तं तत्पदोस्थाप्यतावच्छेदकेत्यादि। नन्वधिकरणत्वादेः समानपदार्थैकदेशतया तत्र पदार्थान्तरान्वयायोगाद् यन्निरूपिताधिकरणत्वादेः कथं लाभः ? न च चैत्रस्य पुत्र इत्यादौ ससम्बन्धिकपदार्थंकदेशे जन्यपुंस्त्वरूपपुत्रत्वघटकजन्यत्वादौ पदार्थान्तरान्वयदर्शनान्निष्प्रतियोगिक एवैकदेशे इतरान्वयोऽव्युत्पन्न इति वाच्यम् , तावताऽप्याधेयत्वे तदप्रतियोगिनो यत्पदार्थस्यान्वयानुपपत्त्यपरिहारादित्याशङ्कथ धात्वर्थतावच्छेदकफलदृष्टान्तेन पदार्थेकदेशे आधेयत्वादावपि षष्ठयर्थान्वयाकाक्षा व्यवस्थापयति-आकाक्षावैचित्र्यादिति । जिज्ञासावैचित्र्यादित्यर्थः । यद्वा ननु पशुरपशुरित्यादौ पशुत्वे पशुभेदान्वयवारणाय पदार्थः पदार्थेनान्वेतीति व्युत्पत्तिरुपगन्तव्या। तथा च कथं पदार्थतावच्छेदकाधिकरणत्वादौ षष्ठयर्थान्वयः । न च चैत्रस्य गुरुरित्वादौ गुरुत्वादौ पदार्थान्तरान्वयदर्शनेन नियमघटकतदेकदेशपदार्थस्य ससम्बन्धिकान्यत्वेन विशेषणीयतया अधिकरणत्वादौ तदन्वये बाधकाभाव इति वाच्यम् ; तथा सति सर्वस्यापि यत्किश्चित्सम्बन्धि आलोकप्रकाशः परामर्शासम्भवादिति । न च सिद्धान्तेऽप्यविशेषः, यत्पदस्य यन्निरूपितार्थकत्वादिति वाच्यम् ; तत्र यत्पदस्य सामासिकी लक्षणा, अत्र तु न तथेति विशेषात् । नव्यमतानुसारेणाकाङ्क्षावैचित्र्यादित्येतद्वयाख्यातुमवतारयति-यद्वेति । पशुरपशुरित्यादावित्यादिपदेन दण्डजन्यो न दण्डजन्य इत्यादेः संग्रहः। घटपदाटत्वस्य किञ्चिद्रूपेणानुपस्थित्या न तत्र पदार्थान्तरान्धयप्रसक्तिरिति घटो न घट इत्याद्युपेक्षा। पशुत्वं नाम लोमवल्लाङ्कलवत्त्वमिति न तस्योपस्थितिः स्वरूपत इति भावः ।। गुरुत्वादौ पदार्थान्तरान्वयदर्शनेनेति । न च तत्र गुरावेव निरूपितत्वरूपचैत्रसम्बन्धः स्वाश्रयाश्रयत्वसम्बन्धेनान्वीयतामिति वाच्यम् ; तथा सति चैत्रपुत्रादावपि तथा प्रयोगप्रसङ्गात् । चैत्रपुत्रस्य कस्यचिद् गुरुत्वात् , स्वाश्रयपुत्रत्वाश्रयत्वसम्बन्धेन चैत्रनिरूपितत्वस्य सत्त्वाच्च । न च स्वाश्रयीभूतस्वान्वयितावच्छेदकधर्माश्रयत्वसंबन्धेनान्वय इति न कोऽपि दोष इति वाच्यम् ; तथा सति परम्पराया अभावप्रतियोगितावच्छेदकसम्बन्धत्वाभावाच्चैत्र For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका नूतनालोकः कतया ससम्बन्धिकान्यत्वस्याप्रसिद्धया विशेषणत्वासम्भवात् । न च ससम्बन्धिकत्वं नित्यसाकाङ्खत्वं स्वोपस्थितिनियतजिज्ञासाविषययत्किश्चित्पदार्थकत्वपर्यवसितं न सार्वत्रिकमिति तदन्यत्वस्य विशेषणत्वं सम्भवत्येवेति वाच्यम् , एवं सति नित्यसाकाङ्क्ष पुत्रत्वापुत्रभेदान्वयतात्पर्येण पुत्रो न पुत्र इत्यादि प्रयोगापत्तेः। न च यदेकदेशोपस्थितौ सत्यां नियमेन यस्याकाङ्क्षा जायते तत्र तस्यैवान्वयः स्वीक्रियते । तथा सति नेयमापत्तिरिति वाच्यम् , एवमपि सामग्रीविरहस्येव कार्यानुत्पादप्रयोजकतया पशुत्वादौ पशुभेदान्वयापत्तेर्नियमस्वीकारमात्रेण वारयितुमशक्यत्वात् । न चेतरान्वयबोधे जिज्ञासारूपाकाङ्क्षा हेतुः । ससम्बन्धिके च प्रतियोगिजिज्ञासा नियतेति तत्र तदन्वयः। अन्यत्र तु पदार्थतावच्छेदके कस्याप्यनाकासिततया नान्वय इत्यत्रैवोक्तनियमतात्पर्यम् । इत्थश्च न काप्यनुपपत्तिरिति वाच्यम् ; अजिज्ञासोरपि शाब्दबोधोदयेन जिज्ञासारूपाकाङ्क्षायाः शाब्दबोधौपयिकत्वस्य मणिकृता निराकृतत्वात्तादृशाकाङ्क्षाविरहस्य पदार्थान्तरानन्वयबीजवायोगादित्यत आह-आकाङ्क्षावैचित्र्यादिति । आकाङ्क्षायाः समभिव्याहारविशेषरुपायाः स्वतन्त्रोपस्थितिसहकारिकत्वतदभावरूपवैचिच्यादित्यर्थः। यद्वा आकाङ्क्षायाः स्वतन्त्रोपस्थितेरितरान्वयबोधं प्रति हेतुत्वतदभावरूपवैचित्र्यादित्यर्थः। अयं भावः-पशुरपशुरित्यादौ यदा स्वातन्त्र्येण पशुत्वाद्युपस्थितिस्तदा पशुभेदाद्यन्वयः। यदा तु विशेषणतया तदुपस्थितिस्तदा तदनन्वयोऽनुभवसिद्धः । न तावत्तनिर्वाहाय सामान्यत इतरपदार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रति मुख्यविशेषतासम्बन्धेनपदजन्यपदार्थोपस्थितेहेतुत्वकल्पनं युक्तम् , इतरत्वस्य केवलान्वयितया विशेषणतया उपस्थिते लोमवल्लाङ्गुलवत्त्वरूपपशुत्वेऽपि पशुत्वत्वरूपेतरपदार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधोत्पत्त्या व्यभिचारात् । न आलोकप्रकाशः पुत्रे चैत्रस्य नायं गुरुरिति प्रयोगानिर्वा हेण षष्ठ्यर्थस्य गुरुत्व एवाश्रयत्वसम्बन्धेनान्वयस्य वक्तव्यतया नअघटितस्थलेऽपि तत्रैव तदर्थान्वयो युक्तः, प्रतियोग्यभावान्वयौ चेति न्यायादिति । सहकारिकत्वतदभावरूपवैचित्र्यादित्यर्थ इति । तथा च स्वतन्त्रोपस्थितेराकाङ्क्षानिष्ठफलोपधायकत्वाभावप्रयोजकस्वासमवधानकत्वरूपाकासासहकारित्वं क्वाचित्कमेवेति ससम्बन्धिकस्थले तदकल्पनान्न तत्रैकदेशान्वयानुपपत्तिरिति भावः । For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता ज्याद्धात्वर्थतावच्छेदकफल इव कर्मविभक्त्यर्थस्य । तथा च यन्निरूपिताधिकरणतावद् यनिष्ठाधेयतानिरूपकम् , यनिष्ठाधेयतानिरूपिताधिकरणतावदिति नूतनालोकः च पदविशिष्टविशेष्यताया एव कार्यतावच्छेदकसम्बन्धतोपेयते । वैशिष्टयश्च स्वप्रयोज्यत्व-स्वभिन्नपदप्रयोज्यप्रकारतानिरूपितत्वोभयसम्बन्धेन । इत्थञ्च न तत्र व्यभिचार इति वाच्यम्'; एवमपि चैत्रस्य गुरुरित्यादौ गुरुत्वे षष्ठयर्थान्वयेन व्यभिचारात् । यत्तु निरुक्तोभयसम्बन्धेन पदविशिष्टपशुत्वादिनिष्ठविशेष्यतासम्बन्धेन शाब्दबोधं प्रति मुख्यविशेष्यतासम्बन्धेनोपस्थितेहेतुत्वमिति रीत्या विशिष्यैव कार्यकारणभावः कल्प्यते । इत्थञ्च ससम्बन्धिकस्थले कार्यकारणभावस्याकल्पनान्न तत्रैकदेशान्वयानुपपत्तिरिति तन्न, गुरुरगुरुरित्यादौ गुरुभेदान्वयापत्तेर्दुरित्वात् । किन्तु, पशुत्वादिविशेष्यकेतरान्वयबोधं प्रति पशुपदजन्यस्वतन्त्र्यपशुत्वाद्युपस्थितिः कारणमिति रीत्या पदविशेषादिकमन्त र्भाव्य विशिष्यैव कार्यकारणभावः कल्प्यते । इत्थश्च षष्ठयन्तचैत्रादिपदसमभिव्याहारगुरुपदजन्यगुरुत्वोपस्थितियोग्यताज्ञानादिघटितसामग्या चैत्रस्य गुरुरित्यादी गुरुत्वादौ पदार्थान्तरजनने बाधकाभावः। स्वतन्त्रगुरुपदजन्यगुरुत्वोपस्थितेस्तादृशसामयामनन्तर्भावात् । गुरुबोधान्वयबोधप्रयोजकसामग्यामेव तन्निवेशात् । न चैवं पर्यायान्तरजन्यबोधे पशुपदादिजन्यस्वतन्त्रपशुत्वायुपस्थितेर्व्यभिचारेण हेतुत्वमेव न सम्भवतीति वाच्यम्; यथा यत्रैकरूपावच्छिन्ने पदे पदान्तराकाङ्क्षा गृहीता, अन्यरूपेण च वृत्तिर्गृहीता, तत्र शाब्दबोधोत्पत्तिवारणाय तत्तदानुपूर्वीविशेषरूपपदविशेषत्वप्रकारेण गृहीतवृत्तिकपदजन्यतत्तत्पदार्थोपस्थितेर्हेतुता वाच्या, तथा सति तद्धर्मप्रकारेणाकाङ्क्षादिग्रहस्य तद्धर्मप्रकारेण गृहीतवृत्तिकपदाधीनोपस्थितेः परस्परसहकारेणैव फलजनकत्वोपगमेनोक्तापत्तिवारणं सम्भवति । तथा च नानानुपूर्वीप्रकारकपदज्ञानजन्योपस्थितीनामेकविधशाब्दबोधे विभिन्नरूपेण हेतुतया व्यभिचार आवश्यक इति तत्तत्कारणाव्यवहितोत्तरत्वं कार्यतावच्छेदककोटौ प्रवेशनीयम् । तथात्रापि स्वतन्त्रोपस्थित्यव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौ निवेशनीयतया व्यभिचारस्य वारणीयत्वादिति । इयञ्च रीतिरवयवगादाधयाँ हेतुग्रन्थे स्पष्टा । धात्वर्थतावच्छेदकफल इति । तण्डुलस्य पाकः, ग्रामस्य गमनमित्यादौ धात्वर्थतावच्छेदकफले अवयवविभागप्रभेदरूपविक्लित्यादौ कर्मणि विहिता या षष्ठी तदर्थाधेयत्वस्येवेत्यर्थः। For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च रत्नमालिका वा बोधः। समासवाक्ये च यत्पदेन तत्तद्विभक्त्यन्तार्थविशिष्टं लक्ष्यते । तस्य नूतनालोकः तत्तद्विभक्त्यन्तार्थविशिष्टं लक्ष्यत इति । नामार्थयोरिति व्युत्पत्तेरिति भावः । यत्तु “समर्थः पदविधिः" इति सूत्रेण एकार्थीभावरूपसामर्थे सत्येव समासविधानेन समासशक्तेरावश्यकतया यत्पदलक्षणाभ्युपगमो निरर्थक इति वाच्यम् ; तेन सूत्रेणाकाङ्क्षादिवशात् परस्परान्वयबोधकत्वात्मकव्यपेक्षारूपसामर्थ्य एव समासविधानेन समुदायशक्तौ मानाभावात् । अथ समासे एकार्थीभावरूपसामर्थ्यानभ्युपगमे राजपुरुष इत्यादिसमासैकदेशे राजादिपदार्थे विशेषणान्वयो दुर्वारः, तथा च सुन्दरस्य राजपुरुष इत्यादिप्रयोगप्रसङ्गः । तथा हि-राजपदोपस्थापितो राजा स्वस्वामिभावसंसर्गेण भेदेनापि पुरुषेऽन्वेति, निपातार्थस्येव समासावयवार्थस्यापि प्रातिपदिकार्थे व्युत्पत्तिवैचित्र्येण भेदान्वयस्वीकारात् । यद्वा लुप्तषष्ठीस्मरणजन्यपदार्थोपस्थितिसहकारेण विग्रहवाक्यादिव समासादपि विभक्त्यर्थप्रकारक एवान्वयबोधः। तथा च सुन्दरं दधीत्यादौ लुप्तविभक्तिकदध्यादिपदार्थस्य दध्यादेरिव समासघटकराजादिपदार्थस्यापि विशेषणयोगो दुरुद्धर इति । न च विवक्षितार्थबोधकत्वसम्भवेऽपि "सविशेषणानां वृत्तिन, वृत्तस्य वा विशेषणयोगो न" इति वातिकात् सुन्दरस्य राजपुरुष इत्यादिप्रयोगो न साधुरिति वाच्यम् ; यतो वा वार्त्तिकमिदं "पदार्थः पदार्थेनान्वेति, न तु तदेकदेशेन" इति न्यायस्यानुवादकमेव, न तु विधायकम् । अत एव चैत्रस्य नप्तेत्यादाविव देवदत्तस्य गुरुकुलमित्यादावपि पदार्थंकदेशान्वयेऽपि वाक्यसाधुतां न्यायसिद्धां ज्ञापयितुं "भवति वै नित्यसापेक्षस्यापि समासः" इति वार्तिकमप्यनुवादकम् । यदाहुः बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महगौरवं तस्मादेकार्थीभाव आश्रितः ।। इति । ___ आलोकप्रकाशः न्यायसिद्धामिति । चैत्रस्य नप्ते त्यादावसमासस्थले एकदेशान्वयोपपत्तये पदार्थः पदार्थेनान्वेति, न तु तदेकदेशेनेति । नियम पदार्थे नित्यसापेक्षान्यत्वस्याप्यवश्यं निवेशनीयतया तत एव चैत्रस्य गुरुकुलमित्यादावपि नित्येत्यादिवार्तिकस्य विधायकत्वाभावेऽपि साधुता निर्वहतीति भावः । तटस्थः शङ्कते-न चेति ।। द्वन्द्वप्रसङ्ग इति । भिक्षामट गामानयेत्यादौ अटानयेति प्रयोगप्रसङ्ग इत्यर्थः । For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत् सा व्यपेक्षा हि वृत्तावपि न हीयते ॥ इति च । न चैकार्थीभावाभ्युपगमेऽपि द्वन्द्वोपात्तस्यैकदेशत्वाभावात्तत्र पदार्थान्तरान्वयो दुर्वारः, तथा चान्वाचयस्थलेऽपि द्वन्द्वप्रसङ्ग इति वाच्यम् , पुष्पवन्तादिपदोपात्ते चन्द्रमसि शीतकिरणत्वान्वयतात्पर्येण प्रयुक्तस्य पुष्पवन्तौ शीतकिरणावित्यस्य साधुतावारणाय धर्मद्वयावच्छिन्नैकशक्तिमतः पदस्य एकधर्मावच्छिन्ने स्वार्थेऽन्वये सत्यसाधुत्वावधारणात् । न च राजपुरुष इत्यादौ राजपदं राजसम्बन्धिलाक्षणिकम् । अन्यथा राजपदार्थस्य पुरुषेऽभेदान्वयो न स्यात् , नामार्थयो.देनान्वयस्याव्युत्पन्नत्वात् । नहि निपातस्थल इव समासस्थलेऽपि तादृशव्युत्पत्तेः सङ्कोचः, दृष्टान्तासिद्धेः। घटो न पटः, चन्द्र इव मुखमित्यादौ पटचन्द्रपदादेः पटचन्द्रादिप्रतियोगिके भेदादिमति लक्षणोपगमात् । नापि लुप्तषष्ठीस्मरणेन निर्वाहः, षष्ठीलोपमजानतोऽपि बोधात् । अत एव तत्पुरुषस्य पूर्वपदलाक्षणिकतया कर्मधारयस्य च सर्वशक्ततया तदभावेन तत्पुरुषात् कर्मधारयो लघीयानित्याशयेन निषादस्थपत्यधिकरणसिद्धान्तोऽपि सङ्गच्छते । एवञ्च ममाप्येकदेशान्वयभियैव न सुन्दरस्य राजपुरुष इति प्रयोग इति सविशेषणानामिति वार्तिकं विनैव निर्वाह इति वाच्यम् , एवं सति वृत्तिविग्रहयोः समानाकारकानुभवजनकत्वभङ्गप्रसङ्गात् । न च तादृशनियमे मानाभाव इति तादृशलक्षणास्वीकारो निराबाध एव, उक्तानुभवजनकत्वानुभवस्य सविवादत्वात् , सामान्यनियमे तत्पुरुषान्यत्वस्य प्रवेशे क्षत्यभावाच्चेति वाच्यम् ; एवमपि राजपुरुष इत्यादितत्पुरुषस्य कर्मधारयत्वापत्तेरपरिहारात्, समस्यमानयोः सामानाधिकरण्ये कर्मधारयत्वात् । न च यत्र समासपूर्वदशायामभेदान्वयस्तत्र कर्मधारयः, यत्र तद्दशायां भेदान्वयस्तत्र तत्पुरुष इति व्यवस्थया नेयमापत्तिरिति वाच्यम् , सुजन-दुर्जन-अतिवेल-अवकोकिल-पर्यध्ययन-निष्कौशाम्बीत्यादिनित्यसमासस्थले लौकिलविग्रहस्याभावेन वृत्तेः पूर्व स्वघटकपदैरन्वयबोधासम्भवेन यथोक्तव्यवस्थाया वक्तुमशक्यत्वात् । तत्र शोभनो जनः, दुष्टो जनः, अतिक्रान्तो वेलाम् , आलोकप्रकाशः पुष्पवन्तादिपदेति । अकारान्तमपि पुष्पवन्तपदम् , “रविशशिनौ पुष्पवन्तौ” इति नाममालोक्तेः। For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १४ www.kobatirth.org ' व' रनमालिका चाभेदसम्बन्धेन समानपदार्थघटकाधिकरणत्वादावन्वयः । अथवा समानमधिकरणं यस्येति प्राथमिकविग्रहः । यस्य समानाधिकरणमिति द्वितीयो विग्रहः । अन्यत्सर्व पूर्ववत् । Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकः अवकुष्टः कोकिलया, परिक्लान्तोऽध्ययनाय, निष्क्रान्तः कौशाम्ब्या इत्यादिसमासाघटकपदघटितवाक्यैरेव तत्तत्समासार्थप्रत्यायनात् । सु-जन-सु, अति-वेला-अम् इत्याद्यलौकिक विग्रहाणां सम्भवेऽपि तेषामर्थबोधस्वरूप योग्यत्वाभावात् । अर्थविवक्षानुसारेणैव विग्रहवाक्यस्य कल्पनीयतयाऽर्थाविशेषे विग्रहवाक्यभेदस्य कल्पयितुमशक्यत्वाच्च । न च निषादस्थपत्यधिकरणसिद्धान्तविरोधः शङ्कयः; कूटं दक्षिणेति वाक्यविहितायाः " कूटन्तु निषादानां स्वम्” इति निषादधनत्वेन बोधितस्य कूटस्य दक्षिणायाः षष्ठीतत्पुरुषपक्षेऽनुपपत्त्या तत्र कर्मधारयस्यैवाश्रयणीयत्वादिति चेन्न; यत्र स्वघटकपदार्थस्य विशेष्यतया स्वघटकपदानां स्वोत्तरोत्पत्तियोग्यविभक्त्यर्थवदन्तर्भावेण लक्षणां विना सामानाधिकरण्यञ्च तत्र कर्मधारयत्वम् । तदन्तर्भावेण लक्षणया सामानाधिकरण्ये तु तत्पुरुषत्वमिति विभागसम्भवात् । विभागोऽयं न्यायकौस्तुभे स्पष्टः । ननु यस्य समानमिति प्राथमिकविग्रहाङ्गीकारे यदसमानाधिकरणेत्यादौ यत्समानाधिकरणपदेन नञः समासे यत्पदात् पूर्वमेव ननिपात आवश्यकः, नमिति सूत्रे नन एव प्रथमान्ततया निर्देशेन तस्यैवोपसर्जनत्वात् । घटानधिकरणमित्यादाविव सम्बन्धिकोत्तरपदघटितसमुदायेन समासे नत्रो मध्यनिवेशस्य साधुत्वेऽपि यदसमानाधिकरणमित्यादौ यत्समानभिन्नाधिकरणमित्येव बोध्येत, न तु यत्समानधिकरणभिन्नमिति विवक्षितार्थः, समानाधिकरणपदस्योत्तरपदत्वाभावादित्यत आह-अथवेति । आलोकप्रकाशः " यत्र स्वघटकेति । विशेष्यतेत्यन्तेन पञ्चमूलीत्यादिव्यावृत्तिः । तत्र समाहारद्विगौ उत्तरपदस्य पञ्चाभिन्नमूलसमाहारलक्षकतया पञ्चपदमूल पदयोर्विभक्त्यर्थावच्छिन्नलक्षणां विनैव समानाधिकरणत्वेऽपि यदन्तर्भावेण सामानाधिकरण्यम् । तस्य समासघटकपदार्थस्य मुख्यविशेयत्वाभावात् विशेष्यतेत्यस्य तादृशविशेष्यत्वार्थकत्वात् । एवं बहुव्रीहावपि तद्वयावृत्तिर्बोध्या । न च तत्रोत्तरपदस्यैवैकदेशान्वयप्रसङ्गभयेन विशिष्टार्थकत्वं वाच्यमिति तादात्म्यसम्बन्धावच्छि न्नैकपदप्रयोज्यप्रकारतानिरूपितविशेष्यता प्रयोजकत्वरूपं सामानाधिकरण्यं नापरपदस्येत्यतिव्याप्ति For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता आलोकप्रकाशः प्रसक्तिरेव नास्तीति वाच्यम् ; तात्पर्यग्राहकस्यापि कथञ्चिच्छाब्दबोधीयविषयताप्रयोजकत्वेन तत्प्रसक्तः । नीलरूपसक्तस्य नीलपदस्य समवायेन नीलरूपविशिष्टलक्षणयैव घटादिपदसामानाधिकरण्यमिति नीलघट इत्यादिकर्मधारयेऽव्याप्तिवारणायोत्तरदले स्वोत्तरोत्पत्तियोग्यविभक्त्यर्थावच्छिन्ननिरूपितत्वेन लक्षणा विशेषिता । स्वोत्तरोत्पत्तियोग्यत्वञ्च स्वप्रकृतिकत्वेनानुसन्धीयमानत्वम् , स्वोत्तरत्वेन शास्त्रसिद्धत्वं वा। न चोक्तरीत्या तत्पुरुषस्य कर्मधारयत्वापत्तियारणेऽप्यलुक्समासे पूर्वपदलक्षणाया अनावश्यकतया वृत्त्येकदेशेऽभेदान्वयतात्पर्येण विरूपाया दास्याः पुत्रः, शुक्ले कण्ठेकालः, गहने वने चर इत्यादिप्रयोगापत्तिदुर्वा रैव । एकार्थीभावाभ्युपगमे त्वेकदेशतया तत्र तत्र पदार्थान्तरान्वयायोगान्न तादृशप्रयोगापत्तिरिति वाच्यम् , अनन्ताप्रामाणिकशक्तिकल्पनापेक्षया सविशेषणानामित्यादिवार्तिकस्य विधायकताया एव लाघवेन कल्पयितुमुचितत्वात् । वृत्त्येकदेशपदार्थे प्रतियोगिभिन्नं यत् कारकान्यत् , तदन्वये आकाङ्क्षानुपगमाच । अत एव प्रतियोगिपदादन्यद्यदन्यत् कारकादपि । वृत्तिशब्दैकदेशेन न तस्यान्वय इष्यते ।। इत्युक्तमभियुक्तैरिति । अधिकमन्यत्रानुसन्धेयम् । केचित्तु राजपुरुष इत्यादिकस्तु तत्पुरुषो न पुरुषेषे पूर्वपदलक्षितराजसम्बन्धिनस्तादात्म्येनान्वयबोधकः, समासविग्रहयोस्तुल्यार्थकत्वहान्यापत्तेः । परन्तु राजसम्बन्धस्यैव । अत एव राजपुरुष इत्यादौ पूर्वपदस्य षष्ठ्यर्थसम्बन्धे लक्षणेति मणिकक्तिरपि सङ्गच्छते । निपातस्थल इव समासस्थलेऽपि आकाङ्क्षावैचिच्यान्नामार्थयोर्भेदान्वयः स्वीक्रियते । एतेन राजसम्बन्धिनि लक्षणाभ्युपगमे राशीदासीति तत्पुरुषे समानाधिकरणपुंवद्भावापत्तिः । वृत्तेः पूर्वं यत्र सामानाधिकरण्यम्, तत्रैव पुंवद्भाव इत्युक्तौ मृगीव चपला मृगचपलेत्यादौ तदनुपपत्तिः । तत्र समासे मृगशब्दस्य सदृशलक्षणया सामानाधिकरण्यसत्त्वेऽपि विग्रहे तदभावात् । न च वृत्तेः पूर्वं यत्र समानविभक्तिकत्वम् , तत्रैव पुंवद्भाव इत्युक्तौ न काप्यनुपपत्तिरिति वाच्यम् ; समासार्थप्रतिपादकवाक्यस्यैव विग्रहवाक्यत्वेन समासार्थाविशेषे तत्पुरुषकर्मधारयोर्विग्रहवाक्यवैलक्षण्यस्यैव वक्तुमशक्यत्वादिति परास्तम् , राशीदासीत्यादावुक्तरीत्या सामानाधिकरण्यस्यैवाप्रसक्तरित्याहुः । एतन्मते यदीयेन सुबर्थन युतो यद्बोधनक्षमः । यः समासस्तस्य तत्र स तत्पुरुष उच्यते ॥ इति तत्पुरुषलक्षणम् , For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... 'न च' रस्नमालिका ( यत्समानाधिकरणशब्दार्थस्य त्रयो विकल्पाः) अथात्र यत्समानाधिकरणपदेन किं यनिरूपिताधिकरणतावद्व. त्तित्वम् ? किं वा यनिष्ठाधेयतानिरूपकवृत्तित्वम् , उत वा यनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तित्वं विवक्षितम् । नूतनालोकः अस्मिन् पक्षे प्रथमविग्रहवाक्यघटकसमानपदस्याधिकरणतावदर्थकत्वे अधिकरणपदस्याधेयतानिरूपकार्थकत्वमिति न शाब्दबोधानुपपत्तिः।। यनिरूपिताधिकरणतावदिति । अत्राधिकरणतात्वेनाधिकरणतानिवेशान्न धूमनिरूपितामाधेयतामादाय धूमसंयुक्तमपि धूमनिरूपितवद्भवतीत्यव्याप्तिः । यन्निष्ठाधेयतानिरूपकेति । अत्राधेयतात्वेनाधेयतानिवेशाद्धेतुनिष्ठप्रकारतानिरूपकज्ञाने साध्याभावस्य सत्त्वेऽपि नाव्याप्तिः। ___यनिष्ठाधेयतानिरूपिताधिकरणतेति। अत्राधेयतेति स्वरूपकीर्तनमात्रम् , न तु तत्त्वेन प्रवेशः, वास्तवप्रयोजनाभावात् । अधिकरणतात्वेनाधिकरणताप्रवेशाद् धूमत्वनिष्ठां संयोगसम्बन्धावच्छिन्नधूमनिष्ठाधेयतानिरूपितावच्छेदकतामादाय नाव्याप्तिः। स्वरूपसम्बन्धावच्छिन्नघटनिरूपिताधेयतेति । अत्र घटनिरूपितेति परिचायकमेव, न तु हेतुतावच्छेदकघटकम्, प्रयोजनाभावात् । आलोकप्रकाशः क्रमिकं यन्नामयुगमेकार्थेऽन्यार्थबोधकम् । तादात्म्येन भवेदेष समासः कर्मधारयः ॥ इति कर्मधारयलक्षणञ्च वेदितव्यम् । अधिकं शब्दशक्तिप्रकाशिकायां द्रष्टव्यम् । न शाब्दबोधानुपपत्तिरिति । न च समानपदार्थविशेष्यकोऽधिकरणपदार्थप्रकारक एव बोधोऽस्तु, अधिकरणपदार्थैकदेशेऽधिकरणतायामन्यपदार्थनिरूपितत्वस्याप्यन्वयाद्विधेयकोटावधिकावगाहित्वेन निराकाङ्क्षताविरहादिति वाच्यम् ; बहुवीहिस्थले विग्रहवाक्यजन्यबोधस्योत्तरपदार्थविशेष्यकत्वस्यैवौत्सर्गिकत्वेनाधिकरणपदार्थस्य विशेष्यत्वावश्यकत्वादिति भावः । वास्तवेति । यद्यप्यत्र संयोगसम्बन्धावच्छिन्नधूमनिष्ठप्रतियोगित्वादिव्यावृत्तये तथा निवेश आवश्यकः, तथापि वक्ष्यमाणपरिष्कारेण तद्वथावृत्त्या न तस्य वास्तवप्रयोजनकत्वमिति भावः । अवच्छेदकतामादायेति । यद्यपि निरूपिते हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशादियमव्याप्तिः परिहर्तुं शक्यते, तथापि द्रव्यं समवायेन धूमादित्यादावव्याप्तिर्वारा। For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता नाद्यः, घटत्वाभावे साध्ये स्वरूपसम्बन्धावच्छिन्नघटनिरूपिताधेयत्वहेतौ हेतुनिरूपितां घटनिष्ठाधिकरणतामादाय साध्यतावच्छेदकावच्छिन्नसाध्यनिष्ठप्रतियोगिताकाभावप्रमाया अपि लक्षणघटकत्वादव्याप्त्यापत्तेः। नापि द्वितीयः, प्रकारताविशेष्यतयोरिवाधारत्वाधेयत्वयोरपि परस्परं निरूप्यनिरूपकभावसत्त्वेन वह्निमान् धूमादित्यादौ धूमादिनिष्ठाधेयतानिरूपकीभूता या पर्वतादिनिष्ठाधिकरणता, तनिष्ठसाध्याभावमादायाव्याप्त्यापत्तेः। (१) *न च* यन्निष्ठाधेयतानिरूपके हेत्वधिकरणताभिन्नत्वं विवक्ष्यते। तथा च नेयमापत्तिरिति वाच्यम् एवं सत्यधिकरणताभिन्न प्रमेयत्वादित्यादावतिव्याप्त्यापत्तेः। तत्र व्यभिचारनिरूपकाधिकरणस्याधिकरणत्वस्य हेत्वधिकरणताभिन्नत्वाभावेन साध्याभाववतो घटादेरेव तादृशहेतुनिष्ठाधेयतानिरूपकत्वात् । नूतनालोकः लक्षणघटकत्वादिति । यद्यपि समानाधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया लक्षणघटकत्वेऽपि नाव्याप्त्यवकाशः, उक्तरीत्या प्रतिबन्धकत्वाभावेऽपि तादृशासाध्याभावप्रमावृत्तित्वस्योपपादयितुं शक्यत्वात् , तथापीश्वरप्रमाया अपि सामान्यान्तर्गततया प्रतिबन्धकत्वाभावे तदृत्तित्वोपपादनं कथमपि न सम्भवतीत्याशयः। समूहालम्बनभिन्नत्वस्य प्रमाविशेषणत्वपक्षे त्वतिव्याप्तिरेव दोषो बोध्यः । न च कार्यानुकूल आलोकप्रकाशः मूले यन्निरूपिताधिकरणतावदिति । ननु "न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः" इत्यभियुक्तोक्तेः कथमत्र मतुप्प्रत्ययः । न च कृष्णसर्पवद्विलमित्यादिप्रयोगादियमुक्तिः प्रायिकत्वाभिप्रायेति वाच्यम् ; कृष्णसर्पत्वस्य जातिविशेषरूपतया तदवच्छिन्नसम्बन्धस्य बहुव्रीहिणा कथमपि प्रतिपादनासंभवेन तत्प्रतिपादनाय तत्र मतुष्प्रयोग इति तदनुरोधेन प्रायिकत्वस्य कल्पयितुमशक्यत्वात् । न च • वृत्तिद्वयकल्पनस्याव्ययीभावादिस्थलेऽपि तुल्यतया "न कर्मधारयात्" इति कर्मधारयमात्रान्मत्वर्थीयप्रत्ययाभावप्रतिपादनपरेयमुक्ति भियुक्तानामिति वाच्यम् ; तत्र कर्मधारयपदस्याव्ययीभावाद्युपलक्षकतया असाङ्गत्याभावात् । तच्चागुणवत्वमिति साधर्म्यव्याख्यानावसरे गुणप्रकाशरहस्ये तद्दीधितिरहस्ये च स्फुटम् । अत एव साध्याभाववदवृत्तित्वलक्षणे साध्याभावववृत्तस्याभावः साध्याभाववद् वृत्तमिति भावक्तान्तवृत्तशब्दान्तेन सहाव्ययीभावसमासानन्तरं मत्वर्थीयेनिप्रत्ययनिष्पन्नान्नकारान्ताद्भावप्रत्ययस्वीकारे विवक्षितार्थलाभेऽपि मत्वर्थीयप्रत्ययानुपपत्त्या तथाविधसमासो मथुरानाथेन निराकृतः । अत एव चागुणवत्त्वमित्यत्र For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८ www.kobatirth.org 'न च' रत्नमालिका ( २ ) *न च स्वनिरूपकत्वस्वनिरूपितत्वोभयसम्बन्धेन यन्निष्ठाधेयताविशिष्टत्वस्य विवक्षणान्न दोष इति वाच्यम् * एवं सति घटाभावनिष्ठाधेयतानिरूपिताधिकरणताभिन्नं घटाभावादित्यादावतिव्याप्तेः, व्यभिचारनिरूपकस्य हेतुनिष्ठाधेयतानिरूपितत्वेन घटादेरेव निरुक्त हेत्वधिकरणत्वात् । ( ३ ) नापि तृतीयः, आधाराधेयभावयोराधाराधेयरूपत्वे वह्निमान् धूमादित्यादावव्याप्त्यापत्तेः । धूमनिष्ठा या संयोगसम्बन्धावच्छिन्नपर्वतनिरूपिताधेयता, या च कालिकसम्बन्धावच्छिन्नहृदनिरूपिताधेयता, तयोरैक्येन हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुनिष्ठाधेयता निरूपिताधिकरणत्वं हृदस्या कारणीभूताभावप्रतियोगित्व रूपसाध्यवत्ताज्ञानप्रतिबन्धकत्वाश्रय समा पीति Acharya Shri Kailassagarsuri Gyanmandir नाधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमाया अपि लक्षणघटकनहि हेतुतावच्छेदकधर्म सम्बन्धावच्छिन्नाधेयतात्वावच्छिन्ननिरूप्य त्वात् । नूतनालोकः धर्मविघटकत्वमेव प्रतिबन्धकत्वम् ईश्वरज्ञाने च मानाभावेन शक्त्यकल्पनानाव्याप्त्यापत्तिरिति वाच्यम् ; अनन्तशक्तितत्प्रागभावादि कल्पनाप्रयुक्तगौरवादिना निरुक्तप्रतिबन्धकत्वस्यैवा सम्भवदुक्तिकत्वात् । विस्तरस्त्वन्यतोऽवगन्तव्यः । एतत्सुचनायैव कारणीभूताभावप्रतिबन्धकत्व रूपप्रतिबन्धकत्वेत्युक्तम् । लक्षणघटकत्वादिति । न च हेत्वधिकरणवृत्तित्वं निरवच्छिन्नं ग्राह्यमिति वक्ष्यमाणतया घटे कालिकाव्याप्यवृत्तेआलोकप्रकाशः " निरवच्छिन्नविशेषणतासम्बन्धेन गुणाभाववत्त्वस्य सम्यक्त्वेऽपि तदुपेक्ष्य गुणवद्भिन्नत्वं साधर्म्यतयोक्तम् । एतच्च कृष्णंभट्टीये स्पष्टम् । तथा च यन्निरूपिताधिकरणतावदिति निर्देशो ऽनुपपन्न एवेति चेन्न; "एकदेशिनैकाधिकरणे" इति सूत्रकारीयनिर्देशेन, “पत्ययस्थात् कात्" इति सूत्रे " असुत्रतः" इति भाष्यकारनिर्देशेन चास्या उक्तेघवादरमात्रविषयकत्वकल्पनावश्यकतया असन्देहार्थे लाघवानादरेण कर्मधारयादितो मत्वर्थीयप्रयोगे क्षत्यभावात् । अत एव कारकप्रकरणे मनोरमायाम् - "कृष्ण इति यद्यपि नीलरूपवत्परोऽयमनियतलिङ्गः, तथापि वासुदेव भगवति नियतलिङ्ग एव" इत्युक्तम् । अत एव च " अव्यभिचारिसम्बन्धरूपतापि" इति दीधितिव्यभिचारस्याभावोऽव्यभिचारमित्यव्ययीभावोत्तरमिनिप्रत्ययमाश्रित्य भट्टाचार्यैर्व्याख्याता | उक्तरीत्येति । प्रतिबन्धकत्वाभावनिष्ठयोः कालिकस्वरूपसम्बन्धावच्छिन्नाधेयत्वयोरैक्येनेत्यर्थः । निरुक्तप्रतिबन्धकत्वस्यैवासम्भवदुक्तिकत्वादिति । न च तथापि कार्यप्रयोजकीभूताभावप्रतियोगित्वरूपं कार्याभावप्रयोजकत्वरूपमेव वा प्रतिबन्धकत्वं कुतो न विवक्षितम् ? For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९ नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता ताकाधिकरणत्वं विवक्ष्यते, तश्च न हृदस्येति वक्तुं युक्तम् । आधेयताया आधेयरूपत्वे लाघवरूपयुक्तस्तौल्यान्निरूप्यताया अप्याधेयतारूपत्वस्य स्वीकर्तव्यतया उक्तदोषापरिहारात्। एवमाधारत्वस्याधाररूपतया गुणशून्यत्वादिसाध्यके भावभिन्नत्वादिहेतावव्याप्तिः । तत्र भावभिन्नत्वादिनिरूपिता या पटत्वाभावादिनिष्ठाधिकरणता, स्वात्मकपटत्वाभावाधिकरणस्य घटादेरपि तदाश्रयत्वेन घटादिवृत्तेर्गुणात्मकसाध्याभावस्यापि लक्षणघटकत्वात् । नहि श्राधेयताया आधेयरूपत्वेऽप्याधारता परमतिरिच्यते, सैव हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वेन विशिष्यते च। तथा च नोक्तरीत्याऽव्याप्तिप्रसक्तिरिति वक्तुं युक्तम् , विनिगमकाभावात्। वह्निमान् धूमाधिकरणत्वादित्यादौ कालिकसम्बन्धावच्छिन्नहेत्वधिकरणत्वाव्यावृत्तश्च । तस्य स्वरूपसम्बन्धेन ह्रदवृत्तित्वेन वृत्तित्वस्य च स्वाश्रयाधिकरणत्वाभिन्नत्वेन हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वानपायात् । तयोरतिरिक्तत्वेऽपि वह्निमान धूमादित्यादौ धूमनिष्ठाधेयत्वाधिकरणतां धूमनिष्ठामादायाव्याप्तिरपरिहारैवेति । नूतनालोकः गुणात्मकस्य तस्य कथं लक्षणघटकत्वमिति वाच्यम् , पटत्वाभावाधिकरणपरमाणौ एकत्वादिगुणस्य व्याप्यवृत्तितया तस्य लक्षणघटकत्वसम्भवात् । अत एव तत्संग्राहक घटादेरित्यादिपदम् । नोक्तरीत्याऽव्याप्तिरिति । धूमनिष्ठाया धूमत्वावच्छिन्नाधेयत्वाधिकरणतायाः स्वरूपसम्बन्धावच्छिन्नत्वेन संयोगसम्बन्धानवच्छिन्नत्वादिति भावः । आलोकप्रकाशः अनन्यथासिद्धत्वानिवेशेन लाघवादिति वाच्यम् ; विशेषणज्ञानादिरूपकारणाभावविधया प्रतिबन्धकाभावप्रयोजकस्य वह्निज्ञानाभावस्यापि वह्नयादिमत्ताज्ञानप्रयोजकतया तत्प्रतियोगिनो घटत्वेन वह्नयभाववान् पर्वत इत्यादिज्ञानस्य कथञ्चित् साध्यवत्ताज्ञानरूपकार्यप्रयोजकाभावप्रतियोगितया, प्रतिबन्धकसम्पादकतया, कार्याभावप्रयोजकतया चासम्भवापातादित्याशयः। षष्ठीतत्पुरुषभ्रमवारणाय मूले भूतपदोपादानम् । तत्पुरुषाश्रयणे तु विशेषणशानादिविधया साध्यवत्ताज्ञानकारणस्य साध्यज्ञानस्याभावप्रतियोगिनो घटत्वेन वह्नथभाववान् पर्वत इत्यादिज्ञानस्यापि प्रतिबन्धकल्वापत्त्या असम्भवो बोध्यः । अभावपदानुपादाने विशेषणज्ञानविधया कारणीभूतो यो विशेषणज्ञानाभाववद्भेदो विशेषणज्ञानात्मकः, तत्प्रतियोगित्वस्य विशेषगज्ञानाभाववत्यां यत्समानाधिकरणसाध्याभावप्रमायामपि सत्त्वादसम्भवः । अभावपदोपादाने तु निरुक्तभेदस्य विशेषणज्ञानात्मनो For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका (३)कन च हेत्ववृत्तित्वेन अधिकरणताया विशेषणानाव्याप्तिरिति *वाच्यम् * एवं सति प्रमेयादिरूपसद्धताकव्याप्तेः, प्रमेयावृत्त्यधिकरणत्वाप्रसिद्धः। (४) *न च* हेतुनिष्ठाधेयतानिरूपिताधिकरणतायामेव हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशान्नोक्तरीत्याऽव्याप्तिरिति वाच्यम् * एवमपि वह्निमान् धूमाधिकरणत्वादित्यादापव्याप्तेरपरिहारात् । (५) ॐन च* वह्नित्वाद्यवच्छिन्नप्रतियोगिताकवद्याद्यभावस्योक्तरीत्या हेतुसामानाधिकरण्येऽपि नाव्याप्त्यवकाशः; प्रमायां हेतुमद्विशेष्यकत्वविशेषणस्याने वक्ष्यमाणतया हेतुमद्विशेष्यकतादृशसाध्याभावप्रकारकप्रमाया अप्रसिद्धत्वादिति वाच्यम् ; * तथापि कपिसंयोगादिसाध्यकसद्धेतौ तादृशप्रमामादायाव्याप्तेर्दुरित्वात् । (६) ॐन च* यनिष्ठाधेयतानिरूपिता यनिरूपिता च या अधिकरणता, तद्ववृत्तित्वस्य यत्समानाधिकरणपदेन विवक्षणान्न कोऽपि दोष इति नूतनालोकः अग्रे वक्ष्यमाणतयेति । हृदो वह्नयभाववान् घटत्वेन वह्नयभाववांश्चेति समूहालम्बनमादायाव्याप्तिवारणार्थमित्यादिः । तादृशप्रमामादायेति । अव्याप्यवृत्तित्वज्ञानविरहदशायां तस्या विरोधित्वादित्याशयः। यनिष्ठाधेयतानिरूपितेति । अधिकरणतायां प्रथमतृतीयकल्पीये विशेषणे घटयित्वाऽयं परिष्कारः। अत्रावेयतेति स्वरूपकीर्तनमात्रम् , तत्त्वेन निवेशे प्रयोजनाभावात् , अधिकरणतात्वेनाधिकरणतानिवेशाद् द्रव्यत्वादौ साध्ये संयोगेन प्रमेयादेहेतुत्वे प्रमेयत्वादिनिष्ठां प्रमेयत्वाद्यवच्छिन्नाधेयतावच्छेदकतामादाय नाव्याप्तिप्रसक्तिः । धूमाधिकरणत्वनिष्ठाधेयत्वनिष्ठेत्याधेयताविशेषपरिचायकमेव, आलोकप्रकाशः भावभिन्नत्वाभावान्न दोषः । न चैवमपि चैत्रादिवृत्तित्वविशिष्टो यो बाधनिश्चयाभावः, तदभाववद्भेदस्य विशिष्टबाधनिश्चयाभावरूपस्य शुद्धबाधनिश्चयाभावानतिरिक्ततया .कारणत्वादावभिन्नत्वाच्च तत्प्रतियोगित्वमादायासम्भवो दुरुद्धर एवेति वाच्यम् । यद्धर्मावच्छिन्नप्रतियोगिताकाभावत्वं साध्यवत्ताज्ञानकारणतावच्छेदकम् , तद्धर्मवत्त्वस्य स्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नसाध्यवत्ताज्ञानकारणताकधर्मवत्त्वपर्यवसितस्य विवक्षणादनुपपत्यभावात् । एतेन प्रतिबन्धकत्वस्येदृशत्वे दाहकारणीभूतवह्निरूपाभावप्रतियोगिनि वह्नयभावे घटादिकारणीभूतप्रागभावप्रतियोगिनि For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता । *वाच्यम्क, एवमपि धूमाधिकरणताभिन्नत्वे साध्ये धूमाधिकरणत्वधूमाधिकरणत्वनिष्ठाधेयत्वनिष्ठाधेयत्वैतदन्यतरस्मिन् हेतावव्याप्तः । तत्र साध्यशून्ये धूमाधिकरणत्वरूपहेतावपि स्वनिष्ठाधेयत्वाधिकरणतामादाय निरुक्तहेत्वधिकरणत्वस्योपपादयितुं शक्यत्वात् । हेत्वधिकरणतायां हेत्ववृत्तित्वम् , यन्निरूपितेत्यत्र यत्पदार्थे हेतुनिष्ठाधेयत्वावृत्तित्वं वा विवक्ष्यत इति न साम्प्रतम् ; आये प्रमेयात्मकसद्धतावव्याप्त्यापत्तेः। द्वितीये धूमाभाववान् वह्नयभावादित्यादौ तदापत्तेः । तत्र वह्नयभावरूपहेतोर्वह्नयभाववृत्त्याधेयत्वेऽपि सत्त्वात् । नूतनालोकः । न तु तेन रूपेण प्रवेशो वैयर्थ्यात् । शक्यत्वादिति । प्रथमयत्पदेन धूमाधिकरणत्वस्य धारणे तन्निष्ठा या आधेयता पर्वतवृत्तित्वरूपा, आधेयविधया तन्निरूपितत्वस्य, द्वितीयतत्पदेन पर्वतवृत्तित्वरूपादेयत्वनिष्ठाया आधेयताया ग्रहणे हेत्वात्मकतन्निरूतित्वस्य च धूमाधिकरणत्वनिष्ठपर्वतवृत्तित्वाधिकरणतायां सत्त्वादिति भावः। न चात्र प्रथमयत्पदेन धूमाधिकरणत्वस्य ग्रहणे तत्पदोपस्थाप्यस्य तस्यैव द्वितीययत्पदेनापि ग्रहीतुं युक्ततया कथमियमव्याप्तिप्रसक्तिरिति वाच्यम् ; यत्पदयोस्तद्वयक्तित्वावच्छिन्नपरत्वे हेतुव्यक्तिभेदेन व्याप्तिभेदः स्यादिति तयोर्यद्रूपाश्रयपरत्वावश्यकतया उक्ताव्याप्तेर्निराबाधत्वात् । यत्पदार्थे हेतुतावच्छेदकसम्बन्धेन वृत्तित्वविवक्षणे संयोगेन प्रमेयहेतुकस्थलेऽव्याप्त्यप्रसक्तेरुक्तस्थलानुसरणम् । अव्याप्त्यापत्तेरिति । हेत्ववृत्त्यधिकरणत्वाप्रसिद्धेरिति भावः । घटाभावान्यो घटाभावादित्यादावतिव्याप्तेरुपलक्षणमेतत् । तेन व्यतिरेकित्वहेतुवृत्तित्वोभयाभावस्य हेत्वधिकरणतायां विवक्षणान्न दोषः । प्रमेयत्वावच्छिन्नाधिकरणतायाः केवलान्वयित्वेन तत्र व्यतिरेकित्वाभावप्रयुक्तोभयाभावसत्त्वादिति परास्तम् । तदापत्तरिति । अत्र यद्यपि स्वनिष्ठाधेयत्ववृत्तित्व-स्वभिन्न आलोकप्रकाशः प्रत्यक्षकारणीभूतस्वात्यन्ताभावप्रतियोगिनि वा घटादौ चातिप्रसङ्ग इति परास्तम् । वढेर्दाहकारणतावच्छेदकं वह्नित्वम् , प्रागभावनिष्ठं घटकारणतावच्छेदकं तद्वयक्तित्वम् , स्वात्यन्ताभावनिष्ठं प्रत्यक्षकारणतावच्छेदकं विषयत्वं तद्वयक्तित्वं वेत्यभावत्वस्य कारणतानवच्छेदकत्वादुक्तदोषानवकाशात् । मूले-अपरिहारैवेति । तथा च तृतीयकल्पोऽप्यसाधुरेवेत्याशयः । अतिरिक्ततापक्षे शङ्कते-न चेति । अत्रेतिशब्दस्य पूर्ववाक्यस्थानुपूर्वी विशिष्टोऽर्थः । तस्य वाच्यार्थोक्तावन्वयः । ण्यत्प्रत्ययस्य प्रामाण्यमर्थः । तस्य च नअर्थाभावे तस्य चाश्रयतासम्बन्धेन धात्वर्थेऽन्वयः । For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ 'न च' मालिका (७) न च * यन्निष्ठाधेयतानिरूपितत्वस्थाने यन्निष्ठाधेयतानिरूपकत्वमेवोपादीयते । तथा चोतस्थले धूमाधिकरणत्वनिष्ठाधेयत्वाधिकरणताया धूमाधिकरणत्वनिष्ठा या आधेयता, तन्निरूपितत्वेऽपि तदनिरूपकत्वान्न तादृशाधिकरणतामादायान्याप्तिः । इत्थञ्च यन्निरूपितत्वमपि नोपादेयमिति वाच्यम्; तथा सति घटत्वाभाववान् स्वरूपसम्बन्धावच्छिन्न वृत्तित्वादित्यादावव्याप्तेः । तत्र घटनिष्ठा या तद्वयक्तित्वाद्यधिकरणता, तस्या अधिकरणविधया हेतुनिष्ठाधेयतानिरूपकत्वादिति चेत् ? सत्यम् । यत्समानाधिकरणपदेन स्वनिष्ठ - हेतुतावच्छेदकावच्छिन्नाधेयतानिरूपितत्व-स्वनिरूपितत्वोभयसम्बन्धेन हेतु विशिष्टाधिकरणतावद्वृत्तित्वस्य विवक्षणान्न कोऽपि दोष इति । अत्राधेयतायां हेतुतावच्छेदकावच्छिन्नत्वोपादानान्न विशिष्टसत्ताहेतुकेऽव्याप्तिः, गुणनिष्ठाधिकरणतायाः सत्तात्वावच्छिन्नाधेयतानिरूपितत्वेऽपि हेतुतावच्छेदकीभूतविशिष्ट Acharya Shri Kailassagarsuri Gyanmandir सत्तात्वावच्छिन्नाधेयतानिरूपितत्वाभावात् । नुतनालोकः त्वोभयसम्बन्धेन हेतुविशिष्टान्यत्वस्य द्वितीययत्पदार्थे विवक्षणादियमव्याप्तिः शक्यते वारयितुम्, तथापि घटपटान्यतरत्वाभावे साध्ये घटत्वाभाव पटत्वाभावोभयस्मिन् हेतावव्याप्तिः । तत्र घटत्वाभावपटत्वाभावयोः प्रत्येकमुक्तसम्बन्धेन परस्पर विशिष्टतया यत्पदेन ग्रहीतुमशक्यत्वादिति तथा विवक्षा न कृतेति भावः । हेतुनिष्ठेति । तादृशाधिकरणतानिष्ठघटवृत्तितारूपहेतुनिष्ठेत्यर्थः । इत्थन उक्ताधिकरणतायास्तद्वयक्तित्वनिष्ठघटवृत्तिता रूपहेतु निरूपितत्वाद्यन्निरूपितत्वोपादानेऽपि न निस्तार इति सूचितम् । स्वनिष्ठेत्यादि । आधारत्वाधेयत्व योर तिरिक्तत्वमभ्युपेत्येदम् । न चात्र प्रथमसम्बन्धस्थाने 1 आलोकप्रकाशः वाच्यमित्यत्र कृत्प्रत्ययो भावार्थक इति पक्षे नञो लक्षणयाऽप्रामाण्यमर्थः । तथा चानुपूर्वी - विशेषावच्छिन्नं वाक्यमप्रमाणमिति बोधः । इयं रीतिर्वाच्यादिसमभिव्याहार एव सम्भवति । न तु ज्ञानविशेषबोधकशकिमन्यादिस्थले शङ्कयं मन्तव्यमित्यादी । तत्साधारणी रीतिरन्यतोSवसेया । विस्तरभयान्नेह लिख्यते । प्रमेयावृत्त्यधिकरणत्वाप्रसिद्धेरिति । न च व्यतिरेकित्व हेतुवृत्तित्वो भयाभावविवक्षणान्नेयमव्याप्तिरिति वाच्यम् ; तथा सति घटत्वाभावादिहेतुकस्थलेऽव्याप्तेः, तत्र हेतुसाधारणहेत्वधिकरणतायामुक्तोभयाभावसत्त्वात् । व्याख्यायाम् - स्वनिष्ठेति । धूमाभाववान् वह्नयभावादित्यादौ स्वनिष्ठेत्यादिसम्बन्धेन । यत्पदार्थस्य हेतुविशिष्टत्वा For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता (८) * न च * विशिष्टसत्ताहेतुकस्थले विशिष्टनिरूपितसमवाय एव हेतुतावच्छेदकसम्बन्धः। येन सम्बन्धेन हेतुमत्ताशानमनुमितिजनकम् , तस्यैव हेतुतावच्छेदकसम्बन्धत्वात् । प्रकृते च हेतुतावच्छेदकविशिष्टवैशिष्टयावगाहिपरामर्शस्यैवानुमितिजनकतया तत्र च विशिष्टनिरूपितसमवायस्यैव प्रकारतावच्छेदकसम्बन्धत्वात् । तथा च हेतुतावच्छेदकसम्बन्धेन हेत्वधिकरणत्वं नूतनालोकः तादृशाधेयतानिरूपकत्वमेव विवक्ष्यताम् । इत्थश्च द्वितीयसम्बन्धो व्यर्थ इति वाच्यम् , तथापि धूमाधिकरणता पर्वतान्या धूमाधिकरणतात्वादित्यादौ पक्षरूपाधिकरणताव्यावृत्त्यर्थ तदावश्यकत्वात्। अधिकरणतात्वेनाधिकरणतानिवेशाद् धूमधूमत्वावच्छिन्नाधेयत्वोभयनिरूपितां तदुभयाभावनिष्ठामनुयोगितां निरुक्तोभयसम्बन्धेन हेतुविशिष्टामादाय नाव्याप्त्यवकाशः। न चैवमपि कालिकसम्बन्धावच्छिन्ना या संयोगसम्बन्धावच्छिन्नधूमत्वाच्छिन्नाधेयत्व-धूमैतदुभयत्वावच्छिन्नाधेयतानिरूपिता हृदनिष्टाधिकरणता, तामुक्तोभयसम्बन्धेन हेतुविशिष्टामादायाव्याप्तिर्दुर्वारैवेति वाच्यम् ; अधिकरणतायामेव हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वविवक्षेणेनोक्ताधिकरणताव्यावृत्तेः। न चैवं सत्यभावीयानुयोगितायाः सम्बन्धानवच्छिन्नत्वादेव व्यावृत्तेरधिकरणतात्वेन निवेशो व्यर्थ एवेति वाच्यम् । यतोऽत्राधिकरणतापदं नाधिकरणतात्वेनाधिकरणतानिवेशतात्पर्यकम् , अपि तु हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वेन तन्निवेशतात्पर्यकमेवेति । वस्तुतस्त्वत्राधारत्वाधेयत्वयोस्तत्तद्रूपेण वैकल्पिकमुपादानं विवक्षितम् । तावतैव धूमत्वावच्छिन्नसंयोगसम्बन्धावच्छिन्नाधिकरणतानिरूपितसंयोगसम्बन्धावच्छिन्नाधेयताया धूमसंयुक्तनिष्ठाया व्यावृत्तेः । विशिष्टनिरूपितसमवाय एवेति । न च विशिष्टनिरूपितसमवायादेहेतुतावच्छेदकसम्ब आलोकप्रकाशः दव्याप्तिरिति सम्बन्धककोटौ स्वभिन्नत्वस्यापि प्रवेशः । तत्रैवोभयभेदमादाय दर्शितदोषवारणाय भेदे प्रतियोग्यवृत्तित्वमपि देयम् । व्यर्थ इति । धूमाधिकरणत्वनिष्ठाया धूमाधिकरणत्वनिष्ठाधेयत्वाधिकरणतायास्तादृशाधेयतानिरूपितत्वेऽपि तन्निरूपकत्वाभावेन व्यावृत्तेरिति भावः । व्यावृत्तेरिति । घटत्वविषयकज्ञानस्य घटत्वप्रकारकज्ञानं प्रति विशेषणज्ञानविधया या कारणता, तद्वयावृत्तेरप्युपलक्षणमिदम् । तेन धूमानुयोगिकसंयोगे वृत्तिनियामकत्वस्य सविवादत्वेऽपि न क्षतिः । तथा च वह्निमान् धूमात् , घटत्वज्ञानवान् घटत्वप्रकारकज्ञानादित्यादौ नाव्याप्तिरिति For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका न गुणादेरित्यव्याप्तिविरहाद्धेतुतावच्छेदकावच्छिन्नत्वविशेषणं व्यर्थमेवेति वाच्यम्; विशिष्टवैशिष्टयावगाहिशाने सर्वत्र विशेष्ये विशेषणमिति रीत्या जायमानशानाद्वैलक्षण्याय विशिष्टप्रतियोगिकवैशिष्टयभानाङ्गीकारे संयोगेनैकत्वप्रागभावविशिष्टघटवत्संयोगेन रूपवानित्यादिविशिष्टवैशिष्टयभानानुपपत्तिः। संयोगेनैकत्वप्रागभावविशिष्टप्रतियोगिकत्वस्य रूपत्वविशिष्टप्रतियोगिकत्वस्य च बाधेन सम्बन्धाप्रसिद्धः। तथा च प्रकारान्तरेणैव वैलक्षण्यमुपपादनीयमिति शुद्धसमवायस्यैव हेतुतावच्छेदकसम्बन्धतया तत्सार्थक्यात् । स्पष्टश्चेदं सिद्धान्तलक्षणे 'इत्थश्चेदं द्रव्यं गुणकर्मान्यत्वे सति सत्त्वात्' इति दीधितिव्याख्यानावसरे गादाधर्याम् । (९) * न च * उक्तज्ञानयोः सम्बन्धांशे भ्रमत्वमेव स्वीक्रियते । अत एवाकाशावित्यादिवाक्यजन्यस्य योग्यताभ्रमाधीनशाब्दबोधस्य पर्याप्त्याख्यसम्बन्धविशेषांशे आकाशत्वव्याप्यत्वभ्रमत्वमिति गदाधरोक्तिः, गुणीयसंयोगसम्वन्धेन वह्नः साध्यत्वे गुणीयत्वाभाववत्संयोगो बाध इति जगदीशोक्तिश्च सङ्गच्छते। एवञ्च विशिष्टप्रतियोगिकसमवाय एव प्रकृते हेतुतावच्छेदकः सम्बन्ध इति न तत्सार्थक्यमिति वाच्यम्; * एवमपि विशिष्टप्रतियोगिकत्वविशिष्टसमवायस्य शुद्धसमवायस्य चैक्येन शुद्धसमवायस्यापि हेतुतावच्छेदकसम्बन्धतया हेतुतावच्छेदकावच्छिन्नत्वानिवेशे पूर्वोक्ताव्याप्तेर्दुर्वारत्वात् । (१०) * न चाकंधेयतायां हेतुतावच्छेदकसम्बन्धतावच्छेदकतापर्याप्त्यधिरणधर्मपर्याप्तावच्छेकदताकावच्छेदकताकत्वमवश्यं विवक्षणीयम् । नूतनालोकः न्धत्वे तेन शुद्धसत्तादेरव्यभिचारितया तद्विशेषणवैयर्थ्यमिति विशिष्टहेतुकस्थले निग्रहप्रसङ्ग इति वाच्यम् ; विशिष्टविशेषणकबुद्धावेव विशिष्टनिरूपितत्वस्य सम्बन्धतावच्छेदकतया भानात्तद्रूपविशिष्टनिरूपितसमवायादिना तद्रूपानवच्छिन्नस्य हेतुत्वासम्भवात् । हेतुतावच्छेदकसम्बन्धतावच्छेदकतापर्याप्तीति । धूमे साध्ये स्वजन्यधूमप्रतियोगिकसंयोगसम्बन्धेन वह्निहेतौ शुद्धसंयोगसम्बन्धमादायाव्याप्तेः पूर्वपर्याप्तिनिवेशः। अवश्यं विवक्षणीयमिति । हेतुतावच्छेदकावच्छिन्नत्वनिवेशेऽपीत्यादिः । आलोकप्रकाशः भावः। यदि चाभावीयानुयोगितायाः सम्बन्धावच्छिन्नत्वमस्तीति विभाव्यते, तदा प्रथमसम्बन्धघटकनिरूपितत्वस्थाने निरूपकत्वमेव निवेश्यमिति दिक् । निग्रहप्रसङ्ग इति । व्यर्थ For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता अन्यथा वह्निमान् धूमादित्यादौ संयुक्तसंयोगादिपरम्परासम्बन्धस्यापि संयोगत्वेन हेतुतावच्छेदकसम्बन्धतया तेन सम्बन्धेन धूमवतो हृदादेरप्युक्त हेत्वधिकरणतापत्तेः । तथा च प्रकृते विशिष्टसमवायत्वावच्छिन्नावच्छेदकताकाधेयतानिरूपकत्वं न गुणादेरिति नाव्याप्यवकाश इति वाच्यम् *; स्वाश्रयसंयोगादिरूपपरम्पराया वृत्त्यनियामकतया तत्सम्बन्धेन धूमाधिकरणत्वाप्रसिद्ध चैवाव्याप्त्यनवकाशेन तद्विवक्षणानावश्यकत्वात् । " Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकः अव्याप्त्यनवकाशेनेति । न च तादात्म्यादिसम्बन्धेन व्याप्यत्वनिर्वाहार्थमधिकरणत्वस्थाने सम्बन्धित्वस्यावश्यं विवक्षणीयतया नाव्याप्यवकाश इति वाच्यम् ; वृत्तिनियामकसम्बन्धेनैव व्याप्यत्वमिति पक्षाश्रयणेन सम्बन्धित्वपर्यन्तानिवेशादित्यभिआलोकप्रकाशः विशेषणस्थ पुरुषस्य निगृहीतत्वमात्रम्, न तु व्याप्यत्वासिद्धिहेत्वाभास इत्याशयः । मूलेहेतुतावच्छेदकविशिष्टवैशिष्ट्या वगाहिपरामर्शस्यैवेति । अन्यथा सल्लिङ्गकपरामर्शाद् गुणादौ द्रव्यत्वानुमित्यापत्तेरिति भावः । विशिष्टनिरूपितसमवायस्यैवेति विशेष्ये विशेषणमिति रीत्या जायमान-ज्ञानाद्वैलक्षण्यनिर्वाहाय, विशिष्टवैशिष्ट्या वगाहिज्ञाने विशिष्टप्रतियोगिकसम्बन्ध भानस्यैव प्राचामनुमतत्वादिति भावः । प्रकारान्तरेणैवेति । विशिष्टवैशिष्टयावगाहिज्ञाने धर्मिणि विशेषणता - 1 वच्छेदकस्यापि पारतन्त्र्येण भानरूपवक्ष्यमाणप्रकारेणेत्यर्थः । सम्बन्धांशे भ्रमत्वमेवेति । ननु सम्बन्धघटकपदार्थेषु प्रकारविशेष्यभावविरहात्तत्प्रकारकत्वघटिततद्भ्रमत्वस्य सम्बन्धांशे कथमुपपत्तिः । न च तदभाववन्निष्ठ विषयतानिरूपिततन्निष्ठविषयताकत्वमेव भ्रमत्वम्, न तु प्रकारत्वघटितम् तथा च सम्बन्धांशे भ्रमत्वमुपपद्यत एवेति वाच्यम्; एवं सति रूपवान् घट इति प्रमाया . घटाभाववद्रूपनिष्ठविषयतानिरूपितघटनिष्ठ विषयताकत्वेन भ्रमत्वापत्तेरिति चेन्न; सम्बन्धघटकपदार्थेषु प्रकारविशेष्यभावाभावेऽपि विशेषणविशेष्यभावस्याभ्युपगमेन तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठविशेषणता कत्वरूपस्य भ्रमत्वस्य सम्बन्धांशे सूपपादत्वात् । न च संसर्गतावच्छेदकस्य विशेषणत्वे प्रकारत्वमपि दुरपह्नवमिति शङ्कयम्; उपस्थितिघटितत्वाघटितत्वाभ्यां सामग्रीभेदेन तयोर्भेदात् । अथ " अन्यधर्मस्योपस्थितस्यासति विशेषदर्शनेऽन्यत्रावभासोऽन्यथाख्यातिः” इति भ्रमलक्षणानुसाराद्विशेषणोपस्थित्यादिघटिता भ्रम सामग्यवधार्यते, तथा च संसर्गविशेषणस्य पूर्वमनुपस्थित्या कथं तत्र भ्रमत्वसम्भव इति चेन्न, लक्षणवाक्यस्थस्य उपस्थितस्येत्यस्य प्रायिकत्वाभिप्रायकतया उपस्थितैः सामग्रीशरीर प्रवेशतात्पर्यकत्वाभावात् । अन्यथा For Private And Personal Use Only २५ Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रस्नमालिका (११) * न च * तथापि जन्यगुणत्वसाध्यके समवायकालिकोभयसम्बन्धेन गुणत्वहेतावव्याप्तिः, तत्र कालिकस्यापि हेतुतावच्छेदकसम्बन्धतया साध्यशून्यघटादेरप्युक्त हेत्वधिकरणत्वापत्तेरिति तद्विवक्षणस्यावश्यकतया हेतुतावच्छेदकावच्छिन्नत्वविशेषणं व्यर्थमेवेति वाच्यम्; यतो विशिष्टवैशिष्टयावगाहिज्ञाने सर्वत्र विशेषणस्य शुद्धसम्बन्धेनैव भानम् , विशेषणताषच्छेदकम्यापि धर्मिपारतन्त्र्येण विशेषणर्मिणि भानमुपेयते । अत एव विशेष्ये विशेषणमिति रीत्या जायमानशानाद्विशिष्टवैशिष्टयावगाहिज्ञानस्य वैलक्षण्यमिति विशेषरूपेण संसर्गत्वं सम्बन्धांशे भ्रमत्वं चाप्रामाणिकमिति नवीनमते विशिष्टसत्ताहेतुकस्थले शुद्धसमवाय एव हेतुतावच्छेदकसम्बन्धः । स्पष्टं चेदं सिद्धान्तलक्षणगादाधर्याम् । तथा चोक्ताव्याप्तिरिति तद्विशेषणसार्थक्यसम्भव इति । नूतनालोकः प्रायः। विशेषरूपेणेति। विशिष्टप्रतियोगिकत्वघटितरूपेणेत्यर्थः। सिद्धान्तलक्षणगादाधर्यामिति । 'इत्थश्चेदं द्रव्यं गुणकर्मान्यत्वे सति सत्वात्' इत्यादिदीधितिपतिव्याख्यानावसरे इति बोध्यम् । स्वातन्त्र्येण गुणकर्मान्यत्ववैशिष्टयं विशेष्ये विशेषणमिति रीत्या गुणकर्मान्यत्वविशिष्टसत्तां च धर्मिण्यवगाहमानसमूहालम्बनाद् गुणकर्मान्यत्व मालोकप्रकाशः तद्विशिष्टबुद्धिसामान्ये तदुपस्थितेरपेक्षितत्वे संसर्गाशे प्रमात्वमपि न स्यात् , अनुपस्थितस्यैव धर्मस्य तदंशे भानात् । न चेष्टापत्तिः, निर्विकल्पकातिरिक्तज्ञानस्य स्वविषये प्रमात्वभ्रमत्वान्यतरवत्त्वनियमात् । तदंशे विशेषणीभूय भासते, तदबाधितञ्च, ज्ञानन्तु न तत्र प्रमेति विप्रतिषिद्धमेतत् । न च संसर्गस्याखण्डस्यैव भानमिति वक्तुं युक्तम् ; तथा सति प्रतियोगित्वादीनामखण्डानामेव संसर्गत्वेन तत्र धर्मविशेषावच्छिन्नत्वादीनामप्रामाणिकत्वापत्तेः। यद्यपि संसर्गतया भासमानप्रतियोगितानां परस्परभेदसिद्धयर्थं तत्रावच्छेदकभेदोऽवश्यमङ्गीकार्यः, तथापि विशेषस्य वक्तुमशक्यतया घटो नास्तीत्यत्र घटविशेषाभावोऽपि विषयः स्यात् । न चेष्टापत्तिः, घटवत्यपि घटो नास्तीति बुद्धथापत्तेः। एवं सामानाधिकरण्येन अवच्छेदकावच्छेदेन च शानयो(लक्षण्यं न स्यात् । न चावच्छेदकावच्छेदेन बुद्धौ यावद्धर्मिभानं नियतमिति वैलक्षण्यं सूपपादमिति वाच्यम् ; एवमपि विशेश्ये विशेषणमिति ज्ञानाद्विशिष्टवैशिष्टयावगाहिबुद्धलक्षण्यस्य दुरुपपादत्वात् । केचित्तु प्रकारताया विशेषणताव्यापकत्वे मानाभावः । न च प्रकारतासम्बन्धेन ज्ञानं प्रति विषयतासम्बन्धेनोपस्थिो हेतुत्वात् प्रत्यक्षविषये गुणीयत्वे शानलक्षणात्मकसन्निकर्षोपपादनार्थ For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका तत्प्रकाशटिप्पण्योपशृंहिता केचित्तु सामान्यधर्मावच्छिन्नाधारत्वाधेयत्वयोरतिरिक्तत्वाद्वह्निमान् धूमादित्यादौ धूमनिष्ठद्रव्यत्वावच्छिन्नाधेयतानिरूपितद्रव्यत्वाद्यवच्छिन्नाधिकरणतावत्त्वं हृदस्यापीत्यव्याप्त्यापत्त्या आधेयतायां हेतुतावच्छेदकावच्छिन्नत्वनिवेशनमावश्यकम्। नूतनालोकः विशिष्टसत्तावगाहिज्ञानस्य वैलक्षण्यनिर्वाहाथं धर्मिपारतन्त्र्येणेति, तथा च विशिष्टवैशिष्टयावगाहिज्ञानीययोर्विशेषणतावच्छेदकनिष्ठधर्मिद्वयनिरूपितप्रकारतयोरवच्छेद्यावच्छेदकभावो धर्मिपारतन्त्र्याभिधः स्वीक्रियते, उक्तसमूहालम्बनीययोस्तु तयोस्तदस्वीकाराद्वैलक्षण्यं निर्वहतीति भावः । ये तु विशिष्टहेतुकस्थले विशिष्टप्रतियोगिकसम्बन्धस्य हेतुतावच्छेदकसम्बन्धत्वेऽपि हेतुतावच्छेदकावच्छिन्नत्वनिवेशनं सार्थकयन्ति; तन्मतमुपन्यस्यति-केचित्त्विति । अतिरिक्तत्वादिति। विशेषधर्मावच्छिन्नाधाराधेयभावादित्यादिः। द्रव्यत्वाद्यवच्छिन्नाधिकरणतावत्त्वमिति । ह्रदो द्रव्यवानिति प्रतीतिसाक्षिकहदत्वावच्छिन्नाधिकरणतायां ह्रदमात्रवृत्तिद्रव्यनिरूपितत्वोपगमसम्भवान्न धूमनिरूपितत्वाश्यकतेति द्रव्यत्वावच्छिन्नेत्युक्तम् । एवञ्च द्रव्यं द्रव्यवदिति प्रतीतिसाक्षिकद्रव्यत्वावच्छिन्नाधिकरणतायां धूमादिनिरूपितत्व मालोकप्रकाशः पूर्वमुपस्थिोरावश्यकतया तदात्मकसामग्रीसत्त्वाद् गुणीयत्वे प्रकारत्वापत्तिरिति वाच्यम् ; घटभूतलसंयोगेषु निर्विकल्पकरूपोपस्थिोस्तुल्य वेऽपि यथा कदाचिद् भूतलस्य विशेष्यत्वमेव, संयोगस्य संसर्गत्वमेवेत्यत्रादृष्टविशेषस्यैव नियामकत्वमवश्यं वक्तव्यम् , तथात्रापि गुणीयत्वे विशेषणत्वमेव, न तु प्रकारत्वमित्यस्य सूपपादत्वादित्याहुः । तथा च संसर्गाशे भातस्य विशेषणस्याबाधे यथा प्रमात्वम् , तथा तस्य बाधे भ्रमत्वमपि । यथा च विशिष्टसंसर्गभानप्रयोजिका गुणसहिता तदुपस्थितिमन्तरेणैव तदंशे प्रमामुत्पादयति, तथा दोषसहिता भ्रममपि । तन्निष्ठप्रकारताघटिततद्विशिष्टबुद्धित्वस्य तदुपस्थितिकार्यतावच्छेदकस्य तत्राभावेन तदुपस्थितेरनपेक्षणादिति । अत एव सम्बन्धांशे भ्रमत्वस्वीकारादेव। इति गदाधरोक्तिरिति । इयमुक्तिरेकत्वपर्याप्तिमनभ्युपगम्य । तदभ्युपगमे तु आकाशत्वव्याप्यत्वविशिष्टपर्याप्तेः प्रसिद्धथा व्यधिकरणेन तेन सम्बन्धेन द्वित्वादिभ्रमत्वस्य तत्रोपपादयितुं शक्यत्वात् । तदभ्युपगमपक्षेऽपि सम्बन्धांशे भ्रमत्वस्य सिद्धान्तसिद्धतां प्रदर्श यितुमाह-गुणीयेति । व्याख्यायां धर्मिपारतन्त्र्याभिध इति । अवच्छेद्यावच्छेदकभाव एव धर्मिपारतन्यपदार्थ इति विषयतावादे स्पष्टम् । मूलेऽज्याप्स्यनवकाशादिति। अधिकरण For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ 'न च रत्नमालिका (१२) * न चा*तिरिक्तसामान्यधर्मावच्छिन्नाधिकरणत्वाङ्गीकारे आधेयतायां तन्निवेशेऽपि वह्निमान् धूमादित्यादावव्याप्तिस्तदवस्थैव, धूमधूमत्वावच्छिन्नाधेयत्वसाधारणप्रमेयत्वादिसामान्यधर्मावच्छिन्न निरूपितायां हृदनिष्ठाधिकरणतायां हेतुनिरूपितत्वस्य हेतुतावच्छेदकावच्छिन्नाधेयतानिरूपितत्वस्य च सत्त्वात् । यदि संयुक्तस्यैव प्रमेयस्य संयोगसम्बन्धावच्छिन्नाधारतानिरूपकत्वम् ; तदा वह्निमान् धूमाधिकरणत्वादित्यादौ धूमाधिकरणत्व-धूमाधिकरणत्वत्वावच्छिन्नाधेयत्वसाधारणप्रमेयत्वाद्य वच्छिन्ननिरूपितां तथाविधाधिकरणतामादायाव्याप्तिरिति वाच्यम् *; स्वनिष्ठहेतुतावच्छेदकावच्छिन्नाधेयतानिरूपकत्वस्वनिरूपितत्वोभयसम्बन्धेन हेतुविशिष्टाधिकरणत्वविवक्षणादव्याप्त्यनवकाशात् । (१३) * नचैवमपि घटत्वाभावे साध्ये प्रमेयं प्रमेयवदिति प्रतीतिसिद्धायाः स्वरूपसम्बन्धावच्छिन्नप्रमेयत्वावच्छिन्नाधेयताया हेतुत्वेऽव्याप्तिः, घटनिष्ठा या प्रमेयं प्रमेयवदिति प्रतीतिसिद्धाधिकरणता सा प्रमेयत्वावच्छिन्नाधेयतानिरूपितत्वाद्धेतुनिरूपिता, तादृशाधिकरणता प्रमेयत्वावच्छिन्नाधेयतावतीति प्रतीत्या अधिकरणविधया प्रमेयत्वावच्छिन्नाधेयतात्वरूपहेतुतावच्छेदकावच्छिन्नाधेयतानिरूपिका चेति तव्यावृत्तेरिति वाच्यम् । प्रथमसम्बन्धस्य खनिष्ठा या हेतुतावच्छेदकावच्छिन्नाधेयता, तादृशाधेयतात्वावच्छिन्ननिरूपकता नूतनालोकः मावश्यकम् । अन्यथा पर्वतादौ धूमाद्यवगाहिन्या द्रव्यं द्रव्यवदिति प्रतीतेरनिर्वाहप्रसङ्गादिति भावः । ह्रदनिष्ठाधिकरणतायामिति । द्रव्यं संयोगेन प्रमेयवदिति प्रतीतिसिद्धायामित्यादिः । संयुक्तस्यैवेति । एवकारेणासंयुक्ते आधेयताया व्यवच्छेदः । तथा च ह्रदनिष्ठाधिकरणतायां धूमत्वावच्छिन्नाधेयतानिरूपितत्वविरहान्नाव्याप्तिरिति भावः । आलोकप्रकाशः तायामाधेयतानिरूपितत्वेऽपि तन्निरूपकत्वाभावादिति भावः। अत्राधेयतात्वेनाधेयताया अप्रवेशे वह्निमान् धूमाधिकरणत्वादित्यादौ निरुक्तोभयसम्बन्धेन हेतुविशिष्टं धूमाधिकरणत्वनिष्ठं प्रमेयत्वावच्छिन्नाधिकरणत्वमादायाव्याप्तिः। तथाहि-प्रमेयं प्रमेयवदिति प्रतीतिसिद्धा या प्रमेयत्वावच्छिन्नाधिकरणता तस्या यावत्प्रमेयान्तर्गतहेतुनिरूपितत्वात् प्रथमसम्बन्धोपपत्तिः, धूमाधिकरणत्वं प्रमेयत्वावच्छिन्नाधिकरणत्ववदिति प्रतीतौ प्रकारतया भासमानप्रमेयत्वावच्छिन्नाधिकरणत्वे आधेयविधया हेतुनिष्ठधूमाधिकरणतात्वावच्छिन्नाधिकरणतानिरूपकत्वाद् द्वितीयसम्बन्धो For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका तत्प्रकाश टिप्पण्योप बृंहिता कत्वरूपस्य विवक्षया दोषानवकाशात् । प्रकृते हेतुतावच्छेदकावच्छिन्नहेतुनिष्ठाधेयतायाः प्रमेयान्तर्गततया घटनिष्ठपूर्वोक्ताधिकरणतानिरूपकत्वेऽपि हेतुतावच्छेदकावच्छिन्नाधेयतात्वेन रूपेण तदभावात् । Acharya Shri Kailassagarsuri Gyanmandir एतेन अधिकरणतायां हेतुतावच्छेदका नवच्छिन्नाधेयत्वानिरूपित्वस्य विवक्षणान्न प्रमेयत्वाद्यवच्छिन्नाधेयतानिरूपिताधिकरणतामादायाव्याप्त्यवकाशः । कूट एव २९ (१४) * न चैवं वाच्यत्वादौ साध्ये वृत्तिहेतावव्याप्तिः, तत्र हेतुतावच्छेदकावच्छिन्नाधेयतानिरूपिताधिकरणतायां हेतुतावच्छेदकानवच्छिन्नघटत्वाद्यवच्छिन्नाधेयत्वरूप हेतुनिरूपितत्वनियमादिति वाच्यमः हेतुतावच्छेदकावच्छिन्नाधेयताभिन्नं यद्धेतुतावच्छेदकाभाववत्, तदनिरूपितत्वस्य तादृशाधेयताभिन्नस्वाभाववश्न्निरूपितत्वसम्बन्धावच्छिन्नहेतुतावच्छेदकनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वपर्यवसितस्य हेत्वधिकरणतायां विवक्षणेनाव्याप्त्यनवकाशादिति निरस्तम्, गौरवात् । (१५) * न च * सामान्यधर्मघटितविशेषधर्मावच्छिन्नाधिकरणताकूटादेव सामान्यधर्मावच्छिन्नवत्ताप्रत्ययोपपत्तेः शुद्धसामान्यधर्मावच्छिन्ननिरूपितायामतिरिक्तायामधिकरणतायां मानाभावः । स्पष्टं चेदं व्युत्पत्तिवाद इति नूतनालोकः 1 विवक्षयेति । हेतुतावच्छेदकावच्छिन्नाचेयता निरूपितेत्यनेनेत्यादिः । हेतुतावच्छेदका वच्छिन्नाधेयताभिन्नमिति । अत्र हेतुतावच्छेदकावच्छिन्नत्वोपादानाद्विशिष्टसत्ता हेतु के सत्तात्वावच्छिन्नाधिकरणताव्यावृत्तिः । वाच्यं प्रमेयादित्यादी हेतुतावच्छेदकाभावाप्रसिद्धयाऽव्याप्तेराह - तादृशेति । सामान्यधर्मघटितविशेषेति । अयं धर्मस्तद्घटत्वतत्पटत्वादिरूपो बोध्यः, तद्बटवदिति प्रतीतौ घटत्वस्याप्याधेयतावच्छेदकत्वावगाहनात् । तद्वयक्तित्वरूपविशेषधर्ममात्रस्याधेयतावच्छेदकत्वे तादृशप्रतीत्यनिर्वाह इत्यत उक्तम्सामान्यधर्मघाति । मानाभाव इति । तथा च हेतुतावच्छेदकावच्छिन्नत्वनिवेशनस्योक्तरीत्या सार्थक्यं न घटतं इति भावः । व्युत्पत्तिवाद इति । अत्यन्तसंयोगविचारावसर इति शेषः । इदमुपलक्षणम्, “विशेषधर्मावच्छिन्नाधिकरणताभ्यः सामान्यधर्मावच्छिन्नाधिकरणताया अतिरिक्ताया अनभ्युपगमात् क्लृप्ताधिकरणतासामान्यधर्मावच्छिन्ननिरूपितत्वोपगमादिति" इति सामान्यलक्षणा - For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 'न' रत्नमालिका वाच्यम्; घटसमुदायो रूपवानिति प्रतीतेरेव मानत्वात् । तथाहि अस्यां प्रतीतौ काचन समुदायत्वावच्छिन्नाधिकरणता भासते। सा च न तद्रूपत्वाद्यात्मकसामान्यधर्मघटितविशेषधर्मावच्छिन्ननिरूपिता भवितुमर्हति, तस्या घटसमुदायस्तद्रूपवानिति प्रतीत्यभावेन, घटसमुदायत्वेनानवच्छेदादिति समुदायत्वावच्छिन्ननिरूपिताधिकरणतावदतिरिक्तैव सा वक्तव्येत्यनया प्रतीत्या तत्सिद्धिरित्याहुः। नूतनालोकः प्रकरणेऽप्यभिधानात् । समुदायत्वावच्छिन्ननिरूपिताधिकरणतावदिति । अस्या अनतिरिक्तत्वे तु यत्किश्चिद्बटवत्यपि घटसमुदायवदिति प्रतीत्यापत्तिरिति भावः। स्पष्टं चास्या अतिरिक्तत्वम् 'एकावच्छेदेन यावद्विशेषाभाववत्त्वस्योपाधित्वात्' इति पतिव्याख्यानावसरे सिद्धान्तलक्षणगादाधर्याम् । तत्सिद्धिरितीति । अथास्यां प्रतीतावधिकरणतायां समुदायत्वावच्छिन्नत्वं न भासते, किन्तु यावद्वयक्तिषु समुदायत्वपर्याप्तिस्तावद्वयक्तिसम्बन्ध एव, व्यासज्यवृत्तिधर्मावच्छिन्नविशेष्यताकबुद्धौ विशेषणे तदाश्रययावद्वयक्तिसम्बन्धमाननियमात्। तथा च घटसमुदायस्तद्रूपवानिति प्रतीते पत्तिः, तपाधिकरणतायां यावद्धटसम्बन्धबाधादिति चेन्न, आकाशस्य बहुत्वग्रहवतः पुरुषस्यैकव्यक्तिमात्रविषयकस्याकाशसमुदायः शब्दवानिति ज्ञानस्योत्पादेन तादृशनियमस्यासम्भवदुक्तिकतया समुदायत्वावच्छिन्नत्वभानस्यावश्यकत्वात् । स्पष्टं चेदं व्युत्पत्ति आलोकप्रकाशः . पपत्तिः । व्याख्यायाम् --तावद्वयक्तिसम्बन्ध एवेति । घटसमुदायो रूपवानित्यत्र रूपनिष्ठतत्तद्वयक्तित्वावच्छिन्ननिरूपिताधिकरगतासु प्रत्येकं यावद्धटसम्बन्धबाधेऽपि विशेषणतावच्छेदकीभूतरूपत्वावच्छिन्ननिरूपिताधिकरणतात्वरूपसामान्यधर्मावच्छिन्ने तदबाधेन न तत्प्रतीत्यनुपपत्तिरिति भावः । प्यासज्यवृत्तिधर्मावच्छिन्नेति । अत्रावच्छेदकता पर्याप्तिसम्बन्धावच्छिन्ना ग्राह्या। तेन समवायेन समुदायत्ववानाकाशः शब्दवानिति प्रतीतेः प्रमात्वोपपत्तिः। असम्भवदुक्तिकतयेति । अथ उक्तनियमशरीरे व्यासज्यवृत्तिधर्माशे भ्रमासत्त्व इत्यपि निवेश्यते । एवञ्च तादृशभ्रमजनकदोषाभावस्यापि यावदाश्रयविषयकबुद्धित्वावच्छिन्नसामग्यां प्रवेशान्नात्र भ्रमानुपपत्तिः, आकाशे बहुत्वभ्रमस्थले तजनकदोषसत्त्वादिति चेन्न; अन्यांशे भ्रमजनकदोषाभावस्यापि तद्रूपादिप्रकारकयावदाश्रयविषयकबुद्धित्वावच्छिन्नसामग्रीकुक्षौ घटनापेक्षया समुदायत्वावच्छिन्नाधिकरणत्वाङ्गीकारस्यैव For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः वादे । न चास्यां प्रतीतौ घटत्वव्यापकत्वमेवाधिकरणतायां भासते, न तु घटसमुदायत्वावच्छिन्नत्वम् । तच सामान्यधर्मावच्छिन्ननिरूपिताधिकरणतात्वावच्छिन्नमक्षतमेवेति वाच्यम्; तद्धर्मावच्छिन्नविशेष्यकविशिष्टबुद्धौ विशेषणे विशेषणसंसर्गे वा तदेकदेशव्यापकत्वभानानुपगमेन तद्भानस्यासम्भवात् । न च तर्हि घटसमुदायत्वव्यापकत्वभानमेवोपेयताम् , तथा च घटसमुदायस्तद्रूपवानिति प्रतीतेपित्तिरिति वाच्यम्, घटो रूपवानिति प्रतीतौ घटत्वावच्छिन्नत्वमधिकरणतायां भासते, घटसमुदायो रूपवानित्यत्र तु घटसमुदायत्वावच्छिन्नत्वं न भासत इत्यभ्युपगमेऽनुभवविरोधात् , बहूनि रूपवन्तीति प्रतीतेरनिर्वाहाच्च । तथा हि-अत्र बहुत्वावच्छिन्नव्यापकत्वं रूपत्वावच्छिन्नाधिकरणतायां भासत इति न युक्तम् , रूपाधिकरणताया वाय्वादिसाधारणबहुत्वत्वावच्छिन्नाव्यापकत्वात् । यत्किश्चिदेकबहुत्वत्वावच्छिन्नव्यापकता भासत इत्यपि न, तत्तद्वयक्तित्वेन बहुत्वानुपस्थितेः। किञ्च, बहुत्व आलोकप्रकाशः लघुत्वात् । किञ्च, समुदायत्वपर्याप्तः प्रत्येकावृत्तित्वानङ्गीकारपक्षे आकाशमात्रविषविण्याः समुदायः शब्दवानित्यादिप्रतीवर्धमत्वमशक्योपपादनम् । अतः समुदायत्वावच्छिन्नातिरिक्ताधिकरणता अङ्गीकर्तव्या, तदङ्गीकारे च शब्दनिरूपिताधिकरणतायाः पर्याप्तिसम्बन्धेनावच्छेदकत्वं समुदायत्वे नास्तीति तद्भाने भ्रमत्वं सूपपादमिति ज्ञेयम् । एतेन दर्शितनियमशरीरे व्यासज्यवृत्तिधर्माश्रयत्वेन ज्ञातयावद्वयक्तिसम्बन्धमानमिति घटने आकाशसमुदायः शब्दवानित्यत्र आकाशस्यैव समुदायत्वाश्रयत्वेनोपस्थिततया तद्भाने उक्तनियमभङ्गाभावेन अधिकरणत्वान्तराङ्गीकारो व्यर्थ इत्याक्षेपो निरस्तः। व्युत्पत्तिवाद इति । आख्यातोपस्थापितद्वित्वाद्यन्वयविचारावसर इति शेषः। घटत्वावच्छेदेन द्रव्यत्वावगाहिन्यां घटो द्रव्यमित्यादिप्रतीतौ स्वरूपत उपस्थिते द्रव्यत्वे घटत्वव्यापकत्वभानानुपपत्तिरित्यत आहविशेषणसंसर्गे वेति । भानानुपगमेनेति नीलभूतलं घटाभावदिति प्रतीत्यनन्तरं पीतभूतलं घरवदिति प्रतीतेः, चैत्रीयघटसमुदायो रूपवानिति प्रतीत्यनन्तरं घटो रूपवान्न वेति संशयस्य चानुपपत्तेरिति भावः। घटत्वावच्छिन्नत्वमिति । स्वरूपसम्बन्धविशेषरूपमित्यादिः। अनुभवे विवदमानं प्रत्याह-बहूनीति । अनिर्वाहाचेति । बहुत्वसामानाधिकरण्यमात्रभानोपगमे बहूनि तद्रूपवन्तीति प्रतीत्यापत्तिरिति ध्येयम् । भनुपस्थितेरिति । तथा च प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानरूपकारणाभावेन न तत्र व्यापकत्वात्मकामावभानसम्भव इति भावः। न च For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 'न च' रत्नमालिका नुतनालोकः भेदेन भिन्नभिन्नतयक्तित्वावच्छिन्ननिरूपितव्यापकत्वानां संसर्गतया भानमौचित्यादवर्जनीयमिति तादृशप्रतीतीनामेकाकारत्वमङ्गः । तादृशविभिन्नाकारकप्रत्यक्षादिव्यक्तीः प्रति प्रत्येकं भिन्नविषयकशाब्दसामन्यादीनां प्रतिबन्धकत्वकल्पनापत्त्या महागौरवं च । आलोकप्रकाशः तद्वयक्तित्वघटितधर्मावच्छिन्नव्यापकत्वं संसर्गविधयैव भासत इति न तत्र प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानापेक्षेति वाच्यम् ; अवच्छेदकावच्छेदेन धूमावगाहिन्या वह्निमान् धूमवानिति बुद्धरिणाय अन्वयितावच्छेदकरूपावच्छिन्नव्यापकत्वस्यैव भानमित्यस्यावश्यमङ्गीकर्तव्यत्वात् । न चैवं सति "शरदि पुष्पन्ति सप्तच्छदाः” इत्यादौ सप्तच्छदपुष्पोत्पत्तित्वादिकं नान्वयितावच्छेदकम् । आख्यातान्तप्रतिपाद्यतावच्छेदकपुष्पोत्पत्तित्वं त्वन्वयितावच्छेदकमपि न शरवृत्तित्वव्याप्यमित्यवच्छेदकावच्छेदेनान्वयानुपपत्तिः। सामानाधिकरण्यमात्रेण तदन्वयोपगमे तु शरदि पुष्पन्ति सप्तच्छदाः, शरदि पुष्पन्ति चम्पका इत्यविशेषेण प्रयोगापत्तिरिति वाच्यम् ; यतः साक्षादर्थतो वा लब्धधर्मावच्छिन्नव्यापकत्वमेव भासते, न त्वतथाविधधर्मावच्छिन्नव्यापकत्वमित्येव नियमः । तथा च सप्तच्छदपुष्पोत्पत्तित्वस्य साक्षाद्विशेषणत्वाभावेऽप्यर्थाद्विशेषणत्वेन तदवच्छिन्नव्यापकत्वभाने बाधकाभाव इति। प्रत्यक्षादीत्यादि । अत्रादिपदाभ्यां समानविषये प्रत्यक्षसामग्रीप्रतिबन्धकत्वेऽपि गौरवमिति लभ्यते । अत एव महेत्युक्तम् । शाब्दप्रतीतौ संसर्गप्रकारकतात्पर्यज्ञानस्यैव हेतुतया तदभावात्तथाविधशाब्दप्रतीत्यनिर्वाहोऽपि बोध्यः । अथ भिन्नविषयकशाब्दसामय्यां घटादिप्रत्यक्षप्रतिबन्धकत्वं सर्वैरप्यवश्यमङ्गीकर्तव्यम् । तत्प्रतिबध्यतावच्छेदकं न घटादिप्रत्यक्षत्वं गौरवात् , किन्तु भिन्नविषयकप्रत्यक्षत्वम् । तस्य च नानाविधव्यापकत्वावगाहिप्रत्यक्षसाधारणतया तादृशप्रतिबन्धकत्वेनैव निर्वाहे संसर्गभेदेन भिन्न-भिन्नप्रतिबन्धकत्वकल्पनस्यानावश्यकतया नोक्तगौरवावकाशः। ननु भिन्नविषयकप्रत्यक्षत्वमनुगतानतिप्रसक्तं दुर्वचम् । तद्धि न स्वजन्यशाब्दबोधाविषयकप्रत्यक्षत्वम् ; सर्व प्रमेयमित्यादि शाब्दसामग्यास्तादृशशाब्दबोधाविषयाप्रसिद्धया घटादिप्रत्यक्षप्रतिबन्धकत्वानुपपत्तेः । नापि स्वजन्यशाब्दबोधावृत्तिविषयताश्रयप्रत्यक्षत्वम् ; घटादिशब्दसामण्याः पटादिप्रत्यक्षप्रतिबन्धकत्यानुपपत्तेः, ज्ञानभेदेन विषयिताभेदस्याप्रामाणिकतया तद्विवयिताया अपि पटाद्यवगाहिस्वजन्यसमूहालम्बनवृत्तित्वात् । न च स्वजन्ययत्किञ्चिच्छाब्दबोधावृत्तित्वविवक्षणान्नानुपपत्तिरिति वाच्यम् ; एवं सति घटशाब्दसामग्या घटप्रत्यक्षप्रतिबन्धकत्वापत्तेः। घटत्वेन तद्धटविषयकशाब्दबोधव्यक्तिमादाय तदन्यघटविषयितानाम् , एवं घटत्वेन तदन्यघटविषयकयत्किञ्चिच्छाब्दबोधव्यक्तिमादाय तदरविषयितायाश्च यत्किञ्चिच्छाब्दबोधावृत्तित्वस्योपपादयितुं शक्य For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता आलोकप्रकाशः त्वात् । नापि स्वजन्यतावच्छेदकविषयिताशून्यत्वं तत् ; घटपटावगाहिसमूहालम्बनप्रत्यक्षस्यासंग्रहापत्तेः । न चेष्टापत्तिः, तस्यातिरिक्तविषयकतया समानविषयकत्वाभावात् । नापि तद्रूपावच्छिन्नविशेष्यतानिरूपिततद्रूपत्वावच्छिन्नप्रकारताकत्वसमानाधिकरणाभावप्रतियोगितावृत्तिरूपावच्छिन्ननिरूपितविषयितापर्यवसन्ना याऽव्यापकविषयिता तच्छालित्वम् । वृत्तित्वञ्च स्वावच्छिन्ननिरूपितविषयितात्वावच्छिन्नत्वसम्बन्धेन । भूतलं घटवदिति शाब्दसामग्या घटवदिति निर्मितावच्छेदककप्रत्यक्षं प्रति प्रतिबन्धकत्वानुपपत्तेरिति चेन्न; तद्रूपावच्छिन्नविशेष्यतानिरूपिततत्संसर्गावच्छिन्नतद्रूपावच्छिन्नप्रकारत्वावच्छिन्नभेदप्रतियोगितानवच्छेदकविषयताकप्रत्यक्षत्वं तद्रूपावच्छिन्नप्रकारतानिरूपिततद्रूपावच्छिन्नविशेष्यतान्यमुख्यविशेष्यताशालिप्रत्यक्षत्वं वा तद्रूपावच्छिन्न विशेष्यतानिरूपिततत्संसर्गावच्छिन्नतद्रूपावच्छिन्नप्रकारताकशाब्दसामग्रीप्रतिवध्यतावच्छेदकम् । अथवा स्वजन्यतानवच्छेदकसावच्छिन्नविषयताशालिप्रत्यक्षत्वं शाब्दसामग्रीप्रतिवध्यतावच्छेदकमित्यनुगमसम्भवादिति चेत् , सत्यम् । भिन्नविषयकत्वस्योक्तरीत्याऽनुगतत्वेऽपि भिन्नभिन्नेच्छानामुत्तेजकतया न तस्य प्रतिवध्यतावच्छेदकत्वसम्भवः। घटवद् भूतलमित्यादिशाब्दसामग्याः पटवद् भूतलमित्यादिप्रत्यक्षसामग्याश्च सत्त्वे भूतले पटप्रत्यक्षं जायतामित्यादीच्छादशायामनुभवसिद्धस्य तादृशप्रत्यक्षस्य निर्वाहार्थ सामान्यतः प्रत्यक्षेच्छाविरहविशिष्टत्वेन शाब्दसामग्रीविशेषणे वह्निप्रत्यक्षं जायतामित्यादीच्छायामपि तादृशप्रत्यक्षापत्तिरिति विशिष्य पटवद् भूतलादिविषयकत्वावच्छिन्नविषयताकप्रत्यक्षेच्छाविरहविशिष्टत्वेन सामच्या विशेषणीयत्वादिति । न चेच्छाविशिष्टान्यत्वे सति तद्धर्मावच्छिन्नप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यतान्यमुख्यविशेष्यताशालिप्रत्यक्षत्वस्यानुगतस्यैवः तद्धर्मावच्छिन्नप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालिशाब्दसामग्रीप्रतिवध्यतावच्छेदकत्वं कल्प्यते । तथा च चान्यप्रत्यक्षेच्छाकाले न पटप्रत्यक्षापत्तिः। इच्छावैशिष्ट्यञ्च आधेयताविशिष्टाधेयत्वपर्यवसितैकक्षणावच्छिन्नैकात्मवृत्तित्व विषयत्वोभयसम्बन्धेन । आधेयतावैशिष्ट्यञ्च खनिरूपकनिरूपितत्व-स्वावच्छेदकक्षणावच्छिन्नत्वोभयसम्बन्धेनेति वाच्यम् ; एवमपि प्रत्यक्षकालीनवह्निप्रत्यक्षं भूयादितीच्छादशायां पटप्रत्यक्षापत्तेारत्वात् । नहीच्छावैशिष्ट्यघटकविषयित्वस्थाने मुख्यविशेष्यत्वविवक्षया नोक्तापत्तिरिति शक्यते वक्तुम् ; एवं सति पटप्रत्यक्षोत्पत्तिर्भवतु इतीच्छादशायां पटप्रत्यक्षानुत्पादप्रसङ्गात् । न च पूर्वोक्तमुख्यविशेष्यताविशिष्टप्रत्यक्षत्वस्य प्रतिवध्यतावच्छेदकत्वोपगमान्न दोषः। वैशिष्ट्यञ्च स्वनिरूपकत्व-स्वनिरूपकत्वव्याप्यधर्मावच्छिन्नविषयताकेच्छाविशिष्टत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धेन । एवञ्च पटप्रत्यक्षं जायतां पटप्रत्यक्षोत्पत्तिर्भवतु इत्यादीच्छाकाले स्वपदेन प्रत्यक्षीयपटनिष्ठमुख्यविशेष्यताग्रहणे तादृश For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ૩૪ www.kobatirth.org 'नव' रत्नमालिका नूतनालोकः Acharya Shri Kailassagarsuri Gyanmandir अस्मन्मते च बहुत्वावच्छिन्नाधिकरणत्वविषयक मेकविधमेव तथाविधं ज्ञानमित्येक - विधप्रत्यक्षादिकं प्रत्येव तादृशसामग्र्याः प्रतिबन्धकत्वं कल्पनीयमिति लाघवमिति । न च बहूनि रूपवन्तीत्यादिप्रतीतौ धर्मिविशेषणतापन्नबहुत्वादेः स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकप्रकारता वच्छेद की भूतरूपाधिकरणतात्ववस्वसंवन्धा - वच्छिन्न स्वनिष्ठावच्छेदकताक प्रतियोगिताकभेदवत्त्वरूपतयक्तित्वाघटिततद्व्यक्ति व्यापकत्वसम्बन्धेन पारतन्त्र्येणाधिकरणतायां भानमुपेयते । तथा च न काप्यनुपपत्तिः । तद्रूपाधिकरणतायां स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकतद्रूपाधिकरणतात्ववत्त्वसम्बन्धेन सर्वस्यापि बहुत्वस्य सत्त्वात् कस्या अपि बहुत्वव्यक्तेस्तेन सम्बन्वेन स्वावच्छिन्नभेदवत्त्वरूपव्यापकत्वविरहादिति वाच्यम् ; एवं सति घटसमुदायो रूपवानिति प्रतीतेरनिर्वाहात्, घटसमुदायत्वादेः स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकरूपाधिकरणतात्ववत्त्वसम्बन्धेन कुत्राप्यवर्त - आलोकप्रकाशः प्रत्यक्षस्य स्वनिरूपकत्वेऽपि स्वनिरूपकत्वव्याप्यपटप्रत्यक्षत्वावच्छिन्नविषयताकेच्छाविशिष्टत्वेन द्वितीयसम्बन्धाभावान्न प्रतिवध्यतावच्छेदकाक्रान्तत्वम् । एवं प्रत्यक्षकालीनवह्निप्रत्यक्षं जायतामितीच्छायाः पटप्रत्यक्षीय मुख्यविशेष्यतानिरूपकत्वव्याप्यधर्मावच्छिन्नविषयताकत्वं नास्ति । प्रत्यक्षत्वस्य तादृशनिरूपकत्वव्यापकत्वादिति तादृशेच्छाकाले तादृशप्रत्यक्षस्य प्रतिवध्यतावच्छेदकाक्रान्तत्वमिति वाच्यम् ; एवमपि पट प्रत्यक्षसमानकालीन वह्निप्रत्यक्षं जायतामितीच्छाकाले पटप्रत्यक्षापत्तेः । शाब्दातिरिक्तं ज्ञानं जायतां प्रत्यक्षं जायतामित्यादीच्छासत्त्वे प्रत्यक्षानुपपत्तेश्च । तथा चोत्तेजकाननुगमान्नानुगतप्रतिवध्यप्रतिबन्धकभावनिर्वाहः । एतदेवाभिप्रेत्य " अन्यादृशप्रत्यक्षस्थलीयप्रतिबन्धकतया च न त्वन्मते निर्वाहः, अन्यत्रान्यविधप्रत्यक्षेच्छानामुत्तेजकतया" इत्युक्तं व्युत्पत्तिवाद इत्यलं पल्लवितेन । एकविधेति । न च तद्बहुत्ववन्ति रूपवन्तीति प्रत्यक्षे तद्बहुत्वव्यापकत्वस्य संसर्गकोट भानातादृशप्रत्यक्षं प्रति च भिन्नविषयक शाब्दसामग्याः प्रतिबन्धकत्वस्य सर्वैरङ्गीकरणीयतया तत्प्रतिबन्धकत्वेनैव प्रकृतेऽपि निर्वाहान्नाधिककल्पनेति वाच्यम् ; तत्र तद्वयक्तित्वस्य प्रकारतयापि भानान्न तस्य बहूनि रूपवन्तीति प्रत्यक्षसमानाकारत्वमिति तेन प्रकृते न निर्वाह इति प्रतिबन्धकत्वान्तरकल्पनाया आवश्यकत्वात् । भेदप्रतियोगितावच्छेदकतावच्छेदकेति । अत्र स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमात्रस्य भेदप्रतियोगितावच्छेदकतावच्छेदकसम्बन्धत्वविवक्षणे कस्या अपि रूपाधिकरणत्वव्यबहुत्वव्यक्तिव्यापकत्वानिर्वाह इति तदुपेक्षा | बहुस्वन्यतेरिति । For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतना लोकटीका तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः घटसमुदाय मानतया तादृशसम्बन्धस्य स्वव्यधिकरणतया तत्सम्बन्धावच्छिन्न स्वनिष्ठावच्छेदकताकभेदस्यैवाप्रसिद्धेः । व्यधिकरण सम्बन्धावच्छिन्नावच्छेदकताकभेदस्य सिद्धान्तेऽनङ्गीकारात् । न च समानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकरूपाधिकर णतात्ववत्त्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वसम्बन्धेन घटसमुदायत्वस्य रूपाधिकरणतायामेव भानोपगमान्नोक्तप्रतीतेरनिर्वाहः, व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकात्यन्ताभावस्य सर्वसम्मतत्वादिति वाच्यम्; एवमपि प्रमेयत्वावच्छिन्नाधिकरणतत्वस्य भेदप्रतियोगितावच्छेदकतावच्छेदकत्वासम्भवेन सम्बन्धाप्रसिद्धचा घटसमुदायः प्रमेयवानिति प्रतीतेरनिर्वाहात् । न च व्यतिरेकिप्रकारकस्थल एवोक्तसम्बन्धेन धर्मितावच्छेदकस्य पारतन्त्र्येण भाननियमः, अतो नोक्तदोष इति वाच्यम् ; तथा सति घटसमुदायो रूपवान् घटसमुदायः प्रमेयवानिति प्रतीत्योः संसर्गांशेऽनुभवसिद्धस्यावैलक्षण्यस्यापलापापत्तेः । अधिकमग्रे व्यक्तीभविष्यति । न च समानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकत्वसम्बन्धावच्छिन्न स्वनिष्ठावच्छेद - कताक प्रतियोगिताकभेदवस्वात्मकव्यापकतावच्छेदकत्वसम्बन्धेन त्वादेर्धर्मिपारतन्त्र्येण स्वरूपाधिकरणतात्वे भानमुपेयते । तथा चोक्तभेदप्रतियोगितावच्छेदकतावच्छेदकसम्बन्धस्य समानाधिकरणतया तत्सम्बन्धावच्छिन्न स्वनिष्ठा व च्छेदकताक प्रतियोगिताकभेदस्य प्रसिद्धया न दोष इति वाच्यम्; धर्मिणि यत्र भानं तत्रैव धर्मिपारतन्त्र्येण धर्मिविशेषणतापन्नस्य भानमिति नियमेन प्रकृते धर्मिणः समुदायस्य रूपाधिकरणतत्वेऽभासमानतया तद्विशेषणतापन्न समुदायत्वस्यापि भानासम्भवात् । स्पष्टं चेदं व्युत्पत्तिवादे सन्नर्थविचारावसरे । स्वरूपतो भासमानाआलोकप्रकाशः व्यापकत्वान्वयिनिरूपकत्वं षष्ठ्यर्थः । तात्यादौ घटसमुदायत्वसमानाधिकरणभेद प्रतियोगितावच्छेदकता वच्छेदकत्वप्रसिद्धेरिति व्युत्पत्तिवाद इति । तत्रेत्थमभ्यधायि – “इच्छारूपविशेष्यपारतन्त्र्येण कर्मत्वावयोsपीच्छायां कर्मत्वानन्वयेन दुर्घटः विशेष्यान्वयिन्येव विशेषणस्य पारतन्त्र्येणान्वयस्य विशिष्टान्वयस्थले व्युत्पत्तिसिद्धत्वात्” इति । अत्र धर्मिणि रूपाधिकरणतात्वविशिष्टस्य भाने धर्मपारतन्त्र्येण रूपाधिकरण तात्वमपि तत्र भासत इति धर्मिसम्बन्धितया भासमानत्वं रूपाधिकरणतत्वेऽप्यक्षतमेवेति तत्र धर्मिपारतन्त्र्येणान्वयो निराबाध एवेति यद्युच्यते, तदाप्याहस्वरूपतो भासमानेति । यद्वा धर्मिणो यत्र भानम्, तत्रैव धर्मिविशेषणतापन्नस्य पारतन्त्र्येण समानाधिकरणतयेति । तद्रूपाधिकरण भावः । For Private And Personal Use Only ३५ Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च रत्नमालिका नूतनालोकः धिकरणतत्वान्तर्भावेण समुदायत्वभानासम्भवाश्च । न च स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकत्व सम्बन्धावच्छिन्न स्वनिष्ठावच्छेदकता कप्रतियोगिताकभेदवद्रूपाधिकरणतात्ववत्त्वसम्बन्धेन घटसमुदायत्वादे रूपाधिकरणतायां भानोपगमान्नानुपपत्तिरिति वाच्यम्; तद्रूपत्वावच्छिन्न निरूपितत्वविशिष्टाधिकरणतात्वे स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकत्वसम्बन्धेन घटसमुदायत्वसत्त्वे तदनतिरिक्तरूपनिरूपितत्वविशिष्टाधिकरणतात्वे तत्सम्बन्धेन घटसमुदायत्ववद्भेदस्य दुर्घटत्वात् । रूपत्वावच्छिन्ननिरूपकताकत्वाधिकरणतात्योभयस्मिन् अधिकरणतत्वविशिष्टरूपत्वावच्छिन्ननिरूपितत्वे वा उक्तभेदवत्त्वविवक्षयापि न निस्तारः, रूपत्वावच्छिन्ननिरूपकताकत्वस्य तद्रूपत्वावच्छिन्ननिरूपकता कत्वानतिरेकात् । न च व्यतिरेकितावच्छेदकधर्मावच्छिन्नस्य यत्र प्रकारता, तत्रैव तद्वदन्यावृत्तित्वरूपव्याप्तेर्भानमुपेयते, अन्यत्र तु स्वव्यापकतत्कत्वरूपव्याप्तेरेव । स्पष्टचेदं व्युत्पआलोकप्रकाशः भानमित्यस्य साक्षात् परम्परया वा धर्मिनिष्ठविषयतानिरूपितविषयताश्रय एव पारतन्त्र्येण विशेषणस्य भानमित्येवार्थो वक्तव्यः । अन्यथा विद्वान् पूज्यते, विद्वांसं पूजयतीत्यादौ कर्मत्वद्वारा धन्वयि पूजारूपक्रियायां प्रयोज्यतासम्बन्धेन विद्वत्त्वस्य पारतन्त्र्येण भानस्यानुभवसिद्धस्यापापापत्तेः । तथा च प्रकृते धर्मिण्यधिकरणतात्वस्य साक्षादमानेऽपि न तत्र समुदायत्वस्य भानानुपपत्तिरित्यतो दूषणान्तरमाह - स्वरूपतो भासमानेति । वस्त्वन्तरस्य प्रकारतया भानोपगमे निर्विशेषणकभानात्मक स्वरूपतो भानस्य व्याघातप्रसङ्ग इति भावः । स्पष्टं चेदं स्वरूपता वह्नित्वादिविधेयतावच्छेदककावुपमित्यौपयिकव्याप्तिशरीरेऽप्यनवच्छेदकत्वधर्मितावच्छेदकतया वह्नित्वादेः प्रवेशावश्यकता प्रदर्शनावसरे सिद्धान्तलक्षणगादाधर्याम् । तदनतिरिकेति । विशेषणभेदेऽपि विशेषैक्यादिति भावः । अनतिरेकादिति । एतत्पक्षेऽधिकरणतावत्सामान्यधर्मघटितविशेषरूपावच्छिन्ननिरूपकत्वातिरिक्तसामान्यधर्मावच्छिन्न निरूपकताया अप्यनभ्युपगमान्न पर्याप्तिविवक्षासम्भव इति भावः । यदि च रूपत्वाद्यवच्छिन्ननिरूपिताधिकरणतात्वस्य तद्रूपत्वाद्यवच्छिन्ननिरूपिताधिकरणतात्वादनतिरिक्तत्वेऽपि प्रतियोगितावच्छेदकतावच्छेदकतान वच्छेद करूपेण निरुक्तभेदवत्त्वमक्षतमेवेत्युच्यते, तदा तद्रूपत्वावच्छिन्ननिरूपिताधिकरणता त्वेऽपि यत्किञ्चिद्रूपेण निरुक्तभेदवत्त्वस्याक्षततयाऽतिप्रसङ्गतादवस्थ्यमिति बोध्यम् । अन्यत्रेति । वस्तुतस्तु केवलान्वयिधर्मस्य यत्र प्रकारत्वम्, तत्र स्वव्याप्योद्देश्यतावच्छेदकत्वसम्बन्धेन धर्मिणि विशेषणभानानुप तत्र For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-प्रकाशटिप्पण्यो पबृंहिता नूतनालोकः त्तिवादे । तथा च घटसमुदायः प्रमेयवानिति प्रतीतेर्नानिर्वाहः, स्वव्यापकतत्कत्वरूपव्याप्तेः प्रसिद्धत्वादिति वाच्यम्; एवमपि घटपटौ जातिमन्ताविति प्रतीतेर निर्वाहात् । तत्र विशेष्यतावच्छेद की भूत द्वित्वसंख्यायां जातिमदन्यनिरूपितोद्देश्यतावच्छेद की भूतद्वित्वसंख्यायां जातिमदन्यनिरूपितोद्देश्यतावच्छेदकता घटकसमवायसम्बन्धावच्छिन्नवृत्तित्वाभावरूपं व्याप्यत्वमुक्तरीत्या संसर्गघटकतया प्रत्येतव्यम् । अन्यथा सम्बन्धसामान्येन वृत्तित्वविवक्षणे घटसमुदायो रूपवानिति प्रतीतेरनुपपत्तेः । तत्र रूपाधि - करणतावदन्यस्मिन् घटसमुदायत्वस्य कालिकसम्बन्धेन वृत्तेः । यत्किञ्चित्सम्बन्धेन तद्विवक्षणे घटपट कम्बुग्रीवादिमन्ताविति प्रतीतेरापत्तेः । तत्रोद्देश्यतावच्छेद की भूतघटपटतद्वित्वस्य कम्बुग्रीवादिमत्त्वशून्ये स्वरूपादिसम्बन्वेनावृतेः । तचाप्रसिद्धम् । जातिमदन्यस्मिन् समवायेन वृत्तित्वरूपप्रतियोग्य प्रसिद्धेरिति । न च घटसमुदायो रूपवानिति प्रतीतौ स्वव्याप्यतादृशसमुदायत्ववत्त्वमपि रूपाधिकरणत्वस्य धर्मिणि सम्बन्धः । व्यासज्यवृत्तिधर्मावच्छिन्नविशेष्यकविशिष्टबुद्धौ स्वव्याप्यतादृशधर्मवत्स्यापि विशेषण सम्बन्धतानियमात् । तथा च घटसमुदायस्तद्रूपवानिति प्रतीतेपत्तिः । घटसमुदायत्वे तद्रूपाधिकरणत्वव्याप्यत्वस्य बाधात् । व्याप्यत्वं चेह न स्वव्याआलोकप्रकाशः गमेऽपि न क्षतिः । परन्तु ग्रन्थकारैस्तथाभिधानादित्थमभिहितम् । एतदेव सूचयितुमुक्तम्स्पष्टचेदमित्यादि । व्युत्पत्तिवाद इति । आख्यातोपस्थापितद्वित्वाद्यन्वयविचारावसर इति शेषः । घटपटाविति । घटौ जातिमन्तावित्यादिप्रतीतौ पर्याप्तेरेव विशेष्यतावच्छेदकताघटकसम्बन्धत्वेन जातिशून्यनिरूपिततादृशसम्बन्धावच्छिन्नवृत्तित्वस्याप्रसिद्धयभावान्न तादृशप्रतीतेर निर्वाह इत्यभिप्रेत्य घटपटौ जातिमन्ताविति प्रतीतिपर्यन्तानुधावनम् । तत्र चोद्देश्यतावच्छेदकस्य विभक्त्यर्थसंख्यातो न्यून संख्याकत्वविरहेण समवायस्यैव तथात्वमित्याशयः । यदि च व्युत्पत्तिवादोक्तरीत्या घटौ जातिमन्तावित्यादौ घटत्वव्याप्यत्वविशिष्टपर्याप्तेरेव तथात्वमित्युच्यते, तदा घटौ रूपवन्ताविति प्रतीतेरप्यनिर्वाहो बोध्यः । वस्तुतो विशेष्यतावच्छेदकव्याप्यत्वातिरिक्तविशेष्यतावच्छेदकताघटकसम्बन्धतावच्छेदकावच्छिन्नसम्बन्धेन वृत्तित्वाभावविवक्षणे घटपटौ जातिमन्ताविति प्रतीतेरेवानिर्वाहः, न तु घटौ रूपवन्तौ घटौ जातिमन्तावित्यादिप्रतीतेः । तत्र तादृशेन पर्याप्तिसम्बन्धेन रूपवदन्यस्मिन् जातिमदन्यस्मिंश्च वृत्तेर प्रसिद्धयभावात् । अपीति । स्त्ररूपेण रूपाधिकरणत्ववान्न वेति संशयस्य रूपवानिति प्रतीत्युत्तरमसम्भवात् स्वरूपस्यापि संसर्गत्वमावश्यक For Private And Personal Use Only ३७ Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३८ www.kobatirth.org 'न च' रत्नमालिका नूतनालोकः पकतत्कत्वरूपम्, येनोक्तदोषाणामवकाशः । किन्तु रूपाधिकरणतात्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदवदवृत्तित्वपर्यवसितं तद्वदन्यावृत्तित्वमेव । तथा च नातिरिक्ताधिकरणतासिद्धिरिति वाच्यम्, एवं सति घटसमुदायः प्रमेयवानिति प्रतीतेरनिर्वाहप्रसङ्गात् । तत्र प्रमेयाधिकरणत्वस्य केवलान्वयितया तद्वदन्यावृत्तित्व रूपव्याप्यत्वाप्रसिद्धेः । न च स्वाभाववन्निरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकाभाववत्त्वरूपमेव व्याप्यत्वं भासत इत्युपेयते । तथा च घटपटौ जातिमन्ताविति प्रतीतेर्नानिर्वाहः । जातिमत्त्वस्य समवायसम्बन्धावच्छिन्नस्वाभाववद्वृत्तित्वं व्यधिकरणसम्बन्ध इति तत्सम्बन्धावच्छिन्न प्रतियोगिता कस्वाभाववत्त्वरूपव्याप्यत्वस्य प्रसिद्धेः । एवं घटसमुदायः प्रमेयवानित्यत्र स्वाभाववन्निरूपितपर्याप्तिसम्बन्धावच्छिन्नवृत्तित्वसम्बन्धावच्छिन्न स्वनिष्ठप्रतियोगिताकाभाववत्त्वस्यैव भानोपगमान्नाप्रसिद्धिः । स्वाभाववद् वृत्तित्वस्य प्रमेयव्यधिकरणसम्बन्धत्वात् । एवञ्च व्यतिरेक्यव्यतिरेकिभेदेन न व्याप्तिभेदोपगमः । उक्तरीत्या सर्वत्र तद्वदन्यावृत्तित्वरूपव्याप्तिभानोपगमसम्भवादिति वाच्यम्; एवमपि घटनिष्ठरूपाधिकरणतानां रूपभेदेन भिन्नतया काञ्चिदप्यधिकरणताव्यक्ति प्रति घटसमुदायत्वस्य व्याप्यत्वाभावेन घटसमुदायो रूपवानिति प्रतीतेरनिर्वाहादतिरिक्ताधिकरणतासिद्धेर्व श्रलेपायमानत्वात् । न च तदङ्गीकारे तत्तद्विशेषधर्मावच्छिन्ननिरूपिताधिकरणतानामवश्यकल्पनीयानामेव सत्ताद्यधिकरणता कामादायोपपत्तिं स्पर्येति । न च आलोकप्रकाशः Acharya Shri Kailassagarsuri Gyanmandir मित्यपिशब्देन बोध्यते । यद्ययस्य तदभावव्याध्यवत्ताज्ञानमुद्रया स्वरूपसम्बन्धेन रूपाधिकरणत्वसंशयप्रतिबन्धकत्वं सम्भवति, तथापि व्याप्यत्वांशेऽप्रामाण्यदशायामपि तादृशसंशयानुदयात् स्वरूपस्यापि संसर्गस्वमावश्यकम् । एवं सामान्यसमुदायो जातिम"निति प्रतीत्यापत्तिः । वक्ष्यमाणरीत्या तद्वदन्यावृत्तित्वस्य व्यधिकरणसम्वन्धतया तेन सम्बन्धेन जात्यधिकरणत्वाभावस्य सामान्यसमुदायत्वे सत्त्वात्तद्वारणाय स्वरूपस्यापि विधेयसंसर्ग त्वमवइयमभ्युपेयमिति । पर्यवसितमिति । एतेन रूपाधिकरणतानिष्ठ तत्तद्वयक्तित्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदवद् वृत्तित्वेऽपि घटसमुदायत्वस्य न क्षतिः । प्रमेयाधिकरणत्वस्य प्रमेयाधिकरणतत्वावच्छिन्नस्य मनसिकृत्याह - घटसमुदायो व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताया For Private And Personal Use Only घटपटौ जातिमन्तावित्यत्र रूपत्रानितीति । तत्ताअतिरिक्तत्वे मासमधीत Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता नूतनालोकः सामान्यधर्मावच्छिन्ननिरूपितत्वं स्वीक्रियते, न त्वतिरिक्ता काचिदधिकरणताङ्गीकार्या प्रयोजनाभावादिति व्याप्तिवादपूर्वपक्षप्रकरणेऽभिधानात्तद्विरोध इति वाच्यम्; अव्यासज्यवृत्तिधर्मावच्छिन्नसामान्यधर्मावच्छिन्ननिरूपिताधिकरणताया अनतिरिक्तत्व एव तत्तात्पर्येण विरोधाभावात् । यत्तु घटसमुदायो रूपवानित्यादिप्रतीतौ स्वनिष्ठरूपाधिकरणतात्वादिरूपप्रकारतावच्छेदकावच्छिन्ननिरूपितव्याप्यत्वस्य प्रकारविधया संसर्गविधया वा तादृशसमुदायत्वे भानुमुपेयते। तथा च न काप्यनुपपत्तिरित्यतिरिक्तानन्ताधिकरणताकल्पनमनावश्यकमेवेति तदसत्, घटसमुदायो नीलरूपवानित्यादिप्रतीतेरनिर्वाहप्रसङ्गात् । रूपत्वाघटितनीलत्वाधिकरणतात्वापेक्षया नीलरूपाधिकरणतात्वस्य गुरुतयाऽभावप्रतियोगितानवच्छेदकत्वेन तदवच्छिन्नाभावघटितव्याप्तयप्रसिद्धेः । स्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकप्रकारतावच्छेदकव.त्वरूपव्याप्तेः प्रसिद्धतया तद्भानोपगमे घटसमुदायस्तद्रूपवानिति प्रतीत्यापत्तिः। तत्र प्रकारतावच्छेदकस्य गुरुतयाऽभावप्रतियोगितानवच्छेदकत्वात् , यदि च स्वविशिष्टसम्बन्धिनिष्ठाभावीया या या प्रतियोगिता तत्तदवच्छेदकत्वाभावकूटवदवच्छिन्नत्वरूपं पारिभाषिकावच्छिन्नत्वं विवक्ष्यते, तदा अननुगमप्रसङ्गः । एतेन प्रकारतावच्छेदके स्वविशिष्टसम्बन्धिनिष्ठाभावीया या या प्रतियोगिता तत्तदवच्छेदकत्वा आलोकप्रकाशः इत्यादौ अतिरिक्ताध्ययनाधारतायां त्रिंशदिनपर्याप्तसमुदायत्वरूपमासत्वावच्छिन्नत्वभानाङ्गीकारेणैवोपपत्तौ द्वितीयाया व्यापकत्वार्थकत्वोपगमो निरर्थक इति वाच्यम् ; आनुशासनिकात्यन्तसंयोगार्थकत्वनिर्वाहायैव तथोपगमात् । न काप्यनुपपत्तिरिति । केवलान्वयिप्रकारकस्थले व्याप्यत्वभानस्य निष्प्रयोजनतया व्यतिरेकिप्रकारकस्थल एव तद्भानाङ्गीकारेण घटसमुदायः प्रमेयवानित्यत्र नानुपपत्तिरित्यभिमानः । शाब्दप्रतीतौ प्रकारविधया तद्भानं न संभवतीत्यत आह-संसर्गविधया वेति । संसर्गोपस्थितेः प्रत्यक्षादाविव शाब्दबोधे तत्पूर्वमनपेक्षितत्वादिति भावः । ननु घटमानयेत्यादौ इदं वाक्यं कर्मत्वविशेष्यकाधेयत्वसंसर्गकघटप्रकारकबोधपरमित्याकारकस्यैव संसर्गतात्पर्यज्ञानस्य हेतुता वाच्या। तत्र चाधेयत्वं प्रकार एव, न तु संसर्ग इति । कथं संसर्गोपस्थितेः शाब्दबोधेऽनपेक्षितत्वम् । न च तत्राप्याधेयत्वं संसर्गतयैव विषयः । तथा चैतद्वाक्यं घटवत्कर्मत्वप्रतीतिपरमित्याकारकज्ञानमेव हेतुरिति वाच्यम् , घटवत्कर्मत्वरूपवाक्यार्थस्यापूर्वतया शब्दबोधात् पूर्व तज्ज्ञानस्याप्यसम्भवात् । कथञ्चित् सम्भवे शब्दमात्रस्यानुवादकता For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रस्नमालिका अन्ये तु महानसीयवह्निमानित्यादिप्रतीतौ भासमानाधिकरणता न तद्वह्नित्वावच्छिन्ननिरूपकताका भवितुमर्हति । तथा सति तस्या महानसीयवनयभावादिविरोधित्वानुपपत्तेः, विरोधितावच्छेदकरूपस्यावच्छेदकतापर्याप्ति नूतनालोकः भावकूटवदवच्छिन्नतादृशसमुदायत्वसमानाधिकरणाभावप्रतियोगिताकं यद्यत्स्वं तत्तदन्यत्वरूपपारिभाषिकव्यापकतावच्छेदकत्वभानाङ्गीकारोऽपि निरस्तः। तद्रूपावच्छिन्ननिरूपिताधिकरणतात्वे तादृशप्रतियोगिताकत्वसत्त्वेन तदनतिरिक्तरूपाधिकरणतात्वे तदन्यत्वासम्भवाञ्च । वस्तुतस्तु अतिरिक्तसामान्यधर्मावच्छिन्नाधारावेयभावाभ्युपगमे घटसमुदायो रूपवानित्यादिप्रतीतेरुद्देश्यतावच्छेदकावच्छिन्नतादृशाधारत्वावगाहित्वेनैवोपपत्तौ धर्मितावच्छेदके व्याप्यत्वभानोपगमो निरर्थक एवेति । ____ कार्यतावच्छेदकभेदेन कारणताया इव निरूपकतावच्छेदकभेदेनाधिकरणताया अपि भेद आवश्यक इत्यव्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताप्यतिरिक्तव । तासां निरूपकतावच्छेदकभेदेऽप्यभेदप्रतिपादनपरग्रन्थाश्च मतविशेषाभिप्रायका इति वदतां मतमाह-अन्ये विति । महानसीयवह्निमानितीति । एकमात्रवृत्तिधर्मस्य पर्याप्त्यनभ्युपगमपक्षमवलम्ब्य वह्निमानित्युक्तिः । अवच्छेदकतापर्याप्तिघटितत्वादिति । अभावप्रतियोगिताव ... आलोकप्रकाशः..... पत्तिरिति संसर्गप्रकारकतात्पर्यज्ञानस्यैव हेतुत्वावश्यकत्वादिति चेन्न; इदं वाक्यं घटवत्प्रतीतिपरमित्याकारकस्यैव तात्पर्यज्ञानस्य हेतुत्वस्वीकारात् , प्रतीत्यंशे संसर्गविधया भासमानघटसम्बन्धश्च स्वनिष्ठाधेयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितकर्मत्वनिष्ठविशेष्यताकत्वमेवेति । आधेयत्वादेरप्रकारतया न तज्ज्ञानापेक्षा, न वा शब्दमात्रस्यानुवादकतकापत्तिरित्याशयात् । स्पष्टं चेदं नयादगादाधर्याम् । अननुगमप्रसङ्ग इति। तथा चावच्छिन्नत्वस्य विशिष्टैकार्थरूपत्वानुपपत्तिरिति भावः। न च स्वविशिष्टसम्बन्धिनिष्ठाभावप्रतियोगितावच्छेदकत्वसामान्याभाव एव विवक्षणीयः। तथा च नाननुगम इति वाच्यम् ; तथा सति गुरोः स्वपदेनाग्रहणप्रसङ्गात् । यद्यत्स्वमिति । न च तादृशाभावकूटवदनवच्छिन्नतादृशसमुदायत्वसमानाधिकरणाभावप्रतियोगिताकत्वमेव व्यापकतावच्छेदकमस्तु, वीप्सा किमर्थेति वाच्यम् , एवं सति तद्रूपाधिकरणतात्वेऽपि तादृशसमुदायत्वव्यापकतावच्छेदकत्वापत्तेः । यत्किञ्चित्पटत्वाधिकरणत्वाभावप्रतियोगितायां तादृशकूटवदनवच्छिन्नत्वसत्त्वात् । अधिकमन्यत्रानुसन्धेयमिति । .. . . . ...... . For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः च्छेदकत्वाधिकरणतानिरूपकतावच्छेकत्वयोर्यदेकधर्मावच्छिन्नपर्याप्तत्वम् , तद्घटितत्वादित्यर्थः। तथा च तत्प्रतियोगितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तावच्छेदकताकनिरूपकताकाधिकरणताया एव तद्विरोधित्वेन तदन्यथानुपपत्त्या केवलमहानसीयवह्नित्वे प्रतियोगितावच्छेदकताया इव अधिकरणतानिरूपकतावच्छेदकताया अपि व्यासज्यवृत्तित्वं स्वीकरणीयमित्यधिकरणताभेदसिद्धिरिति भावः। अधिकरणतानिरूपकतावच्छेदकताया व्यासज्यवृत्तित्वस्य कुत्राप्यनुक्तत्वादप्रामाणिकतेति न शङ्कथम्, “साधनसमानाधिकरणयावद्धर्मनिरूपितवैयधिकरण्यानधिकरणसाध्यसमानाधिकरण्यम्" इति मणिदीधितिव्याख्यानावसरे कण्ठतस्तदभिधानात् । अत्रायमाशयः-निरूपकतावच्छेदकताया व्यासज्यवृत्तित्वानुपगमे गुणादौ गुणाद्यन्यत्वविशिष्टसत्तात्वावच्छिन्नाभावानिर्वाहप्रसङ्गः। तत्र आलोकप्रकाशः अप्रामाणिकतेति। तथा च विरोधितावच्छेदकरूपस्य पर्याप्तिघटितत्वासम्भवेन नोक्तरीत्या अधिकरणताभेदसिद्धिरिति भावः। मणीति । मणिरयं व्याप्तिपूर्वपक्षग्रन्थस्थः । साधनसमानाधिकरणा यावन्तो धर्माः प्रत्येकं तेषां वैयधिकरण्यस्यानधिकरणं यत् साध्यम् , तत्सामानाधिकरण्यं व्याप्तिरिति तदर्थः । अत्र साधनवैयधिकरण्यानधिकरणेत्युक्तौ धूमवान् वढेरित्यादावतिव्याप्तिः । यद्यपि यत्किञ्चित्साधनवैयधिकरण्यानधिकरणयावत्साध्यसामानाधिकरण्यविवक्षायां नेयमव्याप्तिः, तथापि द्रव्यं सत्त्वादित्यादौ तदपरिहारात् साधनसमानाधिकरणधर्मेति । घूमवान् वढेरित्यादौ धूमादेवयादिसमानाधिकरणद्रव्यत्वादिवैयधिकरण्यानधिकरणत्वादतिव्याप्तिरतो यावदिति । वैयधिकरण्यञ्चात्र तदनधिकरणवृत्तित्वरूपम् , न तु तदधिकरणावृत्तित्वरूपम् , “साधनसमानाधिकरणस्य वैयधिकरण्याप्रसिद्धः' इत्युत्तरमणिग्रन्थानुसारात् । वैयधिकरण्यस्य प्रत्येकं तत्तदधिकरणवृत्तित्वाभावरूपत्वे तस्यावृत्तौ प्रसिद्धिसम्भवाद्वैयधिकरण्यस्याप्रसिद्धत्वोक्तेरसाङ्गत्यं स्यादिति भावः । तदभिधानादिति। तत्थमभिहितम्-"वस्तुतस्तु यादृशावच्छेदकताकनिरूपकताकाधिकरणतासामान्यं तादृशधर्मानधिकरणमात्रवृत्तितादृशावच्छेदकतारूपमेव वैयधिकरण्यावच्छेदकत्वं निवेशनीयम् । महानसीयवह्नित्वावच्छिन्नाधिकरणतानिरूपकतावच्छेदकत्वञ्च महानसीयत्वादौ व्यासज्यवृत्तीति न दोषः" इति । अधिकरणतानिरूपकतावच्छेदकताया व्यासज्यवृत्तित्वं युक्त्या विशदयति-अत्रायमित्यादिना। एवं सतीति । पर्याप्ति For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका नूतनालोकः प्रतियोगितावच्छेद कसत्तात्वावच्छिन्ननिरूपकताकाधिकरणत्वस्य विरोधिनः सत्त्वात् , म च प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्ननिरूपकताकाधिकरणत्वस्यैव विरोधित्वोपगमानायं दोष इति वाच्यम् , प्रत्येकापर्याप्तस्य समुदायापर्याप्तत्वनियमेन सत्तात्वेऽपि तत्पर्याप्तिरक्षतैवेति प्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताप्रवेशस्यावश्यकत्वात्। न चैवं सति अत्र घटपटौ न स्त इति प्रतीतिविषयाभावस्य घटत्वेन घटपटोभयाभाववत् केवलान्वयित्वप्रसङ्गः । यतस्तादृशाभावप्रतियोगितावच्छेदकतापर्याप्तिर्न घटत्वमात्रे पटत्वमात्रे वा सम्भवति । तथा सति पटशून्ये घटवति घटशून्ये पटवति वा भूतले ताशाभावानिर्वाहप्रसङ्गात् । न वा घटपटवृत्तित्वविशिष्टद्वित्वे, तथा सति यदा तादृशवैशिष्टयानुपस्थितिस्तदा घटपटौ न स्त इति प्रतीतिर्न स्यात्। तादृशवैशिष्टयस्य प्रतियोगितावच्छेदकघटकत्वेन तज्ज्ञानस्य तादृशप्रतीतावपेक्षणात्; अपि तु द्वित्वे तद्धर्मितावच्छेदकतापन्ने घटत्वे पटत्वे च । एवं च तादृशाभावप्रतियोगितावच्छेदकतापर्याप्यधिकरणघटत्वपटत्वद्वित्वैतत्त्रितयाधिकरणाप्रसिद्धथा तदवच्छिन्ननिरूपकताकाधिकरणत्वमप्यप्रसिद्धमिति । यदि च घटपटावत्र स्त इति प्रतीतिबलात् त्रितयाधिकरणाप्रसिद्धावप्यधिकरणतानिरूपकतावच्छेदकताप्येतत्रितयधर्मपर्याप्तेत्युच्यते, तदा घटत्वेन घटपदी न स्त इति प्रतीतिविषयाभावप्रतियोगितावच्छेदकताया अप्युक्तयुक्त्या तादृश आलोकप्रकाशः प्रवेशे सतीत्यर्थः । अप्रसिद्धमितीति। तथा च तादृशाभावविरोधिनोऽप्रसिद्धिरिति भावः । यदि चेत्यादि । वक्ष्यमाणरीत्या केवलद्वित्वेऽवच्छेदकतास्वीकारेणैवोपपत्तौ धर्मत्रये तस्वीकारो व्यर्थ इत्यस्वरसाद्यदि चेत्युक्तम् । यदि चेत्यस्य ईषदनिष्टत्वमर्थः, “यदि चेषदनिष्टत्वे" इत्युक्तत्वात् , तच्च बलवद्वेषविषयत्वम् , तस्य पर्यातत्वेऽन्वयः । तथा च यद्ययं पर्याप्त्यङ्गीकारः सर्वसामञ्जस्यमापादयेत् , तदा बलवद्वेषविषयः स्यात् , तदेव नेति पर्यवसितोऽर्थः । तदेत्यत्र तच्छन्देन प्रक्रान्तस्य पर्याप्तत्वस्य परामर्शः। तस्य जन्यज्ञानरूपदाप्रत्यर्थैकदेशजन्यतायामन्वयः । जन्यत्वञ्च शानद्वारा, "तदा तजन्यवेदनम्" इत्युक्तत्वात् । प्रत्ययार्थस्य विषयता सम्बन्धेनानिर्वा हेऽन्वयः। निरुक्तपर्याप्तत्वे गृहीते दोषप्रतिपिपादयिषा ततस्तनिर्वाहकदोषज्ञानाय विचारः, ततो दोषज्ञानमिति क्रमेण दोषज्ञापकतापर्याप्तत्वस्येति बोध्यम् । For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः धर्मत्रयपर्याप्तत्वावश्यकतया घटपटोभयाधिकरणे तादृशाभावनिर्वाहः । सर्वमिदं विशेषव्याप्त्यधिकरणे स्पष्टमभिहितमिति वाच्यम्; यतो घटपटौ न स्त इति प्रतीतिसिद्धाभावप्रतियोगितावच्छेदकता द्वित्वमात्र एव स्वीक्रियते, न तु घटत्वे घटपटोभयाभावप्रतियोगितावच्छेदकता पटत्वे च । सा च घटत्वसमानाधिकरणपटत्वसमानाधिकरणपर्याप्तिसम्बन्धावच्छिन्ना । तथा च तादृशसम्बन्धावच्छिन्नद्वित्वनिष्ठावच्छेदकता कनिरूपकताकाधिकरणत्वस्य विरोधिनो घटकुड्योभयवत्त्वसत्त्वेन न तत्र तादृशाभावनिर्वाहः । घटत्वेन तु घटत्वघटपटोभयत्वयोः पर्याप्ता । इत्थं च घटत्वेन घटपटोभयवदिति प्रमात्मकप्रतीत्यभावेन तादृशधर्मद्वयपर्याप्त स्वनिरूपकतावच्छेदकताकाधिकरणत्वस्य विरोधिनोऽसिद्धत्वान्न तादृशाभावस्य केवलान्वयित्वानुपपत्तिरिति । न च प्रतियोगितावच्छेदकं यद्यत्, तत्तदवच्छिन्न प्रतियोगिताका धिकरणता कूटस्यैव विरोधित्वमुपगम्यते । विरोधितावच्छेदकशरीरे पर्याप्तिप्रवेशो व्यर्थ इति वाच्यम्, तथा सति यद्यआलोकप्रकाशः । तथा च Acharya Shri Kailassagarsuri Gyanmandir " ताशाभावानिर्वाह इति । यद्यप्युभयाभावप्रतियोगिताया व्यासज्यंवृत्तित्वाभ्युपगमान्न कोऽपि दोषः । स्पष्टश्वायं " वाच्यत्वं यथा न समवायि तथा वक्ष्यते" इति दीधित्यवतरणिकायाम्, तथापि प्रतियोगितामात्रस्याव्यासज्यवृत्तित्वसिद्धान्तादित्थमभिहितम् । चतुर्दशलक्षणी कृष्णम्भट्टीयोक्तदिशा समाधत्ते -यत इति । न च तन्निरूपितप्रतियोगितावच्छेदकताव्यापकस्व निरूपकतावच्छेदकता काधिकरणत्वस्यैव विरोधित्वकल्पनान्न कोऽपि दोष इति वाच्यम् ; एवमपि समानाधिकरणसम्बन्धेन घटत्वविशिष्टं यद्द्रव्यत्वम् तद्विशिष्टसत्ताभावस्य पटादावनिर्वाहप्रसङ्गात् । तत्रावच्छेदककोटिप्रविष्टानामवच्छेदकत्वानुपगमे द्रव्यत्वसत्तात्वयोरेव प्रतियोगितावच्छेदकतापर्याप्तेर्विश्रान्ततया तदुभयावच्छिन्ननिरूपकताकाधिकरणत्वस्य तंत्र सत्त्वात् । तदुपगमे तु घटत्वावच्छिन्नप्रतियोगिताकाभावस्य घटसमानकालीन पटवत्यनिर्वाहप्रसङ्गात् तत्र घटत्वस्यापि कोटिप्रविष्टतया निरुक्ताधिकरण तानिरूपकतावच्छेदकत्वात् । सर्वस्यैवाभावस्य पूर्वक्षणवृत्तित्वविशिष्टस्वाभावत्वनिष्ठप्रतियोगितावच्छेदकतया विरोध्यप्रसिद्धेश्व । तव्प्रतियोगितावच्छेदकतासमभ्यासस्वनिरूपकतावच्छेदकताकाधिकरणत्वस्य विरोधित्वाभ्युपगमेऽतिरिक्ताधिकरणतासिद्धेरव्याहतत्वात् । न च स्वावच्छेदकताव्यापकावच्छेदकताकत्व - सामानाधिकरण्योभयसम्बन्धेन प्रतियोगिताविशिष्टनिरूपकताकाधिकरणत्वस्य विरोधित्वस्वीकारे न दोषः । स्वपदेन घटपटोभयनिष्ठप्रतियोगिता ग्रहणे " For Private And Personal Use Only ४३ Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नं च' रनमालिका घटितत्वात् । एवं च निरूपकतावच्छेदकभेदेनाधिकरणताया भेदावश्यकतया अतिरिक्ताधिकरणतासिद्धिरित्याहुः । नूतनालोकः पदार्थासिद्धया यत्किचिदेकधर्ममात्रावच्छिन्न प्रतियोगिता का भावस्य विरोधि - विरहेण केवलान्वयित्वापत्तेः । विशिष्यैव तत्र तत्र विरोधित्वनिरुक्तौ प्रयासाधिक्यम् । अत एव समानाधिकरणधर्मस्यापि व्यधिकरणधर्मावच्छिन्नाभावप्रतियोगितावच्छेदकत्व मुररीकृतम् । निरूपकतावच्छेदकताया व्यासज्यवृत्तित्वोपगमे तु प्रतियोगितावच्छे कता पर्याप्त्यनुयोगितावच्छेदकावच्छिन्नपर्याप्तिकस्वनिरूपकतावच्छेदकताकाधिकरणत्वमेव विरोधीत्यनुगतोक्तेर्निवाह इति दिक् । अतिरिक्ताधिकरणतासिद्धिरिति । तथा च वह्निमान् धूमादित्यादावेव द्रव्यत्वाद्यवच्छिन्ननिरूपितह्रदादिनिष्ठाधिकरणतामादाय हेतुतावच्छेदकावच्छिन्नत्वनिवेशव्यावृत्तिः आलोकप्रकाशः उक्तसम्बन्धे न तद्विशिष्टत्वस्य घटपटोभयाधिकरणतायां प्रसिद्धत्वात् । प्रतियोगिता वैशिष्टयकोटी सामानाधिकरण्यानुपादाने घटत्वेन पटो नास्तीत्यभावस्य घटवानिति प्रतीतिसिद्धाधिकरणतया साकं विरोधापत्तिरिति वाच्यम्; एवमपि संयोगेन घटत्वेन घटो नास्तीति प्रतीतिसिद्धाभावस्य घटवत्यनिर्वाहप्रसङ्गात् । न च तत्प्रतियोगिताविशिष्टनिरूपकताकाधिकरणत्वस्य तन्निरूपकाभावविरोधित्वोपगमान्निखिलदोषोद्धारः। वैशिष्टयश्च सामानाधिकरण्य-स्वनिरूपितावच्छेदकतानिष्ठ भेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठा वच्छेदकताकप्रतियोगिताकभेदवत्त्वैतदुभयसम्बन्धेन | वैशिष्टयञ्च सामानाधिकरण्य-स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयरूपम् । घटत्वेन पटाभावस्य पटवत्यनिर्वाहप्रसङ्गः, प्रतियोगितावच्छेदकताया निरूपकतावच्छेदकतायाश्चैकसम्बन्धावच्छिन्नत्वेन तद्घटितव्यापकस्वानपायात् । अतोऽवच्छेदकता वैशिष्ट्ये सामानाधिकरण्यनिवेश इति वाच्यम्; एवमपि घटपटोभयाधिकरणतानिरूपकतावच्छेदकताया घटत्वपटत्वोभयत्वैतत्त्रितयवृत्तित्वाभ्युपगमपक्षे घटत्वेन पटोभावस्य घटपटो भयवत्यनिर्वाहप्रसङ्गात् । व्यासज्यवृत्तित्वाभ्युपगमे तु घटत्वेन पटाभावीयप्रति - योगितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्ते रप्रसिद्धया दोषानवकाशादिति दिकू । अनुगतोक्तेनिर्वाह इति । अत्र घटवृत्तित्वविशिष्टद्रव्यत्वविशिष्टसत्ताभावस्य प्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकं घटवृत्तित्वविशिष्टद्रव्यत्वविशिष्टा सत्तेति ज्ञानविषयत्वमेवेति तदवच्छिन्नानुयोगिताकपर्याप्तिकस्वनिरूपकतावच्छेदकताकाधिकरणत्वस्य पटादावनङ्गीकारेण तत्र तादृशाभावनिर्वाहः । एव For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतना लोकटीका तत्प्रकाशटिप्पण्योपबृंहिता (१६) * न च यत्र घटपटवृत्तिसंयोगत्वादिना हेतुता, घटपटान्यतरत्वं साध्यम्, तत्र घटपटोभयवृत्तित्वविशिष्टसंयोगाधिकरणत्वाप्रसिद्धया ४५ हेतुतावच्छेदकोपलक्षितहेतुसामानाधिकरण्यगर्भव्याप्त्यन्तरमवश्यमङ्गीकरणीयम् । अन्यथा तत्साध्यकतद्धेतुकानुमितेरुच्छेदप्रसङ्गात् । सादृश्यहेतुकानुमित्युच्छेदापत्तेश्व । तद्भेदसामानाधिकरण्यसहिततद्वृत्तिधर्मत्वरूप सादृश्यत्वविशिष्टाधिकरणत्वाप्रसिध्या विशिष्टाधिकरणतागर्भव्याप्त्यसम्भवात् । स्पष्टं चेदं सिद्धान्तलक्षणे । एवं चातिरिक्तसामान्यधर्मावच्छिन्ननिरूपिताधिकरणत्वाङ्गीकारे तत्र ताशव्याप्तेर्घटपटवृत्तिसंयोगनिष्ठागुणत्वावच्छिन्नाधेयतानिरूपिताधिकरणतामादायानिर्वाहप्रसङ्ग इति वाच्यम्; हेतुतावच्छेदकोपलक्षितहेतुकानुमित्यौपयिकव्याप्तिशरीरप्रविष्टाधिकरणतायां हेतुतावच्छेदकानवच्छिन्ना नूतनालोकः सम्भवतीति भावः । यद्यभ्रान्तानां घटपटवृत्तिसंयोगहेतुकनिरुक्तान्यतरत्वसाध्यकस्थलेनैवानुमितिरित्युच्यते, तदाप्याह - सादृश्यहेतुकानुमितीति । गोसादृश्यहेतुकगवयपदवाच्यत्वविधेयकानुमितीत्यर्थः। उच्छेदापत्तेरिति । तथा चोपमितेः सादृश्यहेतुकानुमितित्वाशङ्काया एवानुत्थितिरिति भावः । तद्भेदेति तद्वृत्तीति च गवि घटादौ च आलोकप्रकाशः For Private And Personal Use Only मन्यत्रापि तत्तत्प्रतीतिविषयत्वमेव तत्तदभावप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकमिति तत्र तत्र तत्तदभावनिर्वाहः । न चैवं सति घटाद्यधिकरणताया घटाद्यभावविरोधित्वानुपपत्तिः, तत्प्रतियोगितावच्छेकताया घटत्वादिमात्रवृत्तितया व्यासज्यवृत्तित्वाभावात् । अव्यासज्यवृत्तिधर्मस्य प्रमाणाभावेन पर्याप्त्यस्वीकारात् । तथा चानुगतोक्तिर्न सम्भवत्येवेति वाच्यम्; अयमेको घट इत्यादिप्रतीत्या अव्यासज्यवृत्तिघटत्वादेरपि पर्याप्सिस्वीकारात् । अत एवावच्छेदकता निरुक्तौ “समानवृत्तिकं चावच्छेदकं ग्राह्यम् । तस्वञ्च स्वपर्याप्त्यधिकरणपर्याप्तवृत्तिकत्वम्" इति पर्याप्तिघटितं समानवृत्तिकत्वं निरुक्तम् । अपि च घटो नास्तीत्यादौ नत्रादिसमभिव्याहारलभ्यस्यान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्य प्रतियोग्यंशे प्रकारीभूतधर्मपर्याप्तावच्छेदकता कप्रतियोगिताकत्वरूपतया तादृशप्रतीत्यापि तत्सिद्धिः । अनेकेषु ज्ञानविषयत्वकल्पनापेक्षयाऽधिकरणत्वस्यैकस्यैव तत्कल्पनाया लघुत्वमित्यतिरिक्तत्वसिद्धिः । अन्यथा विशेषाभावकूटातिरिक्तः सामान्याभावो न सद्धयेत् । एतदेव सूचयितुमुक्तम् - दिगिति । भाशङ्काया एवानुस्थितिरिति । तथा चोपमानप्रामाण्य Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४६ 'नव' रत्नमालिका धेयत्वानिरूपितत्वस्य विवक्षया उक्ताधिकरणताव्यावृत्तेः । तस्या हेतुतावच्छेदका - नवच्छिन्नगुणत्वावच्छिन्नाधेयतानिरूपितत्वात् । ( १७ ) * न च हेतुतावच्छेदकानवच्छिन्ने त्यस्य हेतुतावच्छेदकताश्रयनिष्ठावच्छेदकताकान्यत्वम्, हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मनिष्ठावच्छेदकताकान्यत्वं वार्थो वक्तव्यः । स च न सम्भवति, प्रथमे संयोगत्वरूपसामान्यधर्मावच्छिन्ननिरूपिताधिकरणत्वाव्यावृत्तेः । द्वितीये च हेतुतावच्छेदकतापर्यानूतनालोकः Acharya Shri Kailassagarsuri Gyanmandir व्यभिचारवारणाय । भेदसामानाधिकरण्यं विशेषणम् । तेन साधारणधर्ममादाय गवि न व्यभिचारः । तद्वृत्तित्वं चोपलक्षणम् । तेन न स्वरूपासिद्धिः । न च द्रव्यत्वादिकमादाय घटादौ व्यभिचारः शङ्कयः; उपमानोपमेयमात्रवृत्तिधर्मनिष्ठवृत्तित्वविशेषस्यैवोपलक्षणतया तद्भटकत्वाभिप्रायात् । यत्तु भूयस्त्वं वा धर्मविशेषणम् । तच्च प्रकृते उपमानोपमेयतद्भिन्नसाधारणधर्मान्यत्वम् । घटत्वादेरुपमानाद्यवृत्तित्वेन निरुक्तभूयस्त्वात्तदादाय घटादौ व्यभिचारवारणाय तद्वृत्तित्वमावश्यकम्। न चैवमपि गोघटगत द्वित्वादिकमादाय घटत्वादौ व्यभिचारो दुर्वार एवेति वाच्यम्; जातित्वेनापि प्रकृते धर्मस्य विशेषणीयत्वात् । अनुगत संस्थानव्यङ्गथजातिविशेषस्योपमानोपमेयमात्रवृत्तेस्तथात्वात् पक्षधर्मत्वनिर्वाह इति तन्न; एवमुपमानोपमेय मात्र साधारणानन्तजातिकल्पने प्रमाणाभावात् । मुखपद्मयोः सादृश्यरूपजातेः करपद्मयोस्तादृशजातेच परस्परं भिन्नयोः साङ्कर्येण जातित्वासम्भवाश्च । पूर्वोक्त तावुभयमप्युपलक्षणम् । आलोकप्रकाशः व्यवस्थापनाय सादृश्यहेतुकानुमाननिराकरणं मणिकृतां व्यर्थमेव स्यादिति भावः । न स्वरूपासिद्धिरिति । इदञ्च हेतुशरीरे तद्भेदसामानाधिकरण्यतद्वृत्तित्वयोरेकत्र द्वयमिति रीत्या विशेषणत्वाभिप्रायेण । एकविशिष्टेऽपरस्य विशेषणत्वे तु साधनाप्रसिद्धिरेव दोषो बोध्यः । उपमानोपमेयेति । वृत्तित्वविशेषस्यैवेति । सास्नादिनिष्ठवृत्तिताया इत्यर्थः । यदि गोगवयसास्नयोर्वस्तुतो भेदाद्गोवृत्तित्वपलक्षितसास्नावत्त्वं गवये पक्षे नास्तीति स्वरूपासिद्धिरिति विभाव्यते, तदा धर्मः सास्नात्वादिजातिरूपो ग्राह्यः । वृत्तित्वं धर्मवत्त्वश्च परम्परयेति विभावनीयम् । तद्धटकस्वाभिप्रायादिति । हेतुघटकत्वतात्पर्यादित्यर्थः । अनेन सामान्यतः सादृश्यशरीरे न वृत्तित्वविशेषनिवेशः, अपि तु वाच्यत्वसाधकतावेवेति सूचितम् । तथा च तद्वृत्तीत्यत्र तदिति वृत्तित्वविशेषपरिचायकमेवेत्याशयः । तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं तत्सादृश्यमिति मतानुसारिणां रीतिमाह-यविति । प्रकृत इति । तैन For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका तरप्रकाशटिप्पण्योपqहिता प्त्यधिकरणस्य घटपटवृत्तित्वसहितसंयोगत्वस्य गगनत्वादेरिवाधेयतानवच्छेदकतया तदनवच्छिन्नाधेयत्वानिरूपिताधिकरणत्वाप्रसिद्धरिति वाच्यम्; हेतुता. वच्छेदकतापर्याप्त्यधिकरणधर्मशून्यवृत्तित्वस्यैव तदर्थत्वेनादोषात् । (१८) * न च * हेतुतावच्छेदकतापर्याप्त्यधिकरणं यद् घटवृत्तित्व नूतनालोकः अत्र वेकमेवेति विशेषोऽपि द्रष्टव्यः । अव्यावृत्तेरिति । तथा च घटपटवृत्तिसंयोगहेतुकस्थलेऽव्याप्तिरिति भावः। अप्रसिद्धेरिति । हेतुतावच्छेदकविशिष्टाधिकरणाप्रसिद्धथा अधिकरणत्वमात्रस्यैव तदनवच्छिन्नाधेयतानिरूपितत्वादिति भावः। अदोषादिति । संयोगत्वादिसामान्यधर्मावच्छिन्ननिरूपिताधिकरणताया हेतुभिन्नसंयोगनिरूपितत्वेन तद्वयावृत्तिसम्भवादिति भावः । न च तर्हि यत्र प्रमे यत्वोपलक्षितस्य हेतुता, तत्र हेतुतावच्छेदकस्य केवलान्वयितया तच्छून्यत्वस्याप्रसिद्धया अव्याप्तिरिति वाच्यम् , खाभाववनिरूपितत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वसम्बन्धेन हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मविशिष्टत्वस्याधिकरणताविशेषणत्वतात्पर्यात् । न च - लाघवाढेतुताशून्यानिरूपितत्वमेव कुतो न विवक्षितमिति वाच्यम् , तथा सति हेतुतायाः परामर्शीयविषयताविशेषरूपतया भ्रममादाय हेतुभिन्नसंयोगसाधारण्यात् संयोगत्वावच्छिन्ननिरूपिताधिकरणत्वाव्यावृत्तः। विषयतायां प्रमीयत्वनिवेशे गौरवात् । केवलसमवायादिनेति । सम्बन्धसामान्येन हेतुतावच्छेदकतापर्याप्य __ आलोकप्रकाशः यथा गोत्वं नित्यं तथाश्वत्वमपीत्यादौ नित्यत्वस्यातथात्वेऽपि न क्षतिः। पूर्वोक्तहेताविति । घटपटवृत्तिसंयोगहेतावित्यर्थः । हेतुतावच्छेदकविशिष्टहेस्वधिकरणाप्रसिद्धथेति। तद्विशिष्टाधिकरणत्वस्य प्रसिद्धावेव तस्याधेयतावच्छेदकत्वमिति भावः । विशिष्टहेतुतास्थले उक्तविशेषणस्यैवानिवेशनीयतया क्षत्यभावादुक्तम्-प्रमेयत्वोपलक्षितस्येति । तस्य विशेषणविधयेवोपलक्षणविधयापि हेतुतावच्छेदकत्वे बाधकामावादिति भावः । विषयताविशेषरूपतयेति । अनुमितिजनकतावच्छेदकीभूतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकारतारूपाया इत्यर्थः । भ्रममादायेति । हेतुतावच्छेदकरूपेणोदासीनसंयोगविषयकभ्रममादायेत्यर्थः। अधिकरणत्वाज्यावृत्तेरिति । संयोगसामान्यस्यैव निरुक्तहेतुतावत्वेन तच्छून्यत्वासम्भवादिति भावः । न च हेतुताया एवं रीत्या सार्वत्रिकत्वेन तच्छून्याप्रसिद्धिरिति वाच्यम् ; सर्वत्र तादृशभ्रमसत्त्वे प्रमाणासावादित्याशयात् । सम्बन्धसामान्येन हेतु For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नच' रत्नमालिका पटवृत्तित्व संयोगत्वैतत्रितयम् , केवलसमवायादिना तदभावस्य केवलान्वयितया अधिकरणतामात्रस्यैव तदभाववनिरूपितत्वात्तथाविधाधिकरणत्वाप्रसिद्धयाऽव्याप्तिस्तदवस्थैवेति वाच्यम् * हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मशून्येत्यनेन हेतुतावच्छेदकतात्वव्यापकप्रतियोगिताकभेदस्यैव विवक्षणेनादोषात् । व्यापकता नूतनालोकः धिकरणधर्मशून्यत्वविवक्षणे संयोगत्वरूपसामान्यधर्मावच्छिन्नाधेयत्वाव्यावृत्तिः, कालिकेन संयोगसामान्यस्यैव तादृशधर्मवत्त्वात् । अतो यत्किञ्चित्सम्बन्धेनैव तादृशधर्मशून्यत्वं विवक्षणीयमित्याशयः। कालिकादिना स्वाश्रयप्रतियोगिकसमवायादिनातादृशधर्मवत्त्वस्य प्रसिद्धरुक्तम्- केवलेति । समवायत्वाद्यतिरिक्तसंसर्गत्वावच्छेदकवत्त्वधर्माविशेषितेत्यर्थः । समवायादीत्यादिपदेन स्वरूपपरिग्रहः । हेतुतावच्छेदकतात्वव्याप आलोकप्रकाशः तावच्छेदकतापर्याप्त्यधिकरणधर्मशून्यत्वविवक्षण इति। तादृशधर्मसम्बन्धित्वावच्छिन्नाभावविवक्षण इत्यर्थः । तेन सम्बन्धत्वेन सम्बन्धताविरहेऽपि न क्षतिः । स्वरूपपरिग्रह इति । समवायनिष्ठादितानिरूपकत्वेन स्वरूपस्योपस्थितिरित्यर्थः । आदिपदस्य प्रकृते समवायनिष्ठादितानिरूपकलक्षकत्वात् । ननु किमिदमादित्वम् । न तावत् प्रथमोत्पन्नत्वमसम्भवात् । नापि प्रथमवेद्यत्वम् , तस्य दुर्वचत्वात् । न च स्वरूपसम्बन्धज्ञानध्वंसासमानकालीनज्ञानविषयत्वं तदिति वाच्यम् ; यत्र समवायस्वरूपयोयुगपदेकं ज्ञानम् , तत्र समवायादीत्यादिपदेनेत्यादिप्रयोगानुपपत्तेः । न च स्वरूपज्ञानध्वंसासमानकालीनज्ञानविषयत्वं तदिति वाच्यम् ; यत्र स्वरूपज्ञानं प्रथमं जातम् , तदनन्तरं समवायस्वरूपयोञ्जनम् , तत्र दर्शितप्रयोगानुपपत्तेः, यदि च प्रयोगहेतुभूतैत्यपि ज्ञाने निवेश्यते, तदा महागौरवम् , प्रयोगहेतुभूतत्वादीनां शाब्दबोधे भानानुपपत्तिश्च । एवं पक्षद्वयेऽपि समवायस्यासंग्रहापत्तिश्चेति चेत् , अत्र केचित् तदादित्वं तद्धटितसमुदायघटकत्वम् , तन्निष्ठादितानिरूपकत्वं तद्धटितसमुदायविषयकशानविषयत्वम् । एवञ्च तत्तद्रूपेण समुदायघटकानां तदादित्वनिर्वाह इति । नन्वेवं पार्थिवविषयो घटजलादिरिति वाक्यस्य प्रामाण्यापत्तिः, घटजलघटितसमुदायविषयकज्ञानविषयत्वस्य पार्थिवविषये सत्त्वात् । न चोद्देश्यतावच्छेदकशून्याघटितत्वं समुदायविशेषणं वक्तव्यम् । तथा च जलघटितसमुदायस्य उद्देश्यतावच्छेदकीभूतपार्थिवविषयत्वशून्यजलघटितत्वान्न दोष इति वाच्यम् ; तथा सति प्रमेयं द्रव्यादीति वाक्यस्याप्रामाण्यापत्तेः, उद्देश्यतावच्छेदकशून्याप्रसिद्धेः । न चोद्देश्यतावच्छेदक For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका- तत्प्रकाशटिप्पण्योपबृंहिता ४९ नूतनालोकः भक्तिर्यस्येतिवद् व्यापकं प्रतियोगिता यस्येति केति । दृढभक्तिरित्यादौ दृढं विग्रहः । व्यापकमिति सामान्ये नपुंसकम् । अन्यथा " न कोपधायाः” इति निषेधेन 'पाचिकाभार्य' इत्यादाविव पुंवद्भावो न स्यादिति बोध्यम् । न च हेतुतावच्छेदकताघटकसम्बन्धावच्छिन्न स्वावच्छेदकत्वसम्बन्धेन हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मनिष्ठप्रतियोगिता कभेदवत्त्वविवक्षणेनैवोपपत्तौ व्यापकताघटितपरिष्कारो व्यर्थः, स्वं प्रतियोगिता इति वाच्यम्, एवमपि घटपटवृत्तित्व- चतुर्थक्षणवृत्तिध्वंसप्रतियोगित्वाभ्यामुपलक्षितस्य कालिकसम्बन्धेन संयोगभिन्नत्ववतः समवायेन आलोकप्रकाशः For Private And Personal Use Only सामानाधिकरण्यस्य यावत्समुदायघटकतावच्छेदकेषु विवक्षणान्न दोष इति वाच्यम्; तथापि पृथिवी द्रव्यादिरिति वाक्यस्य प्रामाण्यापत्तेरिति चेन्न; उद्देश्यतावच्छेदकव्याप्यत्वस्य घटकतावच्छेदकत्वेनाभिमतधर्मविशेषणत्वस्वीकारेणोक्त्तापत्त्यनवकाशात् । उद्देश्यतावच्छेदकव्याप्यत्वं चोद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वे सत्युद्देश्यतावच्छेदकसामानाधिकरण्यम् । तेन पृथिवी पृथिव्यादिरित्यादिवाक्यस्य प्रामाण्यपत्तिरित्याहुः । परे तु तदादित्वं तत्पर्याप्त समुदायत्वाश्रत्वम्, समवाय आदिर्यस्येत्यत्र षष्ठ्याः पर्याप्तत्वार्थकत्वात् । एवञ्च समासघटकादिपदस्य समवायवृत्तिसमुदायत्वपर्यायाश्रये लक्षणा । तच्च समवायस्वरूपोभयम् । उद्देश्यतावच्छेदकपदसमभिव्याहारस्थले उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेरेव भानात् पृथिवीघटजलादिरित्यादिर्न प्रयोगः । विभागवाक्ये धर्मेषु परस्परसामानाधिकरण्यस्य, धर्मिषु स्वाभाववत्त्वसम्बन्धेन धर्माणां वा भानात् पृथिवीघटनीलघटादिरित्यादिर्न विभागवाक्यप्रयोगापत्तिः । नीलघटत्वे घटत्वासामानाधिकरण्यस्य, नीलघटे स्वाभाववत्त्वसम्बन्धेन घटत्वस्य वा बाधादित्याहुः । प्रकारान्तरं ग्रन्थान्तरादवसेयम् । दुर्द भक्तिरिति । अत्र दृढा भक्तिरिति विग्रहे दोषस्तु रघुवंशे द्वादशसर्गे - "दृढभक्तिरिति ज्येष्ठे" इति श्लोकव्याख्यायामनुसन्धेयः । पाचिकाभार्य इति । पचतीति पाचिका ण्वुल् "युवोरना कौ” इत्यादेशे यापि " प्रत्ययस्थात् " इतीत्वे पाचिकेति रूपम् । उपपत्ताविति । समवायेन स्वरूपेण वा घटपटवृत्तित्वसंयोगत्वोभयवतोऽप्रसिद्धया प्रत्येकं तादृशसम्बन्धमादायोक्ताव्याप्त्यप्रसक्तेरिति भावः । हेतुत्व इति । पूर्वोक्तान्यतरत्वमेवात्र साध्ये बोध्यम् । प्रसिद्धेति । उभयत्रापि प्रसिद्धत्वं पर्याप्त्यधिकरणघर्मवत्त्वविशेषणं बोध्यम्, घटभूतलसंयोगादिकमादाय भूतलादौ व्यभिचारवारणाय घटपटवृत्तित्वेति । भूतलादिसाधारण त्रित्वत्रिपृथक्त्वादिकमादाय तद्दोषवारणाय चतुर्थक्षणवृत्ति ७ Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५० 'न च' रत्नमालिका च. स्वावच्छेदकता विशिष्टत्वसम्बन्धेन, वैशिष्ट्यं सामानाधिकरण्य- स्वावच्छेदक Acharya Shri Kailassagarsuri Gyanmandir सम्बन्धावच्छिन्नत्वोभयसम्बन्धेन । ( १९ ) न च तादात्म्येन हेतुतास्थले हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयत्वाप्रसिद्धया तेन सम्बन्धेन हेतुसम्बन्धित्वमेव विवक्षणीयम् । नूतनालोकः हेतुत्वेऽव्याप्तेरुक्त परिष्कारस्यावश्यकत्वात् । यतस्तत्र हेतुतावच्छेदकता घटकसम्बन्धः स्वरूपं कालिकश्च । तत्र स्वरूपसम्बन्धमुपादाय तेन सम्बन्धेन द्रव्यत्वादौ प्रसिद्धहेतुतावच्छेदकता पर्याप्त्यधिकरणधर्मवत्त्वावच्छिन्नभेदः सर्वेष्वेवानित्येषु सुलभः। एवं कालिकसम्बन्धमुपादाय तेन सम्बन्धेन संयोगादौ प्रसिद्धहेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मवत्त्वावच्छिन्नभेदः सर्वेष्वेव नित्येषु प्रसिद्ध इत्यधिकरणतामात्रस्यैव हेतुतावच्छेदकता पर्याप्त्यधिकरण धर्मनिष्ठप्रतियोगिता कभेदवन्निष्ठाधेयतानिरूपितत्वेन तदनिरूपिताधिकरणत्वा प्रसिद्धेरिति दिक् । अप्रसिद्धयेति । निवेशसम्भवादिति । अत एवोक्तं तथा चाधेयत्वघटना न सम्भवतीति भावः । आलोकप्रकाशः. ध्वंसप्रतियोगिभिन्नत्वेति । सत्तादिव्यावृत्तये कालिकसम्बन्धेन संयोगभिन्नत्ववत इति । संयोगभेदस्य तद्व्यक्तित्वेनैव हेतुघटकत्वान्न व्यर्थविशेषणता । न च लक्षणानुसारादुक्तहेतोर्लक्ष्यत्वमेव नोपेयत इति वाच्यम्, लक्ष्यानुसारेण लक्षणशिक्षणस्यैव युक्तत्वात् । तदुक्तम् — लक्ष्यानुगममात्रं हि कर्तु युक्तं परीक्षकैः । न सर्वलोक सिद्धस्य लक्षणेन निवर्तनम् ॥ इति । उक्त परिष्कारस्यावश्यकत्वादिति । न चोक्तरीत्या परिष्कार एव दुर्घट;, प्रमेयत्वोपलक्षितहेतुकस्थले हेतुतावच्छेदकता स्वव्यापकप्रतियोगिताकभेदाप्रसिद्धया अव्याप्तेरिति वाच्यम् । स्वाभाववन्निष्ठाधेयतानिरूपितत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वसम्बन्धेन हेतुतावच्छेदकतात्वव्यापकधर्मविशिष्टत्वस्याधिकरणताविशेषणत्वविवक्षया अदोषात् । व्यापकता च पूर्वोक्तसम्बन्धेन । तथा च प्रकारत्वादिकमादायोक्तस्थले तद्विशिष्टाधिकरणत्वस्य प्रसिद्धिः । न च स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकहेतुतावच्छेदकता पर्याप्त्यनुयोगितावच्छेदकधर्मकं यत् स्वाभाववन्निरूपितत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वसम्बन्धेन तद्विशिष्टाधिकरणत्वं विवक्ष्यते । एवञ्च पूर्ववद्यच्छ देन प्रकारत्वादिग्रहणेन सामञ्जस्ये व्यापकताघटितपरिष्कारो व्यर्थं एवेति वाच्यम्; इष्टापत्तेः । इदन्तु For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकटीका - प्रकाशटिप्पण्यो पबृंहिता तथा च विशिष्टताहेतुकस्थलेऽव्याप्तिर्दुर्वारैव हेतुतावच्छेदकसमवायसम्बन्धेन विशिष्टसत्तासम्बन्धित्वस्य गुणादावक्षतत्वादिति वाच्यम् ; वृत्त्यनियामकसम्बन्धेन व्याप्तेरेवानभ्युपगमेन तच्छरीरे हेत्वधिकरणत्वस्यैव निवेशसम्भवात् ॥' इति प्रथमावली ॥ ५१ नूतनालोकः " किवेदमिदानीमिति प्रतीतिनियामक विशेषणता विशेषेण हेतुतायाम्" इति पङ्किव्याख्यानावसरे- "तेन सम्बन्धेन व्याप्तेरनभ्युपगमसम्भवेन वृत्यादेरपि निवेशनं सम्भवति" इति । न च प्राचां मते वृत्त्यनियामकसम्बन्धेन व्याप्यव्यापकभावानभ्युपगमेऽपि नवीनमते तदभ्युपगमेनाधिकरणत्वस्थाने सम्बन्धित्वमवश्यमेव विवक्षणीयम् । तदुक्तं व्याप्तिसिद्धान्तशिरोमणी - " सामानाधिकरण्यादौ सम्बन्धित्वं निवेशनीयम्, न त्वधिकरणत्वम् । तथा च धर्मिणोऽपि व्याप्यत्वं व्यापकत्वं च निर्वहति” इतीति वाच्यम्, हेतुतावच्छेदकसम्बन्धनिष्ठहेतुतावच्छेदकावच्छिन्नप्रतियोगित्वावच्छेदकं यदनुयोगिकत्वम्, तद्वृत्तित्वस्य हेतुतावच्छेदकसम्बन्धनिष्टहेतुतावच्छेदकावच्छिन्नप्रतियोगिता कत्वा वच्छेद कनि रूपकता का नुयोगिता बत्तित्वपर्यवसन्नस्य यत्समानाधिकरणपदेन तन्मते विवक्षणादुताव्याप्तिविरहात् । तथाहि--यथा वायू रूपवानिति प्रतीत्यभावेन समवाये रूपप्रतियोगिकत्ववाय्वनुयोगिकत्वयोः सत्रेऽपि न तयोरवच्छेद्यावच्छेदकभावः, किन्तु घटो रूपवा - आलोकप्रकाशः For Private And Personal Use Only तत्वम् — प्रमेयत्वाद्युपलक्षितस्थले हेतुतावच्छेदकविशिष्टाधिकरणतायाः प्रसिद्धत्वाद् विशिष्टाधिकरणताघटितव्याप्त्यैव निर्वाहः । यत्र तु घटपटवृत्तिसंयोगादिहेतुकस्थले विशिष्टाधिकरणताया अप्रसिद्धिः, तत्रैव व्याप्त्यन्तरं स्वीक्रियते । तच्च हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मविशिष्टान्यावृत्त्याधेयतानिरूपिताधिकरणघटितम् । अनेनैव संयोगत्वाद्यवच्छिन्नातिप्रसक्ताधिकरणताया व्यावृत्तिः सम्भवति । इत्थञ्च व्याप्तिज्ञाने उदासीनप्रकारत्वादिविषयकत्वानङ्गीकारेऽपि न क्षतिः । यत्समानाधिकरणेत्यादिमूलस्य यथाश्रुतार्थकत्वमपि साधु सङ्गच्छते । एतदभिप्रेत्यैव दिगित्युक्तम् । पङ्क्तीति । पङ्क्तिरियं सार्वभौमपरिष्कारखण्डनस्था बोध्या । अनभ्युपगमेऽपीति । प्राचीनैर्यत्र तादात्म्यसम्बन्धेन यस्य हेतुता साध्यता वा तत्र तद्धर्मस्य तद्धर्मिणि वृत्तिनियामकसम्बन्धेन Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मच रस्नमालिका नूतनालोकः नित्यादिप्रतीतेः समवायनिष्ठरूपादिप्रतियोगिकत्वघटाद्यनुयोगिकत्वयोरेव। तथा गुणो गुणकर्मान्यत्वविशिष्टसत्तावानिति प्रतीत्यभावेन समवाये विशिष्ट सत्ताप्रतियोगिकत्वगुणानुयोगिकत्वयोः सत्त्वेऽपि न तयोरवच्छेद्यावच्छेदकभावः, किन्तु द्रव्यं विशिष्टसत्तावदिति प्रतीतेस्तनिष्ठविशिष्टसत्ताप्रतियोगिकत्वद्रव्यानुयोगिकत्वयोरेवेति गुणादेविशिष्टसत्ताप्रतियोगित्वावच्छेदकनिरूपकताकानुयोगित्वाभावेन न द्रव्यत्वाद्यभावस्य निरुक्तयत्सामानाधिकरण्यमिति । स्पष्टा चेयं रीतिः "वायो रूपसमवायसत्त्वेऽपि रूपाभावात्” इति मुक्तावलीपतिव्याख्यानावसरे मञ्जूषादौ । इति प्रथमालोकः॥ आलोकप्रकाशः भानमुपगम्य तदर्भहेतुकायाः तबर्मविधेयिकाया वा अनुमितेः- स्वीकारादिति भावः । तदन्युपगमेनेति । अत्र तादात्म्येनेव व्यापकत्वम् । न तु तदतिरिक्तवृत्त्यनियामकसम्बन्धेन । अत एकोक्तमवयकशिरोमणौ-"तदवृत्तेरतदात्मनश्च तद्धर्मव्यापकत्वायोगात्" इतीति बोध्यम् । मञ्जूषादावित्यादिपदेन हरिरामीयपरिग्रहः ॥ इति प्रथमालोकप्रकाशः॥ For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ द्वितीयावली अथ हेत्वधिकरणनिष्ठत्वं किं हेत्वधिकरणनिरूपिताधेयतारूपम् , किं वा हेत्वधिकरणनिष्ठाधिकरणतानिरूपकत्वरूपम् , उत वा हेत्वधिकरणनिष्ठाधिकरणतानिरूपिताधेयतारूपं विवक्षितम् ? नाद्यः; किश्चिदवच्छिन्नत्वे साध्येऽधिकरणतात्वहेतावव्याप्तः, हेत्वधिकरणीभूता या घटादिनिष्ठावच्छिन्नत्वाभावाधिकरणता, तन्निरूपिताधेयत्वस्य साध्याभावसाधारण्यात् । नापि द्वितीयः, वृत्तित्वाभावे साध्ये शब्दाश्रयत्वादिहेतावव्याप्तः। हेत्वधिकरणनिष्ठा या प्रमेयत्वाद्यधिकरणता, तन्निरूपकत्वस्य आधेयत्वात्मकसाध्याभावेऽपि सत्त्वात् । नापि नूतमालोकः तनिरूपितैति। अधिकरणताविधयेत्यादिः। साध्याभावसाधारण्यादिति । न च हेत्वधिकरणे साध्याभावनिरूपिताधिकरणनाभिन्नत्वस्य विवक्षणान्नेयमव्याप्तिरिति वाच्यम् ; एवं सत्यधिकरणताभिन्नत्वे साध्येऽधिकरणताभिन्नत्वाभावाधिकरणत्वघटैतदन्यतरत्वादिहेतावतिव्याप्तेः । तत्र व्यभिचारनिरूपकीभूताधिकरणतायाः साध्याभावाधिकरणताभिन्नत्वाभावेन हेत्वधिकरणपदेन साध्याधिकरणघटस्यैवोपादातुं शक्यत्वादिति ध्येयम् । शब्दाश्रयत्वादिति । अनुच्छिद्यमानद्रवत्वाधिकरणत्वादित्यादौ यथाधिकरणत्वपदं समवायेन हेतुत्वस्फोरकम् , तथात्राश्रयत्वपदम् । वक्ष्यमाणरीत्या सम्बन्धविशेषावच्छिन्नत्वनिवेशेऽपि हेत्वधिकरणतामादायैव दोषसंघटनार्थ वा तत् । सत्वादिति । आधाराधेयत्वयोः परस्परं निरूप्यनिरूपकभावसस्वादिति भावः । आलोकप्रकाशः . अधिकरणतासामान्यभिन्नत्वविवक्षणे उक्तस्थले एवान्यातेरपरिहारादुक्तम्-साध्याभावनिरूपितेति । साध्यनिष्ठप्रतियोगिताकाभावनिरूपितेत्यर्थः । तेन न केवलान्वयिसाध्यकाव्याप्तिः। हेत्वधिकरणपदेन घटस्य ग्रहणे च व्यधिकरणधर्मावच्छिन्नसाध्याभावस्यैव लक्षणघटकत्वसम्भव इति सूचयितुमुक्तम्-साध्याधिकरणेति । गगननिष्ठा या शब्दाश्रयत्वाधिकरणतेत्युक्तेराशयं कल्पान्तरानुसरणेन प्रकाशयति-वक्ष्ममाणरीत्येति । साध्याभाववत्तायामित्यादिः । हेश्वधिकरणनिष्ठाधिकरणता For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ 'नच रत्नमालिका तृतीयः; दर्शितस्थल एव गगननिष्ठाधिकरणताया वृत्तित्वरूपसाध्याभावाधिकरणत्वेनाव्याप्तितादवस्थ्यात्। एवं वह्निमान् धूमादित्यादावण्यव्याप्तश्चेति नूतनालोकः न च हेत्वधिकरणनिष्ठाधिकरणतानिरूपिताधेयताभिन्नत्वस्य हेत्वधिकरणनिष्ठाधिकरणतानिरूपके विवक्षणानायं दोष इति वाच्यम् ; अवृत्तित्वसाध्यके प्रमेयत्वादिहेतावतिव्याप्तेः। साध्याभावात्मकाधेयत्वमात्रस्य प्रमेयनिष्ठाधिकरणतानिरूपितत्वेन व्यधिकरणधर्मावच्छिन्नसाध्याभावस्यैव लक्षणघटकत्वात् । न च हेत्वधिकरणनिष्ठा या अधिकरणता, तद्विशिष्टत्वमेव यत्समानाधिकरणपदेन विवक्ष्यते। वैशिष्टयञ्च स्वनिरूपकत्व-निरूपितत्वसम्बन्धावच्छिन्नखनिष्ठप्रयोगिताकाभाववत्त्वोभयसम्बन्धेन । तथा चोक्ताव्याप्त्यतिव्याप्त्योरनवकाश इति वाच्यम् ; एवमपि पृथिवीभिन्न गन्धशून्यत्वादित्यादावव्याप्तेः। तत्र हेत्वधिकरणं. साध्याभावोऽपि । तन्निष्ठाधिकरणतायास्तनिष्ठाधिकरणतादात्म्यरूपत्वात्तनिष्ठतादाम्यप्रतियोगित्वस्य च तत्र वृत्तित्वात् । साध्याभावस्य हेत्वधिकरणनिष्ठाधिकरणताया निरूपकत्वस्यानिरूपितत्वस्य च सत्त्वेन लक्षणघटकत्वात् । वह्निमान् धूमादित्यादाविति । किश्चिदवच्छिन्नम् , अधिकरणतात्वात् , धूमाभाववान् वहयभावादित्यादी लक्षणगमनसम्भवानासम्भव इति भावः । न चाधिकरणतानिरूपितत्वस्थानेऽधिकरणतानिरूपकत्वस्य विवक्षणानायं दोष इति वाच्यम् ; एवमपि पृथिवीभिन्नं गन्धशून्यत्वादित्यादावव्याप्तेः । तत्र हेत्व आलोकप्रकाशः .. निरूपिताधेयताभिन्नत्वस्येति । आधेयतासामान्यभिन्नत्वनिवेश आधेयत्वाभावसाध्यकव्यभिचारिसामान्य एवातिव्याप्तेस्तदविवक्षा । या अधिकरणतेति । अधिकरणतात्वेनाधिकरणत्वानिवेशे धूमाभाववान् वह्नयभाववानित्यादाव्याप्तिः, तत्र साध्यस्यापि हेत्वधिकरणतया हेत्वधिकरणनिष्ठेत्यनेन साध्यनिष्ठप्रतियोगितामादाय साध्याभावस्यापि लक्षणघटकत्वापातादिति तत्त्वेन निवेशः । यदि च वक्ष्यमाणरीत्या सम्बन्धविशेषावच्छिन्नत्वनिवेशेनैव साध्याभावनिष्ठप्रतियोगिताया वारणानोक्तदोष इति विभाव्यते । तदा धूमवत्त्वप्रकारकपमाविशेष्यत्वाभावसाध्यकस्थले दोषो बोध्यः । ___अधिकरणतादात्म्यरूपत्वादिति । तत्तादात्म्यस्य तद्विशेषणरूपत्वात् संयोगितादात्म्यस्य संयोगरूपत्ववदिति भावः । न च हेत्वधिकरणनिष्ठाधिकरणतानिष्ठतादात्म्यत्वानवच्छिन्नप्रतियोगिताकनिरूपकत्वविवक्षणान्नायं दोष इति वाच्यम् ; एवमपि वह्वयधिकरणत्वसाध्यकस्थलेऽव्याप्तेरपरिहारात् । तत्र हेत्वधिकरणनिष्ठाधिकरणता साध्यरूपाधिकरणता, तन्निष्ठा या तादात्म्यत्वानवच्छिन्ना For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाश टिप्पण्योपबृंहिता चेत् ? सत्यम् । हेत्वधिकरणीभूतयद्वयक्तिनिरूपितत्वं स्वस्मिन् तद्वयक्तिनिष्ठाधिकरणतानिरूपिता या आधेयता तद्वत्त्वस्य हेत्वधिकरणविशिष्टाधेयतावत्त्वपर्यवसितस्य हेत्वधिकरणनिष्ठया दशाधिकरणता निरूपितत्वाभावः स्वस्य, ताशाधिकरणता निष्ठाधिकरणता त्वावच्छिन्नप्रतियोगिताक निरूपकत्वस्य हेत्वधिकरण निष्ठाधिकरणता विशिष्टत्वपर्यवसितस्य, स्वरूपसम्बन्धावच्छिन्नस्वनि आधेयता, रूपिताधिकरणतावद्भिन्नहेत्वधिकरणनिष्ठाधिकरणता निरूपिता या तद्वत्त्वस्य हेत्वधिकरणनिष्ठाधिकर णता विशिष्टाधेयत्वपर्यवसितस्य वा विवक्षणेन सकलदोषोद्धारसम्भवः । प्रथमकल्पे हेत्वधिकरणवैशिष्ट्यं स्वनिरूपितत्वनूतनालोकः ५५ 1 धिकरणीभूत साध्याभावस्य पृथिवीत्वात्मनः स्वनिष्ठांधेयत्वाधिकरणत्वेन तस्यापि लक्षणघटकत्वात् । हेत्वधिकरणीभूतेति । यत्समानाधिकरणपदेनेत्यादिः । व्यधिकरणधर्मावच्छिन्नाभावनिष्ठाधेयत्वादिकं (स्वपदेनोपादायातिव्याप्तिरिति सर्वत्र पर्यवसि - तार्थकथनम् । स्वरूपसम्बन्धावच्छिन्नेति । हेत्वधिकरणनिष्ठाधिकरणतासु कालिकसम्बन्धावच्छिन्नस्वाधिकरणत्वसत्त्वादसम्भव इति स्वनिरूपिताधिकरणतायां स्वरूपसम्बन्धावच्छिन्नत्वनिवेशः । अधिकरणतावद्भिन्नेति । स्वनिरूपितवद्भिन्नेति मात्रोपादाने खपदआलोकप्रकाशः For Private And Personal Use Only प्रतियोगिता, तत्कं यन्निरूपकत्वमनुयोगितारूपम्, अनुयोगिताप्रतियोगितयोः परस्परं निरूप्य - निरूपकभावात्तस्य च साध्याभावेऽक्षतत्वात् । यदि चाधिकरणत्वनिष्ठाया आधेयनिष्ठनिरूपकत्वप्रतियोगिताया अधिकरणतात्वावच्छिन्नत्वमनुभवसिद्धम्, तदा तादात्म्यत्वानवच्छिन्नत्वस्थानेऽधिकरणतत्वावच्छिन्नत्वमेव निवेशनीयं लाघवादित्यपि बोध्यम् । लक्षणघटकत्वादिति । न च हेत्वधिकरणनिरूपिता त्वधिकरण निष्ठाधिकरणतानिरूपिता च या आधेयता, तद्वत्त्वमेव यत्समाना: धिकरणपदेन विवक्षितमिति न कोऽपि दोष इति वाच्यम्, एवमपि धूमाधिकरणताभिन्नत्वे साध्ये धूमाधिकरणत्व-धूमाधिकरणतानिष्ठाधिकरणतास्यैतदन्यतरत्वद्देता कन्यासः, साध्याभावनिष्ठाधेयतायामपि हेत्वधिकरणपदेन धूमाधिकरणतानिष्ठाधिकरणतामुपादाय हेत्वधिकरणनिरूपितत्वस्य पर्वतमुपादायाधिकरणविधया तन्निष्ठाधिकरणता निरूपितत्वस्य च सत्त्वात् । न च हेत्वधिकरणनिरूपितेत्यत्र हेत्वधिकरणे हेतुनिष्ठाधिकरणताभिन्नत्वविवक्षणान्न हेतुभूतधूमाधि करणतानिष्ठाधिकरणतामादायोक्तदोष इति वाच्यम् एवं सति धूमाधिकरणतानिष्ठाधिकरण ताभिन्नत्वे साध्ये उक्ततावतिव्याप्त्यापत्तेः, व्यभिचारनिरूपकस्य धूमाधिकरणतानिष्ठाधिकरण तत्र Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 'नच' रत्नमालिका खनिष्ठाधिकरणतानिरूपितत्वोभयसम्बन्धेन। द्वितीयकस्पेऽधिकरणतावैशिष्टयं स्वनिष्ठतादात्म्यत्वानवच्छिन्न प्रतियोगिताकनिरूपकत्व-निरूपितत्वसम्बन्धावच्छिन्नखनिष्ठप्रतियोगिताकाभाववत्त्वोभयसम्बन्धेन । तृतीयकल्पे तद्वैशिष्टयञ्च स्वनिरूपितत्व खनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेनेति । न चैवमपि सामान्यधर्मावच्छिन्नाधिकरणताया अतिरिक्तत्वपक्षे वह्निमान् धूमादित्यादौ साध्याभावाव्यावृत्तिः, द्रव्यत्वाद्यवच्छिन्नाधिकरणतानिरूपिताभावत्वाद्यवच्छिन्नाधेयत्वस्य पर्वतादिनिरूपितस्य तत्र सत्त्वादिति वाच्यम् ; आधेयत्वे अधिकरणत्वे वा पर्याप्त्यनुयोगितानवच्छेदकत्वस्य, तद्वयक्ति नूतनालोकः प्रामाधेयतानिरूपितं यनिरूपकत्वम् , तद्वत्त्वस्यैव सकलास्वप्यधिकरणतासु सत्त्वात्तद्वद्भिन्नाधिकरणत्वाप्रसिद्धिरित्यधिकरणतात्वेन निवेशः । विनिगमनाविरहादाह-अधिकरणत्वे वेति । पर्याप्त्यनुयोगितावच्छेदकत्वस्येति । उभयवृत्तिधर्ममात्रस्य यत्किश्चित्पर्याप्त्यनुयोगितावच्छेदकत्वेन द्रव्यत्वाचवच्छिन्नाधिकरण आलोकप्रकाशः त्वस्य हेतुनिष्ठाधिकरणताभिन्नत्वाभावात् , धूमाधिकरणत्वस्यापि निरुक्तान्यतरत्वेन हेतुत्वात् । न च हेत्वधिकरणनिष्ठाधिकरणतानिरूपितेत्यत्राधिकरणतायां . हेत्वधिकरणानधिकरणत्वविवक्षणात् पर्वतनिष्ठां हेत्वधिकरणाधिकरणीभूतां धूमाधिकरणतामादाय नाव्याप्तिरिति वाच्यम् ; एवं सति प्रमेयत्वादिरूपसद्धेतावव्याप्तेः, तत्र सर्वस्यैव हेत्वधिकरणाधिकरणत्वेन निरुक्तानधिकरणत्वाप्रसिद्धः । मूले-तादात्म्यत्वानवच्छिन्नप्रतियोगिताकेति । अत्र प्रतियोगितायां सम्बन्धानवच्छिन्नत्वं निरूपकत्वेऽभावत्वान्यत्वं वा विवक्षणीयम् । तेन पूर्वोक्तवह्नयधिकरणत्वसाध्यकस्थले साध्याभावव्यावृत्तिः, तादृशप्रतियोगितायाः सम्बन्धावच्छिन्नत्वात् , निरूपकत्वस्याभावरूपत्वेन तदन्यत्वाभावाच्च । ब्याख्यायाम्-पर्याप्त्यनुयोगितावच्छेदकत्वस्येतीति। न च यत्समानाधिकरणेत्यस्य हेतुतावच्छेदकविशिष्टहेत्ववच्छिन्नाधिकरणताकत्वमेवार्थोऽस्तु लाघवात् । इत्थञ्च हेतुतावच्छेदकविशिष्टहेतुमान् साध्याभाववानिति प्रतीतिसाक्षिकाधिकरणतामादाय लक्षणसमन्वयः । तथा च तादृशाधिकरणताकत्वस्य हेतुमदवृत्तावनङ्गीकारादव्याप्त्यप्रसक्त्या विशेषणमिदमनर्थकमिति वाच्यम् ; तादृशार्थविवक्षाया हेतुताक्च्छेदकस्य विशेषणत्वस्थले कथञ्चित् सम्भवेऽन्युपलक्षणत्वस्थले सम्भवात् । हेतुतावच्छेदकसमानाधिकरणाक्च्छेदकताकत्वमात्रविवक्षणे तु प्रमेयवान् साध्याभाववानित्यादिप्रतीतिसिद्धसामान्यधर्मावच्छिन्नाधिकरणताया व्यावृत्तिरशक्यपरिहारा । एवं For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकढीका तस्प्रकाशटिप्पण्योपबृंहिता नूतमालोकः आलोकप्रकाशः Acharya Shri Kailassagarsuri Gyanmandir त्वादिव्यावृत्तिः । एकमात्रवृत्तिधर्माणां पर्याप्त्याख्यसम्बन्धविशेषाङ्गीकारे प्रमाणाभावेन तादृशधर्माणां तदनवच्छेदकतयैकमात्रवृत्त्यधिकरणतायाः संग्रहध । अत एव “पर्याप्तिश्रायमेको घटः, इमौ द्वावित्यादि प्रतीतिसाक्षिकस्वरूपसम्बन्धविशेषः” इति दीधिति ५७ हेतोः स्वसमानकालीन संयोगसम्बन्धेन हृदादिनिष्टसाध्याभावाधिकरणतावच्छेदकतया तदव्यावृत्तिः । स्वसमानकालीनसंयोगस्यापि वृत्त्यनियामक धूमकालसंयोगस्येव संयोगत्वेन हेतुतावच्छेदकसम्बन्धत्वात् । नहि धूमकाल संयोगस्य तद्विप्रतिपन्नम्, "येन सम्बन्धेन हेतुस्तेनैव सम्बन्धेन तदधिकरणत्वं बोध्यम्” इति दीधितिपङ्क्तिव्याख्यायां तस्य तथात्वाभिधानात् । हेत्वधिकरणत्वविवक्षणे तु उक्तसम्बन्धस्य वृत्य नियामकता तदवच्छिन्नाधिकणत्वाप्रसिद्धया तद्वयावृत्तिः । एवं हेतुमत्कालीनहृदत्वावच्छिन्नाधिकरणतायाः कोटिप्रविष्टानामवच्छेदकत्वपक्षे हेत्ववच्छिन्नत्वेन तदव्यावृत्तिश्च । गुणवद्भिन्नः आग्रक्षणावच्छिन्नत्वादित्यत्र साध्याभावस्याद्यक्षणावच्छिन्नाधिकरणताकत्वाभावेन लक्षणाघटकतयाऽतिव्याप्त्यापत्तिश्चेति हेत्ववच्छिन्नत्वघटितपरिष्कारो साधीयानित्याशयः । उभय वृत्तिधर्ममात्रस्येति । अन्यासज्यवृत्तिघटत्वादेरपि पर्याप्त्यनुयोगितावच्छेदकत्वमवच्छेदकत्वनिरुक्तौ स्पष्टमभिहितम् । एकमात्रवृत्तिधर्माणामिति । द्वित्वादिपर्याप्तिन्यूनवृत्तितया तत्पर्याप्त्यनवच्छेदकत्वादिति शेषः । न्यूनवृत्तेरपि तदवच्छेदकत्वे कपोतशुकसारिकादिसाधारणसमुदायत्वस्यापि कपोतत्वावच्छिन्नपर्याप्तिकत्वापत्त्या तादृशसमुदायत्वाद्यवच्छिन्न तात्पर्येणापि कापोतादिव्यवहारप्रसङ्गः । For Private And Personal Use Only न च तर्हि घटत्वादेरतिप्रसक्ततया कथं द्वित्वादिपर्याप्त्यवच्छेदकत्वमिति शङ्कयम् ? पर्याप्त्यवच्छेदकत्वेऽनतिप्रसक्तत्वस्यातन्त्रत्वात् । अन्यथा आकाशावितिवद् घटावियपि न स्यात् । न स्याच्च कपोतशतादावपि कपोतादिव्यवहारः । स्पष्टं चेदं व्युत्पत्तिवादे तद्धितार्थविचारावसरे इति बोध्यम् । प्रमाणाभावेनेति । न च "अयमेको घट इत्यनेनाऽव्यासज्यवृत्तिघटत्वेकत्वादिना प्रत्येकमेव पर्याप्तिरिति दर्शितम् । इमौ द्वाविति प्रतीतिकथनेन व्यासज्यवृत्तिद्वित्वादीनां न प्रत्येकं पर्याप्तिः । तथा सत्ययमेको द्वाविति प्रतीत्यापत्तिः" इति भङ्काचार्यव्याख्यानमेव प्रमाणमिति वाच्यम्; तस्य यथाश्रुताभिप्रायकत्वात् । अत एवोत्तरत्र तैरेव "अत्राहु:" इत्यादिना अभ्यासज्यवृत्तिधर्माणां पर्याप्त्याख्यसम्बन्व एवाप्रामाणिक इति स्पष्टमुक्तम् । भत एवेति । एकमात्रवृत्तिधर्माणां पर्याप्त्यनवच्छेदकत्वादेवेत्यर्थः । सङ्गच्छत इत्यचान्वयः । दीधितिपङ् क्तिमिति । इयक्ष पडक्तिरवच्छेदकत्वनिरुकिया। उपादायेति । प्रतीकतथा Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ 'नच' रत्नमालिका नूतनालोकः पतिमुपादाय "अत्र इभो द्वाविति प्रतीतिरेव पर्याप्त्याख्यसम्बन्धविशेषसाधकत्वेनाभिप्रेता, न त्वयमेका, अयं घट इति प्रतीती, तयोः समवायविषयकत्वेनाप्युपपत्तेः । तयोः प्रदर्शनन्तु-यदि द्वित्वप्रकारिका सर्वापि प्रतीतिः समवायविषयिणी स्यात् , तदा अयं द्वौ अयं घटौ इत्याद्याकारिकापि स्यादिति बाधकतर्कबोधनार्थम् । चैत्रस्येदं न मैत्रस्य, मैत्रस्येदं न चैत्रस्येत्यत्र चैत्रस्येदं मैत्रस्येदमित्यंशस्येव” इति व्याख्यान सङ्गच्छते । यद्यपि व्याख्यानेनैकत्वसंख्याया एव पर्याप्तिर्निरस्ता, तथापि युक्तेस्तौल्यादेकमात्रवृत्तिधर्मान्तराणामपि सा नास्तीत्याशयः। न चैकमात्रवृत्तरपर्याप्तत्वे हृदो वह्निमानित्यादौ तथाभूतायाः पक्षतावच्छेदकतायाः पर्याप्त्यप्रसिद्धया तत्पर्याप्तिनिवेशासङ्गतिरिति वाच्यम् ; प्रकृतपक्षताविशिष्टविशेष्यताकत्वस्यानुमितौ विवक्षण आलोकप्रकाशः गृहीत्वेत्यर्थः । व्याख्यानमित्यनेन सम्बध्यते । यदीति। इदमत्र बोध्यम् । तत्तत्पदसमभिव्याहृतभवनार्थकास्धातुभ्यां तत्तत्पदार्थासाधारणधर्मरूपो भावः प्रत्याय्यते । सम्भावनार्थकयदितदाभ्यामुद्देश्यविधेयभावमहिम्ना हेतुहेतुमद्भावापन्नतदारोपविषयताबोधः । आख्याताभ्याञ्च तत्तदन्वितमाश्रयत्वरूपं कर्तृत्वं प्रथमान्तपदायें बोध्यते, अन्ययार्थद्वारापि क्रियान्वितस्वार्थस्याख्यातेन बोधने प्रत्ययानामित्यादिव्युत्पत्तिविरोधविरहात् । अत एव गुरुमते न कलझं भक्षयेदित्यत्र विषसम्पृक्तनाराचहतपशुपक्ष्यन्यतरमांसात्मककलञ्जभक्षणाभावविषयक कार्यमिति बोधः । न्यायमते तु कलअभक्षणं बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभाववदिति, अत्र धात्वर्थाख्यातार्थयोरन्तरा नर्थस्य भानात् । तथा च समवायविषयकत्वप्रकारकारोपविषयत्वाश्रयीभूता द्वित्वप्रकारिका प्रतीतिः प्रयोज्यतासम्बन्धेन ताशविषयताविशिष्टा, या अयं द्वौ इत्याकारकत्वप्रकारकारोपविषयता, तदाश्रय इति बोधः । अत्रारोपत्वेनारोपभानाङ्गीकाराद् हृदादावनाहार्यवह्नयभावप्रमातो धूमभ्रमसहकारेण धूमाभावापत्तिजननेऽपि तत्तात्पर्यकस्य हृदोऽयं यदि निर्वह्निः स्यात्तर्हि निधूमः स्यादिति वाक्यस्य पर्वतादौ महानसीयधूमाहार्यभ्रमावलिप्रमायां सत्यां पर्वतोऽयं यदि महानसीयधूमवान् स्यात्तदा वह्निमान् स्यादिति वाक्ये च न प्रामाण्यापत्तिः । न च भ्रमत्वनिवेशे तेनैव दर्शितप्रयोगापत्तिवारणसम्भवादाहार्यत्वनिवेशनं व्यर्थमिति वाच्यम् ; प्रथमस्थले हृदस्थाने पर्वतस्य द्वितीयस्थले पर्वतस्थाने हृदस्य चापत्त्युद्देश्यत्वे प्रामाण्यापत्तेरपरिहारात् । प्रयोज्यत्वमानेन च भूतले घटपटाहार्यारोपानन्तरं यद्ययं घटवान् स्यात्तदा पटवान् स्यादिति वाक्यस्य न प्रामाण्यापत्तिः । चैत्रस्येदमित्यादि । इयञ्च प्रतिज्ञालक्षणस्था दीधितिः । तत्पर्याप्ति For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तप्रकाशटिप्पण्योपहिता . नूतनालोकः एव तात्पर्येण तत्सङ्गतेः। वैशिष्टयश्च स्वावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकतानिरूपकत्व-स्वावच्छेदकतावि - शिष्टावच्छेदकताकत्वान्यतरसम्बन्धेन । वैशिष्टयन सामानाधिकरण्य-स्वसजातीयत्वोभयसम्बन्धेन । साजात्यं प्रतियोगितासम्बन्धावच्छिन्नपर्याप्त्यभाववत्त्वेन । एकमात्रवृत्तिधर्मावच्छिन्नपक्षकस्थलेऽन्यवरघटकद्वितीयसम्बन्धमादायोपपत्तिः । तत्र सामानाधिकरण्यघटनाटगततद्वयक्तित्वादिपक्षतावच्छेदककस्थले पटगततद्वयक्तित्वाद्यवच्छिन्नविशेष्यताकानुमितिव्यावृत्तिः । हृदो वह्निमानित्यादौ जातिमान् वह्निमानित्याद्यनुमितिव्यावृत्तये स्वावच्छेदकावच्छिन्नत्वनिरवच्छिन्नत्वान्यतरवत्त्वेनापि साजात्यं विवक्षणीयम् । अत्र च प्रतियोगितासम्बन्धेन पर्याप्तिर्नास्तीति प्रतीतिविषयाभावस्य तवयक्तित्वेन प्रवेशान तेन सम्बन्वेन घटपर्याप्त्युभयाभावमादाय दोषः। परे तु पक्षतावच्छेदकत्वादिपर्याप्तिनिवेशस्य पक्षतावच्छेदकत्वादिव्यापकत्वनिवेश एव तात्पर्येण तत्सङ्गतिः। न चैवं सति काञ्चनमयपर्वतो वहिमानित्यत्र काञ्चनमयत्वाभाववत्पर्वतात्मकाश्रयासिद्धयादावव्याप्तिः, पर्वतत्वधर्मितावच्छेदकतापनकाञ्चनमयत्वावच्छिन्नविशेष्यताकानुमितेरपि सामान्यान्तर्गततया तां प्रति तनिश्चयस्याप्रतिबन्धकत्वादिति वाच्यम् ; पक्षतावच्छेदकतात्वव्यापकविशेष्यताकत्वविवक्षणेनैवोक्तानुमितिव्यावृत्तेः, व्यापकता च स्वनिरूपितावच्छेदकताविशिष्टत्वसम्बन्वेन, वैशिष्टयञ्च स्वावच्छेदकीभूतधर्मिता .... आलोकप्रकाशः. निवेशेति । हेत्वाभाससामान्यलक्षणादावित्यादिः । भन्यासिरिति । एकमात्रवृत्तिधर्माणां पर्याप्त्यभ्युपगमपक्षे तु पक्षतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकावच्छिन्नानुयोगिकपर्याप्तत्व निवेशसम्भवान्नाव्याप्तिः। पर्वतः काञ्चनमय इति ज्ञानीयप्रकारताविशेषस्यैव पक्षतावच्छेदकता पर्यापयनुयोगितावच्छेदकावम् , काञ्चनमयः पर्वत इति ज्ञानीयप्रकारताविशेषस्यैव च विशेष्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्वमिति पर्याप्त्यनुयोगिता वच्छेदकयोर्भेदादिति भावः । काञ्चनमयपर्वतो वह्निमानित्यादौ काञ्चनमयत्वधर्मितावच्छेदकताविशिष्टस्यैव पर्वतत्वादेरनुमित्युद्देश्यतारूपपक्षतावच्छेदकत्रम् , पर्वतकाञ्चनमयो यहिमानितिज्ञानीयविशेष्यतावच्छेदकत्वन्तु पर्वतत्वधर्मितावच्छेदकताविशिष्टस्यैव काञ्चनमयत्वादेरिति विशेषं मनसिकृत्याह-पक्षतावच्छेदकतात्वेति । धर्मितावच्छेदकताविशिष्टत्वेति । यद्यनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकत्वावच्छिनत्वं. पक्षतावच्छेदकनिष्ठम् , विशेष्यतावच्छेदकत्वे तत्तनिष्ठप्रकारता For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 'नच रत्नमालिका नूतमालोकः वच्छेदकताविशिष्टत्वसामानाधिकरण्यसहितस्वसजातीयत्वान्यतरसम्बन्धेन । वैशिष्टचं च स्वनिरूपितविशेष्यतानिरूपितप्रकारताव्याप्यप्रकारतानिरूपितविशेष्यतावच्छेदकत्वावच्छिमत्वसम्बम्येन । साजात्यश्च धर्मितावच्छेदकावच्छिन्नत्वरूपेणेति । न चैवमपि ह्रदो वह्निमानित्यादी जातित्वादिना ह्रदत्वाद्यवगाह्यनुमितेरव्यावृत्त्याऽसम्भवः । पक्षतावच्छेदकांशेऽन्याप्रकारकत्वनिवेशनं तु किश्चिद्धर्मविशिष्टपक्षतावच्छेदककस्थलासंग्राहकमिति वाच्यम्; स्वनिरूपितावच्छेदकताविशिष्टत्व-स्वनिरूपितावच्छेदकताविशिष्टत्वोभयसम्बन्धस्यैव व्यापकतावच्छेदकसम्बन्धत्वविवक्षणादुक्तानुमितिव्यावृत्तेः। तत्र प्रथमसम्बन्धघटकवैशिष्टयं पूर्वोक्तमेव । द्वितीयसम्बन्धघटकं च तत्वसामानाधिकरण्य-खसजातीयत्वोभयसम्बन्धेन । साजात्यं च खावच्छेदकावच्छिन्नत्व-निरवच्छिन्नत्वान्यतररूपेणेति दिगित्याहुः । आलोकप्रकाशः निरूपितविशेष्यतावच्छेदकत्वावच्छिन्नत्वे पर्यवसानमस्य बोध्यम् । ग्याप्येति । न च प्रकारतयोः सामानाधिकरण्यविवक्षयैवोपपत्तौ किमर्थ व्याप्यव्यापकभावघटनेति वाच्यम् १ नीलकाञ्चनमयपर्वतो वहिमानित्यादौ नीलपर्वतकाञ्चनमयो वहिमानित्यादिज्ञानाच्यावृत्तेः । तत्र पर्वतत्वनिष्ठपक्षतावच्छेदकतायां नीलत्वनिष्ठप्रकारतामादाय धर्मितायच्छेदकताविशिष्टत्वसत्वात् । एवञ्च नीलपर्वतकाञ्चनमय इति ज्ञानीयकाञ्चनमयत्वावच्छिन्नविशेष्यतानिरूपितप्रकारता वैल्ये पर्वतत्वे च, पर्वतत्वावच्छिन्नविशेष्यतानिरूपिता तु नैल्य एव, प्रकारताद्वयमपि न काञ्चनमयत्वे, नीलकाञ्चनमयपर्वत इति ज्ञानीया पर्वतत्वनिष्ठधर्मितावच्छेदकत्वावच्छेदिका या तनिष्ठावच्छेदकता, तमिल्पकविशेष्यतानिरूपितप्रकारता नैल्यकाञ्चनमयत्वोभयनिष्ठति पूर्वोपदर्शितप्रकारताशून्ये काञ्चनमयत्वे द्वितीयप्रकारतासत्वात्तस्या न व्याप्यत्वसम्भव इति तज्ज्ञानव्यावृत्तिोंध्या । अत्र व्याप्यत्वघटकंतच्छून्यत्वं तन्निरूपितविशेष्यतानिरूपितप्रकारतात्वावच्छिन्नप्रतियोगिताकं बोध्यम् । अन्यथा नैल्यनिष्ठप्रकारतानिष्ठतव्यक्तित्वावच्छिन्नप्रतियोगिताकाभाववति काञ्चनमयत्वे पर्वतत्वावच्छिन्नविशेष्यतानिरूपितप्रकारतासत्त्वेन व्याप्तिभङ्गानीलकाञ्चनमयपर्वत इति शानस्याप्यसंग्रहापत्तेः । एवं व्याप्यताघटकवृत्तित्वाभावोऽपि वृत्तितानवच्छेदकतादृशप्रकारतात्ववत्वरूपोऽवसेयः । अन्यथा तादृशवृत्तित्वाभाववती नैल्यनिष्टप्रकारताम् , तादृशवृत्तितानवच्छेदकं यन्नैल्यप्रकारतांनिष्ठतद्वयक्तित्वम् , तद्वती तादृशप्रकारताश्चादाय नीलपर्वतकाञ्चनमय इति ज्ञानसंग्रहापत्तिः। न चान्यतरसम्बन्धघटदकधर्मितावच्छेदकतावैशिष्ट्यं स्वव्याप्यावच्छेदकत्वावच्छिन्नत्वमेव लाघवान्निधेश्यतामिति वाच्यम् ; दर्शित For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नेतनालोकटीका-तरप्रकाशटिप्पण्योपहिता नूतनालोक नन्वेकमात्रवृत्तिधर्मस्य पर्याप्त्यनुयोगितानवच्छेदकत्वे सिद्धान्तलक्षणस्य साध्यतावच्छेदकता यादृशधर्मावच्छिन्ने पर्याप्ता, तादृशधर्मावच्छिन्नानुयोगिताकभेदघटितस्य वह्नयादिसाध्यकेऽव्याप्तिः, साध्यतावच्छेदकताया एकमात्रवृत्तितया पर्याप्त्यसिद्धः एवं स्थलान्तरेष्वपि बहुषु पर्याप्तिप्रवेशनासाङ्गत्यं चेत्यत आह-तव्यक्तित्वावच्छिनत्वस्य वेति। न चाननुगमप्रसङ्गः, स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धेन भेदविशिष्टान्यत्वेनैव तन्निवेशात् । न च सकलधर्माणामपि तद्वयक्तितदन्यव्यक्त्युभयभेदविशिष्टत्वात्तदन्यधर्माप्रसिद्धिः। प्रतियोगितायास्तद्वयक्तित्वावच्छिन्नत्वेन विशेषणे च पुनरननुगमप्रसङ्ग इति वाच्यम् ; प्रतियोगिताया व्यासज्यवृत्तिधर्मानवच्छिनत्वेन विशेषणीयत्वात् । न च व्यासज्यवृत्तिस्वमनुगतं दुर्वचम् । तथाहि न तावदेकमात्रापर्याप्तत्वम्, एकत्वस्य केवलान्वयितया एकेतरपर्याप्तत्वषटितस्य तस्याप्रसिद्धः। नापि .. आलोकप्रकाशः स्थले नीलपर्वतकाञ्चनमय इति ज्ञानाव्यावृत्तेः । तत्र विशेष्यताक्छेदकत्वावच्छेदकधर्मितावच्छेदकतायाः पक्षतावच्छेदकत्वावच्छेदकधर्मितावच्छेदकवायान नैल्यनिष्ठप्रकारतानिरूपितविशेष्यतानिरूपितायाः पर्वतत्वकाञ्चनमयत्वोभयनिष्ठतया व्याप्यव्यापकमावसम्भवात् । न चैकमात्रवृत्तिधर्मस्य पर्याप्त्यनभ्युपगमे व्यधिकरणधर्मावच्छिन्नाभावस्येव घटाद्यभावस्यापि केवलान्वयित्वापत्तिः, स्वविरोधिनः प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नस्याप्रसिद्धेरिति वाच्यम् , स्वप्रतियोगितावच्छेदकताव्यापकावच्छेदकताकाधेयतानिरूपकत्वस्यैव विरोधित्वोपगमेनोक्ताप्रसिद्धेरनवकाशात् । माहुरिति । अत्रेदं विचारणीयम् । गन्धवान् वायुयमित्यादौ गन्धाभाववद्वायुरूपाश्रयासिद्धरसंग्रहः । गन्धवान् वापुरितिवद् प्राणप्रामगुणवान् वायुरित्यस्यापि संग्रहापत्तिः । तत्र विशेष्यतावच्छेदकत्यावच्छिन्नायाः पक्षतावच्छेदकत्यावच्छेदकत्वावच्छेदकीभूतधर्मितावच्छेदकतायाश्च वायुत्वमात्रवृत्तित्वेनोक्तसम्बन्धघटकव्याप्तिभङ्गाभावात् । न च प्रकारतायां न व्याप्यत्वमात्रं निवेश्यते, किन्तु स्वव्याप्यत्व-स्वावच्छेदकावच्छिन्नत्वोभयसम्बन्धेन प्रकारतावैशिष्टयमिति तद्वारणे स्वरूपतो द्रव्यत्वावगाहिद्रव्यकाञ्चनमयपर्वत इत्याद्यनुमितेरसंग्रहापत्तिः, तत्र द्रव्यत्वनिष्ठप्रकारतावच्छेदकाप्रसिद्धः । यद्यपि स्वव्याप्यत्व-स्वसजातीयत्वोभयमेव सम्बन्धः, साजात्यञ्च निरवच्छिन्नत्व-स्त्रावच्छेदकावच्छिन्नत्वान्यतररूपमिति दर्शितसकलदोषवारणमिति विभाव्यते, तदापि नीलकाञ्चनमयपर्वत इत्यादावन्यतरघटकद्वितीयसम्बन्धस्य . नीलः काञ्चनमयः पर्वतश्च वह्निमानिति For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६२ www.kobatirth.org 'न च रत्नमालिकt नूतनालोकः स्वसामानाधिकरण्य-स्वप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन भेदविशिष्टत्वम्, व्यतिरेकिधर्ममात्रस्य तथात्वापत्त्या व्यासज्यवृत्तिधर्मानवच्छिन्नभेदप्रतियोगित्वाप्रसिद्धेः । सामान्यधर्मावच्छिन्नाधिकरणताया अतिरिक्ततया द्रव्यं घटभिन्नमिति प्रतीतिसिद्धद्रव्यत्वावच्छिन्नघटभेदनिरूपिताधिकरणताया घटेऽपि सत्त्वात् । स्वसामानाधिकरण्यघटकाधिकरणत्वस्य तद्वयक्तित्वावच्छिन्नत्वेन विशेषणे पुनरननुगमप्रसङ्ग इति तत्राप्युक्तभेद विशिष्टान्यत्वेनानुगमस्य कर्तव्यतया अनवस्थाप्रसङ्गादिति वाच्यम्; व्यासज्यवृत्तिधर्मानवच्छिन्नत्वं पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकता कत्वत्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकता कप्रतियोगिताकभेदरूपं विवक्षितमित्यदोषात् । स च भेदः पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकता को नेति प्रतीतिसाक्षिको बोध्यः । - न चैवमपि पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकता कघटैतदुभय भेदाव्यावृत्तिः, तत्प्रतियोगितावच्छेदकतावच्छेदकताकत्वे घटत्वे च वर्तते । अवच्छेदकताकत्वे स्वरूपसम्बन्धावच्छिन्ना, अन्यत्र तु समवायसम्बन्धावच्छिन्नेति । अवच्छेदकसम्बन्धभेदभिन्नयोस्तयोः प्रत्येक विश्रान्ततया स्वरूपसम्बन्धावच्छिन्नावच्छेदकता कत्वनिष्ठ आलोकप्रकाशः Acharya Shri Kailassagarsuri Gyanmandir । समूहालम्बनस्य नीत्वकाञ्चनमयत्वपर्वतत्वान्येकत्र त्रयमिति रीत्या अवगाहमानस्य नीलकाञ्चनमयपर्वत इति ज्ञानस्य च दर्शिताश्रयासिद्धिज्ञान प्रतिवध्यस्य व्यावृत्तिरशक्यपरिहारैवेति । वस्तुतस्तु एकमात्रवृत्तिधर्मपर्याप्त्यभावेऽपि पक्षतावच्छेदकतापर्यातीत्यादेः पक्षतावच्छेदकताविशिष्टावच्छेदकता का क्शेष्यतानिरूपकेत्यर्थः । अवच्छेदकतायां वैशिष्ट्यञ्च स्वपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिता कपर्याप्तिप्रतियोगित्व-स्वसजातीयत्वान्यतरसम्बन्धेन । साजात्यश्च स्वाव.च्छेदकावच्छिन्नत्व-निरवच्छिन्नत्वान्यतरवत्त्व-पर्याप्तिप्रतियोगिताशून्यत्वं सामानाधिकरण्यरूपत्रितयवत्वात्वात्मकं बोध्यमिति तन्मतमपि साध्वेव । अननुगमप्रसङ्ग इति । तथा सति व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकधूमाभावनिरूपितपर्वतादिनिष्ठतद्वयक्तित्वावच्छिन्नाधिकरणतामादायातिव्याप्तिरिति भावः। भेदविशिष्टान्यत्वस्यावृत्तिगगनादौ प्रसिद्धत्वादुक्तम् - धर्माप्रसिद्धिरिति । प्रतियोगिताया इति । सम्बन्धघटकप्रतियोगिताया इत्यर्थः । पुनरननुगमप्रसङ्ग इति । तथा च यदि द्वित्वनिष्ठस्य तद्वयक्तित्वस्य ग्रहणम्, तदा व्यासज्यवृत्तित्वं द्वित्वस्यैवेति तदनवच्छिन्ना भवति । त्रित्वाद्यवच्छिन्ना प्रतियोगिता यदि त्रित्वादिनिष्ठस्य तस्य ग्रहणम्, तदा त्रित्वादेरेव तथात्वमिति तदनवच्छिन्ना भवति द्वित्वाद्यवच्छिन्ना प्रतियोगितेति तत्प्रतियोगितामादाय सर्वस्यैव तद्वयक्तित्वस्य भेदविशिष्टत्वाद्भेदविशिष्टान्य धर्मा प्रसिद्धेरिति भावः । अनवस्थाप्रसङ्गादिति । अनवस्था चात्र For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता वच्छिन्नत्वस्य वा विवक्षणात्तद्वयावृत्ते, वस्तुतस्तु हेत्वधिकरणनिष्ठाधिकरणतायां तव्यक्तित्वावच्छिन्नत्वं न निवेशनीयम् । किन्तु स्वप्रतियोगिवृत्तित्वखसानानाधिकरण्योभयसम्बन्धेन भेदविशिष्टान्यत्वमेव, तेनापि सामान्यधर्मावच्छिन्नाधिकरणताव्यावृत्तिसम्भवात् । यद्वा अभावे हेत्वधिकरणवृत्तित्वं खाश्रयत्व खावच्छेदकत्वोभयसम्बन्धेन हेत्वधिकरणताविशिष्टपर्याप्ताधिकरणतानिरूपिताधेयत्वरूपम् । तद्वयक्तित्वस्य तादात्म्येन तद्वयक्तिरूपतया तद्वयक्तित्वावच्छिन्नाधिकरणताया उभयसम्बन्धेनाश्रयस्तयक्तिरेव, तत्पर्याप्ताधिकरणता न सामान्यधर्मावच्छिन्ना भवितुमर्हतीति तद्वयावृत्तिः। एवञ्च हेत्वधिकरणेत्यत्रापि न सामान्यधर्मावच्छिन्नाधिकरणतामादाय दोष इति तवयावृत्त्यर्थ न विशेषणान्तरदानस्यावश्यकता । एकमात्रवृत्तिधर्मस्य पर्याप्त्यनभ्युपगमे अधि नूतनालोकः तद्वपक्तित्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितायाः पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकताकत्वत्वावच्छिन्नत्वानपायादिति वाच्यम् ; तत्तदवच्छेदकताव्यक्तेस्तत्प्रतियोगितावच्छेदकतात्वरूपसामान्यधर्मेण पर्याप्तत्वेऽपि तत्तद्वयक्तित्वरूपविशेषधर्मेण पर्याप्तत्वे प्रमाणाभावेनोक्तदोषानवकाशात् । एतेनोक्तभेदव्यावृत्तये पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकताकत्वत्ववृत्तिप्रतियोगिताकत्वमेव विवक्षणीयम्। वृत्तित्वश्च खनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धे - नेति निरस्तम् । विषयितासम्बन्धन पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकताकत्वविशिष्टं नेति प्रतीतिसाक्षिकभेदव्यावृत्त्यर्थं स्वनिरूपितस्वरूपसम्बन्धावच्छिन्नावच्छेदकताकत्वावच्छिन्नप्रतियोगिताकपर्याप्लेरेष सम्बन्धमध्ये प्रवेशनीयतया पूर्वोक्तोभयभेदव्यावृत्तेरिति । लाघवादाह-वस्तुतस्त्विति । . . . इतोऽपि लाघवादाह-यद्वेति । तद्वयक्तिरूपतयेति । तद्वयक्तित्वं तादात्म्येन, सैव आलोकप्रकाशः तद्वयक्तित्वानुगमकरूपनिष्ठं स्वघटकव्यासज्यवृत्तित्वत्वव्यापकस्वघटितत्वकत्वम् , स्वं भेदविशिष्टान्यत्वम् । तद्धटकव्यासज्यवृत्तित्वे सर्वत्र भेदविशिष्टान्यत्वघटितत्वनियमात् । तस्प्रतियोगितावच्छे. दकतात्वरूपसामान्यधर्मेणेति । सामान्यरूपेण पर्यातिः सिद्धान्तलक्षणगादाधर्यादौ सुस्पष्टा । मूलेभेद विशिष्टान्यत्वमेवेति । तथा च हेत्वधिकरणतावच्छेदकं यद् भेदविशिष्टान्याधिकरणत्वम् , तनिरूपिताधेयत्वस्यैव निवेश इति भावः । काशः For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न' रत्नमालिका करणताविशिष्टपर्याप्तत्वस्थाने उक्तोभयसम्बन्धावच्छिन्नाधिकरणताव्याप्यत्वमधिकरणतायां देयमिति सर्व सुस्थम् ।। अथैवमपि वह्निमान् धूमादित्यादावव्याप्तिः; हेत्वधिकरणपर्वतादौ वह्नित्वाधवच्छिन्नप्रतियोगिताकवह्नयभावस्य कालिकसम्बन्धेन वृत्तितया लक्षणघटकत्वात् । वरूपसम्बन्धेन तद्विवक्षणे तु घटत्वाभाववान् द्रव्यत्वादित्यादावन्याप्तिः; तत्र घटत्वात्मकसाध्याभावस्य स्वरूपसम्बन्धेनावृत्तेः । * न च साध्यवचाग्रहविरोधितानियामकखनिष्ठप्रकारतावच्छेदकसम्बन्धेन वृत्तित्वविवक्षणान्न दोषः, घटत्वाभावादिसाध्यके समवायस्य तादृश नूतनालोकः व्यक्तिरिति सिद्धान्तात् । न च तद्वपक्तित्वस्य तद्वपक्तिरूपत्वे तस्य स्वरूपतो. भानासम्भव इति वाच्यम् ; विषयतानन्त्यभिया भावभिन्नत्वरूपायाः सत्ताभावव्यक्तेरिवास्यापि स्वरूपतो भानाङ्गीकारात्। साध्यक्त्ताग्रहविरोधितानियामकेति । साध्यताघटकधर्मसम्बन्धावच्छिन्नप्रकारताघटितधर्मावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकतावच्छेदकेत्यर्थः । तेन कालिकसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वाभाववानात्मत्वादित्यादी समवायावच्छिन्नात्मत्वाभावत्वेन साध्यवत्ताबुद्धिमादाय समवायस्य तथात्वेऽपि न क्षतिः। एवं समवाय आलोकप्रकाशः प्रकारतायां साध्यताघटकधर्मावच्छिन्नखनिवेशफलमाह व्याख्यायाम्-तेन कालिकेस्यादि। साध्यताघटकसम्बन्धावच्छिन्नत्वनिवेशनफलमाह-एवमिति । न च प्रकारतायाः सम्बन्धावच्छिन्नत्वे मानाभावः, नहि प्रकारतायां विशेष्यतायां वा तत् कल्ण्यत इत्यत्र विनिगमकाभावः शङ्कयः, सर्व समवायेन घटावृत्ति इत्यादि बुद्धि प्रति तत्प्रकारतामनन्तर्भाव्य समवायावच्छिन्नघटत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेनैव रूपवान् घट इत्यादिनिश्चयानां प्रतिबन्धकत्वस्य लाघवेन कल्पनीयतया विनिगमकसत्त्वादिति वाच्यम् , घटोऽवृत्तिरिति बुद्धि प्रति घटवत्तानिश्चयस्य लाघवेन विशेष्यतामनन्तर्भाव्य घटवानिति निर्धर्मितावच्छेदककनिश्चयसाधारणघटत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेनेव प्रतिबन्धकत्वस्य कल्पनीयतया प्रकारतायामपि तसिद्धेः । यत्ववच्छेदकावच्छेदेन वयभावाद्यवगाहिनो हृदो वह्नयभाववानित्यादिनिश्चयस्य लाघवेन विशेष्यतामनन्तर्भाव्य ह्रदत्वक्यापकत्वविशिष्टस्वरूपसम्बन्धावच्छिन्नवह्नयभावत्वाद्यवच्छिन्नप्रकारताशालिनिश्चयत्वेनेव प्रतिबन्धकत्वं. कल्पनीयमिति न विनिगमनाविरहप्रसक्तिरिति तन्न; संसर्गाशे धर्मितावच्छेदकव्यापकत्वातिरिक्तभानस्याप्रामाणिकतया तथाविधनिश्यस्य व्यापकत्वघटकाधिकरणो For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता सम्बन्धत्वेन घटत्वात्मकसाध्याभावस्यापि लभणघटकत्वसम्भवादिति वाच्यम् । एवं सत्यसम्भवप्रसङ्गात् , व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभाववत्तानिश्चयस्य साध्यवत्ताशानाप्रतिबन्धकतया स्वपदेन ताहशसाध्याभावस्य ग्रहणासम्भवात्। नूतमालोकः : सम्बन्धावच्छिन्नप्रतियोगिताकद्रव्यत्वाभावस्य कालिकसम्बन्धेन साध्यतायां स्वरूपसम्बन्धेन साध्यवत्ताबुद्धिमादाय समवायस्य तथात्वेऽपि न क्षतिः। घटत्वाभाववान् पटत्वादित्यादौ कालिकसम्बन्धावच्छिन्नघटत्वाभावसमवायसम्बन्धावच्छिन्नघटत्वाभावोभयावगाहिसमूहालम्बनं प्रति कालिकसम्बन्धेन घटत्ववत्ताग्रहस्य, समवायावच्छिन्नघटत्वाभावग्रहं प्रति कालिकेन समवायेन च घटत्वावगाहिसमूहालम्बनस्य च प्रतिबन्धकत्वादव्याप्तिरतः प्रतिवध्यताप्रतिबन्धकतावच्छेदकत्वयोर्विवक्षा। न चैवं सति घटत्वाभावसाध्यकेऽव्याप्तिः, तत्र समवायस्यैव तादृशसम्बन्धतया यत्स .. आलोकप्रकाशः .. ग्रंशे भ्रमात्मकज्ञानसाधारण्यानुरोधेन निरूप्यनिरूपकभावापन्नव्यापकत्वविषयताया एव निवेशनीयतया वृत्तित्वविषयतायामधिकरणविषयतानिरूपितत्वमनिवेश्य · वृत्तित्वविषयतानिरूपिताभावविषयतेत्यादिरीत्या व्यापकत्वविषयतानिरूपितस्वरूपसम्बन्धनिष्ठविषयतानिरूपितववयभावप्रकारतानिरूपितह्रदत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेन, अभावविशिष्टस्वरूपसम्बन्धावच्छिन्नवह्नयभावत्वाद्यवच्छिन्नप्रकारतानिरूपितह्रदत्वाद्यवछिन्नविशेष्यताशालिनिश्चयत्वेनैव वा लाघवात् प्रतिबन्धकत्वं कल्पनीयमिति विशेष्यतान्तर्भावस्य दुर्वारत्वात् । न च कोटिप्रविष्टानामप्यवच्छेदकत्वपक्षे हृदत्वनिष्ठावच्छेदकताका या स्वरूपनिष्ठा संसर्गता तन्निरूपितवलयभावत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेनैव प्रतिबन्धकत्वं सुवचम् । हृदो वह्नयभाववानिति ज्ञानीयस्वरूपनिष्ठसांसर्गिकविषयताया एवोक्तयुक्त्या हृदत्वनिष्ठावच्छेदकताकत्वात् । एवञ्च व्यापकत्वस्यात्यन्तान्योन्याभावभेदेन भिन्नत्वेऽपि. न तत्पयुक्तं गौरवमपीति वाव्यम् ; एवं सति हृदसमानकालीनघटो वह्नयभाववानिति निश्चयस्यापि हृदत्वावच्छिन्नस्वरूपनिष्ठसंसर्गतया हृदो वह्निमानिति बुद्धिप्रतिबन्धकत्वापत्तिः । वस्तुतस्तु संयोगेन घटाद्यवगाहिज्ञानदशायां समवायेनायं घट जानातीत्यादिप्रयोगप्रसङ्गः। घटत्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यतायाः समवायावच्छिन्नत्वात् । एवं विशेष्यतायाः सम्बन्धावच्छिन्नत्वेऽयं घट इति ज्ञाने. घटः समवायेन विशेष्यमिति व्यवहारापत्तिश्च । अतो विनिगमनाविरहाभावात् प्रकारताया एव सम्बन्धावच्छिन्नत्वम् , न विशेष्यताया इति । तादृशप्रकारत्वावच्छिन्नप्रतिवध्यता For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 'नच रस्नमालिका , न च प्रकारतायां स्वनिष्ठत्वमनुपादाय साध्यवत्ताग्रहविरोधितावच्छे दकीभूता या प्रतियोगितासम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारता तदवच्छेदकसम्बन्धेन वृत्तित्वविवक्षया न कोऽपि दोषः, केवलान्वयिसाध्यकस्थले साध्याभावाप्रसिद्धावपि वाच्यत्वाभाषवानित्यादिभ्रमीयप्रकारतामादायोक्तसम्बन्धप्रसिद्धरिति वाच्यम्भ एवमपि कालिकसम्बन्धेन वयभावव्याप्यवह्नयभाववानिति मानीयप्रकारताया अपि तद.. नूतनालोकः मानाधिकरणसाध्याभावाप्रसिद्धेरिति वाच्यम्; स्वरूपसाध्यवत्ताग्रहविरोधितानियामकान्यतरसम्बन्धेन वृत्तित्वस्य विवक्षणादव्याप्त्यनवकाशात् । एतेन घटत्वाभावान् जातित्वादित्यादावव्याप्तिः, साध्यवत्ताग्रहविरोधितानियामकसमवायेन हेत्वधिकरणवृत्तित्वाप्रसिद्धेरिति निरस्तम् । प्रकारतायां स्वनिष्ठत्वोपादानाद् घटभिन्न घटत्वाभावादित्यादौ तादृशप्रतिबन्धकतावच्छेदकीभूतघटनिष्ठप्रकारतावच्छेदकतादात्म्यसम्बन्धेन घटत्वरूपसाध्याभावस्य हेतुमति पटत्वे सत्त्वेऽपि न क्षतिः। यदि च तादात्यस्य वृत्त्यनियामकतया. तत्सम्बन्धावच्छिन्नयत्सामानाधिकरण्यस्याप्रसिद्धया नाव्याप्तिरिति विभाव्यते, वदा कालिकसम्बन्धावच्छिन्नप्रतियोगिताकज्ञानाभाववानात्मत्वादित्यादावव्याप्तिः, तत्र साध्यवत्चामहविरोधिकालिकेन ज्ञानवानिति यज्ज्ञानम् , तत्र ज्ञानत्वनिष्ठसमवायसम्बन्धावच्छिन्नप्रकारताया अपि प्रतिबन्धकतावच्छेदकत्वेन समवायस्यापि तथात्वात् , अतः स्वनिष्ठत्वमवश्यमुपादेयम् । वाच्यत्वाभाववानित्यादिभ्रमीयप्रकारतामिति । न च तादृशभ्रम एव न सम्भवति, तत्र स्वरूपसम्बन्धावच्छिन्नवाच्यत्वत्वावच्छिमप्रतियोगिताकत्वसम्बन्धेन वाच्यत्वस्याभावांशे भ्रमत्वमेव वक्तव्यम् । तब न सम्भवति, तादृशसम्बन्धस्याप्रसिद्धेः । स्पष्टं चेदं सामान्यनिरुतौ । तथा च केवलान्वयिसाध्यकेऽव्याप्तिर्दुर्वारैवेति वाच्यम् ; ज्यधिकरणधर्मावच्छिन्नाभाववादिमते वाच्यत्वत्वेन मेयत्वं नास्तीति प्रतीत्या तावासम्बन्धप्रसिद्धरित्याशयः। वलयभावन्याप्येति । इदं चोपलक्षणम् । कालिकसम्बन्धा आलोकप्रकाशः निवेशेनैव सामञ्जस्य प्रकारताघटितधर्मावच्छिन्नत्वोत्कीर्तनं पर्याप्त्यनिवेशस्फोरकम् । भन्यतरसम्ब. म्धेनेति । न चैवं सति कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभावानात्मत्वादित्यादावाकाशाभावरूपसाध्याभावस्य स्वरूपसम्बन्धेनात्मनि सत्त्वादव्याप्तिरिति वाच्यम साध्याभावत्वेन For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपहिता भावव्याप्यवत्ताशानविधया प्रतिबन्धकतायामवच्छेदकत्वात् कालिकसम्बन्धाव्यावृत्त्या अन्याप्तेदुर्वारत्वात् । * न च ज्ञानवैशिष्टपानवच्छिन्नत्वस्य प्रतिबन्धकतायां निवेशान्न दोष इति वाच्यम् , * कालिकसम्बन्धेन घटवद्भिश्नमात्मत्वादित्यादी साध्यवत्ताप्रहविरोधितावच्छेदकीभूततादृशसम्बन्धेन कालिकेन हेत्वधिकरणवृत्तित्वस्याप्रसिद्धया तादृशविवक्षाया एवासम्भवेन वह्निमान् धूमादित्यादौ कालिकसम्बन्धमादायाव्याप्तितादवस्थ्यात् । * न च हेत्वधिकरणवृत्तित्वे निरवच्छिन्नत्वस्यावश्यं विवक्षणीयतया न कालिकसम्बन्धावच्छिन्नाधेयतामादायाव्याप्तिः, तस्या निरवच्छिन्नत्वाभावात्। नूतनालोकः वच्छिन्नवह्नयभावप्रकारताया अवच्छेदकधर्मदर्शनविधया प्रतिबन्धकतायामप्यवच्छेदकत्वात् । अत्र कालिकसम्बग्वेन वहषभावविशिष्टविशेष्यकवह्निमत्तायुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वं यद्यपि ताशप्रकारवायां सम्भवति, तथापि किञ्चिनिष्ठनिरवच्छिन्नावच्छेदकताका या साध्यप्रकारतानिरूपितविशेष्यता, तद्धटितधर्मावच्छिन्नप्रतिवध्यतानिरूपित्तप्रतिबन्धकतावच्छेदकत्वस्य, ताशप्रकारतायां धर्मितावच्छेदकतामिन्नत्वस्य वा विवक्षणे धर्मितापच्छेदकतात्मकप्रकारताव्यावृत्तिरिति ध्येयम् । ज्ञानवैशिष्ट्येति । कोटिप्रविष्टानामवच्छेदकत्वपक्षेऽप्रामाण्यज्ञानस्याप्यवच्छेदकतया ज्ञानानवच्छिन्न प्रतिबन्धकत्वाप्रसिद्धिरत उक्तम्-- वैशिष्टयेति। एकक्षणावच्छिन्नैकात्मवृत्तित्वरूपवैशिष्टयेत्यर्थः। तथा च तादृशवैशिष्ट्याकच्छिवज्ञाननिष्ठावच्छेदकताकान्यत्वस्य प्रतिबन्धकताविशेषणत्वान्न कालिंक आलोकप्रकाशः हेत्वधिकरणवृत्तित्वविवक्षणादेव तद्वारणसम्भवात् , आकाशाभावत्वेन रूपेण साध्याभावस्यात्मनि वृत्तित्वेऽपि साध्याभावत्वेन रूपेण तदवृत्तेस्तस्य लक्षगाघटकत्वादिति भावः । लाघवादाह-धर्मितावच्छेदकताभिन्नत्वस्य वेति । ज्ञाननिष्ठेति । तेन ज्ञानविरहवैशिष्टयावच्छिन्नत्वेऽपि प्रतिबन्धकत्वस्य न क्षतिः । न कालिकसम्बन्धग्रहणप्रसकिरिति । न च वह्निमत्कालीनपर्वतः कालिकसम्बन्धाबच्छिन्नप्रतियोगिताकवह्नयभाववानिति बुद्धित्वावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकतामादाय कालिकसम्बन्धसंग्रहो दुर्वार एवेति वाच्यम् , किञ्चिद्धर्मावच्छिन्नमुख्यविशेष्यतानिरूपितसाध्य For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च' रखमालिका देशे वृत्तौ कालस्येव काले वृत्तौ देशस्याप्यवच्छेदकत्वादिति वाच्यम् , एवमपि कालिकसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वाभावे साध्ये आत्मत्वहेतावन्याप्तः, तत्रात्मत्वरूपस्य साध्याभावस्य समवायेनात्मनि वृत्त्या लक्षणघटकत्वात् । किश्व, कालिकसम्बन्धेन घटवद्भिन्नमात्ममहाकालान्यतरत्वादित्यादौ कालिकसम्बन्धेन घटात्मकसाध्याभावस्य निरवच्छिन्नवृत्तिकत्वाभावेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावस्यैव लक्षणघटकत्वेनातिव्याप्तेरिति नूतनालोकः . सम्बन्धग्रहणप्रसक्तिरिति भावः। काले वृत्ताविति । कालिकसम्वन्धावच्छिन्नाधेयतायामित्यर्थः। देशस्येति । दैशिकसम्बन्धावच्छिन्नाधिकरणस्येत्यर्थः। कालिकान्यसम्बन्धावच्छिन्नस्वसमानाधिकरणाधेयतानिरूपकस्येति यावत् । अवच्छेदकत्वादिति ।अत्रेदानी गौरित्यादिप्रतीत्या तत्सिद्धेरिति भावः। न चास्यां प्रतीतौ गोनिष्ठदेशनिरूपिताधेयतायां कालावच्छेद्यत्वमेव भासते, न तु कालवृत्तौ देशावच्छेद्यत्वमिति वाच्यम् ; विनिगमकाभावेन देशकालोभयावच्छेद्यत्वावगाहित्वावश्यकत्वात् । अत एव देशे वृत्तौ कालस्याप्यवच्छेदकत्वसिद्धिः । लक्षणघटकत्वादिति । न च देशे आत्मनि समवायेनात्मत्वस्य वृत्तौ कालस्यावच्छेदकत्वान्न निरवच्छिन्नत्वमिति नात्राप्यव्याप्तिरिति वाच्यम् ; आत्मत्वस्यात्मनि सर्वदा विद्यमानत्वेन कालानवच्छिमत्वात् । असार्वकालिकवृत्तिताया एव कालावच्छि नत्वात् । यथा असार्व . आलोकप्रकाशः प्रकारताघटितधर्मावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकताविवक्षणादुक्तरीत्या कालिकसम्बन्धग्रहणाप्रसक्तः । न चैवमपि वहिमत्पर्वतः कालिकसम्बन्धावच्छिन्नप्रतियोगिताकवह्नयभावाभाववानिति बुद्धिमादाय पूर्वोक्तदोषो दुर्वार इति वाच्यम् ; साध्यनिष्ठप्रकारतायां धर्मितावच्छेदकताविशिष्टान्यत्वनिवेशेन तद्वारणात् । वैशिष्टयञ्च स्वभिन्नधर्मितावच्छेदकताकविशेष्यतानिरूपितत्वसम्बन्धेन । यद्वा साध्यनिष्ठप्रकारतायां धर्मितावच्छेदकत्वानवच्छिन्नत्वं देयम् । न चैवमपि कालिकसम्बन्धावच्छिन्नवृत्तित्वाभावे साध्ये विभुत्वादिहेतावव्याप्तिः, गगनमवृत्तीति साध्यवत्ताबुद्धिं प्रति गगनास्मकसाध्याभाववान् घट इति भ्रमात्मकनिश्चयस्य प्रतिबन्धकतया तादृशप्रतिबन्धकतावच्छेदककालिकसम्बन्धेन महाकाले साध्याभावस्य वृत्तेः। एवं वह्निमान् पर्वत इत्यादि भिन्नविषयकप्रत्यक्षं प्रति कालिकेन घटव्याप्यवह्नयभाववान् पर्वत इत्यादि परामर्शस्यानुमितिसामग्रीविधया यत् प्रतिबन्धकत्वम् , तदवच्छेदकवह्नयभावप्रकारतावच्छेदककालिकसम्बन्धमादाय वह्नयादिसाध्यकस्थले चाव्याप्तिरिति वाच्यम् , साध्यनिष्ठावच्छेदकता For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोका-तस्प्रकाशटिप्पण्योपहिता चेत् *सत्यम् । स्वरूपसम्बन्धेनैव हेतुमत्तित्वस्य विवक्षणान्न दोषः । भावाभावसाधारणस्य स्वरूपसम्बन्धस्यावश्यमभ्युपेयतया घटत्वाभाववान् द्रव्यत्वादित्यादौ घटत्वात्मकसाध्याभावस्यापि खरूपसम्बन्धेन हेत्वधिकरणवृत्तित्वादतिव्याप्त्यनवकाशात्। नूतनालोकः त्रिकवृत्तिताया एव देशावच्छिन्नत्वम् । कूटघटितलक्षणोक्तरीत्या भावाभावसाधारणखरूपसम्बन्धमभ्युपगम्य समाधत्ते-स्वरूपसम्बन्धेनैवेति । अवश्यमभ्युपेयतयेति । अयं भावः-घटत्वादेः स्वरूपसम्बन्धानभ्युपगमे घटभिन्नादन्यः, पर इत्यादिशाब्दप्रतीतौ घटत्वात्मकस्य घटभिन्नभेदस्य स्वरूपसम्बन्धेन भानानुपपत्तिः। नहि तत्र समवायेनैव तद्भानं सम्भवति, अन्यादिपदस्य स्वरूपसम्बन्धेनैव भेदविशिष्टार्थकत्वात् । किञ्च घटे न घटत्वाभाव इत्यादिव्यवहारानुपपत्तिः, काले न द्रव्यत्वमिति प्रयोगाभावेन देशिकविशेषणतासम्बन्धावच्छिन्नाधेयत्वान्वितस्वार्थावगाहिबोधजनकत्वस्यैव नरूपदे व्युत्पन्नत्वात् । न च भावरूपप्रतियोगिवाचकपदसमभिव्याहृतनबा दैशिकविशेषणतासम्बन्धावच्छिन्नाधेयतया, अभावरूपप्रतियोगिवाचकपदसमभिव्याहृतनना च प्रतियोगिभूताभावप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधेयतया अभावः प्रत्याय्यत इति व्युत्पत्तिभेदकल्पनान्नेयमनुपपत्तिरिति वाच्यम् । प्रतियोगितावच्छेदकसम्बन्धत्वेन सम्बन्धताविरहाद्विशिष्य संयोगसमवायत्वादिनैव सम्बन्धताया वक्तव्यतया प्रतियोगिन्यभावे सम्बन्धविशेषावच्छिन्नप्रतियोगिताकत्वबोधकपदा आलोकप्रकाशः भिन्नाभावत्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपकत्वेन प्रतिबन्धकतावच्छेदकप्रकारता - वच्छेदकतायाः स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारताशालिज्ञानत्वघटितधर्मावच्छिन्नत्वेन प्रतिवध्यताया वा विशेषणाद्गगनत्वावच्छिन्नप्रकारतावच्छेदककालिकसम्बन्धमादाय दोषाप्रसके। खं साध्याभावप्रकारतेति ध्येयम् । - कूटघटितलक्षणोक्तरीत्येति । कूटघटिते लक्षणे। परे तु कल्पप्रदर्शितयुक्तिभिरित्यर्थः । स्वरूपसम्बन्धेनैवेति । घटादन्य इत्यादितस्तथैव प्रतीतिरिति भावः । अन्यादिपदस्य स्वरूपसम्बन्धेनेव समवायादिनापि भेदविशिष्टार्थकत्वस्वीकारेऽध्याहःकिशेति । अयमभावोऽत्र नास्तीत्यादौ समभिव्याहारनिरपेक्षमेव - प्रतियोगितावच्छेदकसम्बन्धत्वेन तत्तत्सम्बन्धावच्छिन्नाधेयताया · भानोपगमानानुपपत्तिरित्याशङ्का निराकरोति-प्रतियोगितेति । गगनाभावादेः केवलान्वयितया अभावो नास्तीति प्रतीतेभ्रमत्वेन For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चनमालिका नूतनालोकः समभिव्याहृतात् "अयमभावोऽत्र नास्ति" इत्यादितः सम्बन्धावशषावाच्छन्नाधयतायाः प्रतीतौ नियामकाभावप्रसङ्गात् । न चोक्तरीत्या नियमस्वीकारा सम्भवेऽपि यत्सम्बन्धावच्छिन्न प्रतियोगिताकत्वेनाभावमभिसन्धाय प्रयुज्यमानं वस्तुतो यत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावबोधकं वा यत् पदम्, तद्घटितवाक्यघटकनञः तत्सम्बन्धावच्छिन्नाधेयत्वान्वितस्वार्थबोधकत्वमित्येव नियमः स्वीक्रियते । तथा च सम्बन्धविशेषावच्छिन्न प्रतियोगिताबोधकपदा समभिव्याहारेऽपि न क्षतिः, तात्पर्य विशेषादिनैव तत्र तत्र तत्तत्सम्बन्धावच्छिन्नाधेयत्वान्विताभावबोधनिर्वाहादिति वाच्यम् ; केवलतात्पर्यस्य नियामकत्वे कालिकादिसम्बन्धावच्छिन्न प्रतियोगिताकात्मत्वाद्यभावादेरात्मत्वादिरूपो योऽभावस्तस्य समवायादिसंसर्गतात्पर्येणात्मन्ययमभावो नास्तीति प्रयोगप्रसङ्गात् । वास्तवतत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपप्रतियोगिवाचकपदसमभिव्याहारस्य तत्सम्बन्धावच्छिन्नाधेयत्वभाननियामकत्वे वस्तुतः कालिक सम्बन्धावच्छिन्न प्रतियोगिता केऽस्मिन्नभावे कालिकसम्बन्धावच्छिन्नप्रतियोगिताकत्वसंशयदशायामत्रायमभावो नास्तीति वाक्यादेतदभावाभावप्रतीतावप्यधिकरणे कालिकसम्बन्वेनैतदभावाभाववत्त्वादिसंशयस्य सर्वानुभव आलोकप्रकाशः तथाविधशाब्दबोधस्यालीकत्वाच्चायम्पदम् । प्रयोगानुपपत्तेराहार्यतया सम्बन्धविशेषावच्छिन्नाधेयताया इति । सम्बन्धविशेषावच्छिन्नत्व विशेषिताधेयताया इत्यर्थः । उक्तस्थले सम्बन्धविशेषावच्छिन्नत्वाविशेषिताधेयत्वभानाभ्युपगमे कालिकसम्बन्धेन घटत्वाभावाभाववति काले घटत्वाभावबोध कायम्पदघटितोऽयमभावोऽत्र नास्तीति व्यवहारः स्यादिति भावः । तात्पर्य विशेषादिनैवेति । आदिना वास्तवतत्सम्बन्धावच्छिन्नप्रतियोगिताका भावबोधकपद समभिव्याहार परिग्रहः । प्रथमपक्षं दूषयति-- केवलेति । समभिव्याहारनिरपेक्षेत्यर्थः । सम्बन्धविशेषावच्छिन्नप्रतियोगिता बोधकपदसमभिव्याहारासहकृतेति यावत् । कालिकेति । वस्तुत इत्यादिः । प्रयोगप्रसङ्गादिति । वस्तुतः कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाभावं समवायसम्बन्धावच्छिन्नप्रतियोगिता का भावत्वेनावगाहमानायां समवायसम्बन्धावच्छिन्नप्रतियोगिताकोऽयमभाव इदन्त्वेन बुध्यतामितीच्छायां कालिकसम्बन्धावच्छिन्नप्रतियोगिताका भावतात्पर्यकायम्पदघटितात्तादृश वाक्यात्तादृशाभावाभावनिष्ठ - समवायसम्बन्धावच्छिन्नाधेयताप्रतीतौ बाधकाभावादिति भावः । इष्टापत्तेर्वारणायात्मनीति द्वितीयं दूषयति - जास्तवेति । दशायामित्यस्य संशयेऽन्वयः । प्रतीतावपीति । सा च प्रतीतिर्भवन्मते कालिकसम्बन्धावगाहियेव वक्तव्या । तथा चैतदभावत्वावच्छिन्ने 7 For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोका-तत्प्रकाराटिप्पण्योपबृंहिता - नूतनालोकः .... सिद्धस्योच्छेदापत्तेः। वस्तुतः कालिकसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वाभावे समवायसम्बन्धावच्छिन्नप्रतियोगिताकत्वभ्रमवतोऽयमभावो नास्तीति वाक्यात् कालिकसम्बन्धानवगाहिबोधस्य सर्वानुभवसिद्धतयोक्तव्युत्पत्तिभेदकल्पनासम्भवाच्चेति । न चैवं सति कालादावपि कालिकसम्बन्धावच्छिन्नप्रतियोगिताकघटत्वाभावो नास्तीति प्रतीत्यनुरोधेन घटत्वादेदेशिकविशेषणतास्वीकारावश्यकतया तत्र समवायावच्छिन्नप्रतियोगिताकघटत्वाभावो नास्तीति व्यवहारापत्तिः, समवायावच्छिन्नप्रतियोगिताकघटत्वाभावे साध्ये कालत्वादावुक्तलक्षणाव्याप्तिप्रसङ्गश्चेति वाच्यम् । प्रतियोगिमति तदभावत्वेन वृत्त्यनभ्युपगमेन साध्यनिष्ठप्रतियोगिताकाभावत्वावच्छिन्नहेतुमवृत्तित्वस्य विवक्षणादेवोक्तापत्त्यनवकाशादित्यलमधिकेन । - आलोकप्रकाशः कालिकसम्बन्धावच्छिन्नप्रतियोगिताकत्वस्य संशयदशायामनुभवसिद्धस्य तदविशेषितैतदभावत्वावच्छिन्नप्रतियोगिताकाभावप्रकारकाधिकरणविशेष्यकस्य तादृशाभावविशेष्यकाधिकरणवृत्तित्वप्रकारकस्य च संशयस्य कालिकसम्बन्धेनेतदभावाभाववत्वतदभावोभयकोटिकतयोक्तप्रतीतिप्रतिवध्यत्वावश्यम्भावेन तदशायां तादृशसंशय उच्छित । अस्मन्मते च दैशिकविशेषणतासम्बन्धेनाधिकरणे एतदभावाभाववश्वप्रकारक एव प्रत्ययस्तत्र वक्तव्यः । स च न विरोधीति भावः। . ननु दैशिकविशेषणतासम्बन्धापन्छिनप्रतियोगिताकाभावे ताशासम्बन्धावछिनप्रतियोगितासंशयकत्वदशायामयमभावो नास्तीति वाक्यादेतदभावाभावस्य दैशिकविशेषणतया निश्चयात्तेन सम्बन्धेन तत्संशयोच्छेदः सिद्धान्तेऽपि तुल्य इत्यतो मतदयेऽपीष्टापत्तिरेव शरणम् । यदि च सिद्धान्ते देशिकविशेषणतासम्बन्धावच्छिन्नप्रतियोगिताकत्वसंशयस्य निश्क्तशाब्दज्ञाननिष्ठप्रतिबन्धकतायामुत्ते जकत्वं कल्प्यत इति न दर्शितसंशयोच्छेदप्रसङ्ग इत्युच्यते, तदाऽसन्मतेऽप्युक्तसंशयस्योत्तेजकत्वकल्पनेनेव ताशसंशयोच्छेदापत्तिवारणं सम्भवतीत्यत आह-वस्तुत इति। कल्पनासम्भवायेति । एवं भावस्य स्वरूपसम्बन्धानङ्गीकारे नास्तीति समभिन्याहारस्य नानासम्बन्धावगाहि. बोधान प्रति कारणत्वाङ्गीकारस्यावश्यकतयाऽतिगौरवच बोध्यम् । तथा च घटभिन्नादन्य इत्यादि प्रतीतिव्यवहारानुरोधेन भावानामपि दैशिकविशेषणताभ्युपगमो युक्त इति भावः। हेतुमवृत्तिस्वस्थ विवक्षणादेवेति । एतद्विवक्षणञ्च सर्वमतेऽप्यावश्यकम् । अन्यथा घटत्वाभावमिन्नत्वे साध्ये फ्टत्वादिरूपे हेतावव्याप्तिः । तत्र समानाधिकरणधर्मावच्छिनप्रतियोगिताकसाध्याभावस्याभावमात्राविकरणकत्वेन घटत्वाभावस्पतमा पटेऽपि स्वरूपसम्बन्धेन वृत्तेस्तस्यापि लक्षणपटकवादिति भावः । मलमधिकेनेति । अयं भावः-भावाभावसाधारणस्वरूपसम्बन्धाभ्युपगमे गुणक्रियादीनां द्रव्येषु For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नच रस्नमालिका *अथात्र साध्याभावप्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वमवश्यं विवक्षणीयम्, अन्यथा अन्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावमादायासम्भवापत्तः। तथा च कथं व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभाषस्य लक्षणघटकत्वम् ? तादृशाभावप्रतियोगितायाः सम्बन्धानवच्छिन्नत्वात्। * न च * साध्यवत्ताज्ञानमित्यत्र प्रकारतायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वविवक्षणानोक्तप्रमामादायासम्भवापत्तिरिति प्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशनं व्यर्थमेवेति वाच्यम् । एवं सति साध्यप्रकारतायां स्वविषयीभूताभावप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशाभिधानविरोधापत्तः। वाच्यत्वादी साध्ये व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकसाध्याभावमादायैव लक्षणसमन्वयसम्भवेन प्रतियोग्यवृत्तिश्चेति ग्रन्थानुत्थानापत्तेश्च । * न चैवं सति साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकाभावनिवेशस्फोरकतया साध्याभावपदसार्थक्यसम्भवात्तद्वैयर्थ्याभिधानासङ्गतिरिति वाच्यम्, साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितायां साध्यनिष्ठत्वं नोपादेयं प्रयोजनाभावात् । तथा च वाच्यत्वादिसायके व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावानुपगमेऽपि लक्षणसमन्वयसम्भवात् प्रतियोग्यवृत्तिश्चेति प्रन्यानुत्थितिरित्यत्रैव तत्तात्पर्यात् । ... नूतनालोकः असम्भवापत्तेरिति । समवायसम्बन्धावच्छिन्नप्रतियोगिताकसाध्याभावस्य तेन सम्बन्धेन साध्यवत्ताज्ञानविरोधित्वादिति भावः। वक्ष्यमाणरीत्या स्वविषयीभूताभावप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशाभिधानस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेश एव तात्पर्यमिति न तदभिधानविरोध इति याच्यते, तदाप्याह-वाच्यत्वादाविति । लक्षणसमन्वयसम्भवादिति। घटाद्यभावमादायेत्यादिः । ... आलोकप्रकाशः स्वरूपसम्बन्धाभ्युपगमस्यावश्यकतया सिद्धिप्रसङ्ग इति तु न शङ्कथम् ; उक्तस्वरूपस्याभावत्वविशिष्ट सम्बन्धत्वमेव, न तु रूपत्वादिविशिष्टसम्बन्धत्वम् । अत एव वायौ कालिकसम्बन्धावच्छिन्नप्रतियोगिताकरूपाभावो नास्तीति प्रतीतिवन रूपवसाबुद्धिः। तथा च गुणादिविशिष्टबद्धिनिर्वाहाथै तत्स्वीकारस्यावश्यकत्वादिति। . For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका तस्वकाश टिप्पण्योपबृंहिता •* न च संयोगेन घटत्वेन पटो नास्तीत्वनुभवबलाद्वयधिकरणधर्मावच्छिन्नप्रतियोगिताया अपि सम्बन्धावच्छिन्नत्वसिद्धिः। अनुभवानादरे तु समानाधिकरणधर्मावच्छिन्नप्रतियोगिताया अपि तदसिद्धिप्रसङ्ग इति वाच्यम् । बाधबुद्धिप्रतिबन्धकतायाः सम्बन्धविशेषनियन्त्रितत्वानुरोधेन समानाधिकरणधर्मावच्छिमप्रतियोगितायास्तत्सिद्धः। अन्यथा एकविधघटाद्यभावबुद्धः संयोगसमवस्यादिनिखिलसंसर्गावगाहिघटादिज्ञानप्रतिबन्धकधप्रसङ्गादिति चेत् ? मैषम्, घटत्वादिविशिष्टपटाद्यवाहिशानघटत्वाधवच्छिन्नपटादिनिष्ठप्रतियोगिताकाभाष - नूतनालोकः ग्रन्थानुस्थितिरिति । न च साध्यनिष्ठत्वोपादानेऽपि तदनुत्थितिस्तदवस्थैव, घटादिवृत्तित्वविशिष्टवाच्यत्वाभाव-वाच्यत्वघटोभयाभावादिकमादाय लक्षणसमन्वयसम्भवादिति वाच्यम् ; पूर्वलक्षण इवात्रापि विशिष्टाभावो विशेषणविशेष्यसम्बन्धाभावरूपः, उभयाभावस्तु परम्परासम्बन्वेन द्वित्वाभावरूप एवेत्याशयेनैव प्रतियोगितायां तदुपादानात् । न चैवं सति विशिष्टसत्तावान् जातेरित्यादावतिव्याप्तिः, तत्र विशिष्टसत्ताभावस्य साध्याप्रतियोगिकत्वेन केवलसाध्याभावस्य यत्सामानाधिकरण्याभावेन च व्यधिकरणधर्मावच्छिन्नाभावस्यैव लक्षणघटकत्वादिति वाच्यम् । तत्र वैशिष्टयस्यैव स्वावच्छिन्नाधेयतानिरूपकत्वसम्बन्धेन साध्यत्वोपगमेन विशिष्ठसत्ताभावस्य साध्यप्रतियोगिकवानपायात्। सम्बन्धविशेषनियन्त्रितत्वानुरोधेनेति । सम्बन्धविशेषावच्छिन्नप्रतियोगित्वावगाहित्वघटितधर्मा आलोकप्रकाशः विशिष्टाभावः। विशिष्टाभावपद प्रतिपाद्यः। यद्वा विशिष्टप्रतियोगिकत्वेन भवदभिमतोऽभावः । विशेषणविशेष्यसम्बन्धाभावरूप इति । विशेषणस्य विशेषणविधया संसर्गविधया वा भासमानं सामानाधिकरण्यरूपं यद्वैशिट्यम् , तत्प्रतियोगिनो विशेष्यनिष्ठो यः सम्बन्धः सामानाधिकरण्यात्मकस्वावच्छिन्नाधेयतानिरूपकत्वरूपपरम्परासम्बन्धावच्छिन्नतनिष्प्रतियोगिताकाभावरूप एवेत्यर्थः । तेन सामानाधिकरण्यसम्बन्धेन घटत्वविशिष्ट वाच्यत्वाभावस्य घटवृत्तित्वविशिष्टवाच्यत्वाभावस्य च संग्रहः । वस्तुतस्तु घटवृत्तित्वविशिष्टवाच्यत्वमित्यादौ घटत्वादेरपि सामानाधिकरण्यसम्बन्धेन धर्मिपारतन्त्र्येण वाच्यत्वे भानाद्विशेषणत्वं यथाश्रुतमेव बोध्यम् । परम्परासम्बन्धेनेति । स्वावच्छिन्नाधेयतानिरूपकत्वसम्बन्धेनेत्यर्थः। इत्याशयेनेति । तथा च विशिष्टाभावोभयाभावपदे पूर्वाशे भावप्रधान इति भावः । For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रस्नमालिका मानयोरपि प्रतिवध्यप्रतिबन्धकभावसत्वेन तस्य च सम्बन्धविशेषनियन्त्रितत्वात् तत्प्रतियोगितायाः अपि सम्बन्धावच्छिन्नत्वसिद्धः। तादृशामावज्ञानस्याप्रतिबन्धकत्वे बाधग्रन्थे उपनीतकाञ्चनमयत्वाद्यवच्छिन्नप्रतियोगिताकवनयापभावस्य हेत्वाभासत्वोक्तेरसाङ्गत्यं स्यात् । स्पष्टं चेदं प्रथमस्खलक्षणे । अथ ह्रदो वह्नित्वावच्छिन्नप्रतियोगिताकवह्नयभाववान् घटत्वेन पथभाववांधेत्याधाकारकसमूहालम्बनप्रमाया अपि सामान्यान्तर्गततया तस्याः स्वसमानधर्मितावच्छेदककसाध्यवत्ताशानप्रतिबन्धकत्वादन्याप्तिः।। न च समूहालम्बनभिन्नत्वस्य प्रमायां विवक्षणान्नोक्तदोष इति वाच्यम् , तथाप्येकत्र द्वयमिति रीत्या तदुभयावगाहिलानाव्यावृत्तेः। ... नूतनालोकः वच्छिन्नत्वान्यथानुपपत्त्येत्यर्थः। सम्बन्धविशेषनियन्त्रितत्वादिति । अन्यथा एकविधव्यधिकरणधर्मावच्छिन्नाभाववत्ताज्ञानस्य निखिलसम्बन्धावगाहिस्वविषयीभूताभाषप्रतियोगितावच्छेदकविशिष्टप्रतियोगिमत्ताबुद्धिप्रतिबन्धकत्वप्रसङ्ग इति भावः । ननु विषयविरोधविरहेण व्यधिकरणधर्मावच्छिन्नाभाववत्ताज्ञानस्य प्रतिबन्धकत्वमेवाप्रामाणिकमत आह-तादृशाभावज्ञानस्येति । उपनीतेति । लाघवज्ञानविषयेत्यर्थः। हेत्वाभासत्वोक्तेरिति । तत्रेयमुक्तिय॑धिकरणधर्मावच्छिन्नाभाववादिमतेन, सिद्धान्ते तादृशाभावस्यैवासिद्धेः। . समूहालम्बनभिन्नत्वस्येति । तच्च विषयताविशिष्टान्यत्वम् , वैशिष्टयं च स्वनिरूपकत्व-स्वविशिष्टविषयतानिरूपकत्वोभयसम्बन्धेन। स्ववैशिष्टधं च निरूपकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवज्ज्ञाननिरूपितत्वसम्बन्धेन । स्वनिरूपकत्व-स्वभिन्नमुख्यविशेष्यतानिरूपकत्वोभयसम्बन्धेन मुख्यविशेष्यताविशिष्टान्यत्वपर्यवसितं मुख्यविशेष्यताद्वयानिरूपकत्वं वा। तदुभयावगाहिशानाव्या आलोकप्रकाशः - अत्र ज्ञानपदोपादानात् स्वनिरूपकं यत् प्रकारतावच्छेदकनिष्ठं प्रकारत्वम् , तन्निरूपितत्वसम्बन्धेन प्रकारत्वस्य विशेष्यताविशिष्टत्वेऽपि न संग्राह्यज्ञानासंग्रहः। यत्र स्थलविशेषे प्रमासामान्यान्तर्गत समानाधिकरणव्यधिकरणधर्मावच्छिन्नाभावद्वयविषयकसमूहालम्बनं तदङ्कुरं वह्नयभाववद् घटत्वेन वह्नयभाववच्चेत्याकारकं जातम् , स्वसमानाकारकप्रत्येकज्ञानञ्च न जातम्, तत्र स्वानिरूपकज्ञानविषयतायाः स्वनिरूपकज्ञानेऽभावादसमूहालम्घनत्वापत्या . अन्यातेरपरिहारात् कल्पान्तरमाह-स्वनिरूपकरवेति । For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता न च प्रतिवध्यतायां भ्रमभिन्नवृत्तित्वं निवेश्यते, तथा च न कोऽपि दोष इति वाच्यम्; एवं सत्यतिव्याप्त्यापत्तः, अयोगोलकं. धूमाभायवदित्यादि प्रमाया भ्रमं प्रत्येव प्रतिबन्धकत्वात् । न च हेतुमन्मुख्यविशेष्यकत्वस्य प्रमायां निवेशादुक्तज्ञानयोयावृत्तिरिति वाच्यम् । एवमपि वृक्षे समानासमानाधिकरणधर्मावच्छिन्नप्रतियोगिताककपिसंयोगाभावयावगाहिज्ञानमादायाव्याप्तेः। नूतनालोकः । वृत्तेरिति । तदीयविशेष्यताया एकतया प्रत्येकज्ञानीयविषयतातो भिन्नत्वेन विषयताविशिष्टान्यत्वाधनपायादिति भावः । भ्रमभिन्नेति । तत्त्वश्च सम्बन्धविशिष्टान्यप्रकारताशून्यत्वम् , वैशिष्टयश्च स्वानुयोगिनिष्ठविशेष्यतानिरूपितत्व-स्वप्रतियोगिनिष्टत्वखावच्छिन्नत्वैतत्रितयसम्बन्धेन । अतिव्याप्त्यापत्तेरिति । न च प्रतिवध्यतायां स्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानत्वावच्छिन्नत्वस्य विवक्षणीयतया अयोगोलकं धूमाभाववदित्यादिप्रमाया उपादाने तादृशभ्रमभिन्नवृत्तिप्रतिवध्यत्वाप्रसिद्धया कथमतिव्याप्तिरिति वाच्यम् ; प्रतिवध्यतायां भ्रमभिन्नवृत्तित्वस्य विवक्षणे साध्यवत्ताज्ञाननिष्ठत्वमेव तत्र निवेशयितुं शक्यते, न तु साप्यवत्ताज्ञानत्वावच्छिन्नत्वम् । तथा सति हृदो वह्नयभाववानित्यादिप्रमाया उपादाने स्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानत्वावच्छिन्नभ्रमभिन्नवृत्तिप्रतिवध्यत्वाप्रसिध्याऽव्याप्तेः । एवं चायोगोलकं धूमवत् पर्वतश्च धूमवानिति समूहालम्बननिष्ठपर्वतविशेष्यकधूमवत्ताबुद्धित्वावच्छिन्नप्रतिवध्यताया भ्रमभिन्नवर्तिन्याः प्रसिद्धत्वात् । तस्याश्चायोगोलकं धूमाभाववदिति प्रमायामभावादतिव्याप्तिसङ्गतः। भ्रमभिन्नवृत्तित्वस्य प्रतिवध्यतायां निवेशे साध्यवत्ताज्ञाननिष्ठत्वादीनामुपलक्षणमेतत् । - आलोकप्रकाशः अपेक्षाबुद्धिविशेषविषयत्वरूपद्वित्वस्याननुगतत्वेन पर्यवसितमाह-स्वनिरूपकत्वेत्यादिना । मुल्थविशेष्यताद्वयेति । अत्र स्वानवच्छेदकत्वमपि सम्बन्धकोटौ मुख्यविशेष्यतायां निवेशनीयम् । तेन धर्मितावच्छेदकनिष्ठप्रकारतानिरूपितविशेष्यतातो धर्मितावच्छेदकावच्छिन्नविशेष्यताया भेदेऽपि न क्षतिः ।.. मुख्यत्वञ्च प्रकारतानात्मकत्वम्, प्रकारत्वानवच्छिन्नत्वं वा। एकतयेति । एकस्यां विशेष्यतायां निरूपितत्वसम्बन्धेन वर्तमानं यद्वयं प्रकारताद्वयम् , तदभिन्न प्रकारेणेत्यर्थकेन एकत्र द्वयमिति रीत्येत्यनेनैव विशेष्यतैक्यप्रतीतिरिति भावः। मूले For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नव' रत्नमालिका न च हेतुमन्मुस्थविशेष्यकत्वं परित्यज्य प्रमायां मुख्यविरोवतायानिरूपकत्वं प्रकारताविशिष्टान्यत्वं च विवक्ष्यते। वैशिष्ट्य खनिरूपकत्वस्वविशिष्टप्रकारतानिरूपकत्वोभयसम्बन्धेन । खवैशिष्टयं च स्वमिन्नत्व-स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वोभयसम्बन्धेन । तथा च न कोऽपि दोष इति वाच्यम् । एवमपि वह्नयभाववद्धदसमानकालीनपर्वतो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकव यभाववानिति प्रमाया अव्यावृत्तेरव्यातिप्रसङ्गात् , तादृशज्ञानस्य स्वीयधर्मितावच्छेदकीभूतहदत्वावच्छिन्नविशेष्यकसाध्यपत्ताज्ञानप्रतिबन्धकत्वात् । __ नूतनालोकः मुख्यविशेष्यताद्वयानिरूपकत्वमिति । विभिन्नधर्मावच्छिन्नविशेष्यकसमूहालम्बनव्यावृत्त्यर्थमिदानीमेतन्निवेशः। उक्तज्ञानयोर्ध्यावृत्तिरिति। न चैवमपि पर्वतो घटत्वेन वहथभाववान् । हृदो वह्नयभाववांश्चेति समूहालम्बनमादायाव्याप्तिरिति वाच्यम् ; तादृशप्रमासामान्ये स्वीयधर्मितावच्छेदकावच्छिन्नविशेष्यताशालिसाध्यवत्ताबुद्धित्वविशिष्टत्वं विशेषणम्। वैशिष्ट्यं च स्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकत्वाभाववत्त्वसम्बन्थेन । इत्थं च पर्वतविशेष्यकवह्निमत्ताबुद्धित्वस्यापि तादृशतया तथापकप्रतिवध्यतानिरूपितप्रतिबन्धकत्वाभावस्योक्तसमूहालम्बनप्रमायां सत्त्वेनाव्याप्तेरनवकाशात् । स्वीयर्मितावच्छेद आलोकप्रकाशः प्रमेत्यनुक्त्वा भ्रमभिन्नेत्युक्तिरुक्तरूपस्य सर्वाशे प्रमात्वलाभाय । तेन हृदो वह्निमानित्यादिभ्रमाणां किञ्चिदंशे प्रमात्वेऽपि न क्षतिः । व्याख्यायाम् -घटावृत्तीति । अत्र स्वरूपसमवायान्यतरस्य साध्यतावच्छेदक सम्बन्धतया तद्वयक्तित्वादिकमादाय सद्धेतुत्ववारणाय स्वसमवेतेति। समवायस्यैव तथात्वे यद्यपि समवेतेति व्यर्थम् , तथापि . घटावृत्तिगुणत्वाभाववदटावृत्तिशून्यमित्याकारकगगनादिविशेष्यकप्रमाया अप्युपादानसम्भवान्नातिप्रसक्तिरित्यन्यतरस्यैव तथात्वं विवक्षणीयम् । न चोक्तप्रमाया उपादानेऽपि केवलाभावस्यापि गुणत्वाभावधर्मितावच्छेदकतया अभाववान् साध्यवानिति ज्ञानसाधारणप्रतिवध्यतायाः . कामिनीजिज्ञासादिमात्रनिरूपितत्वात् कथमतिप्रसक्तिवारणमिति वाच्यम् ; स्वीयधर्मितावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नविशेष्यकत्वस्य विवक्षगात् केवलाभावस्य धर्मितावच्छेदकतापर्याप्त्यनधिकरणत्वेन तदादायातिप्रसङ्गासम्भवादित्याशयः । For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अव्याप्तेर्दुवरत्वात् । www.kobatirth.org नूतन लकडीमन-मममशयपहिता नूतनालोका कत्वेन कीभूतेति । न च हृदत्वस्यैष वह्रयभाववद्धकालीन पर्वतत्वस्यापि स्वधर्मितावच्छेदतदवच्छिन्न विशेष्यकसाध्यवत्ताज्ञानसाधारणस्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानत्वव्यापिका कामिनीजिज्ञासादिप्रतिवध्यतैवेति नोक्तज्ञानमादायाव्याप्तिरिति वाच्यम्; गुणत्वाभाववद्वटावृत्तिसमवेतवान् विभुत्वादित्यादावुक्तरीत्या अतिव्याप्तेः । गुणत्वाभाववद्धदावृत्तिसमवेताभाववानयमित्यादिप्रमायामिदत्वत्वस्येव घटावृत्तिसमवेतत्वस्यापि धर्मितावच्छेदकतया तदवच्छिन्नविशेष्य कसाध्यवत्ताज्ञानसाधारणस्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानत्वव्यापकत्वस्य तादृशजिज्ञासादिप्रतिवध्यतायामेव सत्त्वात् । अतः स्वधर्मितावच्छेदकं यथतत्तदवच्छिन्नविशेष्यकसाध्यवत्ताज्ञानप्रतिबन्धकत्वाभाव कूटस्यैव विवक्षणीयतया ܕ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only + मालोकप्रकाशः सादजिज्ञासादीति । अत्रादिपदेन घटवृत्तिसमवेतं न गुणत्वाभाववदित्यादिनिश्चयपरिग्रहः । कपिसंयोगाभावववक्षसमानकालीनघटत्वेन कपिसं योगाभाववत्ताज्ञानस्य प्रकारताविशिष्टान्यत्वविरहादेव व्यावृत्तेरुक्तं वृक्षनिष्ठाभावप्रतियोगीत्यादि । वृक्षः कपिसंयोगीति बुद्धिं प्रति वृक्ष- निष्ठाभावप्रतियोगी कपिसंयोग इति निश्वयस्यापि प्रतिबन्धकत्वमस्त्येव । अन्यथा हृदनिष्ठाभावप्रतियोगी वह्निरिति निश्चयस्याप्रतिबन्धकत्वापच्या तद्विषयस्य बाधत्वप्रदर्शनमनुपपन्नमेव स्यादिति भावः । मूले – मम्याप्तिरिति । यद्यपि वृक्षनिष्ठाभावप्रति योगिक कपि संयोगसमानकालीन घटत्वस्य शुत्वापेक्षा गुरोर्नाभावप्रतियोगितावच्छेदकत्वमिति तदवगाहिनिरुक्तज्ञानस्य न प्रमात्वम् । अत एव कूटघटितलक्षणे कम्बुग्रीवादिमत्त्वेन पटो नास्तीत्यभावप्रतियोगितायां घटत्वस्यैवावच्छेदकत्वम्, न तु गुरोः कम्बुग्रीवादिमत्त्वस्येति 'तद्वद्वृत्तित्वाभावस्तु' इत्यादिदीधितिव्याख्यानावसरें स्पष्टमुक्तम्, तथापि घटत्वांशे समानकालीनत्वान्तमुपलक्षणतत्रैव भासते, प्रतियोगिताप्रकारकबुद्धौ प्रतियोगितावच्छेदकांशे उपलक्षणतया भानस्य सिद्धान्तसिद्धत्वात् । अत एव घटाभावादिक विषयीकृत्य जात्यवच्छिन्नप्रतियोगिकोऽयमभाव इत्यादिप्रतीतिव्यवहारोपपत्तिः । यद्वा गुरोरपि पधिकरणधर्मस्य प्रतियोगितावच्छेदकत्वमस्येव । अत एव चक्रवर्त्तिलक्षणे हृदत्ववहित्वाभ्यां बहुभावोपादानम् । एवञ्च निरुक्तज्ञानमादायाव्याप्तिर्भवत्येवेति भाषः । Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 न च रस्नमालिका न च स्वनिरूपितमुख्यविशेष्यतावच्छेदकावच्छिन्नविशेष्यकसाध्यवत्ताज्ञानसामान्यविषक्षणादुक्तज्ञानव्यावृत्तिरिति वाच्यम् , एवं सति यत्समानाधिकरणत्वविशेषणवैयर्थ्यांपत्तेः। सद्धेतुस्थले व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमाया एव हेतुमन्मुख्यविशेष्यकत्वेन लक्षणघटकत्वादिति चेत् ? सत्यम् । हेतुमन्मुख्यविशेष्यकत्वादिकमुपादाय हेतुमद्वृत्तिस्वीयधर्मितावच्छेदकावच्छिन्विशेष्यकसाध्यवत्ताशानप्रतिबन्धकल्वाभावस्य विवक्षया निखिलदोषोद्धारसम्भवः । . नूतनालोकः ___ वैयापत्तेरिति । यद्यद्विशेष्यकप्रमासामान्य इति रीत्या विवक्षणाद्वयाप्तहेतुनिष्ठत्वोपपत्तिर्बोध्या। न चाव्याप्यवृत्तिसाध्यकसद्धेतौ समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमाया अपि हेतुमन्मुख्यविशेष्यकत्वेनाव्याप्यवृत्तित्वज्ञानशून्यकालीनायाश्च तस्याः साध्यवत्ताज्ञानप्रतिबन्धकत्वादव्याप्त्यापत्त्या हेत्वधिकरणे निरवच्छिन्नवृत्तिकत्वपर्यवसन्नं यत्समानानाधिकरणत्वविशेषणं सार्थकमेवेति वाच्यम् ; तदुपादानेऽपि वृक्षवृत्तिकपिसंयोगसमानकालीनघटत्वेन कपिसंयोगाभाववान वृक्ष इति ज्ञानाव्यावृत्त्या अव्याप्तेर्दुवारत्वादित्याशयः । हेतुमन्मु ख्यविशेष्यकत्वेनेति । न चेदानी विशेषणमिदं व्यर्थमेवेति वाच्यम् ; वह्नयभाववान् व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववानिति ज्ञानीयधर्मितावच्छेदकावच्छिन्नविशेष्यकानाहार्यसाध्यवत्ताज्ञानाप्रसिद्धिनिबन्धनाव्याप्तिवार - णार्थं तदावश्यकत्वादित्याशयः । हेतुमन्मुख्यविशेष्यकत्वादिकमुपादायेति । ह्रदो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववानित्यादिप्रमाया अपि सामान्यान्तर्गततया तदीयहेतुमवृत्तिधर्मितावच्छेदकाप्रसिद्धिनिबन्धनाव्याप्तिवारणार्थ हेतुमद्वृत्तिधर्मावच्छिन्नमुख्यविशेष्यताकत्वादिकं प्रमायां निवेश्येति तदर्थः। तेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववानिति निर्धर्मितावच्छेदककप्रमाया व्यावृत्तिः । अत्रादिपदेन पूर्वोक्तप्रकारताविशिष्टान्यत्वविशेषणपरिग्रहः । तेन पूर्वोक्तकपिसंयोगाभावद्वयावगाहिज्ञानव्यावृत्तिः। वीयधर्मितावच्छेदकेति । यत्समानाधिकरणसाध्याभावनिष्ठप्रकारितानिरूपितस्वीयविशेष्यतावच्छेदकेत्यर्थः, तेन वृक्षः कपिसंयोगाभाववान् घटत्वेन कपिसंयोगाभाववञ्च द्रव्यमिति प्रमाया वृक्षत्वावच्छिन्नविशेष्यकसाध्यवत्ताज्ञानप्रतिबन्धकत्वेऽपि न क्षतिः । For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका तत्प्रकाश टिप्पण्योपबृंहिता न च वृक्षनिष्ठाभावप्रतियोगि कपि संयोगसमानकालीन घटत्वेन कपिसंयोगाभाववान् वृक्ष इति ज्ञानस्याभ्यावृत्त्या अव्याप्तिः, अव्याप्यवृत्तित्त्वज्ञानविरहदशायां तादृशज्ञानस्य साध्यवत्ता बुद्धिप्रतिबन्धकत्वात् । अध्याप्यवृत्तित्वज्ञानविरह वैशिष्ट्या नवच्छिन्नत्वस्यापि प्रतिबन्धकतायां निवेशेऽव्याप्यवृत्तिसाध्यकव्यभिचारिण्यतिव्याप्त्यापत्तिरिति वाच्यम्, अव्याप्यवृत्तित्वानविरहानन्त ७९ र्भावेणैव कपिसंयोगाद्यभाववत्तानिश्चयस्य प्रतिबन्धकत्वोपगमेन तादृशज्ञानस्य साध्यवत्ताज्ञानाप्रतिबन्धकत्वात् । साध्यवत्ताज्ञानविषयधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमाया वा विवक्षणेनोक्तज्ञानव्यावृत्तेः । नूतनालोकः अन्यायवृत्तित्वज्ञान विरहानन्तर्भावेणैवेति । अव्याप्यवृत्तित्वज्ञानानास्कन्दितत्वं प्रतिबन्धकतावच्छेदककोटावनन्तर्भाव्यैवेत्यर्थः । तथा च व्याप्यवृत्तित्वावाहित्वेनैवेति फलितम् । तदन्तर्भावेण प्रतिबन्धकत्वेऽप्रामाण्यज्ञानादिभिः सह विशेषणविशेष्यभावे विनिगमनाविरहेण गुरुभूतप्रतिबन्धकताबाहुल्यादिति भावः । ननु व्याप्यवृत्तित्वावगाहित्वेन प्रतिबन्धकत्वाभ्युपगमे यत्समानाधिकरविशेषणवैयर्थ्यम्, आवश्यकहेतुमद्विशेध्यकत्व विशेषणेनैवाव्याप्यवृत्तिसाध्यकस्थले साध्यवत्ताज्ञानप्रतिबन्धकीभूतसाध्याभावप्रमाया लक्षणाघटकत्वनिर्वाहात् । न च यत्स For Private And Personal Use Only आलोकप्रकाशः भव्याप्यवृत्तिसाध्यकेति । अन्याप्यवृत्तित्वग्रहविषयसाध्यकेत्यर्थः । तेन अगृहीताव्याप्यसाध्यवत्ताज्ञानप्रतिबन्धकत्वस्याव्याप्यवृत्तित्वज्ञानविरहवैशिष्ट्यान वच्छिन्न वृत्तिताकसाध्यकस्थले त्वेऽपि न क्षतिः । प्रतिबन्धकत्वोपगमनेति । उपगतञ्च तथा प्रतिबन्धकत्वं संशयपक्षतागादाम् । साध्यवत्ताज्ञानाप्रतिबन्धकत्वादिति । व्याप्यवृत्तित्वञ्च धर्मिणि निरवच्छिन्नवृत्तिकत्वम, अवच्छिन्नवृत्तिकान्यत्वं वा । साध्याभावांशे तदवगाहने च ज्ञानस्य भ्रमत्वेन लक्षघटकत्वमेव न स्यादिति भावः । व्याख्यायाम् व्याप्यवृत्तित्वाव गाद्दित्वेनैवेति । न च व्याप्यवृत्तित्वावगाहित्येन प्रतिबन्धकत्वस्वीकारे व्याप्यवृत्तित्वानवगाहिनः कपिसंयोगो नास्तीत्यादिनिश्चयस्य सत्त्वेऽव्याप्यवृत्तित्वज्ञानाभावदशायामनुभवसिद्धस्तद्वत्ताबुद्धेरनुत्पादन 'स्यादिति वाच्यम् अनुभवस्य सविवादतया इष्टत्वात् । एतस्वर सेनैव वा कल्पान्तरानुसरणात् । व्याप्यवृत्तित्वावगाहित्वेन प्रतिबन्धकत्वेऽपि तस्याप्रामाण्यजानादिभिः सहविशेषणविशेष्यभावे विनिगमनाविरहेण प्रतिबन्धकता बाहुल्यप्रसक्तेरुक्तम् — गुरुभूतेति । न च महानसीयत्वादिविशिष्टतया वह्नित्वाद्यनुपस्थितिदशायामपि प्रतीयमनस्य महान - Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८० 'ग' रत्नमालिका नूतनालोकः मानाधिकरणत्वं यदधिकरणनिरूपित विशेष्यता सम्बन्धावच्छिन्नवृत्तित्वरूपं हेतुमद्विशेध्यकत्वपर्यवसन्नम्, तच्च प्रमायामेव विशेषणमिति न तद्वैयर्थ्यमिति वाच्यम्; एवं सति " अधिकरणवृत्तित्वं निरवच्छिन्नं ग्राह्यम्" इत्यादिग्रन्थ विरोधापत्तेः यत्समानाधिकरणपदस्वारस्यभङ्गापत्तेश्वेत्यत आह- साध्यवत्ताज्ञानविषयेति । यद्वा अव्याप्यवृत्तित्वज्ञानविरहानन्तर्भावेणैवेत्ययं प्रन्थः संशयोत्तरप्रत्यक्षे विशेषदर्शनस्येव तदभाववत्ता आलोकप्रकाशः सीय वहयभावादेः प्रतियोगितायां यथा धर्मिविशेषणतापन्नेषु महानसीयत्ववह्नित्वादिनानाधर्मेषु मिथो विशेषणविशेष्यभावापन्नेष्वेवावच्छेदकत्वम्, प्रत्येकं तादृशधर्माणामतिप्रसक्तत्वेऽपि यत्रकस्मिन्नवच्छेद्ये नानाधर्माणामवच्छेदकत्वम्, तत्रावच्छेदकसमुदायस्यानतिप्रसक्त्यैव निर्वाहः, अबच्छेदकतावच्छेदकसम्बन्वादिभेदेनावच्छेदकतया भेदेऽपि नावच्छेयभेदः, अवच्छेद्यप्रतीताववच्छेदकप्रकारतानिरूपितविशेष्यता भेदेनैव तद्भेदात् महानसीयवह्निर्नास्तीत्यादिप्रतीतौ च नानाधर्मप्रकार कसमूहालम्बनन्यावृत्तवह्नयादिविषयताया ऐक्यात् । तथा प्रकृतेऽपि धर्मविशेषणतापन्नेषु मिश्रो विशेषणविशेष्यभावानापन्नेष्वेवाव्याप्यवृत्तित्रज्ञानविरहाप्रामाण्यज्ञानानास्कन्दितत्वनिश्चयत्वादिषु प्रतिबन्धकतावच्छेदकत्वं स्वीक्रियत इति न विनिगमनाविरहप्रयुक्त प्रतिबन्धकताबाहुल्यम् । अत एव सत्प्रतिपक्षग्रन्थे प्रत्यक्षान्यज्ञानत्वस्य प्रतिवध्यतावच्छेदकत्वे विनिगमनाविरहमाशङ्कय एकत्र द्वयमितिरीत्या प्रत्यक्षान्यत्वज्ञानत्वयोः प्रतिवध्यतावच्छेदकत्वस्वीकारान्न वि गमनाविरह इत्युक्तमिति वाच्यम् अध्याप्यवृत्तित्रज्ञान विरहसहिताप्रामाण्यज्ञानानास्कन्दितत्यसहितनिश्चयत्वादिना धर्मिणो युगपत्प्रतीती एकतरस्यापरधर्मितावच्छेदकतया भानमा वश्यकम्, समूहालम्बनविलक्षणनिर्धर्मितावच्छेदकको भयमानस्याप्रामाणिकत्वादित्यप्रामाण्यज्ञानानास्कन्दितनिश्च यत्वावच्छिन्नविशेषणतापन्नाव्याप्यवृत्तित्वज्ञानविरहप्रकारिकाया Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only , अव्याप्यवृत्तित्वज्ञानविरह विशिष्ठनिश्चयत्वावच्छिन्नविशेपणतापन्नाप्रामाण्यज्ञानानास्कन्दितत्वप्रकारिकायाश्चावच्छेद्यत्यप्रतीतेरावश्यकतया धर्मिविशेष्यताभेदेन प्रतिवध्यप्रतिचन्वकभावभेदस्यावश्यकत्वात् । अनयैव युक्त्या 'तन' इत्यादिना एकत्र द्वयमिति रीत्या प्रत्यक्षान्यत्वज्ञानत्वयोः प्रतिवध्यतावच्छेदकत्वपक्षो भट्टाचार्यैनिराकृतः । विस्तरस्वन्यतोऽवसेयः । स्वारस्येति । स्वः स्वीयो रसोऽनादितात्पर्य यस्य सः स्वरसस्तस्य भावः स्वारस्यम् । ब्राह्मणादित्वात् ष्यञ् । प्रकारान्तरेणावतारयितुमभिप्रायान्तरमाहयति । विशेषदर्शनस्येवेति । मिश्रमतानुसारेणायं दृष्टान्तः, उपाध्यायमते उत्तेजकत्वस्यैच स्वीकारात् । दीधितिकारैस्तूत्तेजकत्वस्य हेतुत्वस्य चानङ्गीकारात् । युक्तिर व्यक्तीभविष्यति । Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता न चैवमपि वृक्षो घटत्वेन कपिसंयोगाभाववान् वृक्षनिष्ठाभावप्रतियोगी कपिसंयोग इति समूहालम्बनस्य वृक्षनिष्ठाभावप्रतियोगिकपिसंयोगकालीनो यो घटत्वेन कपिसंयोगाभावः, तद्वान् वृक्ष इति शानस्य चाव्यावृत्त्या अव्याप्ति१रिवेति वाच्यम् ; स्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितहेतुसमानाधिकरणसाध्याभावप्रकारताशून्यप्रतीतिविषयतावच्छेदकः स्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यताकसाध्यवत्ताशानसामान्यप्रतिबन्धकतानतिरिक्तवृत्ति - नूतनालोकः निश्चयोत्तरतद्वत्ताबुद्धौ अव्याप्यवृत्तित्वज्ञानस्य हेतुत्वमेवेत्यभिप्रायः, तत्पक्षेऽव्याप्यवृत्तित्वज्ञानमनन्तर्भाव्यैव तदभाववत्तानिश्चयस्य प्रतिबन्धकत्वात् । तथा च तदभाववत्तानिश्चयोत्तरतद्वत्ताबुद्धिसाधारणसाध्यवत्ताबुद्धित्वब्यापिका कामिनीजिज्ञासादिप्रतिवध्यतैव न तु बाधनिश्चयनिरूपिता तदभाववत्तानिश्चयानुत्तरतद्वत्ताबुद्धित्वावच्छिन्ना प्रतिवध्यतेति नाव्याप्तिप्रसक्तिरित्यभिप्रायः। नन्वेवं सत्यव्याप्यवृत्तिसाध्यकव्यभिचारिण्यतिव्याप्तिः । तत्रापि कामिनीजिज्ञासादिप्रतिवध्यताया एवोक्तयुक्त्या साध्यवत्ताज्ञानत्वव्यापकत्वात् । अतोऽव्याप्यवृत्तित्वज्ञानानुत्तरसाध्यवत्ताबुद्धित्वव्यापकत्वस्यैव प्रतिवध्यतायां विवक्षणीयतया अव्याप्तिदुर्वारैव। न चाव्याप्यवृत्तित्वभ्रमानुत्तरसाध्यवत्ताज्ञानत्वव्यापकत्वमेव विवक्ष्यताम् , तावतैवातिव्याप्तिवारणसम्भवात् , तथा च नाव्याप्तिरिति वाच्यम् ; एवमपि यत्समानाधिकरणत्वविशेषणवैयर्थ्यापत्तेर्दुवारत्वादित्यत आह - साध्यवत्ताज्ञानविषयेति । स्वत्वघटितत्वेनाननुगमाद्धदत्वाद्यवच्छिन्नविशेष्यकसाध्यवत्ताज्ञानप्रति - बन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकीभूतहदनिष्ठाभावप्रतियोगिवह्नित्व - रूपयत्किञ्चिद्धर्मावच्छिन्नविषयताशून्यतया हृदो वह्नयभाववा आलोकप्रकाशः तदभाववत्तानिश्चयानुत्तरतद्वत्ताबुद्वित्वावच्छिन्ना प्रतिवध्यतेति। तद्वत्ताबुद्धित्वस्यैव प्रतिवध्यतावच्छेदकत्वेऽव्याप्यवृत्तित्वज्ञाने जातेऽपि बाधनिश्चयकाले तद्वत्ताबुद्धयनुत्पादापत्तेरिति भावः । अव्याप्यवृत्तिसाथ्यकव्यभिचारिणीति। अव्याप्यवृत्तित्वप्रकारकज्ञानविषयव्यभिचारिणीत्यर्थः । तेनाव्याप्यवृत्तित्वज्ञानविषयव्याप्यवृत्तिसाध्यकस्यापि संग्रहः । अतिव्याप्तिवारणसम्भवादिति । अव्याप्यवृत्तिसाध्यकव्यभिचारनिरूपकाधिकरणेऽव्याप्यवृत्तित्वज्ञानस्य नियमेन भ्रमत्वादिति भावः । For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नच' रत्नमालिका विषयितानिरूपकतावच्छेदको यो धर्मस्तदवच्छिन्नविषयताशून्यत्वस्य धर्मविशिष्टत्वपर्यवसितस्य प्रमायां विवक्षणेनोक्तज्ञानव्यावृत्तेः। वैशिष्ट्यं खावच्छिन्नविशेष्यताकत्व-स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वोभयसंवन्धेन । प्रतियोगितावच्छेदकता च स्वविशिष्टरूपावच्छिन्नविषयताकत्वसम्बन्धावच्छिन्ना । वैशिष्ट्यं स्वविशिष्टप्रतीतिविषयतावच्छेदकत्व-स्वावच्छिन्नविशेष्यकसाध्यवत्ताशानसामान्यप्रतिबन्धकतावृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन । प्रतीतौ स्ववैशिष्ट्यं स्वावच्छिन्नाविशेष्यतानिरूपितहेतुसमानाधिकरणसाध्याभावप्रकारताकत्वसम्बन्धावच्छिन्नखनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन। भेदप्रतियोगितावच्छेदकता स्वावच्छिन्नविषयकनिश्चयत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नेति । नूतनालोकः नित्यादिज्ञानाव्यावृतेश्चाह-धर्मविशिष्टत्वपर्यवसितस्येति । अत्र प्रथमसम्बन्धनिवेशाद् ह्रदो वह्नयभाववानिति ज्ञानस्य द्वितीयसम्बन्धेन जलत्वरूपधर्मविशिष्टत्वेऽपि न क्षतिः । सद्धेतुस्थले हेतुमद्वृत्तिधर्मावच्छिन्नविशेष्यकसाध्याभावप्रमायाः स्वविशिष्टरूपावच्छिन्नविषयताकत्वस्य पर्वतत्वादिन्यधिकरणसम्बन्धत्वेन लक्षणाघटकत्वेऽपि न क्षतिः। विपक्षविशेष्यकव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमामादायैव लक्षणसमन्वयसम्भवात् । यद्वा स्वनिष्टप्रतियोगिताकात्यन्ताभाववत्त्वस्यैव द्वितीयसम्बन्धत्वं विवक्ष्यते। तथा च हेतुमद्विशेष्यकसाध्याभावप्रमाया अपि लक्षणघटकत्वनिर्वाहः। स्वविशिष्टप्रतीतिविषयतावच्छेदकत्वोपादानाद् धूमाभाववदयोगोलकत्वस्य नायोगोलकत्ववैशिष्टयप्रसक्तिः, तत्र स्वावच्छिन्नविशेष्यतानिरूपितहेतुसमानाधिकरणसाध्याभावप्रकारताकत्वस्थाने स्वावच्छिन्नविशेष्यताकत्वमात्रनिवेशे वह्नयभाववद्धदत्वस्य स्वावच्छिन्नविशेष्यताशून्यप्रतीतिविषयतावच्छेदकत्वाभावात्तादृशहदवृत्त्यभावप्रतियोगिवह्नित्वा . आलोकप्रकाशः हृदो वह्नयभाववानित्यादिज्ञानाब्यावृत्तश्चेति । इदानी प्रयोजनाभावेन हेतुमद्विशेष्यकत्वादेरनिवेशादिति भावः । यद्यपि यो यो धर्म इति वीप्साकरणे न तादृशज्ञानाव्यावृत्तिः, तथापि गौरवं बोध्यम् । यदि च यत्रैक एव विपक्षः, तद्विशेष्यकञ्च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमात्मकं ज्ञानं न जातं तत्राव्याप्तिरित्युच्यते, तदाप्याह-यद्वेति । तथा च धूमा For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता न चैवं सति केवलान्वयिसाध्यकस्थलेऽव्याप्तिः। तत्र स्वावच्छिन्नविशेष्यकसाध्यवत्ताज्ञानसामान्यप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेद - कधर्मस्याप्रसिद्ध रिति वाच्यम्; तादात्म्य अधिकरणतानिष्ठखावच्छिन्नप्रतियोगिताकात्यन्ताभाववत्त्वैतदुभयसम्बन्धेन किञ्चिद्विशिष्टत्वस्य प्रमायां विवक्षणेनाव्याप्त्यप्रसक्तेः। अधिकरणता च स्खविशिष्टप्रतिवध्यतानिरूपितप्रतिबन्धकतात्वसम्बन्धावच्छिन्ना। स्ववैशिष्टयं स्वसमानेत्यादिभेदवत्त्वसम्बन्धेन। स्वाधि नूतनालोकः त्मकरूपावच्छिन्नविषयताशून्यस्य ह्रदो वह्नयभाववानिति ज्ञानस्याव्यावृत्तिः । तादृशप्रकारतायां स्वावच्छिन्नविशेष्यतानिरूपितत्वोपादानाद्वयधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववद्धदसमानकालीनहदो वह्नयभाववानिति ज्ञानस्य हेतुसमानाधिकरणसाध्याभावप्रकारताशून्यप्रतीतिविषयतावच्छेदकीभूतप्रतिबन्धकतावृत्तिरूपावच्छिन्नाविषयकत्वेऽपि न तत्संग्रहापत्तिः। निरूपकतावच्छेदकधर्मस्याप्रसिद्धेरिति । तत्रात्यन्ताभावाप्रतियोगित्वमेव केवलान्वयित्वम् , न तु भेदप्रतियोगितानवच्छेदकत्वरूपम् । तेन कपिसंयोगाभावसाध्यकस्थले वृक्षत्वस्य स्वपदेन ग्रहणे वृक्षनिष्ठाभावप्रतियोगिकपिसंयोगाभावत्वरूपतथाविधधर्मस्य प्रसिद्धया अप्रसिद्धिनिबन्धनाऽव्याप्तिविरहेऽपि नासङ्गतिः। तादात्म्येत्यादि । अत्र प्रथमसम्बन्धोपादानाद् हृदो वह्नयभाववानि आलोकप्रकाशः भाववदयोगोलकमिति प्रमाया धर्मविशिष्टत्वाभावादसंग्रहेणातिव्याप्तिः स्यादिति भावः । अव्यावृत्तिरिति । तथा निवेशे च हृदनिष्ठाभावप्रतियोगिवह्नित्वस्येव वह्नयभाववद्धदत्वस्यापि तादृशप्रकारताशून्यप्रतीतिविषयतावच्छेदकत्वेन तदवच्छिन्नविषयताकोक्तज्ञानस्य व्यावृत्तिरिति भावः । वह्नयभाववानिति ज्ञानस्येति । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववद्धदो वह्नयभाववानिति ज्ञानीया या धर्मितावच्छेदकीभूतव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभावनिष्ठप्रकारता, तस्याः कथञ्चित्तादृशाभाववज्रदत्वावच्छिन्नविशेष्यतानिरूपितत्वात् कालीनहृदविशेष्यकज्ञानपर्यन्तानुधावनम् । प्रतिबन्धकतावृत्तिरूपेति । तच्च रूपं ह्रदत्वावच्छेदेन वह्नयभाववत्त्वादिकं बोध्यम् । अप्रसिद्धिनिबन्धनेति । अनेनात्र समानासमानाधिकरणधर्मावच्छिन्नप्रतियोगिताककपि'संयोगाभावद्वयावगाहिसमूहालम्बनमादायाव्याप्तिरस्तीति सूचितम् । नासङ्गतिरिति । औत्सर्गिकव्युत्पत्तिमित्यावच्छेदकावच्छेदेनान्वस्यानुपपत्तिरित्यर्थः । नन्वत्र स्वीयधर्मितावच्छेदकनिरूपिताधि For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नच रत्नमालिका करणता स्वावच्छिन्नविशेष्यकसाध्यप्रकारकानाहार्यज्ञानत्वसम्बन्धेन। भेदप्रतियोगितावच्छेदकता स्वरूपसम्बन्धेन । स्वनिष्ठप्रतियोगितावच्छेदकता स्वीयविशेष्यतावच्छेदकनिरूपितत्वसम्बन्धावच्छिन्ना। अधिकरणतानिष्टप्रतियोगिता स्वविशिष्टरूपावच्छिन्नविषयकत्वसम्बन्धावच्छिन्ना। स्ववैशिष्ट्यं स्वाश्रयवृत्तित्व स्वनिरूपकधर्मविशिष्टप्रतीतिविषयतावच्छेदकत्वोभयसम्बन्धेन । प्रतीती धर्मवैशिष्ट्यं स्वावच्छिन्नविशेष्यकहेतुसमानाधिकरणसाध्याभावप्रकारकत्वसम्बन्धावच्छिन्नखनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन। वृत्तित्वं स्वसमानेत्यादिभेदवत्त्वसम्बन्धेन । शेषं पूर्ववत् । इत्थं च घटो वाच्यत्वाभाववानिति भ्रमीयप्रतिबन्धकतानिष्ठा या घटत्वाद्यधिकरणता स्वव्यधिकरणेन स्वविशिष्टरूपावच्छिन्नविषयकत्वसम्बन्धेन तच्छ्न्यत्वं घटत्वेन वाच्यत्वाद्य नूतनालोकः त्यादिज्ञानस्य जलं वह्नयभाववदिति ज्ञानं स्वपदेनोपादायोक्तात्यन्ताभाववत्त्वसम्बन्धेन किञ्चिद्विशिष्टत्वेऽपि न क्षतिः। अधिकरणतावच्छेदकसम्बन्धघटकतया प्रतिबन्धकतात्वस्य प्रवेशाद् गुणवद्वान् समवायेन घटादित्यादौ व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमासामान्यस्य गुणोऽवृत्तिरिति निश्चयप्रतिवध्यः त्वाधिकरणतानिष्ठा या स्वीयधर्मितावच्छेदकनिरूपिताधिकरणता गुणत्वात्मकस्वविशिष्टरूपावच्छिन्नविषयकत्वसम्बन्धेन तद्विशिष्टत्वेऽपि न क्षतिः। अधिकरणतायां स्वीयधर्मितावच्छेदकनिरूपितत्वमनुपादाय प्रतियोगितायां स्वावच्छिन्नत्वनिवेशाद् हृदो वह्नयभाववानिति ज्ञानस्य स्वीयधर्मितावच्छेदकनिरूपिता या हृदनिष्ठाभावप्रतियोगी वह्निरिति निश्चयत्वावच्छिन्नप्रतिबन्धकतानिष्ठाधिकरणता, उक्तसम्बन्धेन तच्छून्यत्वेऽपि न क्षतिः। स्वव्यधिकरणेन खविशिष्टरूपावच्छिन्नविषयकत्वसम्बन्धेनेति । अत्र स्वव्यधिकरणत्वं स्वनिष्ठाधेयतानवच्छेदकत्वम् , स्वाप्रतियोगिकत्वं वा, ह्रदविशेष्यकवह्निमत्ताबुद्धित्वावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकतानिष्ट आलोकप्रकाशः करणतानिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वस्यैव द्वितीयसम्बन्धत्वमस्तु । किमर्थं तत्र स्वस्य प्रतियोगितावच्छेदकत्वघटनेत्याशङ्कयाह-अधिकरणतायामिति । तच्छून्यत्वेऽपीति । तद्वयक्तित्वावच्छिन्नतनिष्प्रतियोगिताकाभाववत्त्वेऽपीत्यर्थः । मूले-स्वविशिष्टप्रतिवध्यतानिरूपितेति । स्वपदं धर्मितावच्छेदकपरम् । स्वाश्रयवृत्तित्वेति । स्वं हृदत्वाद्यधिकरणता, न तु पर्वतत्वाद्यधिकरणता, सदाश्रय For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपचंहिता भावप्रमायां सूपपादमिति । यद्वा द्वितीयसम्बन्धघटकाधिकरणता पूर्वोक्तसम्बन्धावच्छिन्नैव । तत्र स्ववैशिष्ट्यमपि पूर्ववत् । रवाधिकरणता तु स्वाश्रयरूपावच्छिन्नविशेष्यकसाध्यप्रकारकानाहार्यज्ञानत्वसम्बन्धेन। भेदप्रतियोगितावच्छेदकता पूर्ववदेव स्वरूपसम्बन्धेन । स्वनिष्ठावच्छेदकता वविशिष्टाधिकरणतानिरूपितत्वसम्बन्धावच्छिन्ना । स्ववैशिष्टयं चाधिकरणतायां स्वीयधिशेष्यताविशिष्टत्वसम्बन्धेन। विशेष्यतावैशिष्ट्यं स्वावच्छेदकनिष्ठत्व स्वनिरूपितप्रकारतावच्छेदकावच्छिन्नप्रतियोगिताकभेदनिरूपितत्वोभयसम्बन्धेन । प्रतियोगितावच्छेदकसम्बन्धः पूर्ववत् । तद्धट कस्ववैशिष्ट्यं स्वाश्रयवृत्तित्वस्वनिरूपकाधिकरणताविशिष्टप्रतीतिविषयतावच्छेदकत्वोभयसम्बन्धेन । प्रतीतावधिकरणतावैशिष्ट्यं स्वाश्रयरूपावच्छिन्नविशेष्यतानिरूपिता या स्वनिरूपकभेदप्रतियोगितावच्छेदकावच्छिन्नप्रकारता, तनिरूपकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन । शेषं पूर्ववदिति । नूतनालोकः ह्रदत्वाद्यधिकरणत्वादेरेव निरुक्तसम्बन्धप्रतियोगित्वात् । प्रमायां यत्समानाधिकरणसाध्याभावप्रकारकत्वविशेषणवैयर्खापत्तेः कल्पान्तरमाह-यद्वेति । एतत्कल्पे द्वितीयसम्बन्धात्मकात्यन्ताभावप्रतियोगिभूताधिकरणता प्रतिबन्धकतानिष्ठैव । परन्तु प्रमीयधर्मिता च्छेदकनिष्ठाप्रमीयप्रकारतावच्छेदकावच्छिन्नप्रतियोगिताकभेदनिरूपिता या अधिकरणता तन्निरूपिता, न तु धर्मितावच्छेदकनिरूपितेति बोध्यम् । आलोकप्रकाशः प्रतिबन्धकतावृत्तिरूपाप्रसिद्धः । अत एव स्वविशिष्टरूपावच्छिन्नविषयकत्वस्य भ्रमीयप्रतिबन्धकतानिष्ठपर्वतत्वायधिकरणताया व्यधिकरणसम्बन्धत्वम् । शेषं पूर्ववदिति । तथा च स्वाधिकरणत्वं स्वावच्छिन्नविषयकनिश्चयत्वसम्बन्धेन । भेदप्रतियोगितावच्छेदकतास्वरूपसम्बन्धेनेत्यर्थः । व्याख्यायाम्वैयर्थ्यापत्तरिति । ह्रदो वह्नयभाववानित्यादिप्रमाया द्वितीयसम्बन्धबलेनैव व्यावर्तनात् । न च वृक्षः कपिसंयोगाभाववानिति प्रमाव्यावृत्यर्थं तदावश्यकमिति वाच्यम् ; सम्बन्धघटकहेतुसामानाधिकरण्यस्य निरवच्छिन्नत्वविवक्षणेनैव तद्वथावृत्तेरिति भावः। मूले-पूर्ववदिति । स्वसमानेत्यादिभेदवत्त्वसम्बन्धेनेत्यर्थः । स्वाधिकरणता स्विति । स्वं प्रकारतावच्छेदकावच्छिन्नप्रतियोगिताकभेदनिरूपितं धर्मितावच्छेदकनिष्ठमधिकरणत्वम् , सामानाधिकरण्यवटकीभूततदधिकरणता त्वित्यर्थः । शेषं पूर्ववदिति । शेषं स्वाश्रयवृत्तित्वं पूर्ववत् स्वसमानेत्यादिभेदवत्त्वसम्बन्धेनेत्यर्थः । इत्थञ्च यत्समानाधिकरणेत्यनुपादाने हृदो वह्नयभाववानिति प्रमाया अपि संग्रहः स्यात् । स्वविशिष्टरूपा For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६ 'न च' रत्नमालिका अथ गुणाभाववान् गुणत्वादित्यादावव्याप्तिः; अभावो गुणवान् व्यधिकरणधर्मावच्छिनप्रतियोगिताकगुणाभावाभाववांश्चेति समूहालम्बनाद्यव्यावृत्तेः। नहि प्रमापदेन तद्वयावृत्तिः। तथा हि-स्वव्यधिकरणप्रकारावच्छिन्ना या या विषयता, तत्तदनिरूपकत्वरूपं प्रमात्वमिह विवक्षितम् , तत्र स्वव्यधिकरणत्वं प्रकारतावच्छेदकसम्बन्धेन खाधिकरणावृत्तित्वरूपम् । तथा च गुणनिष्ठ नूतनालोकः समूहालम्बनेति । एकत्र द्वयमिति रीत्या तदुभयावगाहिज्ञानस्य स्वीयविशेष्यतानिरूपितप्रकारतावच्छेदकसम्बन्धत्वं स्वरूपस्यापीति प्रमापदेन व्यावृत्तेः समूहालम्बनानुधावनम् । इदश्च एषु कल्पेषु समूहालम्बनभिन्नत्वादेः प्रयोजनाभावेन न निवेश इत्यभिप्रेत्य, तन्निवेशे त्वाह-आदीति । आदिना गुणवद्वयधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभाववानित्यादिज्ञानसंग्रहः। तत्तदनिरूपकत्वरूपं प्रमात्वमिति । तद्वति तत्प्रकारकस्येव तत्तदनिरूपकत्वस्यापि प्रकर्षस्यात्र प्रोपसर्गतात्पर्यविषयत्वादिति भावः । स्वाधिकरणावृत्तित्वरूपमिति । स्वानधिकरणवृत्तित्वरूपत्वे पर्वतो घटत्वेन वह्नयभाववानित्यादि ज्ञानस्य प्रमात्वानुपपत्तेः। तादृशवह्नयभावस्य स्वानधिकरणघटादिवृत्तित्वादितिभावः । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभावादावपि पूर्वक्षणवृत्तित्वविशिष्टत्यादिना पर्वतादिनिष्ठाभावप्रतियोगित्वसत्त्वात् तत्प्रकारकज्ञानासंग्रहः, अत आह--तथा चेति । प्रकारताविशिष्टविशेष्यतानिरूपकत्वत्वावच्छिन्नप्रतियोगिता आलोकप्रकाशः वच्छिन्नविषयकत्वस्य हृदत्वनिष्ठा या घटाभावभेदाधिकरणता, तन्निरूपितप्रतिबन्धकतानिष्ठाधिकरणताया एव समानाधिकरणसम्बन्धत्वेन ह्रदत्वनिष्ठवह्नयभावभेदाधिकरणतानिरूपिताधिकरणताया व्यधिकरणत्वादिति तद्विशेषणमर्थवदेवेत्याशयः ।। व्याख्यायाम्-अत्र प्रमापदे तात्पर्यविषयत्वादिति। यद्यपि माधातुसमभिव्याहृतप्रशब्दस्य तद्वतितत्प्रकारकत्वरूपयाथार्थ्य एवानादितात्पर्यम् , तदुक्तं प्रामाण्यवादे-“माधातुपूर्वप्रशब्दस्य याथार्थ्यरूपप्रकर्ष एवानादितात्पर्यादित्यर्थः” इति, तथापि बाहुल्येन तान्त्रिकव्यवहारविषयत्वमत्राप्यत्येव । तथा च गौरवात् शक्त्यभावेऽपि वृत्त्यन्तरेण स्मृतिव्यावृत्तरूपावच्छिन्न इव पारिभाषिकतया वा तदर्थत्वे बाधकाभावः । अत एवेदं पारिभाषिकं प्रमात्वमिति व्यवहारः । स्मृतिव्यावृत्तरूपावच्छिन्ने परिभाषा तु-"स्मृतिहेतोः प्रमाणान्तरतापत्तेस्तु भीतास्तान्त्रिकाः शास्त्रे प्रमाव्यवहारौपयिकं स्मृतिव्यावृत्तं रूपमनुमन्यन्ते' इति शिरोमणि For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता प्रकारतावच्छेदकसमवायसम्बन्धेन विशेष्यीभूताभावनिरूपितवृत्तित्वाप्रसिद्ध या शानान्तरीयविषयताया एव स्वपदेन ग्रहीतुं शक्यतया तदनिरूपकत्वमुक्तज्ञानस्येति । न च खाधिकरणत्वं स्वाधिकरणनिष्टाभावप्रतियोगितावच्छेदकधर्मावच्छिन्नत्वम् । तथा च तादृशधर्मावच्छिन्नप्रकारतानिरूपिता या या विशेष्यता तत्तदनिरूपकत्वरूपप्रमात्वाभावादुक्तज्ञानव्यावृत्तिरिति वाच्यम्; एवं सति इदन्त्वेन पटावगाहिनोऽयं घट इत्यादिशानस्याव्यावृत्त्या घटभिन्नत्वसाध्यकस्थलेऽव्याप्तेः, घटत्वनिष्ठप्रकारताया निरवच्छिन्नत्वात् । घटत्वेन वयभावांशे नृतनालोकः काभाववत्त्वमिति निष्कर्षः। वैशिष्टयं च स्वनिरूपितत्व-स्वावच्छेदकधर्मसम्बन्धावच्छिन्नप्रतियोगिताकाभाववनिष्ठत्वोभयसम्बन्धेनेति । निरवच्छिन्नत्वादिति । घटत्वजातेः स्वरूपतो भानात्। न च घटत्वं न जातिः, मृत्त्वादिना सार्यात् । रजतादिमयेष्वपि तत्सत्त्वात् । किन्तु संस्थानविशेष एव, तथा च तस्य कथं स्वरूपतो भानमिति वाच्यम् ; मृत्त्वादिव्याप्यनानाघटत्वाभ्युपगमेन साङ्कर्याप्रसक्तेस्तस्य तथात्वे बाधकाभावादिति भावः । स्पष्टं चेदमवच्छेदकत्वनिरुक्तौ । असमूहालम्बनमादायाव्याप्तिमाहघटत्वेत्यादिना । न चाभावांशे वह्नित्वावच्छिन्नप्रतियोगिताकत्वेन वह्नयवगाहितया आलोकप्रकाशः व्याख्यायां प्रामाण्यवादे स्पष्टेति ध्येयम् । पूर्वक्षणवृत्तित्वविशिष्टत्वादिनेति । न च विशिष्टाभावप्रतियोगित्वस्य शुद्धेऽनङ्गीकारादुक्तविशिष्टांभावप्रतियोगित्वं न वह्नयभावस्येति तथा च' इत्यादिविवक्षा व्ययति वाच्यम् ; एवमपि तद्वयक्तित्वादिना व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभावतदन्योभयाभावमादाय स्वाधिकरणनिष्ठाभावप्रतियोगित्वस्य तत्र सत्त्वेन तदावश्यकत्वात् । एतदभिप्रायेणैव तद्वयक्तित्वाद्यर्थकमादिपदमुपात्तम् । घटत्वं न जातिरित्यादि । अथात्र किं पक्षतावच्छेदकम् ? न तावद्धवृत्तिधर्मत्वम् , तस्य पृथिवीत्वादिसाधारण्येन बाधप्रसङ्गात् । नापि घटेतरासमवेतत्वे सति निखिलघटसमवेतत्वम्, किन्त्वित्याद्युत्तरग्रन्थविरोधापत्तेः । अवयवसंयोगप्रभेदात्मकस्य संस्थानविशेषस्य घटेतरेश्ववयवेषु समवेतत्वात् , घटासमवेतत्वाच्च घटत्वशब्दबोध्यत्वं तत् । एवञ्च न पृथिवीत्वादेः संग्रहः, असाधारणधर्मरूपभावस्यैव त्वप्रत्ययार्थत्वात् , "तस्य भावस्त्वतलौ” इत्यनुशासनादित्यपि न वाच्यम् , असाधारण्यस्य तत्तत्प्रकृत्यर्थेतरावृत्तित्वसहितनिखिलतत्तत्प्रकृत्यर्थवृत्ति वरूपतया पूर्वोक्तग्रन्थविरोधतादवस्थ्यात् , पृथिवीत्वमित्यादितो गन्धादिप्रतीत्यापत्तेश्च । न च For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८८ 'न च' रत्नमालिका आलोकप्रकाशः 3 प्रकृत्यर्थतावच्छेदकधर्म एव भावः, "प्रकृतिजन्यबोधे प्रकारीभूतो धर्मों भावः" इत्युक्तत्वात् । इत्थञ्च गन्धवत्त्वस्य प्रकृत्यर्थासाधारणधर्मत्वेऽपि प्रकृतिजन्यत्रोधे प्रकारताविरहेण न तस्य भावप्रत्ययार्थतापत्तिरिति वाच्यम् ; स्वरूपतः शक्यत्वासम्भवेन तदितरावृत्तित्वसहित निखिलतदृवृत्तित्वेनैव त्वप्रत्ययस्य शक्तिस्वीकारावश्यकतया पृथिवीत्वादिशब्दाद्गन्धादिप्रतीत्यापत्त्यपरिहारात् । न च कस्या अपि गन्धव्य केर्निखिल पृथिवीवृत्तित्वाभावेन तत्परिहारः सम्भवत्येवेति वाच्यम् एवं सति नानाव्यक्तिकस्य गुरुत्वादेर्यत्र प्रकृत्यर्थतावच्छेदकता, तत्र कस्याश्चिदपि गुरुत्वादिव्यक्तेर्निखिलगुरुत्ववदवृत्तित्वाद् गुरुत्वादिशब्दात्तः प्रतीत्यनुपपत्त्या तन्निष्ठभेदप्रतियोगितानवच्छेदकत्वरूपमेव निखिलतन्निष्ठत्वं वक्तव्यम् । तच्च प्रत्येकं तत्तनिष्ठभेदप्रतियोगितावच्छेदकस्यापि गुरुत्वस्यानुगततदनवच्छेदकावच्छिन्नस्यावश्यमभ्युपेयम् । नातस्तदसंग्रहः, तथा च तादृशं निखिलतन्नष्ठत्वं गन्धत्वावच्छिन्नस्यापीत्युक्तापत्तेरपरिहारात् । न चैवं गुरुत्वमित्यादितो गन्धादेरपि बोधापत्तिः, तस्यापि गुणत्वाद्यवच्छिन्नस्य गुर्वादिनिष्ठ भेदप्रतियोगिता नवच्छेदकत्वादिति वाच्यम्, गुणत्वाद्यवच्छिन्ने तदितरत्वव्यापकभेदप्रतियोगितावच्छेदकत्वरूपतदितर। वृत्तित्वसत्त्वेन तदापत्त्ययोगात् । तदितरत्वव्यापकभेदप्रतियोगितावच्छेदकतावच्छेदकत्वविशिष्टं यत्तन्निष्ठ भेदप्रतियोगितावच्छेदकतानवच्छेदकत्वम्, तद्विशिष्टस्य भावप्रत्ययप्रवृत्तिनिमित्तत्वात् । तदितरावृत्तित्वन्तु न तदितरवृत्तित्वसामान्याभावः, कालिकादिसम्बन्धेन घटत्वस्यापि पटादिरूपतदितरवृत्तित्वात् । अतः प्रकृत्यर्थतावच्छेदकता घटकसम्बन्धेनैव वृत्तेर्विवक्षणीयतया सत्वमित्यादौ तदितरावृत्तित्वाप्रसिद्धेः । तथा चानुगतानतिप्रसक्तं पक्षतावच्छेदकं दुर्वचमिति चेन्न; यतो लाघवाद्धर्मत्वमेव भावप्रत्ययप्रवृत्तिनिमित्तम् । धर्मत्वञ्च प्रकृत्यर्थतावच्छेदकताघटकसम्बन्धेन सम्बन्धित्वमेव । घटत्वमित्यादितो द्रव्यत्वादिबोधप्रसङ्गो भवतामपि समानः, द्रव्यत्वादेरपि घटत्वविशिष्टतया घटेतरत्वव्यापकभेदप्रतियोगितावच्छेदकत्वात् । एवं गुरुत्वमित्यादितोऽपि गुरुत्वादिसमनियतरसादिबोधो भवतामपि दुर्वारः । तदितरावृत्तित्वेन भासमाने धर्मे तत्प्रकृत्यर्थतावच्छेदकनिष्ठाधेयतासम्बन्धेन प्रकृत्यर्थस्यान्वयमुपगम्य तद्वारणे च धर्मत्वेन शक्तिमत्यध्याधेयत्वात्मकधर्मत्वे प्रकृत्यर्थतावच्छेदकनिष्ठत्वसहितनिरूपितत्वसम्बन्धेन प्रकृत्यर्थान्वयमुपगम्य तत्तदर्थतावच्छेदकनिष्ठाधेयताया धर्मान्तरेऽसवेनातिप्रसङ्गो वारणीयः । इत्थञ्च घटत्वशब्दबोध्यत्वमेव पक्षतावच्छेदकमनुगतानतिप्रसक्तम् । अथवा घटपदप्रवृत्तिनिमित्तत्वमेव तदित्यपि सुवचमिति । मुत्वा दिनेत्यादिपदाद्रजतत्वादिपरिग्रहः । तप्तजातिनिरूपितसाङ्कर्यस्य पृथगेव हेतुत्वं बोध्यम्, न तु मिलितस्य वैयर्थ्यात् । तजात्यव्यापकत्वे सति तजातिव्यभिचरितत्वे च सति तजातिसामानाधिकरण्यं तज्ज्ञातिसाङ्कर्यम् । अव्यापकत्वं तत्समानाधिकरणाभावप्रतियोगित्वम्, Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतन लोकटीका - तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः निरुक्तज्ञानस्य कथमव्यावृत्तिरिति वाच्यम्, यतो घटो नास्तीत्यादिबुद्धौ घटादेरभावांशे केवलप्रतियोगिताकत्वम्, घटत्वादेश्व स्वावच्छिन्नप्रतियोगिता कत्वं सम्बन्धः । अत एवाभिधेयत्वं प्रमेयत्वस्य व्यभिचारीत्यादिभ्रममादाय यथार्थपदसार्थक्यप्रति For Private And Personal Use Only ८९ आलोकप्रकाशः , तत्समानाधिकरणभेदप्रतियोगितावच्छेदकत्वं वा । तज्जातिव्यभिचरितत्वञ्च तद्वयक्तित्वावच्छिन्नप्रतियोगिताकतदभावसामानाधिकरण्यम् । यद्यपि व्याप्यजातिमति नित्येऽपि कालिकादिसम्बन्धेन व्यापक जात्यवच्छिन्नस्य भेदो वर्तते, विरुद्धजातेरपि कालिकादिसम्बन्धेन सामानाधिकरण्यमस्ति; तथापि प्रकृते समवायेनावच्छेदकत्वं वृत्तित्वञ्च विवक्षितमित्यदोषः । गुणगतजातिसाङ्कर्यस्य हेतुतास्थले तु दैशिकविशेषणतया एव तथात्वं बोध्यम् । अथवा अन्यतरसम्बन्धेनैव तथात्वं विवक्षितमिति सर्वत्र करूप्यनिर्वाहः । यद्वा समवायेनावच्छेदकत्वस्थाने समवायेनावच्छेदकताशून्यं यत्समवेतम्, तदन्यत्वम्, समवायेन तदभाववति समवायेन वृत्तित्वस्थाने समवायेन तदवृत्तित्वे सति यत्समवेतं तदन्यत्वम्, तजातिसमानाधिकरणत्वस्थाने तजातिमदसमवेतत्वे सति यत्समवेतं तदन्यत्वञ्च निवेशनीयमिति जातिसाङ्कर्यस्य हेतुतास्थले नासिद्धिः, पक्षस्य समवेतत्वेऽसमवेतत्वे च निरुक्तविशिष्ट मेदस्याक्षतत्वात् । यदि चैतन्निरूपंकजातिभेदेन भिन्नमेव तत्तजातीनां विशिष्योपादानात् इत्थञ्च गुणगतजातिसाङ्कर्यहेतुकस्थले व्यभिचरितत्वविशेषणं व्यर्थमेव शुक्लत्वादिव्याप्यजात्यप्रसिद्धः, तत्परित्यागे च रूपत्वाद्यव्यापकतत्समानाधिकरणशुक्लत्वादेरिव शुक्लत्वाद्यव्यापक तत्समानाधिकरणस्योद्भूतत्वस्यापि जातित्वं स्यादित्यप्रयोजकत्वशङ्कायास इत्युच्यते, तदा जात्यव्यापकत्वे सति यजातिव्यभिचारि यत् तन्न तजातिसमानाधिकरणजातिरिति सामान्यतो व्याप्त्या घटत्वे मृत्त्वादिसमानाधिकरणजातित्वाभावः साध्यः । शुक्लत्वादिव्यापकरूपत्वादौ रूपत्वादिव्याप्यशुक्लत्वादौ च व्यभिचारवारणाय दलद्वयम् । वस्तुतस्तु स्वाव्यापकस्वव्यभिचारिजातित्वव्यापकविरोधप्रतियोगि यद्यत् तत्तद्भेदकूटं हेतुकृत्य घटत्वादौ जातिसङ्कीर्ण जातित्वाभावः साधनीयः । घटत्वाद्यव्यापकद्वयभिचारिमृत्त्वादिजातौ तद्विरोधासत्त्वेन घटत्वादेर्निरुक्तस्वानन्तर्भावात्, तादृशभेदकूटस्योभयमतसिद्धत्वात् । न च सत्ताव्यभिचारिजातैरप्रसिद्धया न तादृशं स्वं सत्तेति तत्र व्यभिचार इति वाच्यम् ; अपरजातित्वाभावस्यैव साध्यत्वापगमात्, तत्र साध्यसत्त्वेन व्यभि चारानवकाशादित्य ं विस्तरेण । असमूहालम्बनमादायापीति । अयं घट इत्यादिज्ञानस्य यत् १२ Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नच' रत्नमालिका वह्नित्वावच्छिन्नवह्निनिष्ठप्रतियोगित्वावगाहिनो वह्नयभाषवान् पर्वत इति शानाव्यावृत्तेश्च । न च स्वाधिकरणनिष्ठाभावप्रतियोग्यभावप्रतियोगितावच्छेदकतद्वयक्तित्वाश्रयत्वमेव खव्यधिकरणत्वमिह विवक्षितम् । तथा च तादृशतद्वयक्तित्वाश्रयनिष्ठप्रकारतानिरूपिता या या विशेष्यता तत्तदनिरूपकत्वरूपं प्रमात्वं नोक्तशानस्येति वाच्यम् ; कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभाववानात्मा नूतनालोकः पादनं दीधितिकृतां सङ्गच्छते । अन्यथा प्रमेयत्वत्वावच्छिन्नस्वरूपपसम्बन्धावच्छिन्नप्रतियोगिताकत्वाप्रसिद्धथा तत्सम्बन्धेन प्रमेयत्वभ्रमासम्भवेन तदसाङ्गत्यापातात् । यद्यपि सौन्दलमते प्रमेयत्वत्वेन घटो नास्तीत्यत्र घटाभावे तादृशप्रतियोगिताकत्वं प्रसिद्धम् , तथापि संयोगसम्बन्धेनैकत्वप्रागभावविशिष्टघटवैशिष्टयावगाहिभ्रमानुरोधेन विशिष्टवैशिष्टयावगाहिबुद्धौ विशेषणतावच्छेदकावच्छिन्नत्वाविशेषितप्रतियोगिताकतत्तत्सम्बन्धस्यैव विशेषणसम्बन्धत्वं वक्तव्यम्। इत्थश्च निरुक्तज्ञानस्य स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन स्वरूपतो वह्निविशेषणतापनवह्नित्वावगाहिनो न व्यावृत्तिरिति भावः।। स्वाधिकरणनिष्ठेति। स्वाधिकरणनिष्ठो योऽभावप्रतियोग्यभावस्तन्निरूपितप्रतियोगितेत्यर्थः । केवलान्वयिनस्तद्वयक्तित्वेन तद्वयक्तितदन्यव्यक्त्युभयाभावस्य वारणायाभावप्रतियोगित्वमभावविशेषणम् । तत्तदनिरूपकत्वरूपं प्रमात्वमिति । विशेष्यताविशिष्टविशेष्यतानिरूपकत्वत्वावच्छिन्नप्रतियोगिताकाभाववत्त्वमिति निष्कर्षः । वैशिष्टयं तादात्म्यभेदविशिष्टान्यधर्मावच्छिन्नवाधिकरणनिष्ठव्यतिरेक्यभावप्रतियोगितासमानाधिकरण - प्रकारतानिरूपितत्वोभयसम्बन्धेन। भेदवैशिष्ट्यं स्वप्रतियोगिवृत्तित्व-स्वसामानाधिकरण्योभयसम्बन्धेनेति । नोक्तज्ञानस्येति । पूर्वोक्तस्वरूपतो घटत्वाद्यवगाहिज्ञानस्येत्यर्थः। कालिकेति। कालिकसम्बन्धेनाकाशाभाववान् प्रमेयत्वादित्यादावित्यादिः । आलोकप्रकाशः समानाधिकरणसाध्याभावप्रकारकत्वसम्पत्त्यर्थ समूहालम्बनरूपताया वक्तव्यत्वादिति भावः । तत्तत्सम्बन्धस्यैवेति । तत्तद्विशेषणसम्बन्धस्यैवेत्यर्थः । वक्तव्यमिति । एकत्वप्रागभावावच्छिन्नप्रतियोगिताकसंयोगसम्बन्धस्याप्रसिद्धेरिति भावः । स्वरूपत इति । धर्मिपारतन्यस्थले जातेः समवायेनैव स्वरूपतो भानमिति नियमस्याभावादिति भावः। मूले-स्वनिरूपितप्रकारतावच्छेदकधर्म सम्ब For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता इत्यादिज्ञानासंग्रहापत्तेः, तादृशज्ञानस्यात्मनिष्ठाकाशाभावरूपस्वाभावप्रतियोगितया स्वत्यधिकरणत्वात्। गुणो विशिष्टसत्ताभाववानित्यादौ विशिष्टसत्तावान् गुण इत्यादि विशिष्टवैशिष्टयावगाहिशानाव्यावृत्तेश्च, तद्वयक्तित्वावच्छिन्नगुणनिष्ठाभावप्रतियोगित्वस्य सत्तायां बाधात् । किञ्च, स्वनिरूपितप्रकारतावच्छेदकधर्मसम्बन्धावच्छिन्नप्रकारताशालिवुद्धित्वावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकतावच्छेदकप्रकारतावच्छेदकसम्बन्धेन स्वाधिकरणवृत्तित्वमभावेऽवश्यं विवक्षणीयम् । इत्थश्च निरवच्छिन्नप्रकारताशालिभ्रमाव्यावृत्तिः। नूतनालोकः ननु कालिकसम्बन्वेनाकाशाभाववान् प्रमेयत्वादित्यादौ कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभाववानित्यादिज्ञानस्यासंग्रहेऽपि न क्षतिः, आकाशाभाव आत्मनिष्ठ इत्यादि प्रमामादायातिव्याप्तिवारणसम्भवादित्यत आह-गुणो विशिष्टसत्ताभाववानिति । विशिष्टवैशिष्ट्यावगाहिज्ञानेति । उपलक्षितवैशिष्ट्यावगाहिज्ञानस्य विषयविरोधविरहेणाप्रतिबन्धकत्वात्। अन्यथा विशिष्टसत्ताभावसाध्यकगुणपक्षकस्थले उपलक्षिवसत्तावहुणस्य बाधत्वापत्तेः । उक्तश्च “संयोगस्य द्वित्वावच्छिन्नप्रतियोगिताकत्वविरहेऽपि" इति दीधितिखण्डनावसरे सिद्धान्तलक्षणगादाधर्याम्-"विशिष्टवैशिष्टयावगाहिज्ञानस्यैव विशिष्टाभावबुद्धिविरोधित्वात्" इति । ननु तद्वयक्तित्वानां भेदविशिष्टान्यत्वेनानुगमे विशिष्टसत्तात्वस्यापि तादृशतया तदवच्छिन्नप्रतियोगिताकाभावमादाय भ्रमत्वोपपादनं सुशकमित्यत आह-किञ्चेति । अवश्यं विवक्षणीयमिति । अन्यथा अयोगोलकं धूमाभाववदित्यादिज्ञानासंग्रहापत्तेः । कालिकादियत्किञ्चित्सम्बन्धन धूमाभावाभावस्यायोगोल आलोकप्रकाशः न्धेति । स्वं विशेष्यता । कालिकसम्बन्धावच्छिन्नप्रतियोगिताकधूमाभावत्वेन संयोगसम्बन्धावच्छिन्नप्रतियोगिताकधूमाभावागाहिबुद्धिं प्रति कालिकसम्बन्धेन धूमवत्ताबुद्धेविरोधित्वात्तत्सम्बन्धग्रहणप्रसक्त्या अयोगोलकं धूमाभाववदिति प्रमाया असंग्रहापत्तिरतः प्रकारतावच्छेदकधर्मेति । कालिकसम्बन्धेन कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभाववानात्मेति बुद्धित्वावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकतावच्छेदकस्वरूपसम्बन्धेनाकाशाभावात्मकस्य कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभावाभावस्यात्मनि सत्त्वात् कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभाववा For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५३ 'न च' रत्नमालिat न च स्वनिरूपितप्रकारताविशिष्टप्रकारताशालिबुद्धिं प्रति येन सम्बन्धेनाभावप्रकारकनिश्चयस्य विरोधिता, तत्सम्बन्धावच्छिन्नवृत्तित्वविवक्षया न कोऽपि दोषः । प्रकारतावैशिष्ट्यं सामानाधिकरण्य-स्वसजातीयत्वोभयसम्बन्धेन । साजात्यं स्वावच्छेदकावच्छिन्नत्व- निरवच्छिन्नत्वान्यतर रूपेणेति वाच्यम्। एवमपि घटत्वविशेष्यक घटभेदप्रकारकस्येदं घटभिन्नमित्यादिज्ञानस्य संग्रहापत्तेः । तत्र तादात्म्यसम्बन्धस्यापि तथात्वात्तेन सम्बन्धेन घटत्वात्मकघटभेदाभावस्य स्वाधिकरणे नूतनालोकः कादावपि सत्त्वात् । स्वरूपसम्बन्वेन तद्विवक्षणे वह्नयभाववान् पर्वत इत्यादि भ्रमाव्यावृत्तेः कालिकसम्बन्धेनाकाशाभाववान् प्रमेयत्वादित्यादौ कालिकसम्बन्धावच्छिन्नप्रतियोगिता का काशाभावाभाववानात्मा इत्यादिप्रमाया असंग्रहापत्तेश्च । साध्यतावच्छेदकसम्बन्धेन तद्विवक्षया नेह निर्वाहः शङ्कयः, पर्वतनिष्ठो वह्नद्यभाव इत्यादिभ्रमाव्यावृत्तेः । असंग्रहापत्तेरिति । घटत्वत्वेन घटत्वविषयकज्ञानधर्मिकं यद् विषयतासम्बन्धेन घटत्वत्वविशिष्टप्रकारकज्ञानम्, तदसंग्रहस्याप्युपलक्षणमेतत् । नन्वत्र यत्सम्बन्धावच्छिन्न यन्निष्ठप्रकारताशालिनिश्चयत्वावच्छिन्नं तादृशप्रतिबन्धकत्वम्, तत्सम्बन्धावच्छिन्न तन्निष्ठस्वाधिकरणवृत्तित्वविवक्षणान्नायमसंग्रहः, घटभेदाभावनिष्ठतादृशप्रतिबन्धकतावच्छेदकप्रकारतायां समवायस्यैवावच्छेदकत्वात् । Acharya Shri Kailassagarsuri Gyanmandir आलोकप्रकाशः नात्मेति प्रमाया असंग्रहापत्तिरतः प्रकारतावच्छेदकसम्बन्धनिवेशः । व्याख्यायाम् — वह्नयभाववान् पर्वत इत्यादिभ्रमाव्यावृत्तेरिति । न च भावस्यापि स्वरूपसम्बन्धेन वृत्तित्वस्य पूर्वं साधितत्वात् कुतो नैतद्विवक्षासम्भव इति वाच्यम्; भावस्य स्वरूपसम्बन्धानभ्युपगन्तृमते तदसम्भवस्यैवाभिप्रेतत्वात्, एतदस्वर सेनैव वा दोषान्तरकथनाच्च, असंग्रहापत्तेश्चेति । आकाशाभावात्मकस्य साध्याभावाभावस्य स्वरूपसम्बन्धेनात्मनि सत्त्वादिति भावः । प्रमापदप्रतिपाद्यतावच्छेदकशरीरे तन्निवेशः शङ्काविषयोऽपि नेत्याशयेनाह — इहेति । प्रकृतलक्षण इत्यर्थः । उपलक्षणमेतदिति । तथा च धर्मिणि ज्ञाने तद्व्यक्तित्वावच्छिन्नाविषयकतया विषयितासम्बन्धावच्छिन्न तद्वयक्तित्वावच्छिन्नप्रतियोगिताकाभावसत्त्वाद्विषयितासम्बन्वावच्छिन्नप्रतियोगिताकघटत्वाभावसाध्यकव्यभिचारिण्यतिव्याप्तिरपि स्यादिति भावः । ननु यत्सम्बन्धावच्छिन्नयन्निष्ठप्रकारताशालिनिश्चयत्वावच्छिन्नं तादृशप्रतिबन्धकत्वमित्यादिरीत्या विवक्षैव न सम्भवति, प्रतियोगितायां तद्वयक्तित्वावच्छिन्नत्वस्य विवक्षितत्वेन तादृशप्रति - योगिताकाभाव एव स्वाधिकरणवृत्तित्वस्योपपादनीयत्वात् । तन्निश्चयस्य च ग्राह्यतावच्छेदकावच्छिन्न For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका- तत्प्रकाशटिप्पण्योपबृंहिता सत्त्वात् । ज्ञानवैशिष्ट्यावच्छिन्ना या प्रतिबन्धकता, या चासमानाधिकरणधर्मदर्शनविधया प्रतिबन्धकता, तदवच्छेदकप्रकारतावच्छेदकसम्बन्धत्वं कालिकादेरपीति तदव्यावृत्तेश्चेति चेत्सत्यम् । ईश्वरज्ञानावृत्तिविषयताशून्यत्वस्यैव तत्पदेन विवक्षितत्वाद् भ्रमयविषयताया ईश्वरज्ञानावृत्तितया भ्रम सामान्यव्यावृत्तिः । नूतना लोकः J Acharya Shri Kailassagarsuri Gyanmandir ६३ घनिष्ठतादृशप्रकारतायामेव तादात्म्यस्यावच्छेदकत्वात् । अस्तु वा तादृशज्ञानासंग्रह:, घटभेद एतद्वृत्तिरित्यादिज्ञानमादायैव तादात्म्येन घटसाध्यकघटत्वहेतुकव्यभिचारिण्यतिव्याप्तेर्वारयितुं शक्यत्वादित्यत आह-ज्ञानवैशिष्ट्यावच्छिन्नेति । कालिकसम्बन्धेन तद्वयक्तित्वादिव्यापको धूमाभावाभावः, कालिकसम्बन्धेन तद्वयक्तित्वादिमान् धूमाभावाभाववानिति वा यज्ज्ञानम्, तत्सहितस्य कालिकसम्बन्धेन तद्वचक्तित्वादिमदयोगोलकमित्यादिज्ञानस्य या ज्ञानवैशिष्टयावच्छिन्ना प्रतिबन्धकतेत्यर्थः । ज्ञानवैशिष्टयानवच्छिन्नत्व निवेशे त्वाह - या चेति । असमानाधिकरणधर्मदर्शनविधयेति । ग्राह्यासमानाधिकरणवत्तानिश्चयत्वेनेत्यर्थः । प्रतिबन्धकतेति । अत एव बाधशिरोमणी - "पक्षादेः साध्यासमानाधिकरणधर्मवत्त्वादिकमपि बाध एव" इत्युक्तम् । ईश्वरेति ज्ञाने नित्यत्वलाभायं, न तु नित्यज्ञानाधिकरणत्वरूपं सर्वशक्तिमत्त्वरूपं वा यदीश्वरत्वं तस्य प्रवेशः, गौरवात् । न चैवं सति भगवतः पर्वतत्ववह्नद्यभावत्वादिरूपेण निर्विकल्पकरूपेण वा तत्तद्वस्तुविषयकज्ञानकल्पनेनैव आलोकप्रकाशः For Private And Personal Use Only बुद्धौ स्वरूपताग्राह्यबुद्धौ वा प्रतिबन्धकत्वादित्यत आह- अस्तु वेति । किञ्चिद्धर्मावच्छिन्नविशेष्यतानिरूपितासामानाधिकरण्यनिष्ठप्रकारताशालिनिश्चयस्य ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वादर्थ - माह - प्राह्येति । निश्चयत्येनेत्यर्थं इति । निरूपितत्वसम्बन्धावच्छिन्नग्राह्याधिकरणनिष्ठ प्रकारतानिरूपितप्रतियोगितासम्बन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रकारताविशिष्टप्रकारताशालिनिश्चयत्वेनैवावच्छेदान्न तादृशप्रतिबन्धकताया ज्ञानवैशिष्ट्या वच्छिन्नत्वम् । प्रकारता वैशिष्ट्यञ्च स्ववृत्तिसम्बन्धावच्छिन्नत्व - स्वनिरूपिताभावप्रकारतानिरूपितत्वोभयसम्बन्धेन । वृत्तित्वञ्च स्वनिष्ठ प्रकारतानिरूपितावच्छिन्नत्वप्रकारतानिरूपितत्वसम्बन्धेनेति भावः । मूले— कालिकादित्यादिपदेन स्वाश्रयात्वादेः परिग्रहः । तेन धूमाभावेऽयोगोलकवृत्तित्वाभावस्य कालिकसम्बन्धेन सत्त्वेऽपि न क्षतिरिति ध्येयम् । व्याख्याम् - सर्व शक्तिमत्त्वरूपं वेति । ईश्वरस्य सर्वशक्तिमत्त्वरूपता च सहस्रनामभाष्ये भगवत्पादैः प्रतिपादिता - "ईश्वरः सर्वशक्तिमत्तया ईश्वरः" इति । Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ 'नच' रत्नमालिका - न च समानाकारकशानेषु विषयताभेदपक्षे जन्यज्ञानासंग्रहः। न हि सर्वत्रेश्वरज्ञानमादायैव लक्षणसमन्वयसम्भवेन जन्यज्ञानासंग्रहेऽपि न क्षतिरिति शङ्कयम्; एवं सति यत्समानाधिकरणत्वविशेषणवैयापत्तेः। ईश्वरज्ञानस्य नूतनालोकः सर्वज्ञत्वोपपत्तौ वह्नयभावादिमत्त्वेन ज्ञानकल्पने प्रमाणाभावादसम्भव इति वाच्यम् ; “यः सर्वज्ञः सर्ववित्" इति निरतिशयसार्वस्यप्रतिपादकमुण्डकश्रुतेरेव मानत्वात्। तत्र सर्वज्ञपदस्य तत्तद्वस्तुगतैर्घटत्वादिरूपयावत्सामान्यधर्मः, सर्ववित्पदस्य च तद्धटत्वादिरूपयावद्विशेषधमर्यावद्वस्तुविषयकवानवत्परत्वात् । अन्यथा पुनरुक्त्यापातात् । तदुक्तमात्मतत्वविवेकटिप्पण्याम्-"सर्व इति सामान्यतः, सर्वविदिति विशेषतः” इति। न च सर्वज्ञपदस्य प्रमेयत्वादिरूपेण सर्ववित्पदस्य च तद्वयक्तित्वादिरूपयत्किचिद्विशेषरूपेण सर्वविषयकज्ञानवत्परत्वकल्पनेनैव पुनरुक्तिपरिहारसम्भवे यावद्धर्मप्रकारेण ज्ञानवत्परत्वकल्पने मानाभाव इति वाच्यम् , विनिगमनाविरहेण भगवानस्मिन्निदं न वेत्तीति व्यवहाराभावेन च तत्सिद्धे. रिति भावः। समानाकारकज्ञानेग्विति । ननु किमिदं समानाकारकत्वम् ? न तावन्मुख्यविशेष्यताविशिष्टमुख्यविशेष्यताकत्वपर्यवसितं मुख्यविशेष्यतासजातीयमुख्य आलोकप्रकाशः मूले–यसमानाधिकरणबविशेषणवैयर्थ्यापत्तेरिति । इदं सामान्यपदवैयर्थ्यस्याप्युपलक्षणम् । ज्ञानभेदेन विषयताभेदपक्षे साध्याभावपदवत् तद्वैयर्थ्य मिष्टमेवेति याच्यते, तदायाह-ईश्वरज्ञानस्येति । लक्षणघटकस्वासम्भवाचेति । न चैतत्पक्षे पूर्वोक्तप्रमाविशेषणं नोपादेयमिति वाच्यम् ; भगवज्ञानस्यापि वह्नयमाववद्धदादिविषयकत्वेन साध्ववत्ताशानविरोधित्वासम्भवापत्तेः । ह्रदत्वेन हृदपर्वतोभयावगाहिनो हृदो वह्निमानिति ज्ञानस्य प्रमात्वापत्तेराह-यावदिति । व्याख्यायाम्- इदमिति । ज्ञानानां विषयत्वाभेदप्रयोजकमित्यर्थः । तेन घटवद्भूतलम् , घटवभूतलवान् देश इति ज्ञानयोघंटांशे समानाकारकत्वव्यवहारो लोके वर्तते, तच्च समानाकारकत्वमेकधर्मसम्बन्धावच्छिन्नघटनिष्ठविषयताकत्वमेवेति किमत्र जिज्ञास्यमिति शङ्कानवकाशः, तस्य विषयत्वाभेदप्रयोजकत्वाभावात् । अत्र ज्ञानयोविषयत्व भेदो नास्तीत्यस्त्रार्थः प्रथमं विचारणीयः। घटवभूतलमित्यकारकयोरपि ज्ञानयोयें घटविषयताभूतलविषयते तयोः परस्परभेदः सर्ववादिसम्मतः, अतस्तदीयानां घटघटत्वभूतलभूतलस्वतत्सम्बन्धविषयतानां परस्परमैक्यमित्येव तदर्थः। तत्प्रयोजकञ्च न घटादिविषयतानामेकधर्मसम्बन्धा For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका- सरप्रकाश टिप्पण्योपबृंहिता नूतनालोकः " Acharya Shri Kailassagarsuri Gyanmandir विशेष्यता कत्वम् । वैशिष्टयन सामानाधिकरण्यसहितस्वावच्छेदकावच्छिन्न स्वनिरूपितप्रकारताविशिष्टप्रकारतानिरूपितत्वोभयसम्बन्धेन । प्रकारता वैशिष्टयं ९५ आलोकप्रकाशः वच्छिन्नत्वमात्रम्, घटत्वादिनिष्ठनिरवच्छिन्न प्रकारतानां घटादिनिष्ठनिरवच्छिन्नविशेष्यतानाञ्च तदसम्भवात्, एकानेकघटादिविषयकयोर्ज्ञानयोः समानाकारकत्वापत्तेश्व । तस्माद्भिन्नज्ञानीययोर्ययोविषयतयोरभेदोऽभिमतः, तयोरभेदप्रयोजकं ज्ञाननिष्ठं समानाकारकत्वं स्वनिरूपितविषयतावृत्तिविषयतानिरूपकत्वरूपं बोध्यम् । वृत्तित्वञ्च स्वसमनियतत्व-स्वनिरूपितविषयतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मवृत्तित्वोभयसम्बन्धेन । धर्मवृत्तित्वं स्वनिरूपितविषयतात्वाववच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन । प्रथमस्वपदेन ज्ञानं ग्राह्यम् । द्वितीयतृतीयाभ्यां तदीयविषयता, चतुर्थेन ज्ञानान्तरविषयता च । निरूपितत्वञ्च साक्षात् परम्परा साधारणम् । प्रथमसम्बन्धनिवेशान्नैकानेकत्रटभूतलादिविषयकज्ञानयोः समानाकारकत्वापत्तिः । द्वितीयसम्बन्धनिवेशाच्च घटवद् भूतलम्, घटवद् भूतलवान् देश इत्यनयोर्न तदापत्तिः, दर्शितपर्याप्त्यनुयोगितावच्छेदकधर्म एकत्र देशावृत्तिस्तिरत्र तद्वृत्तिरिति भेदात् । इत्थञ्च नीलपर्वतः पर्वतनील इत्यनयोरपि न समानाकारकत्वापत्तिः प्रथमे पर्वतत्वनिष्ठप्रकारतानिरूपितविशेष्यता न नैल्यनिष्ठप्रकारतानिरूपिता, द्वितीये तु सा तन्निरूपितेति विषयतापर्याप्त्योर्भेदात् । एवमेवैकत्र द्वयमिति - रीत्या नैल्यपर्वतत्वोभयावगाहिज्ञानस्य दर्शितज्ञानद्वयाद्विलक्षणाकारत्वमेव तत्र निरवच्छिन्नविशेष्यतानिरूपितत्वस्य नैल्य पर्वतत्वनिष्ठयोर्द्वयोरपि विषयतयोः सत्त्वेन तत्रापि पर्याप्तिभेदात् । भूतलं घटवदित्यसमूहालम्बनस्य भूतलं घटवत् पटवच्चेति समूहालम्बनेन समानाकारकत्वमप्युपपद्यते, उभयत्र घटभूतलादिविषयतानां निरूप्यनिरूपकभावे वैलक्षण्याभावात् । भूतलं पटवदित्यंशे त्वसमानाकारकत्वं सकलतान्त्रिकसम्मतमिति । नन्वेकानेकघटादिनिष्ठविषयतयोर्भूतलं घटवदिति भिन्नज्ञानीययोरैक्यमेवास्तु, ज्ञानयोश्च समानाकारकत्वमभ्यस्तु । इत्थञ्च सम्बन्धकोटौं समनियतत्वनिवेशोऽपि मास्त्विति चेन्न, वस्तुतो भूतलवर्तिनमेकं घटं तद्वद् भूतलञ्चावगाहमानज्ञानस्य प्रमात्वापत्तिः, तद्भूतलस्यान्यत्रटाभाववत्त्वाद्वद्याभाववद्विशेष्यकत्वावच्छिन्नघटप्रकारकत्व - रूपभ्रमत्वस्य तज्ज्ञाने सम्भवात् प्रमाश्रमीयविषयतयोर्भेदस्यावश्यमभ्युपेयत्वात् । मुख्यविशेष्यताविशिष्टेति । अत्र मुख्यत्वोपादानान्नीलघटवद् भूतलं नीलपटवान् देश इत्यादिज्ञानयोर्न नैल्यनिष्ठ प्रकारतानिरूपितघटनिष्ठविशेष्यतामादाय समानाकारकत्वप्रसङ्गः । एकत्र तदुपादाने नीलो घटः, नीलघटवद् भूतलमिति ज्ञानयोः परस्परं समानाकारकत्वप्रसङ्गः । स्वावच्छेदकावच्छिन्न स्वेति । ) For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ९६ www.kobatirth.org • वच्छेदकता 'नव' रत्नमालिका नूतनालोकः स्वावच्छेदकधर्मसम्बन्धावच्छिन्नत्वसहित सामानाधिकरण्यसम्बन्धेनेति । घट इत्यादि - न ज्ञानानां समानाकारकत्वानुपपत्तेः, तंत्र विशेष्यता प्रकार तयोर्निरवच्छिन्नत्वात् । च मुख्यविशेष्यता वैशिष्टयस्य स्वसजातीयत्व - स्वनिरूपितप्रकारतासजातीयप्रकारितानिरूपितत्वोभयरूपस्य विवक्षणाददोषः । साजात्यच निरवच्छिन्नत्व - स्वावच्छेदकावच्छिन्नत्वान्यतररूपेणेति वाच्यम्; घटो रूपवान् रसवानिति ज्ञानस्यैकत्र द्वयमितिरीत्या रूपरसावगाहिनो घटो रूपवानितिज्ञानसमानाकारकत्वापत्तेः । न च स्वनिरूपितप्रकारता सजातीयप्रकार ता निरूपितत्व - स्वनिष्ठावच्छेदकता कप्रतियोगिताकभेदवत्त्वोभयस्य द्वितीय सम्बन्धत्वविवक्षणान्नेयमापत्तिः, स्वनिष्ठास्वनिरूपित प्रकारता सजातीयत्व सम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकता कभेदवत्प्रकारतानिरूपितत्वसम्बन्धावच्छिन्नेति वाच्यम्, एवमपि घटो रूपवानिति ज्ञानस्य पूर्वोक्तं यदेकत्र द्वयमिति रीत्या ज्ञानम्, तत्समानाकारकत्वापत्तेदुर्वारत्वादिति चेत्र केचित्, तत्समानाकारकत्वं नाम तदीयमुख्यविशेष्यतावृत्तित्वम् । वृत्तित्वञ्च स्वीयमुख्य विशेष्यता विशिष्टत्वसम्बन्धेन | वैशिष्टयन स्वसमनियतआलोकप्रकाशः " 1 । स्वावच्छेदकता पर्यात्यधिकरणधर्मपर्याप्तावच्छेदकताकत्वेत्यर्थः । एवमुत्तरत्रापि । श्रन्यतररूपेणेति । अत्र समानाधिकरण्यमपि निवेशनीयम् । तेन घटत्वरूपत्वाभ्यां घट-रूप- तदन्यावगाहिज्ञानयोर्न समानाकारकत्वप्रसङ्गः । घटो रूपवान् रसवांश्चेति समूहालम्बनस्य घटो रूपवानित्यंशे घटो रूपवानिति ज्ञानसमा नाकारकत्वस्येष्टत्वादाह-एकत्र द्वयमिति रीत्येति । स्वनिष्ठावच्छेदकता प्रतियोगिताकभेदवत्वोभयस्येति । अत्र स्वनिरूपितप्रकारताविशिष्टत्वं द्वितीयसम्बन्धः | वैशिष्ट्यं स्वसजातीयप्रकारतानिरूपितत्व - स्वभिन्नप्रकारतानिरूपितत्वसम्बन्धावच्छिन्नस्वनिष्ठा वच्छेदकताकप्रतियोगिताक - भेदवत्त्वोभयसम्बन्धेनेति कुतो नोक्तमिति तु न शङ्कयम्; तथा सति 'एकत्र द्वयम्' इति रीत्या जायमानज्ञानयोः परस्परं समानाकारकत्वानुपपत्तिप्रसङ्गादिति ज्ञेयम् । स्वसम्नियतत्वेत्यादि । अत्र प्रथमसम्बन्धनिवेशान्न घटत्वेन विभिन्नघटावगाहिज्ञानयोः समानाकारकत्वप्रसङ्गः । समानाधिकरण्यमात्र निवेशनेन तादृशातिप्रसङ्गवारणेऽपि घटत्वेनैकानेकघटावगाहिज्ञानयोर्घटत्वेन घटावगाहिघटपटा वगाहिज्ञानयोः समानाकारकत्वप्रसङ्गः । अतस्तदुपेक्षा । समनियतत्वघटक दलद्वयमपि घटत्वेनैका नेकघट विषयकज्ञानयोर्वारणार्थमेव । तदीयमुख्य विशेष्यतावृत्तित्वमित्यत्र मुख्यत्वानुपादाने घटवद् भूतलमित्याकारकज्ञानस्य घटवद् भूतलवान् 1 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः त्व-स्वनिरूपितप्रकारतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकधर्मवृत्तित्वोभयसम्बन्धेन। धर्मवृत्तित्वञ्च स्वनिरूपितप्रकारतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेनेत्याहुः । वस्तुतस्तु तत्समानाकारकत्वं तत्तत्प्रकारत्वादिविशिष्टत्वम् । वृत्तित्ववैशिष्टयश्च स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावृत्तित्वसम्बन्धेन । अनुयोगितावृत्तित्वश्च स्वीयप्रकारत्वावच्छिन्नत्वसम्बन्धेन । घटवानित्यादिज्ञानीयप्रकारतामादाय घट इत्यादिज्ञानानाम् , घटवद्भूतलवानित्यादिज्ञानीयप्रकारतामादाय घटवद्भूतलमित्यादिज्ञानानाञ्च समानाकारकत्वमुपपादनीयम् । एवमन्यत्रापीति । सर्वत्रेश्वरज्ञानमादायैवेति । न चेयमाशङ्का कथं सङ्गच्छते ? प्रमाणाभावेनेश्वरज्ञाने प्रतिबन्धकत्वस्यैवासिद्धया व्यभिचारिसामान्येऽतिऽव्याप्तेरिति वाच्यम् , लाघवादीश्वरज्ञानसाधारणग्राह्याभावप्रकारकनिश्चयत्वेनैव प्रतिबन्धकत्वस्याङ्गीकार्यत्वात् । अन्यथा ईश्वरज्ञानमादायासम्भववारणाय लिङ्गज्ञानपदेन लिङ्गाज्ज्ञानमिति व्युत्पत्त्या जन्यज्ञानादिरूपार्थविशेषविवक्षणस्यावश्यकत्वात् “लिङ्गमविवक्षितम्" इति दीधित्यसाङ्गत्यापत्तेः । अत एवेश्वरज्ञानव्यावर्तकं न किमपि विशेषणं प्रतिबन्धकताघटितलक्षणेषूपादायि । वैयर्थ्यापत्तेरिति । कपिसंयोगादिसाध्यकस्थले कपिसंयोगाभाववान् वृक्ष इति ज्ञानसत्त्वेऽपि कपिसंयोगाभावोऽव्याप्यवृत्तिरिति बानस्याप्यावश्यकतया भगवज्ज्ञानस्य कपिसंयोगवत्ताबुद्धधप्रतिबन्धकत्वादव्याप्त्यप्रसक्तेरिति भावः । आलोकप्रकाशः देश इत्याकारकज्ञानसमानाकारकत्वापत्तिः । तदीयघटत्वावच्छिन्नप्रकारतानिरूपितभूतलत्वावच्छिन्नविशेष्यतायां स्वीयमुख्यविशेष्यताविशिष्टत्वसम्बन्धेनोक्तज्ञानस्य सत्वात् , ज्ञानवृत्तित्वघटकविशेष्यतायां मुख्यत्वानुपादान उक्तोत्तरज्ञानस्य पूर्वज्ञानसमानाकारकत्वप्रसङ्गः। द्वितीयसम्बन्धनिवेशान्न घटस्वेन घटावगाहिज्ञानस्य पटत्वेन घटावगाहिज्ञानस्य घटो रूपवान् घटो रसवानिति ज्ञानयोश्च समानाकारकवप्रसङ्ग इति दिक् । लाघवादाह-वस्तुतस्त्विति । प्रकारत्वादीति । आदिपदेन विशेष्यतादिपरिग्रहः । स्वीयप्रकारत्वावच्छिन्नत्वसम्बन्धेनेति । काञ्चनमयवह्निमान् वह्निकाञ्चनमयवानित्यादिज्ञानीयप्रकारतावच्छेदकतापर्याप्त्यो(लक्षण्यनिर्वाहार्थं पर्याप्त्यनुयोगितायां प्रकारत्वावच्छिन्नत्वस्याङ्गीकार्यत्वादित्याशयः। एतत्तत्वं प्रागुपदर्शितम् । उपादायीति । न च जातिमान् वह्नयभाववानित्यादिज्ञानव्यावर्तनायावश्यमुपादेयेनाव्यापकविषयताशून्यत्वविशेषणेनैवेश्वरज्ञानाव्यावृत्तर्न तत्र तद्वारकविशेषणापेक्षेति वाच्यम् , एवं सतीश्वरज्ञानमादायासम्भववारकतया For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९८ 'न च' रत्नमालिका समूहालम्बनरूपत्वात् समूहालम्बनादिव्यावर्तकं यत् पूर्वोक्तं प्रमाविशेषणम्, तच्छ्रन्यत्वेन लक्षणघटकत्वासम्भवाश्चेति 'वाच्यम् ; तत्पक्षे वृत्तितायां स्वविशिष्टविशेष्यतानिरूपकत्वसम्बन्धावच्छिन्नत्वस्य च प्रकृते विवक्षणीयतया जन्यज्ञानसंग्रह सम्भवात् । विशेष्यतायां स्ववैशिष्टयञ्च स्वाश्रयनिष्ठप्रकारतानिरूपितत्वस्वनिरूपितविशेष्यताश्रययावन्निष्ठत्वोभयसम्बन्धेनेति । अथवा हेतुग्रन्थोक्तस्य स्वानुयोगिनिष्ठविशेष्यतानिरूपितत्व - स्वप्रतियोगिनिष्ठत्व - स्वावच्छिन्नत्वैतत्त्रितय सम्बन्धेन सम्बन्धविशिष्टान्य प्रकारतानिरूपकत्वरूपं यदनुगतभ्रमत्वम्, तच्छून्यत्वस्यैव प्रकृते विवक्षणान्न कोऽपि दोष इति । नन्वेवमप्यभावव्यापककपिसंयोगाभावकालीनघटत्वादिना कपिसंयोगा Acharya Shri Kailassagarsuri Gyanmandir भाववान् वृक्ष इत्यादिज्ञानस्य तदभावनिष्ठव्यापकत्वप्रतियोगिमत्ताज्ञानविधया साध्यवत्ताज्ञानप्रतिबन्धकत्वादव्याप्तिः । नूतनालोकः जन्यज्ञान संग्रहसम्भवादिति । ईश्वरज्ञानावृत्तिविषयता प्रकारतात्वेन निवेशनीया । तेन मुख्यविशेष्यताया उक्तसम्बन्धेनेश्वरज्ञानावृत्तित्वेऽपि न क्षतिः । लाघवादाह - अथवेति । वस्तुतस्तु सम्बन्धविशिष्टत्वं स्वावच्छिन्नत्व - स्वावच्छिन्नाधिकर णता विशिष्टत्वैतदुभयरूपं विवक्षणीयम् । अधिकरणतावैशिष्टयं स्वाश्रयनिष्ठविशेष्यतानिरूपितत्वस्वनिरूपकनिष्ठत्वोभयसम्बन्धेन । तेन समवायस्यैकत्वेऽपि न क्षतिः । इत्यादिज्ञानस्येति । आदिना कपिसंयोगाभाववदभाववत्कालीनो यो घटत्वेन संयोगाभावः, तद्वान् वृक्ष इत्यादिज्ञानपरिग्रहः । आलोकप्रकाशः तादृशविशेषणस्यावश्यकत्वे जातित्वेन हृदत्वाद्यवगाहिज्ञानव्यावर्तकतया तदावश्यकताप्रतिपादनासाङ्गव्यापत्तेः । एकत्र द्वयमिति रीत्या वह्नयभावहदत्वोभयावगाहिज्ञानम्, कालिकादिसम्बन्धेन वह्नयभावाद्यवगाहिज्ञानं चादायासम्भवः, तद्रूपत्त्वस्य कालिकादिसम्बन्धेनान्यत्र सत्त्वादतिप्रसङ्गश्च स्यादिति यद्रूपावच्छिन्नविषयतेत्यनेन यद्रूपसहितप्रकारताया एव तत्र तत्र विवक्षणीयता तादृशविशेषणस्यानावश्यकत्वाच्च यद्रूपञ्च वह्नयभाववद्धदो नेति प्रतीतिसाक्षिकभेदप्रतियोगित्वम्, तत्साहित्यञ्च स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकवृत्तित्वरूपम्, वृत्तित्वञ्च For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबंहिता न चात्र व्यापकत्वस्य प्रतियोगिवैयधिकरण्याघटितत्वेनोक्तज्ञानस्य प्रमात्वम् , तद्धटितत्वे च न प्रतिबन्धकत्वम् , प्रतिबन्धकत्वे वावश्यकज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशेनैव नाव्याप्तिरिति वाच्यम् ; गगनाभाववदभाववत्कालीनगगनादिसाध्यकस्थलेऽतिव्याप्त्यापत्त्या प्रतिबन्धकतायां तन्निवेशस्यैवासम्भवात् । असम्भववारणायैकक्षणावच्छिन्नैकात्मवृत्तित्वसम्बन्धेन भ्रमविशिष्टान्यत्वरूपभ्रमानास्कन्दितत्त्वस्यैव प्रमापदेनात्र विवक्षणीयत्वात् । नृतनालोकः न प्रतिबन्धकत्वमिति । विषयविरोधविरहादिति भावः। ननु विषयविरोधविरहेऽपि कपिसंयोगाभाववत्तानिश्चयस्यैव प्रतिबन्धकत्वमनुभवबलादास्थेयम् । अत एव प्रतियोगिवैयधिकरण्यघटितव्याप्तिघटितस्य प्रतिबन्धकतावच्छेदकविषयिताकत्वेऽपि प्रतिबन्धकतानतिरिक्तवृत्तिविषयिताकत्वाभावान्न सत्प्रतिपक्षत्वमित्युक्तं नवीनैरित्यत आह-प्रतिबन्धकत्वे वेति । आवश्यकेति । असम्भववारणायेत्यादिः। गगनादिसाध्यकेति । आदिपदादभावव्यापकगगनपरिग्रहः । अतिव्याप्त्यापत्येति । ज्ञानद्वयस्थलेऽवश्यकल्पनीयज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतयैव निर्वाहे प्रतिबन्धकत्वान्तरे मानाभावादिति भावः। अत्र विवक्षणीयत्वादिति । सद्वेतुस्थले व्यधिकरणधर्मावच्छिन्नसाध्याभावावच्छेदेन साध्यतावच्छेदकावच्छिन्नप्रतियोगिताकसाध्याभावादिग्रहस्य भ्रमत्वनियमेनोक्तविवक्षायामसम्भवाप्रसक्तेरिति भावः। आलोकप्रकाशः स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेनेति ध्येयम् । मूलेस्वानुयोगिनिष्ठविशेष्यतानिरूपितत्वेति। स्वाननुयोगिनिष्ठविशेष्यतानिरूपितत्वेत्यर्थः। तेन द्रव्यत्वेन ह्रदपर्वतोभयावगाहिनो द्रव्यं वह्निमदिति ज्ञानस्य हृदांशे भ्रमत्वोपपत्तिः । एवं व्याख्यायां स्वाश्रयनिष्ठविशेष्यतानिरूपितत्वस्थाने स्वानाश्रयनिष्ठविशेष्यत्वानिरूपितत्वेति विवक्षा कार्या । प्रतिबन्धकत्वान्तरे मानाभावादिति । यत्तु घटो गगनाभाववदभाववत्कालीनगगनाभाववानिति निश्चयस्य विशिष्टविषयकनिश्चयत्वेन साध्यवत्ताबुद्धिं प्रति प्रतिबन्धकत्वमावश्यकम् । अभाववान् गगनाभाववानिति निश्चयसहिताभाववान् घट इति निश्चयानन्तरं घटे केवलगगनवत्ताज्ञानं मे भूयादितीच्छातो घटे गगनवत्ताज्ञानोत्पादानुरोधेनाव्यवहितोत्तरत्वसम्बन्धेन केवलगगनवत्ताज्ञानेच्छाविशिष्टान्यत्वस्य तादृशज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदककोटौ निवेशावश्यकतया तादृशेच्छावशाद्विशिष्टगगनाभाववत्तानिश्चयानन्तरमपि विशिष्टगगनवत्ताबुद्धथुत्पादापत्तेः । For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका आलोकप्रकाशः न चेष्टापत्तिः, महानसीयवह्नयभाववत्तानिश्चयदशायां केवलवह्निमत्ताशानेच्छया महानसीयवह्निमत्ताज्ञानानुत्पादवत्तद्दशायां निरुक्तज्ञानानुत्पादस्य सर्वसम्मतत्वात् । विशिष्टविषयकनिश्चयत्वेन प्रतिबन्धकत्वान्तराङ्गीकारे तु तादृशनिश्चयत्वावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदककोटौ विशिष्टगगनवत्ताबुद्धित्वावच्छिन्नविषयताकेच्छानुत्तरत्वस्यैव शक्यप्रवेशनतया आपत्त्यनवकाशादिति, तन्न, दर्शितज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदकं गगनत्वनिष्ठावच्छेदकताकबुद्धित्वं केवलविशिष्टगगनवत्ताबुद्धिसाधारणम् । इत्थञ्च तादृशावच्छेदकताकबुद्धिर्जायतामितीच्छाविशिष्टान्यत्वमेव केवलविशिष्टगगनवत्ताबुद्धीच्छासाधारणरूपघटितं प्रतिवध्यतावच्छेदककोटौ निवेशनीयम् , तत एव तत्तदिच्छासत्त्वे केवलस्य विशिष्टस्य वा गगनस्य घटादौ वैशिष्टयबुद्धयुत्पत्तिनिर्वाहात् । शुद्धगगनत्वं वा नेल्यादितत्तद्धर्मविशिष्टगगनत्वं वा प्रकारतावच्छेदकतया भासत इत्यत्र तु तत्तद्विशेषणशानराहित्यसाहित्य एव तन्त्रे । यथा घटो वह्नयभाववानिति निश्चयसत्त्वे वह्निज्ञानं भूयादितीच्छायां सत्यां जायमानवह्निशाने महानसीयत्वादिभानाभावे तद्भाने च, तथा चानिष्टापत्तीष्टानुपपत्त्योरभावाद्दर्शितस्थले ज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धकत्वान्तरकल्पने मानाभाव इति । म चैवं सत्यां विशेषणशानादिघटितसामाग्या केवलगगनवत्ताबुद्धिर्भूयादितीच्छायां जातायामपि विशिष्टगगनवत्ताबुद्धयुत्पादापत्तिरिति वाच्यम् ; तादृशबुद्धयनुत्पादस्यानुभवसिद्धत्वे तादृशेच्छायास्तबुद्धौ प्रतिबन्धकत्वस्वीकारात् । स्पष्टा चेयं रीतिः पक्षतागादाधर्यामुत्तेजकसिषाधयिषानुगमप्रस्तावे । अथात्र लाघवात् स्वविषयत्व स्वसामानाधिकरण्य-स्वाव्यवहितोत्तरत्वैतत्त्रितयसम्बन्धेनेच्छाविशिष्टान्यत्वमेव दीयतामिति चेन; भूतलं घयाभाववद् घटो विशिष्टगगनाभाववानिति निश्चयोत्तरं भूतले घटवत्ताबुद्धिर्जायतामितीच्छानन्तरं भूतलं घटवद् घटस्तादृशगगनवानिति समूहालम्बनापत्तिः, दर्शितसम्बन्धत्रयेण घटज्ञानेच्छाविशिष्टत्वेन प्रतिवध्यत्वानाक्रान्तत्वात् । केचित्तु तादृशबाधनिश्चयस्य विशिष्टविषयकत्वेन प्रतिबन्धकत्वाङ्गीकारेऽपि तादृशबाधनिश्चयोत्तरमाहार्यतादृशगगनवत्ताज्ञानस्थले क्लप्तविशेषणज्ञानादिघटितसामग्रीतस्तादृशगगनवत्ताबुद्धित्वावच्छिन्नोत्पादापत्तिः, आहार्यस्थले उक्तबाधनिश्चयाभावस्य सामग्यप्रवेशेन तदभावस्याकिञ्चित्करत्वात् । अतस्तादृशबाधनिश्चयोत्तरतादृशगगनवत्ताबुद्धौ तादृशविशिष्टगगनत्वावच्छिन्नप्रकारकघटविशेष्यकज्ञानगोचरेच्छात्वेन कारणत्वावश्यकतया तादृशेच्छारूपकारणविरहादेवोक्तस्थले विशिष्टगगनवत्ताज्ञानापादनासम्भवेन विशिष्टविषयकनिश्चयत्वेन प्रतिबन्धकत्वकल्पनं नावश्यकमित्याहुः । अथाभाववान् गगनाभाववानिति निश्चयसहिताभाववान् घट इति निश्चयानन्तरं यत्र गगनवत्ताज्ञानं जायतामितीच्छामात्रेण गगनाभाववदभाववत्कालीनत्वभासकसामग्रीसमवधाने गगनाभाववदभाववत्कालीनगगगन For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता न च गगनाभाववदभाववत्कालीनगगनसाध्यकस्थले केवलगगनाभाववत्तानिश्चयस्यापि लक्षणघटकत्वात्तस्य च ताशसाध्यवत्ताज्ञानप्रतिबन्धकत्वान्नाति नूतनालोका केवलगगनाभाववत्तानिश्चयस्यापि लक्षणघटकत्वादिति। न च वाच्यत्वादिसाध्यकस्थले व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावं विनापि कालिकसम्बन्धावच्छिन्नप्रतियोगिताकवाच्यत्वाद्यभावस्य योऽभावो वाच्यत्वादिरूपः, तस्य स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाभावमादायैव लक्षणसमन्वयसम्भवात् प्रतियोग्यवृत्तिश्चेति प्रन्थानुत्थानापस्या साध्याभावप्रमापदेन साध्यताबच्छेदकसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धावच्छिम्नसाध्यतावच्छेदकावच्छिन्न - आलोकप्रकाशः वत्ताज्ञानोत्पत्तिः, तत्स्थलीयसामध्यास्तादृशविशिष्टगगनवसाशानेच्छाघटितत्वाभावेन तबलात्तादृशेच्छास्थले बाधनिश्चयानन्तरमपि विशिष्टगगनवत्ताशानेच्छामन्तरेण तादृशविशिष्टगगनवत्ताज्ञानापत्तिवारणायाव्यवहितोसरत्वसम्बन्धेन विशिष्टगगमवत्ताशानेच्छाविशिष्टान्यतादृशविशिष्टगगनवत्ताबुद्धि प्रति तादृशबाधनिश्चयत्वेन प्रतिबन्धकत्वमभ्युपगन्तव्यम् । तथा च विशिष्टबाधनिश्चयाभावघटितसामग्या एवोक्तस्थले तादृशविशिष्टगगनवताज्ञानप्रयोजकत्वाभ्युपगमसम्भव इति चेदत्र केचित् तादृशबाधनिश्चयानन्तरं गगनवत्तज्ञिीन में भूयादितीच्छया विशिष्टगगनवत्ताबुद्धयनुत्पादानुरोधेन स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्व-स्वसामानाधिकरण्योभयसम्बन्धेन तादृशेच्छाविशिष्टविशिष्टगगनवत्ताबुद्धिं प्रति बाधनिश्चयानुत्तरतादृशेच्छात्वेन कारणत्वोपगमात् तद्धटितसामया अमावादेव पूर्वोक्तस्थले तदापत्तिविरहेण विशिष्टविषयकनिश्चयत्वेन प्रतिबन्धकत्वकल्पनानावश्यकस्वादिति । वस्तुतस्तु विषयत्व-सामानाधिकरण्यसहितस्वोत्तरत्वसम्बन्धेनेच्छाविशिष्टान्यत्वस्यैव प्रतिवध्यतावच्छेदकघटकतया ज्ञानद्वयसत्त्वे केवलगगनवत्ताज्ञानं मे भूयादितीच्छायां न विशिष्टगगनवत्ताबुद्धथापत्तिः । यद्यपि महानसीयवह्नयभाववत्ताज्ञानसत्वे वह्निमत्ताज्ञानं मे भूयादितीच्छायां महानसीयवह्नयभावक्त्ताबुद्धेरप्रतिवध्यज्ञानोत्पत्यापि विषयसिद्धिः सम्भवति, तथापि प्रकृते विशिष्टगगनाभावक्त्तानिश्चयस्य गगनसामान्याभाववत्तानिश्चयसमशीलतया तद्दशायां गगनवत्ताज्ञानं मे भूयादितीच्छासत्त्वे विशिष्टगगनवत्ताबुद्धिरिष्यत एव । एतेनोक्तरीत्या इच्छाया हेतुत्वकल्पनापेक्षया लाघवाद्विशिष्टविषयकनिश्चयत्वेन प्रतिबन्धकत्वकल्पनमेव ज्याय इति परास्तमित्यलमधिकेन । तस्य स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाभावमादायेति । न च निरुक्ताभावस्य कालिकसम्बन्धावच्छिन्नप्रतियोगिताकवाच्यत्वाभावरूपत्वान्न व्याप्यवृत्तित्वमिति कथमुक्ताभावमादाय लक्षण For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका व्याप्तिरिति ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशनं सम्भवत्येवेति वाच्यम् ; एवमप्यभावव्यापककपिसंयोगाभावकालीनवृक्षो घटत्वेन कपिसंयोगाभाववानिति शानस्य स्वसमानधर्मितावच्छेदककसाध्यवत्ताबुद्धौ तादृशवृक्षत्वावच्छिन्नविशेष्यकाभाववत्तानिश्चयत्वेनैव प्रतिबन्धकत्वावश्यकतया अव्याप्तेर्दुरित्वादिति चेन्न नूतनालोकः प्रकारतानिरूपिताभावप्रकारताशालिप्रमाया एव विवक्षणीयतया कथमुक्तनिश्चयस्य लक्षणघटकतेति वाच्यम् , प्रकारतावच्छेदकशरीरे साध्यतावच्छेदकतापर्याप्तिप्रवेशस्यानावश्यकत्वादुक्तनिश्चयस्यापि लक्षणघटकत्वसम्भवादिति भावः । वस्तुतस्तु नित्यसाधारणज्ञेयत्वादिहेतुकवाच्यत्वादिसाध्यकस्थले उक्तरीत्या व्यधिकरणधर्मावच्छिन्नाभावमन्तरेणैव लक्षणसमन्वयसम्भवेऽपि घटत्वादिहेतुकस्थले दर्शिताभावस्य हेतुसमानाधिकरणत्वाभावाद्वयधिकरणधर्मावच्छिन्नाभावमादायैव लक्षणसमन्वयसम्भवात् प्रतियोग्यवृत्तिश्चेति ग्रन्थोत्थितिरिति ध्येयम् । ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशनं सम्भवत्येवेति । केचित्तु प्रतिबन्धकतायां ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशनं न सम्भवति, गगनाभाववदभाववत्कालीनगगनसाध्यकस्थलेऽतिव्याप्तेः। नन्वभाववति गगनाभावोऽव्याप्यवृत्तिरिति ज्ञानकालीनस्य अभाववान् गगनाभाववान् अभाववान् घट इति ज्ञानस्याप्रतिबन्धकतया तदनुरोधेन तादृशज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतायामुक्ताव्याप्यवृत्तित्वज्ञानस्योत्तेजकत्वमावश्यकमित्युक्ताव्याप्य - वृत्तित्वज्ञानेऽपि तादृशविशिष्टगगनाभाववत्तानिश्चयस्य तादृशगगनाभावेऽव्याप्यवृत्तित्वज्ञानासत्त्वदशायां कार्यानुत्पादकत्वानुरोधेन तादृशगगनाभावेऽव्याप्यवृत्तित्वज्ञानविरहविशिष्टविशिष्टविषयकनिश्चयत्वेन प्रतिबन्धकत्वान्तरस्यावश्यं कल्पनीयत्वा आलोकप्रकाशः समन्वय इति वाच्यम् ; कालिकसम्बन्धावच्छिन्नप्रतियोगिताकवाच्यत्वाद्यभावानां वाच्यत्वानधिकरणदेशाप्रसिद्धया व्याप्यवृत्तिताया एव स्वीकारात् । एतत्तत्त्वं प्रागेवोक्तम् । कोटिप्रविष्टानामवच्छेकत्वपक्षे वाच्यत्वादौ साध्ये वाच्यत्वादिविषयकज्ञानाभावादेर्लक्षणघटकत्वापत्तिवारणार्थमुत्तरपर्याप्तिप्रवेशस्यावश्यकत्वादाह-साध्यतावच्छेदकतापर्याप्तीति । अप्रतिबन्धकतयेति । अभाववान् गगनाभाववानित्यत्र संसर्गविधया भासमानव्यापकत्वं प्रतियोगिवैयधिकरण्यघटितमित्याशयेनेदम् । प्रतिबन्धकत्वान्तरस्येति । विशिष्टगगनवत्ताबुद्धित्वावच्छिन्नं प्रतीत्यादिः । अत्राशङ्कावाक्ये ननुशब्दस्य ग्रन्थकृत्सम्बोधनमर्थः । तस्य कर्मतासम्बन्धेन पूर्ववाक्यपरामर्शकेति For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 नूतनालोकटीका- तत्प्रकाशटिप्पण्योपबृंहिता प्रमायां विवक्षणेनोक्तज्ञान सावच्छिन्नावच्छेदकताकविशेष्यत्वानिरूपकत्वस्य व्यावृत्तेः। वस्तुतस्तु तद्वयक्तित्वव्यापकः कपिसंयोगाभावः, तद्व्यक्तिमांस्तादृशवृक्षः, विषयताव्यापकः कपिसंयोगाभावः विषयतावांस्तादृशवृक्ष इत्यादिनिश्चयानां लाघवात् कपिसंयोगाभावत्वावच्छिन्नविशेष्यता विशिष्टनिश्चयत्वेनैव तादृशवृक्षत्वावच्छिन्न विशेष्यककपिसंयोगवत्ताबुद्धिं प्रति प्रतिबन्धकत्वस्य वक्तव्यतया तेनैव निर्वाहे ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकत्वमप्रामाणिकमेवोक्तज्ञानस्येति । विशेष्यता वैशिष्ट्यं स्वनिरूपितव्यापकत्वनिष्ठप्रकारतावच्छेदकतावच्छेदकधर्मावच्छिन्नप्रकारतानिरूपिततादृशवृक्षत्वावच्छिन्नविशेष्यताकत्व-स्वनिरूपकनिश्चयविशिष्टत्वोभयसम्बन्धेन । निश्चयवैशिष्ट्यमेकक्षणावच्छिन्नैकात्मवृत्तित्वसम्बन्धेन । एवमेव कपिसंयोगाभाववदभाववत्कालीनवृक्षो घटत्वेन कपिसंयोगाभाववानिति निश्चयस्यापि स्वसमानधर्मितावच्छेदककसाध्यवत्ताबुद्धिं प्रति ज्ञानवैशिष्टयावच्छिन्नमेव प्रतिबन्धकत्वमिति तादृशनिश्चयमादायापि नाव्याप्तिप्रसक्तिरिति दिक् । नूतनालोकः Acharya Shri Kailassagarsuri Gyanmandir १०३ न्नातिव्याप्तिरिति चेन्न; प्रतियोगिवैयधिकरण्याघटिताभावव्यापकत्वावगाहिज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतावच्छेदककोटा वव्याप्यवृत्तित्वज्ञान विरहस्याप्रवेशनीयतया तादृशव्यापकताघटितोक्तसाध्यकस्थलेऽतिव्याप्तेर्दुर्वारत्वादित्याहुः । दिगिति । अयआलोकप्रकाशः । For Private And Personal Use Only शब्दार्थेऽन्वयः । ग्रन्थकृत्सम्बोधनकर्मत्वं ग्रन्थकृत्समवेतबाधेच्छयोच्चरितत्वम् । चेच्छन्दस्य शङ्कार्थः । सा च संशयरूपा । तत्रेतिशब्दार्थस्य प्रयोज्यतासम्बन्धेनान्वयः । अतिव्याप्त्यभावरूपवाक्यार्थस्यापि I तत्रैव विषयितासम्बन्धेनान्वयः । अतिव्याप्तेर्दुर्वारत्वादिति पञ्चम्यर्थो नञर्थप्रतिवध्यत्वान्वयिज्ञाननिरूपितत्वम् । तथा च पूर्ववाक्यजन्यातिव्यापत्यभावविषयक संशयोऽतिव्यासिनिष्ठदुर्वारत्वज्ञानप्रतिवध्य इति बोधः । अत्रोद्देश्यविधेयभावमहिम्ना अतिव्यापत्यभावविषयकत्वप्रतिवध्यत्वयोरवच्छेद्यावच्छेदकभावभानात् " नातिव्याप्तिरिति चेन्न" इत्यस्य स्थाने "अतिव्याप्तिरिति चेन्न” इति न प्रयोगप्रसङ्गः । एतत्सर्वमिति शब्दप्रभावलभ्यम् । इयमेव रीतिरथशब्दघटितशङ्का| परन्तु आनन्तर्यमथशब्दार्थः । तच्च प्रक्रान्तवाक्यजन्यज्ञानानन्तरज्ञानविषयत्वरूपं शङ्काविषयान्वयि, शङ्कान्वयि तादृशज्ञानानन्तर्य वा अधिकमन्यत्रानुसन्धेयम् । मूले – ज्ञानवैशिष्टयावच्छिन्नमेव प्रतिबन्धकत्वमिति । लाघवादभावविशिष्टस्वरूपसन्बन्धावच्छिन्नकपिसंयोगाभावत्वावच्छिन्नप्रकारताविशिष्टनिश्चयत्वेनैव तद्वक्तिमान् कपिसंयोगाभाववान् तद्वयक्तिमांश्च तादृशवृक्ष इत्यादिनिश्चयसाधारण्याय प्रतिबन्धकत्वस्य वक्तव्य Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ 'नच रस्नमालिका आलोकप्रकाशः तया तेनैव निर्वाहादिति भावः । प्रकारतावैशिष्टयश्च स्वनिरूपितविशेष्यतावच्छेदकतावच्छेदकधर्मावच्छिन्नप्रकारतानिरूपिततादृशवृक्षत्वावच्छिन्नविशेष्यताकत्व स्वनिरूपकनिश्चयविशिष्टत्वोभयसम्बम्धेन । निश्चयवैशिष्टयं पूर्ववदेवेति । न चैवं सत्यवच्छेदकधर्मदर्शनादिप्रतिबन्धकतावच्छेदककोटौ ज्ञानवैशिष्टयस्याप्रवेशात्तव्यावृत्त्याऽव्याप्तिर्दुवारैवेति वाच्यम् ; विषयतानिष्ठस्वनिरूपकनिश्चयवैशिष्टयावच्छिन्नावच्छेदकताकत्वानिरूपकत्वस्य प्रतिबन्धकताविशेषणत्वे तात्पर्यात्तद्वयावृत्तेः । वस्तुतस्तु अप्रामाण्यज्ञानानां संशयान्यत्वस्य चानुगमाय ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वं कल्पनीयम् । वैशिष्टयञ्च स्ववृत्तिप्रकारताविशिष्टत्य-सामानाधिकरण्य-कालिकविशेषणत्वैतस्त्रितयसम्बन्धेन । वृत्तित्वञ्चाभाववान् वृक्ष इत्यादिज्ञानीयाभावनिष्ठप्रकारतायां स्वविशिष्टधर्मितावच्छेदकताविशिष्टत्वसम्बन्धेन, स्ववैशिष्टयञ्च धर्मितावच्छेदकतायां स्वावच्छेदकधर्मपर्याप्तावच्छेदकताकत्व-स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन । धर्मितावच्छेदकतावैशिष्टयञ्च स्वविशिष्टकपिसंयोगाभावत्वावच्छिन्नप्रकारताविशिष्टत्व-स्वनिष्ठप्रतियोगिताकात्यन्ताभावयत्त्वोभयसम्बन्धेन । वैशिष्टयञ्च प्रकारतायां स्वनिरूपितविशेष्यतानिरूपितत्व-स्वावच्छेदकावच्छिन्नव्यापकत्वविशिष्टस्वरूपसम्बन्धावच्छिन्नत्वोभयसम्ब - न्धेन । प्रकारतावैशिष्टयञ्च स्वनिरूपकत्व स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्व-स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वैतत्त्रितयसम्बन्धेन। स्ववृत्तिप्रकारतावैशिष्टयञ्च स्वनिरूपितवृक्षत्वावच्छिन्नविशेष्यताकत्वोक्ताभावोक्तभेदवत्वैतत्त्रितयसम्बन्धेन । अत्रसर्वत्राभावप्रतियोगिता स्वविशिष्टप्रकारताविशिष्टत्वसम्बन्धावच्छिन्ना । प्रकारतायांखवैशिष्टयं स्वावच्छेदकावच्छिन्नप्रतियोगिताकाभाववद्विशेष्यकत्वावच्छिन्नत्वनिष्ठप्रकारतानिरूपितत्व स्वावच्छेदकावच्छिन्न प्रकारताकत्वनिष्ठत्वोभयसम्बन्धेन । पकारतावैशिष्टयं स्वनिरूपितविशेष्यत्व-स्वनिरूपकज्ञानविशिष्टत्वोभयसम्बन्धेन । ज्ञानवैशिष्टयं सामानाधिकरण्य-कालिकविशेषणत्वैतदुभयसम्बन्धेन। उक्तभेदप्रतियोगितावच्छेदकता स्वविशिष्टविशेष्यतानिरूपकत्वसम्बन्धावच्छिन्ना । स्ववैशिष्टयञ्च विशेष्यतायां स्वावच्छेदकावच्छिन्नप्रतियोगिताकाभावप्रकारतानिरूपितत्व-स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नत्वोभयसम्बन्धेन । इत्थञ्च धर्मभेदेनेव सम्बन्धभेदेनापि न प्रतिबन्धकताभेदः । न वा घटाभाववान् कपिसंयोगाभाववान् अभाववांश्च वृक्ष इति ज्ञानस्य प्रतिबन्धकत्वप्रसङ्गः। धर्मितावच्छेदकतावैशिष्टयघटकतया स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वनिवेशादिदं ज्ञानमभावाभाववत्यभावप्रकारकमित्यप्रामाण्यज्ञानास्कन्दितस्य अभाववान् कपिसंयोगाभाववानिति ज्ञानस्य व्युदासः। प्रदर्शिता चेयं रीतिः केवलान्वयिग्रन्थे भट्टाचार्यैरेवेति । न चैवमप्येकत्राभाववति कपिसंयोगाभावोऽव्याप्यवृत्तिरिति ज्ञानस्य, अन्यत्र तु तद्वयक्तिमति कपिसंयोगाभावोऽन्याध्यवृत्तिरित्यादिज्ञानस्योत्तेजकतया कथमेकरूपेण प्रतिबन्धकत्व For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०५ नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः माशयः-यत्तु वृक्षत्वसामानाधिकरण्येनाभावव्यापककपिसंयोगाभावकालीनकपिसंयोगवत्ताबुद्धौ तदवच्छेदेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकतादृशकपिसंयोगाभाववत्तानिश्चयस्यैव प्रतिबन्धकत्वमित्यविवादम् । तादृशनिश्चयस्य च न ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतया निर्वाहः, केवलाभावत्वावच्छिन्नव्यापकतायास्तत्राभानात् , तदवगाहित्वेनैव तादृशप्रतिबन्धकतायाः क्लप्तत्वात् । एवमवच्छेदका आलोकप्रकाशः | निर्वाह इति वाच्यम् ; स्ववृत्तिप्रकारताविशिष्टत्वरूपज्ञानवैशिष्टयघटकवृत्तितावच्छेदकसम्बन्धघटकधर्मितावच्छेदकतावैशिष्टयमध्ये स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वरूपसम्बन्धान्तरस्यापि प्रवेशनीयतया तन्निर्वाहात् । स्वनिष्ठप्रतियोगिता च स्वविशिष्टकपिसंयोगाभावत्वावच्छिन्नविशेष्यताशालिज्ञानविशिष्टत्वसम्बन्धेन । स्ववैशिष्टयञ्च स्वावच्छेदकावच्छिन्नवन्निरूपितस्वावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रकारतानिरूपितत्व स्वावच्छेदकावच्छिन्नवनिरूपितत्वनिष्ठप्रकारतानिरूपिता या कपिसंयोगवन्निरूपितत्वनिष्ठप्रकारतानिरूपितवृत्तितात्वावच्छिन्नप्रकारता, तन्निरूपितत्वैतदन्यतरसम्बन्धेन । ज्ञानवैशिष्टयञ्च पूर्ववत् । इत्थञ्च स्वावच्छिन्नवृत्तित्वप्रतियोगिसामानाधिकरण्यभेदेनाव्याप्यवृत्तित्वयोद्वैविध्येऽपि न क्षतिः । विस्तरत्वस्मद्गुरुचरणकृते साधारणविचारे द्रष्टव्यः । अत्र प्रतियोगिवैयधिकरण्याघटितव्यापकताविशिष्टस्वरूपसम्बन्धावच्छिन्नकपिसंयोगाभावत्वावच्छिन्नप्रकारताशालिज्ञान . स्यैव प्रतिबन्धकतावच्छेदकत्वोपगमादव्याप्यवृत्तित्वज्ञानाननुगमो न क्षतिकरः, अन्यायवृत्तित्वज्ञानानामुत्तेजकत्वस्यैवाभावादित्यपि केचित् । इत्थञ्च ज्ञानवैशिष्टयस्य प्रतिबन्धकतावच्छेदकत्वमव्याहतमेवेति । दिगर्थमाह व्याख्यायाम्-अयमाशय इति । केवलाभावस्वावच्छिन्नव्यापकताया इति । वृक्षत्वनिरूपितेत्यादिः । अभावादिति । धर्मितावच्छेदकैकदेशव्यापकताया इव प्रकारतावच्छेदकैकदेशावच्छिन्नन्यापकताया अपि संसर्गत्वानभ्युपगमादिति भावः। अन्यथा पर्वतत्वसामानाधिकरण्येन वह्निसाध्यकस्थले बाधप्रसङ्गः | साध्याभावस्याभावत्वेन पर्वतत्वव्यापकत्वाक्षतेः । न च साध्याभावत्वादिनैव पक्षतावच्छेदकव्यापकत्वावगाहिज्ञानं प्रतिबन्धकम् , न तु केवलाभावत्वादिनेति वक्तुं युक्तम् ; अवच्छेदकावच्छेदेन बाधनिश्चयानन्तरं तद्वत्ताज्ञानोत्पादस्यानुभवविरुद्धत्वात् । किञ्च, शरदि पुष्पन्ति सप्तच्छदा इतिवत् शरदि पुष्पन्ति चम्पका इत्यपि स्यात् , शरवृत्तित्वे वृत्तित्वत्वावच्छिन्नायाश्चम्पकपुष्पोत्पत्तित्वव्यापकतायाः सत्त्वात् । सामानाधिकरण्येन तादृशकपिसंयोगवत्ताबुद्धिं प्रत्यतिरिक्तप्रतिबन्धकतां व्यवस्थाप्य प्रसङ्गादवच्छेदकावच्छेदेन तादृशकपिसंयोगवत्ताबुद्धिं प्रत्यपि तां व्यवस्थापयति १४ For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रस्नमालिका नूतनालोकः वच्छेदेन तादृशकपिसंयोगवत्ताबुद्धौ व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकतादृशकपिसंयोगाभाववत्तानिश्चयस्यापि न तादृशप्रतिबन्धकतया निर्वाहः, ताशप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदककोटिप्रविष्टस्य केवलकपिसंयोगत्वावच्छिन्नव्यापकत्वावगाहित्वस्य तत्राभावात् । अतो विशिष्टकपिसंयोगाभाववत्तानिश्चयत्वेन पृथगेव प्रतिबन्धकत्वमावश्यकमिति तादृशनिश्चयमादाय कपिसंयोगसाध्यकस्थलेऽव्याप्तिर्दुर्वा रैवेति, तन्न; कपिसंयोगवत्ताबुद्धिं प्रत्यभाववान् कपिसंयोगाभाववानिति निश्चयसहितस्यावच्छेदकावच्छेदेनाभाववान् वृक्ष इति निश्चयस्येव घटाभाववान् पटाभाववानित्यादिनिश्चयानामप्यवच्छेदकधर्मदर्शनविधया प्रतिबन्धकत्वनिर्वाहाय अभावत्वघटितधर्मावच्छिन्नव्यापकत्वावगाहित्वेन प्रतिबन्धकत्वस्य कपिसंयोगवान् गोपुरवृत्तिकपिसंयोगवानित्यादिज्ञानसाधारण्याय कपिसंयोगत्वघटितधर्मावच्छिन्नव्यापकत्वावगाहित्वेन प्रतिवध्यत्वस्य चावश्यं वक्तव्यतया तादृशप्रतिवध्यप्रतिबन्धकभावेनैव निर्वाहे ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकत्वान्तरे मानाभावादिति । आलोकप्रकाशः एवमिति। तादृशप्रतिबन्धकतयेति। केवलकपिसंयोगवत्ताबुद्धिसाधारणधर्मावच्छिन्ननिरूपितज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतयेत्यर्थः । पृथगेवेति। न चात्रावच्छेदकावच्छेदेन कपिसंयोगवत्ताबुद्धित्वावच्छिन्नप्रतिवध्यताया उक्तयुक्त्या प्रकारतावच्छेदकधर्मभेदेन भेदावश्यकत्वेऽपि तन्निरूपितं प्रतिबन्धकत्वमभाववान् कपिसंयोगाभाववान् अभाववान् वृक्ष इति ज्ञानसाधारणं ज्ञानवैशिष्टयावच्छिन्नमेव स्वीकरणीयमिति कथं तदादायाव्याप्तिप्रसक्तिरिति वाच्यम् ; तादृशप्रतिबन्धकतारिक्तत्वव्यवस्थापनस्य वस्तुस्थितिज्ञापनमात्रार्थकत्वात् । अवच्छेदकावच्छेदेन तादृशकपिसंयोगाभाववत्ताबुद्धित्वावच्छिन्नप्रतिबन्धकत्वातिरिक्तत्वव्यवस्थापनस्यैव प्रकृतोपयोगित्वात् । अभावत्वघटितधर्मावच्छिन्नब्यापकत्वावगाहित्वेनेति । पर्याप्त्यनिवेशस्फोरणाय घटितपदम् । वस्तुतस्तु अवच्छेदकावच्छेदेन बुद्धौ प्रकारतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नव्यापकताया एव भानाद्धर्मविशेषावच्छिन्नाविशेषितव्यापक वावगाहित्वेनैव प्रतिबन्धकत्वस्य वक्तुं शक्यतया व्यापकतावच्छेदकरूपप्रवेशो व्यर्थ एव । एवमुत्तरत्रापीति । For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबंहिता १०७ एतेन तद्वत्ताबुद्धौ तदभाववत्तानिश्चयादेर्न तदभाववत्तानिश्चयत्वादिना प्रतिबन्धकत्वम् , जन्यज्ञानमात्रस्याव्याप्यवृत्तितया तदभाववत्तानिश्चयकालेऽपि तदभावसत्त्वेन तद्वत्ताबुद्धयापत्तेरवारणात् । न च निरवच्छिन्नविशेषणतासम्बन्धेन तदभाववत्तानिश्चयाभावस्य हेतुत्वं सम्भवति, बाधज्ञानशून्यकालेऽपि तत्कालावच्छिन्नविशेषणतयैवात्मनि तद्वत्तेः । देशानवच्छिन्नविशेषणतासम्बन्धेन तद्धेतुत्वान्न दोष इत्यपि न, बाधज्ञानशून्यकालावच्छिन्नविशेषणताया अपि शरीररूपदेशावच्छिन्नत्वात् , इदानीमेतच्छरीरावच्छेदेनात्मनि बाधबुद्धिर्नास्तीत्याकारकप्रत्ययात् । देशत्वस्य निर्वक्तुमशक्यत्वाच्च । नहि कालभिन्नत्वं तत् , घटादेरपि जन्यतया कालत्वात् । नूतनालोकः एतेनेति । व्यवहितवर्तिना 'परास्तम्' इत्यनेन सम्बन्धः । तदभावसत्वेनेति । प्रतियोग्यवच्छेदकं यच्छरीरादि, तदन्यावच्छेदेनेत्यादिः। कालत्वादिति । तथा च न घटाद्यवच्छिन्नविशेषणताव्यावृत्तिरिति भावः । आलोकप्रकाशः मूले- इदानीमित्यादि । अत्र 'इति आकारो यस्य' इति बहुव्रीहिः । निरूपितत्वविशिष्टम् ‘इति' शब्दार्थः । आकारपदार्थो विषयिता। बाधबुद्धिपदं ग्राह्याभाववत्तानिश्चयत्वावच्छिन्नपरम् । तस्येतिशब्दार्थंकदेशनिरूपितत्वेऽन्वयः । शरीरावच्छेदेनेत्यत्र अवच्छेदशब्दार्थोऽवच्छिन्नत्वम् । तस्य तृतीयार्थवैशिष्टयद्वारा आत्मनीति सप्तम्यन्तार्थात्मनिरूपितवृत्तित्वेऽन्वयः । इदानीमित्यस्यैतत्कालावच्छिन्नत्वमर्थः । तस्यापि तत्रैवान्वयः । तस्य नसमभिव्याहृतास्धात्वर्थाभावेऽन्वयः । तस्याख्यातार्थप्रतियोगित्वे । नञ्पदं तात्पर्यग्राहकम् । अथवा अस्धातोअर्थाभावान्वितप्रतियोगित्वमर्थः। तस्यापि निरूपितत्व एवान्वयः, बहुव्रीह्यर्थस्यात्र वारद्वयं भानाङ्गीकारात् । तथा च बाधबुद्धित्वावच्छिन्ननिरूपितविषयितावान् प्रत्यय एतत्कालावच्छिन्नैतच्छरीरावच्छिन्नात्मनिरूपितवृत्तित्ववदभावप्रतियोगित्वनिरूपितविषयितावानिति बोधः, इतिशब्दप्रभावात् । तदुक्तम् लक्षणा चैकवाक्यत्वं विषयत्वविपर्ययः । व्युत्पत्तीनाञ्च सङ्कोच इतिशब्दस्य वैभवः ॥ इति । __ अत्रैकविशिष्टेऽपरान्वयमहिम्ना विषयित्वयोरवच्छेद्यावच्छेदकभावोऽपि भासत इति नातिप्रसङ्गः। अत्र केचित् 'भूतले घट इत्याकारकं ज्ञानम्' इत्यादौ भूतले घट इत्येक For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ 'न च' रत्नमालिका न च कालनिरूपितावच्छेद्यताविलक्षणावच्छेद्यताशून्यत्वरूपस्य देशानवच्छिन्नत्वस्य निवेशाददोषः, तादृशवैलक्षण्यस्य निर्वक्तुमशक्यत्वात् । एवं कायव्यूहस्थले एकशरीरावच्छेदेन बाधबुद्धिसत्त्वे देशानवच्छिन्नविशेषणतया बाधाभावस्य तदात्मन्यसत्त्वाच्छरीरान्तरावच्छेदेनापि विशिष्टबुद्धयनुदयप्रसङ्गः । नूतनालोकः कालिकसम्बन्धावच्छिन्नाधिकरणत्वरूपकालत्वाच्छिन्ननिरूपकताकान्यत्वरूपस्य, कालिकसम्बन्धावच्छिन्ननिरूपकताकान्यत्वरूपस्य वा वैलक्षण्यस्य सुवचत्वादाहएवमिति । कायव्यूहेति । स च आत्मनो वै शरीराणि बहूनि मनुजेश्वर । प्राप्य योगबलं कुर्यात्तैश्च कृत्स्नां महीं चरेत् ।। भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिव ।। इत्यादिप्रमाणसिद्धस्तत्त्वज्ञानसाध्यस्तपःप्रभावमात्रसाध्यो वा झटिति सकलकर्मभोगनिर्वाहको वामदेवसौभरिप्रभृतिषु प्रसिद्धो युगपदनेकशरीरपरिग्रह रूपः । न च __ आलोकप्रकाशः पदमव्ययं तादृशविवक्षणानुपूर्वी विशिष्टपरम् । इतिशब्दार्थोऽभेदः। आकारशब्दार्थो वाक्यम् । तत्कत्वं तजनकत्वम् । तथा च तादृशविलक्षणानुपूर्वीविशिष्टाभिन्नवाक्यजनकं ज्ञानमिति बोधः । भूतले घट इत्येतादृशशब्दप्रयोगं प्रति भूतलवृत्तित्वप्रकारकघटविशेष्यकज्ञानस्य कारणत्वान्नायोग्यतेत्याहुः; तदसत् , एवं सति भूतले घट इत्याकारकं ज्ञानं भूतले घट इति वाक्यजनकमिति वाक्यस्य निराकाङ्क्षतयाऽप्रामाण्यापत्तेः । अन्ये तु भूतले घट इत्येकं पदमव्ययं भूतलवृत्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकार्थकम् । आकारशब्दार्थश्चाभेदः । तथा च भूतलवृत्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकाभिन्नं ज्ञानमित्यन्वयबोधः । न चाकारशब्दस्याभेदार्थकत्वे इतिशब्दवैयर्थ्यम् ; पूर्वशब्दस्याव्ययत्वद्योतकतया तस्य सार्थकत्वात् । यदा तु इतिशब्दस्याव्ययार्थकत्वमध्यवसीयते तदा न प्रयुज्यत एवाकारशब्दः, भूतले घट इति ज्ञानमित्येव तदा प्रयोगात् । अथवा वाक्यजन्यशाब्दबोधसमानविषयकत्वमाकारशब्दार्थः। आनुपूर्वीविशेषविशिष्टात्मकाव्ययान्विताभेद इतिशब्दार्थः। तस्याकारपदार्थघटकवाक्येऽन्वयः। तथा च आनुपूर्वीविशेषविशिष्टाभिन्नवाक्यजन्यशाब्दबोधसमानविषयकं ज्ञानमित्यन्वयबोध इत्याहुः; तदप्यसत् , भूतले घट इत्यस्य विनैवाव्ययत्वमुपपत्तौ तत्कल्पनानौचित्यात् , प्रत्यक्षादिसाधारणशाब्दबोधसमानविषयकत्वस्य निर्वक्तुमशक्यत्वाच्च । अधिकमन्यत्रानुसन्धेयमिति । For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ।। इति श्रुत्या तत्त्वज्ञानस्य सकलकर्मक्षयहेतुत्वप्रतिपादनात्तद्वलादेव सकलकर्मक्षयसम्भवे तदर्थ न कायव्यूहापेक्षेति वाच्यम् ; तत्त्वज्ञानस्य सञ्चितसकलकर्मनाशकत्वेऽपि अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नामुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।। आलोकप्रकाशः व्याख्यायाम् इत्यादिप्रमाणेति । इदञ्च प्रमाणं न्यायसारे दृश्यते । तत्वज्ञानसाध्य इति । इदञ्च वक्ष्यमाणकेचिन्मतानुसारेणोक्तम् । ईश्वरानुमानचिन्तामण्यनुसारेणाह-तपःप्रभावेति । "तपःप्रभावादेव तत्त्वज्ञानानुत्पादेऽपि कायव्यूहसम्भवात्" इति चिन्तामण्युक्तः । मात्रपदेन तत्त्वज्ञानव्यवच्छेदः । इति श्रुत्येति । तत्त्वज्ञानफलबोधिकाया अस्या मुण्डकश्रुतेरयमर्थः-हृदयग्रन्थिः देहादिष्वात्मस्वादिप्रकारकविपर्ययजनितसंस्कारो भिद्यते एकान्ततो नश्यति । स्वसमानाधिकरणतादृशसंस्कारप्रागभावासमानकालीनध्वंसप्रतियोगी भवतीति यावत् । संस्कार प्रति स्वजनकज्ञानविपरीतनिश्चयस्यापि नाशकतया परावरदर्शनात्मकतत्त्वज्ञानेन विनाशिते संस्कारे तादृशात्मत्वादिप्रकारकविपर्ययासम्भवेन संस्कारान्तरस्यानुत्पादात्तादृशसंस्कारत्यैकान्तिकध्वंससम्भवात् । अथवा हृदयप्रन्थिः प्रवर्तनालक्षणरागद्वेषमोहात्मकदोषसमुदायः । भिद्यते मिथ्याज्ञानापायादपैतीत्यर्थः । अत एव "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः" इत्युपक्रम्य "प्रवर्तनालक्षणा दोषाः” इति सूत्रयामास भगवानाचार्यो गौतमः। तत्र "प्रवर्तना प्रवृत्तिहेतुत्वम्” इति, दोषा रागद्वेषमोहाः” इति च भाष्यम् । यद्वा हृदयग्रन्थिः कामः, "अत्र ब्रह्म समश्नुते" इत्युपक्रम्य "यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः" इति वास्यशेषेण कामस्यैव ग्रन्थिरूपत्वप्रतिपादनात् । उक्तञ्च पञ्चदश्यां चित्रदीपे-"कामा ग्रन्थिस्वरूपेण व्याख्याता वाक्यशेषतः" इति। अत्र सर्वशब्देन संशयनाशे आत्यन्तिकत्वं लभ्यते, अन्यथा भविष्यदुत्पत्तिकसंशयवत्वे तस्य नाशानुत्पादेन सर्वसंशयनाशविघटनात् । अत्रापि तत्त्वज्ञानेन मिथ्याज्ञानजन्यवासनारूपदोषनाशाद्दोषजन्यायथार्थज्ञानात्मकस्य संशयस्यासम्भव एवात्यन्तिकत्वनिर्वाहको बोध्यः। अस्य छिन्नसंशयस्य । कर्मणीति बहुवचनेन तत्त्वज्ञानसमानकालीनतदधिकरणवृत्तिसकलकर्मक्षयः प्रत्याय्यते । अत्र सर्वत्र तस्मिन् दृष्टे परावरे, परा इन्द्रादिदेवतान्तराणि अवरा अपकृष्टा यस्मात्तस्मिन् For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra it www.kobatirth.org 'न च' रत्नमालिका नूतनालोकः इत्यादिवचनविरोधेन प्रारब्धकर्मनाशकताया वक्तुमशक्यतया झटिति भोगद्वारा प्रारब्धसकलकर्मक्षपणार्थं तस्यावश्यमपेक्षणीयत्वात् । न च तत्त्वज्ञानस्य कर्मनाशवे तस्य भगवत्प्रसादरूपपुण्योत्पादकत्वानुपपत्तिः, एककार्यं प्रति नाशकत्वोत्पादकत्वयोर्विरोधात् । न चेष्टापत्तिः, नवविधभक्त्यन्तर्गतस्यात्मनिवेदनशब्दितस्य तत्त्वज्ञानस्य भगवद्भक्तित्वानुपपत्तेः, भगवत्प्रसादहेतुव्यापारस्यैव भक्तिसामान्यलक्षणत्वात् । स्पष्टं चेदं न्यायरत्नावल्यामिति वाच्यम् ; विहितकर्मजन्यत्वस्यानुगतस्य वक्तुमशक्यतया न तदवच्छिन्ननिरूपितजन्यतावच्छेदिका निखिलनाश्यसाधारणी जातिः । येन तस्या - स्तत्त्वज्ञाननाश्यतावच्छेदकत्वं स्यात्, तथापि तत्त्वज्ञाननाश्यतावच्छेदकजातिः स्वजन्य पुण्यविशेषव्यावृत्तैवेति न तत्त्वज्ञानस्य पुण्यविशेषजनकत्वानुपपत्तिः । इत्थन विश्वनाथादिदर्शनजन्य पुण्यस्यापि ज्ञाननाश्यत्वं निर्वहतीति ध्येयम् । वस्तुतस्तु आलोकप्रकाशः परमेश्वरे दृष्टे सतीत्यन्वेति । तथा च तत्त्वज्ञानेन कर्मक्षये जन्माधीनकर्मासम्भवादपवर्गो भवतीति । अवश्यमेव भोक्तव्यमिति । प्रायश्चित्तादिना नाशयितुं नैव शक्यमित्यर्थः । स्मृतिरूपमिदं वचनम् । अत्र पूर्वार्धोत्तरार्ध योर्वैपरीत्येनापि पाठो दृश्यते । प्रारब्धकर्मनाशकताया वक्तुमशक्यतयेति । अत एवोपनिषद्भाष्ये - " यानि विज्ञानोत्पत्तेः प्राक्तनानि जन्मान्तरे चाप्रवृत्तफलानि ज्ञानोत्पत्तिसहभावीचि क्षीयन्ते कर्माणि" इत्युक्तम् । भगवत्प्रसादरूपपुण्येति । ईश्वरप्रसाद एव पुण्यम् ईश्वरकोप एव पापम् तयोस्तद्रूपताया: "फलमत उपपत्तेः" इत्यधिकरणे } , बादरायणसम्मतत्वादिति मताभिप्रायेणेदम् । न च मनोनिष्ठत्वानुपपत्तिः, मायापरिणामरूपयोस्तयोरन्तःकरणनिष्ठत्वाभावादिति वाच्यम् ; तदीयविहितनिषिद्ध कर्मजन्ययोस्तयोस्तदीयमनोवच्छेदेनैव मायापरिणामरूपत्वस्वीकारेण अवच्छेदकतासम्बन्धेन मनोनिष्ठत्वोपपत्तेः । स्पष्टं चेदं न्यायरत्नावल्यामिति बोध्यम् । नाशकत्वोत्पादकत्वयोर्विरोधादिति । अन्यथा कार्यमात्रोत्पत्त्युच्छेदापत्तेरिति भावः । नवविधभक्तीति । आह वस्तुस्त्विति । Acharya Shri Kailassagarsuri Gyanmandir श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ इत्युक्तप्रकारेण भक्तेर्नवविधत्वं बोध्यम् । ननु वेदबोधितकर्तव्यताकत्वमनुगतं अविधेयतयेति । विहितकर्मत्वं कृत्यसाध्यत्वादिति भावः । For Private And Personal Use Only वक्तुं शक्यत इत्यत ज्ञानिनामपि Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः ज्ञानस्याविधेयतया विहितकर्मजन्यतावच्छेदकजातिविशेषरूपनाश्यतावच्छेदकस्य तत्वज्ञानजन्यपुण्यविशेषेऽनङ्गीकारेण नानुपपत्तिरिति । केचित्तु कर्मनाशे तत्त्वज्ञानस्य हेतुत्वमेवाप्रामाणिकम् , भोगादेव सर्वत्रादृष्टनाशोपपत्तेः, अन्यथा "नाभुक्तम्" इत्यादिवचनविरोधः स्यात् । न च तत्त्वज्ञानेन कर्मणामविनाशे ज्ञानिनामात्यन्तिकदुःखनिवृत्त्यसम्भवेन “तरति शोकमात्मवित्", "दुःखेनात्यन्तं विमुक्तश्चरति" इत्याद्यनेकश्रुतिविरोध इति वाच्यम्; प्राचीनकर्मणां भोगादेव क्षयेण तत्त्वज्ञानान्मिथ्याज्ञानजन्यवासनानाशे वासनाविशिष्टरागादेरेव पापादिजनकत्वेन निषिद्धाचरणादिना . अदृष्टान्तराजननादुःखानुत्पादेन कतिपयकालो आलोकप्रकाशः केषाञ्चिदितिहासपुराणयोदेहान्तरोत्पत्तिः स्मर्यते । तथा हि-अपान्तरतमा नाम वेदाचार्यः पुराणर्षिर्विष्णुनियोगात् कलिद्वापरयोः सन्धौ कृष्णद्वैपायनः सम्बभूवेति । वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन्निमिशापादपगतपूर्वदेहः पुनर्ब्रह्मादेशान्मित्रावरुणाभ्यां सम्बभूवेति च स्मरन्ति । एवं भृग्वादीनामपि ब्रह्मणो मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः श्रूयते । एवं सनत्कुमारोऽपि ब्रह्मणो मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव । एवमेव दक्षनारदप्रभृतीनां देहान्तरोत्पत्तिः स्मर्यते तेन तेन निमित्तेन । ते च केचित् पतिते पूर्वदेहे देहान्तरमाददते । केचित्तु स्थित एव तस्मिन् योगैश्वर्यवशायुगपदनेकदेहानाददते मायाविन इव । स्पष्टं चैतत् “यावदधिकारमवस्थितिराधिकारिकाणाम्" इत्यधिकरणे । तथा च तेषामपान्तरतमःप्रभृतीनां विद्वत्त्वेऽपि कर्मावश्यम्भावात् कर्मनाशकत्वं तत्त्वज्ञानस्यासम्भवदुक्तिकमेवेति कायव्यूह आवश्यक एवेति वदतां मतमाह-केचित्त्विति । तरति शोकमात्मविदिति । श्रूयते हि छान्दोग्ये"श्रुतं ह्येव मे भगवा दृशेभ्यस्तरति शोकमात्मविदिति । सोऽहं भगवः शोचामि । तं मा भगवान शोकस्य पारं तारयतु” इति । सनत्कुमारं प्रति नारदप्रार्थनारूपाया अस्याश्चायमर्थः-आत्मवित् शोकं तरतीति भगवत्तुल्येभ्यो मया श्रुतमेव हि, न दृष्टम् । सोऽहमज्ञत्वात् हे भगव शोचामि तं शोचन्तं मां भगवानेव ज्ञानप्लवेन शोकसागरस्य परं पारं प्रापयत्विति । इत्यादीति । आदिना "तद्यथा इपीकातूलमग्नौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रधूयन्ते” इत्याद्याश्छान्दोग्यश्रुतयो गृह्यन्ते । अदृष्टान्तराजननादिति । “यथा पुष्करपलाशे आपो न श्लिष्यन्त एवमेवं विदि पापं कर्म न रिलष्यते' इत्यादि श्रुत्या पुण्यपापयोरनुत्पादप्रतिपादनादिति भावः । कतिपयकालोतरमिति । प्राचीनकर्मभोगोत्तरमित्यर्थः । इत्यादिबहुतेरेति । आदिना-...... For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका नूतनालोकः तरमात्यन्तिकदुःखविगमसम्भवात् । अत एव तत्त्वज्ञानेन कर्मणामविनाशे दुःखस्यावश्यकतया तत्त्वज्ञानोपाये श्रवणादौ प्रवृत्त्यनुपपत्तिरित्यपि समाहितम् , न चैवमपि तत्त्वज्ञानस्य कर्मनाशकत्वाभावे "भिद्यते हृदयग्रन्थिः", "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" इत्यादिबहुतरवाक्यव्याकोप इति वाच्यम् ; यतो "नाभुक्तम्” इत्यादिवचनानुरोधेन तत्त्वज्ञानं कायव्यूहादिसम्पादनद्वारा झटिति सकलकर्मभोगान् निर्वाह्य तानि नाशयतीत्यत्रैव ज्ञानस्य कर्मनाशकताबोधकवाक्यानां तात्पर्यम् , न तु तत्त्वज्ञानाव्यवहितोत्तरं कर्मणां विनाशे, "तावदेवास्य चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” इत्यादिश्रुतिविरोधापत्तेः । अत एव यथाग्नेरिन्धननाशे परम्परयैव हेतुता, तथा ज्ञानस्यापि कर्मनाश इत्येतत् सूचनायैव ज्ञानस्याग्नित्वेन रूपणं भगवता कृतम् । स्पष्टं चेदं मुक्तिवादचिन्तामणाविति । न च भोगस्यैव कर्मनाशकत्वे काशीमरणाव्यवहितोत्तरं मुक्तेरनुपपत्तिः, शरीराद्यभावेन भोगासम्भवात्। नह्यव्यवधाने प्रमाणाभावः, आलोकप्रकाशः बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नामा सम्पद्यते पुनः ॥ इत्यादि स्मृतिसंग्रहः। तावदेवास्य चिरमिति । “आचार्यवान् पुरुषो वेद तस्य तावदेवास्य चिरं यावन विमोक्ष्ये, अथ सम्पत्स्ये" इति छान्दोग्यम् । अस्याः श्रुतेरयमर्थः-तस्य तत्त्वज्ञानवतो जीवन्मुक्तस्य तावदेव चिरं तावानेव विदेहकैवल्यस्य विलम्बः, यावन विमोक्ष्ये यत्कालपर्यन्तं प्रारब्धकर्मभिर्न विमुच्येत । 'अथ सम्पत्स्ये' अथ प्रारब्धकर्मनाशानन्तरं सम्पत्स्ये विदेहकैवल्येन सम्पन्नो भविष्यति । कथं तर्हि प्रारब्धकर्मनिवृत्तिरित्याशङ्कथ भोगादित्याशयेनाह-यावदिति । प्रारब्धकर्मध्वस्तावपि कथं देहादिधीध्वस्तिरित्याशङ्कय प्रारब्धरूपप्रतिबन्धकनाशादित्याह-अथेति । उत्तमपुरुषस्तूभयत्र प्रथमपुरुषे छान्दसः । प्रारब्धकर्मक्षपणार्थ ज्ञानिनां कायव्यूह इव मायाविमोहितानां क्षणेनैकेन मायामयविग्रहान्तरपरिग्रहा विचित्राश्चानुभवाः श्रूयन्ते पुराणेषु, भगवन्मायाविमोहितः कदाचिनारदः कन्यात्वमवाप । तां कश्चिदुदवहत् । ततः पुत्रान् बहूनजनयत् । सांसारिकञ्च दुःखमनेककालीनमन्वभूत् । ततो भर्तुः पुत्राणाञ्च वियोगमनुभुय पुनर्नारद एवासीदिति । एवञ्जातीयाः सन्त्यन्याश्चानेकशः कथाः। कायधूहादीत्यत्रादिपदेन मायिकतादृशविग्रहो ग्राह्यः । परम्परयैवेति । आदा For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः विश्वेश्वरस्य देवस्य काशीनाम्ना महापुरी । यत्र पापी मृतः सद्यः परं मोक्षं प्रयाति हि ॥ अत्रैव मृतमात्राणां मुक्तिरेकेन जन्मना । कृत्वा कर्माण्यनेकानि कल्याणानीतराणि च । तानि क्षणात्समुरिक्षप्य काशीसंस्थोऽमृतो भवेत् ।। इत्यादिबहुतरप्रमाणसम्भवादिति वाच्यम् ; श्रुतिस्मृत्यन्यथानुपपत्त्या काश्यां मृतानामपि क्षणमात्रेण निखिलकर्मोपभोगक्षममायामयशरीराभ्युपगमेन भोगानुपपत्तिविरहात्। न च "नामुक्तम्" इति वाक्ये कर्मपदं लक्षणयैवादृष्टार्थकमुपगन्तव्यम् , तस्य क्रियायामेव शक्तेरिति लक्षणाया आवश्यकत्वे ज्ञानानाश्यादृष्ट एव सास्तु । तत एव विरोधभङ्गे किमर्थं ज्ञानिनां निखिलकर्मभोगकल्पनमिति वाच्यम् ; अदृष्टे कर्मपदस्यात्र “न कर्मणान्यधर्मत्वादतिप्रसक्तेश्च" इति सांख्यसूत्रे, "क्षेपणाय भवजन्मकर्मणाम्” इति कुसुमाञ्जलौ, "अनादाविह संसारे आलोकप्रकाशः । वग्निना अवयवेष्वभिधातो जन्यते । ततस्तेषु क्रिया भवति । ततस्तया क्रियया अवयवानां विभागः। तस्मादिन्धनारम्भकसंयोगनाशः। ततोऽवयविनाश इति क्रमः। तत्रावयविनाशे मुख्यं कारणमिन्धनारम्भकसंयोगनाश एव न त्वग्निरिति । भोगानुपपत्तिविरहादिति । तथा च काशीमरणस्थले तत्त्वज्ञानात् पूर्व मायिकशरीरं परिगृह्य निखिलकर्माण्युपभुज्यैव तारकोपदेशलाभः । ततस्तदव्यवहितक्षणे मुक्तिरिति कल्प्यते । तदप्युक्तं परमेश्वरेण पुण्यानि पापान्यखिलान्यशेषं सार्थ सबीजं सशरीरमार्य । इहैव संहृत्य ददामि बोधं यतः शिवानन्दमवाप्नुवन्ति ॥ इति । इत्थञ्च नोदाहृतवचनविरोधः। न वा कर्मणां भोगैकनाश्यतावचनविरोध इति भावः । विस्तरस्त्वस्मदीयगुरुचरणकृतगङ्गातरङ्गिणीव्याख्यायां द्रष्टव्यः । ज्ञानानाश्यादृष्ट एवेति । सञ्चितागामिभिन्न एवादृष्ट इत्यर्थः । निखिलकर्मभोगकल्पन मिति । सञ्चितागामिनां जन्मान्तरे प्रारब्धतापन्नानां सतां भोगकल्पनमित्यर्थः। म कर्मणेति । नहि विहितनिषिद्धकर्मगापि पुरुषस्य बन्धः, कर्मणामनात्मधर्मत्वात् , अन्यधर्मेण साक्षादन्यस्य बन्धे च मुक्तस्यापि बन्धापत्तेः । स्वस्वोपाधिकर्मणा बन्धाङ्गीकारे नायं दोष इत्याशयेन हेत्वन्तरमाह----अतिप्रसक्तेश्चेति । • प्रलयादावपि दुःखयोगरूपबन्धापत्तेश्चेत्यर्थः । सहकार्यन्तरविलम्बतो बिलम्बकल्पनञ्च प्रागेव निराकृतं "न १५ For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११४ 'नव' रत्नमालिका नूतनालोकः सचिताः कर्मकोटयः” इति पञ्चदश्यामन्यत्रापि भूरिशः प्रयोगदर्शनेनादृष्टत्वरूपसामान्यधर्मपुरस्कारेण लक्षणाया निरूढत्वेन शक्तितुल्यत्वाद्भोगा कल्पनलाघवानुरोधेन ज्ञानाद्यनाश्यादृष्टत्वरूप विशेषधर्म पुरस्कारेण स्वारसिकलक्षणाया अयुक्तत्वात् । न च सामान्यरूपेण लक्षणास्वीकारेऽपि कर्मणां भोगस्यावश्यं वक्तव्यतया भोगानुपहितकर्माप्रसिद्धया तादृशवाक्यस्य यथाश्रुतार्थपरता न सम्भवत्येवेति वाच्यम्; अतीतत्वस्य तप्रत्ययेन विवक्षणात् तदपेक्षयाऽतीतो यो भोगस्तदनुपहितकर्मणि तत्क्षयप्रतियोगित्वनिषेधरूप यथाश्रुतार्थेऽप्रसिद्धयनवकाशान् । यद्यपि भोगोऽनुभव विशेषस्तद्विषयत्वरूपं मुक्तत्वं न कुत्राप्यद्दष्टे, तथापि भोगविषयफलोपधानमेव भोगकर्मत्वं प्रकृते विवक्षितम् । सुखं भुज्यत इतिवत् पुण्यं भुज्यत इत्यपि प्रयोगदर्शनात् तादृशार्थस्यापि स्वरससिद्धत्वात् । इत्थन भोगस्यैव कर्मनाशकतथा ज्ञानिनामप्यपान्तरतमः प्रभृतीनां भोगादिना कर्मक्षपणार्थं देहान्तरोत्पादनं तत्र तत्रोक्तं सङ्गच्छते, अन्यथा ज्ञानादिनैव कर्मक्षये तदसाङ्गव्यापातादित्याहु:, तन्न, यतः " कर्म कोटिशतैरपि " इत्यनेन यथा भावनाख्यसंस्कारः कालवशात् फलमनुत्पाद्यापि नश्यति, तथा न कर्मेत्येव लभ्यते । तथा च ज्ञानस्य कर्मनाशकत्वे न किचिदनुपपन्नम्, अन्यथा प्रायश्चित्तादपि कर्मनाशेनोक्तवचनविरोधापरिहारात्, प्रायश्चित्तस्य पापानाशकत्वे तत्र प्रवृत्यानुपपत्तेः । न च प्रायश्चित्तस्यापि झटिति कायव्यूहाधीन भोगसम्पादनद्वारा पापनाशकत्वान्न तत्र प्रवृत्त्यनुपपत्तिरिति वाच्यम् ; दुःखव्यक्तीनां साम्ये झटितिभोगविलम्बितभोगयोरविशेषेण प्रायश्चित्तानर्थक्य Acharya Shri Kailassagarsuri Gyanmandir आलोकप्रकाशः कालयोगः" इत्यादिसूत्र इति सांख्यसूत्रभाष्यम् । भवजन्मकर्मणामिति । संसारस्य जन्मनः कर्मणाञ्च विनाशायेत्यर्थः । अन्यत्रापीति । "बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि" इत्यादि परिग्रहः । तत्क्षयापेक्षयेति । तथा चातीतभोगोपहितकर्मण एव वर्तमानक्षयप्रतियोगित्वम्, न भविष्योगोपहितस्य वर्तमानभोगोपहितस्य च कर्मण इति भावः । न किञ्चिदनुपपन्नमिति । तथा च फलानुपतिकर्मनाशे कालजन्यत्वनिषेधे तात्पर्यात् कचित्तादृशविनाशे तत्त्वज्ञानजन्यत्वस्वीकारे बाधकाभाव इति भावः । ननु तद्वाक्यस्य भोगं विना कर्म न नाशप्रतियोगीति यथाश्रुतार्थ एव कुतो न तात्पर्यमित्यत आह-अन्यथेति । इष्टापत्तौ बाधकमाह - प्रायश्चित्तस्येति । अविशेषेण तारतम्याभावेन | ननु तद्वाक्ये तादृशतात्पर्यकल्पनं सम्भवति कल्पकोटीत्यायुक्तस्तथापि For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका तत्प्रकाशटिप्पण्यपबृंहिता नूतनालोकः प्रसङ्गात् । एवञ्च "अवश्यमेव भोक्तव्यम्" इत्यस्याविरोधाय ज्ञानिनामपि सकलकर्मभोगोपगम आवश्यक इत्यपि न युक्तम्; कृतप्रायश्चित्तानां कर्मणां भोगाभावेन तत्रत्यकर्मपदस्य वेदबोधितनाशकानाश्यकर्मपरताया अवश्यं वक्तव्यत्वात्तत्वज्ञानरूपनाशकस्यापि वेदबोधिततया तेन भोगं विनैव कर्मनाशाङ्गीकारे क्षत्यभावात् । तत्रज्ञानस्य साक्षाददृष्टनाशकत्वे कचिद्भोगः कचित्तत्वज्ञानमित्यननुगमेन व्यभिचारागोगस्याप्यदृष्टनाशकता न सम्भवतीति नाशङ्कनीयम्; भोगोत्तरादृष्टनाशत्वस्य भोगजन्यतावच्छेदकत्वोपगमेन व्यभिचारानवकाशात्, प्रायश्चित्त कीर्तनादिजन्यादृष्टनाशे व्यभिचारवारणाय कार्यतावच्छेदकशरीरे तत्तत्कारणानन्तर्यनिवेशस्य सर्वमतेऽप्यावश्यकत्वात् । इदमत्र बोध्यम् कर्म त्रिविधम् - प्रारब्धं सचितमागामि चेति । तत्र वर्तमानशरीरं यत्कर्मजन्यं तत् प्रारब्धम्, तद्भिन्नं वर्तमानं कर्म सचितम् । जनिष्यमाणं कर्म आगामि । तत्र प्रारब्धस्य भोगादेव क्षयः । " नाभुक्तम्" इत्यादिवचनानि तद्विषयाणि । सञ्चितस्य च ज्ञानादित एव क्षयः । तत्पराणि "क्षीयन्ते For Private And Personal Use Only ११५ आलोकप्रकाशः " यावन्न विमोक्ष्ये अथ सम्पत्स्ये" इति यावत्कर्मभोगपर्यन्तं विलम्बश्रवणानुपपत्त्या तद्वाक्यस्यार्थ - वादत्वं यथाश्रुतार्थमात्र तात्पर्य वावश्यं कल्पनीयमित्याशङ्कां परिहरति — एवञ्चेति । प्रायश्चित्ते प्रत्यन्यथानुपपत्तौ चेत्यर्थः । श्रुतिस्मृतीनां विषयव्यवस्थां प्रदर्शयन् विरोधं परिहर्तुमाहइदमति । कर्म त्रिविधमिति । यद्यपि वृत्तौ कर्माणि चतुर्विधानि सञ्चितानि प्रारब्धान्यतीतान्यागामीनि च । तत्र पूर्वजन्मकृतानि भविष्यद्देहजननयोग्यानि स्वर्गादिफलोद्देशेन कृतानि सञ्चितानि मोक्षसाधनश्रवणमननादिसम्पादकानि वर्तमानशरीरारम्भकाणि पूर्वजन्मकृतानि कर्माणि प्राधानि, ब्रह्मसाक्षात्कारोत्पत्तेः पूर्वमस्मिन् जन्मनि जन्मान्तरे वा ब्रह्मसाक्षात्कारोदेशेन कृतानि कर्माण्यतीतानि ब्रह्मसाक्षात्कारोत्पत्यनन्तरमस्मिन् जन्मनि कृतान्यागामीन्युक्तम् ; तथापि ब्रह्मसाक्षात्कारोद्देशेन कृतानामग्निहोत्रादिकर्मणां ब्रह्मसाक्षात्कारं प्रत्युपजीव्यत्वात्तन्नाश्यत्वासम्भवेऽपि फलत्वेन तस्य तादृशकर्मनाशकत्वं विरोधाभावादतीतकर्मणां सञ्चितेऽन्तर्भावकल्पनं सम्भवतीत्यभिप्रायेण लाघवादिह वैविध्यमुक्तमिति ध्येयम् । वर्तमानशरीरं यत्कर्मजन्यमिति । न चैवं सति ज्ञानिनां प्रारब्धकर्मक्षपणार्थ स्मृतावनेकजन्मकथनासङ्गतिः, भविष्यद्दे हजनक कर्मणां वर्तमानशरीरानुत्पादकानां प्रारब्धत्वाभावेन ज्ञानेनैव नाशसम्भवादिति वाच्यम्, वर्तमानशरीरा बच्छेदेनोपभोग्यानां तदुत्पादकानां बहूनां कर्मणां मध्ये नानाजन्मोपभोग्य ब्रह्महत्यादिपापानाम Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च रस्नमालिका नूतनालोकः चास्य कर्माणि" इत्यादिवाक्यानि । आगामिनस्तु ज्ञानमहिम्ना न संश्लेषः । तत्तात्पर्यकश्च “तद्यथा पुष्पकरपलाशे आपो न श्लिश्यन्ते' इत्यादि । पारमर्षाणि सूत्राणि "तदधिगमे उत्तरपूर्वाद्ययोरश्लेषविनाशौ तद्वयपदेशात्", "इतरस्याप्येवमश्लेषः पाते तु", "अनारब्धकार्ये एव पूर्वे", "तदवधेः" इति । अत्र वृत्तिः-"तदधिगमे तस्य ब्रह्मगोऽधिगमे साक्षात्कारे सति, उत्तरपूर्वाद्ययोरागामिसञ्चितपापयोरइलेषविनाशौ भवतः, आगामिपापस्यास्पर्शः सश्चितपापस्य विनाशश्च भवति, “तद्यथा पुष्करपलाशे आपो न श्लिष्यन्ते", "तद्यथा इषीकातूलमग्नौ प्रोतं प्रदूयेत", "यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन' इत्यादिश्रुतिस्मृतिष्वागामिसश्चितकर्मणोरश्लेषविनाशव्यपदेशादित्यर्थः। पापस्याश्लेषविनाशौ प्रतिपाद्य पुण्यस्य तौ प्रतिपादयति-हतरस्येति । पाते ब्रह्मसाक्षात्कारेण देहाभिमाननाशे सति इतरस्य ब्रह्मज्ञानकालीनोतरपुण्यस्यासंश्लेषः असंस्पर्शो भवति । इदमुपलक्षणम् । सञ्चितपुण्यस्य नाश इत्यपि द्रष्टव्यम्। वर्तमानदेहजनकयोः प्रारब्धपुण्यपापयोस्तु ज्ञानान्नाशो नास्तीत्याह-अनारधेति । अनारब्धकार्येऽनुत्पादितवर्तमानशरीर एव पुण्यपापे नश्यतः, न तु वर्तमानशरीरारम्भके । कुतः ? तदवधेः, ब्रह्मणः साक्षात्कारानन्तरमपि प्रारब्धनाशपर्यन्तं पर्यवसानस्य "तस्य तावदेव चिरम्' इत्यादिश्रुतिषु प्रतिपादितत्वादित्यर्थ इति । अन्ये तु सर्वेषामेव कर्मणां भोगादेव क्षयो युक्तः । न च "भिद्यते हृदयग्रन्थिः " इत्यादिवचनविरोधः, यतस्तत्र “क्षीयन्ते चास्य कर्माणि" इत्यंशस्य-अस्य दृष्टतत्त्वस्य कर्माण्यभुज्यमानानि पूर्व सश्चितपापादीनि श्रीयन्ते भोगसमाप्तिपर्यन्तं विद्यमानान्यपि स्वाश्रये मुक्तात्मनि दुःखादिकं न जनयन्तीत्येवार्थः। एवमेव वचनान्तराणामध्यर्थोऽवसेयः। "तस्य पुत्रा दायमुपयन्ति, सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्" आलोकप्रकाशः प्यन्तर्भावेन भविष्यद्दे होत्पादककर्मणोऽपि प्रारब्धत्वात्तत्कथनसङ्गतेरिति प्रारब्धस्येव सञ्चितस्यापि भोगादेव क्षयः, “नाभुक्तम्" इत्यादिवचनात् । आगामिनस्तु विदुष्यनुत्पत्तिलक्षणोऽसंश्लेष एव वासनाविरहादिति वदतां मतमाह-अन्ये विति । भोगादेवेति । ज्ञानस्यापि नाशकत्वे क्वचिद्भोगः क्वचिज्ज्ञानमित्यननुगमेन व्यभिचारात् कार्यतावच्छेदककोटौ स्वत्वघटितस्यानन्तर्यस्य निवेशनीयतया गुरुभूतानेककार्यकारणभावापत्तरिति भावः। तस्य पुत्रा इत्यादि । तस्य मृतस्य विदुषः। दायं धनम् । अयं पाठः शाट्यायनिनाम् । कौषीतकीनान्तु "तत् सुकृतदुष्कृते विधुनुते । तस्य प्रिया For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता न चापच्छेदकतासम्बन्धेन विशिष्टबुद्धि प्रत्यवच्छेदकतासम्बन्धेन बाधयुद्धेः प्रतिबन्धकत्वाददोष इति वाच्यम् , एवं सति महाशरीरनाशदशायां जायमानबाधबुद्धेरनन्तरं यत्र खण्डशरीरोत्पत्तिस्तत्र तदनन्तरं तादृशखण्डशरीरावच्छेदेन विशिष्टबुद्धयापत्तेः, तत्र खण्डशरीरेऽवच्छेदकतासम्बन्धेन प्रतिबन्धकासत्त्वात् । नहि खण्डशरीरस्यापि तादृशबाधवुधवच्छेदकताभ्युपगमसम्भवः, तथा सत्यवच्छेदकतासम्बन्धेन तदधिकरणीभूतखण्डशरीरे तदव्यवहितपूर्वक्षणावच्छेदेन तत्कारणीभूतस्य तादात्म्यसम्बन्धेन शरीरस्यासत्वेन व्यभिचारप्रसङ्गात् । नूतनालोकः इत्यादिवचनेन ज्ञानिनः पुण्यादेस्तदीयसुहृदादौ फलजनकत्वोक्तेः। स्पष्टश्चायमर्थः प्रथमश्लोकव्याख्यानस्य न्यायरत्नावल्यामित्याहुः। बाधबुद्धिक्षणे न खण्डशरीरोत्पत्तिसम्भवः, समवायेन द्रव्यं प्रति समवायेन द्रव्यस्य प्रतिबन्धकत्वकल्पनावश्यकतया पूर्वक्षणे महाशरीररूपप्रतिबन्धकसत्त्वादत उक्तम्-बाधबुद्धेरनन्तरमिति । खण्डशरीरोत्पत्तिक्षणे न तदेवच्छेदेन विशिष्टयुद्धेरापत्तिः सम्भवति, तत्पूर्वक्षणे तच्छरीररूपकारणविरहादत उक्तम्-तदनन्तरमिति । विशिष्टबुद्धयापत्तेरिति । न च शरीरस्य कार्यसहभावेन सानादिकं प्रति हेतुतया तन्नाशदशायां कथं बाधबुद्धेरुत्पत्तिरिति वाच्यम् ; लाघवेनान्त्यावयवित्वमनिवेश्य शरीरतदवयवसाधारणचेष्टाश्रयत्वेनैव तद्धेतुतायाः स्वीकारात्, तदानीमवयवावच्छेदेन तदुत्पत्तौ बाधकाभावात् । स्पष्टं चेदमिन्द्रियदीधितौ, व्याप्तिपूर्वपक्षगादाधां च । आलोकप्रकाशः ज्ञातयः सुकृतमुपयन्ति । अप्रिया दुष्कृतम्" इति पाठः । तद् विद्याबलेन। सुकृतदुष्कृते त्यजतीति तदर्थः । "प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥” इति मनुवचनमत्रादिपदग्राह्यम् । न्यायरत्नावल्यामिति । "भिद्यते हृदयग्रन्थिः” इत्यादि श्रुत्यर्थविचारावसर इति शेषः । अत्र कर्मणः स्वसमानाधिकरणफलजनकत्वमेवेति सिद्धान्तभङ्गः । अत एव "उक्तप्राप्त्यस्वीकारे तु नश्यतीत्येवार्थः" इत्युक्तं तत्रैवेत्यस्वरससूचनायाह रित्युक्तम् । For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ 'नच' रत्नमालिका . न च खण्डशरीरस्य महाशरीरनाशकालोत्पत्तिकबाधबुद्धेरवच्छेदकत्वेऽपि तदुत्पत्तिक्षणावच्छेदेन तदवच्छेदकत्वासत्त्वान्न व्यभिचार इति वाच्यम् ; एवमपि यत्र खण्डशरीरोत्पत्तिकाल एव बाधबुद्धिरुत्पन्ना, तत्र खण्डशरीरस्य तदवच्छेदकत्वे व्यभिचारस्य तदनवच्छेदकत्वे च तदुत्तरं विशिष्टबुद्धयापत्तेर्दुरित्वात् । न च खण्डशरीरे झानाद्यवच्छेदकत्वसत्त्वेऽपि तादृशज्ञानाव्यवहितपूर्वक्षणावच्छेदेन तत्र कारणतावच्छेदकीभूततादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकभेदरूपकारणाभावस्याप्यसत्त्वात् कथं व्यभिचारः ? कार्याव्यवहितपूर्वक्षणावच्छिन्नकार्याधिकरणवृत्तिकाभावप्रतियोगित्वस्यैव व्यभिचारपदार्थत्वादिति वाच्यम् ; तथापि खण्डशरीरस्य तादृशज्ञानाव्यवहितपूर्वक्षणावच्छेदेन तदवच्छेदकतानियामकसामग्र्यनधिकरणत्वात्तदवच्छेदकत्वमनुपपन्नमेव, तादृशसामग्यनधिकरणस्याप्यवच्छेदकत्वोपगमे सर्वत्रावच्छेदकतासम्बन्धेन तदुत्पत्तिप्रसङ्ग नूतनालोकः न व्यभिचार इति । यत्र कार्यमुत्पद्यते तद्वृत्तिस्वाभावकत्वस्यैव व्यभिचारस्वादिति भावः । व्यभिचारस्येति । खण्डशरीरस्य बाधबुद्धथुत्पत्त्याश्रयत्वादिति भावः । विशिष्टबुद्धथापत्तेर्दुरित्वादिति । ननु नेयमापत्तिः सम्भवति, खण्डशरीरावच्छेदेन विशिष्टबुद्धेरुत्पत्ती बाधबुद्धयवच्छेदकतदवयवेऽप्यवच्छेदकतासम्बन्धेन तदुत्पत्त्यावश्यकत्वात्तत्र च प्रतिवन्धकाभावासत्त्वात् । नहि बाधकसत्त्वाद्विशिष्टबुद्धयवच्छेदकत्वं तत्र नोपेयते, किन्तु खण्डशीर एवेति वक्तुं युक्तम्, तदवच्छेनोत्पद्यमानकार्यस्य तत्प्रतिनियतयावदेशावच्छिन्नत्वनियमात् । न च खण्डशरीरे प्रतिबन्धकाभावघटितसामग्रीबलाद्विशिष्टबुद्धिजननेऽन्यत्र ताशसामग्रीविरहोऽकिश्चित्करः, यत्र यत्कार्यव्यक्तरुत्पत्तिः कार्यतावच्छेदकसम्बन्धेन तद्वयक्तिसम्बद्वेषु यावत्सु सामग्रीसत्त्वस्य तत्र तत्कार्यव्यक्त्युत्पत्तावपेक्षितत्वादित्यत आहएवमिति । परकायप्रवेशेति । अस्यैव ग्रन्थान्तरेषु परपुरप्रवेशशब्देन व्यपदेशः । स च भगवत्पादमत्स्येन्द्रभद्रशर्मप्रभृतिषु प्रसिद्धः । कुत्रचित् स्वशरीरं पुनः प्रवेशार्थ आलोकप्रकाशः भगवत्पादमत्स्येन्द्रभद्रशर्मप्रभृतिप्विति । शङ्करविजये भगवत्पादस्य परकाया वेदा उक्तः । एवं मत्स्येन्द्रनाम्नोऽपि तत्रैव स्थलान्तरे प्रतिपादितः। भद्रशर्मणः परकायप्रदेशस्तु For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता इत्यत्रैव तत्तात्पर्यात् , एवं परकायप्रवेशस्थले त्यज्यमानस्वशरीरावच्छेदेन याधबुद्धन्यादिसत्त्वे तदात्मन्यन्यशरीरावच्छेदेन विशिष्टबुद्धयापत्तिः। अपि च भूतावेशस्थलेऽभिभाव्यस्य बाधनिश्चयसत्त्वेऽभिभावकभूतादेस्तच्छरीरावच्छेदेन तद्वत्ताबुद्धयनुदयप्रसङ्गः। अतः समवायेन विशिष्टबुद्धिं प्रति वाधनिश्चयविशिष्टत्वेनैव प्रतिवन्धकत्वं वक्तव्यम्। वैशिष्टयञ्च सामानाधिकरण्यसम्बन्धेन । तथा च बाधनिश्चयकालेऽन्यावच्छेदेन तदभावसत्त्वेऽपि न तद्विशिष्टस्याभावः, व्याप्यवृत्तेरपि सामानाधिकरण्येन तद्विशिष्टत्वान्नानुपपत्तिः । कायव्यूहस्थले चैकशरीरावच्छेदेन बाधबुद्धिसत्त्वे तदात्मनि शरीरान्तरावच्छेदेनापि विशिष्टबुद्धि पेयते, प्रमाणाभावात्। प्रामाणिकत्वे त्वनायत्त्या तत्तच्छरीरावच्छिन्नत्वमवच्छेदककोटौ निवेशनीयम् , तथा च ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशेऽपि तथाविधप्रतिवन्धकत्वाप्रसिद्ध या असम्भव एवेति परास्तम्। नूतनालोकः निधाय क्रीडाद्यर्थमन्यदीयमृतशरीरप्रवेशलक्षणो विद्याविशेषप्रयोज्यः । व्याप्यवृत्तेरिति । आत्मत्वादिरूपेत्यादिः। व्याप्तिपूर्वपक्षगादाधर्या कायव्यूहस्थले एकशरीरावच्छिन्ने आत्मनि प्रतिबन्धकसत्त्वेऽपि शरीरान्तरावच्छेदेन प्रतिवध्योत्पत्तेः स्पष्टमभिधानादाहप्रामाणि कल्वे स्विति । तत्तन्छरीरावच्छिन्नत्वमिति । तथा च शरीरभेदेन प्रतिबन्धकताभेद एवेति भावः। परास्तमिति । विषयतानिष्ठस्वनिरूपकज्ञानचैशिष्टयावच्छिन्नावच्छेदकत्वानिरूपकत्वस्यैव ज्ञानवैशिष्टयानवच्छिन्नेत्यनेन विवक्षिततया तादृशप्रतिबन्धकत्वाप्रसिद्धथनवकाशादिति भावः। केचित्तु अवच्छेदकतासम्बन्धेन तद्वत्ताबुद्धिं प्रत्यवच्छेदकतासम्बन्धन बाधनिश्चयत्वेन प्रतिबन्धकत्वं लाघवात् । न च भूतावेशस्थलेऽभिभाव्यस्य बाधनिश्चयसत्त्वेऽभिभावकभूतादेस्तच्छरीरावच्छेदेन तद्वत्ताबुद्धधनुदयप्रसङ्ग इति वाच्यम् ; तच्छरीरावच्छेदेन तदात्मनि ज्ञानोत्पत्तौ तच्छरीरावच्छिन्नतदात्ममनसंयोगस्य हेतुतया तदसम्भवेन भूतावेशानन्तरक्षणे ज्ञानोत्पादस्यैवायोगादिष्टापत्तेः । - आलोकप्रकाशः बिल्वाद्रिमाहात्म्ये पञ्चमाध्याये प्रतिपादितः । तत्यकारस्तु ततोऽवगन्तव्यः। मूले-बाधनिश्चय विशिष्टस्वेनैवेति । न च विशेष्यतावच्छेदकतासम्बन्धेन विशिष्टबुद्धिं प्रति तेन सम्बन्धेन बाधबुद्धेः प्रतिबन्धकत्वं कल्यताम् । तत्पुरुषीयत्वस्यावच्छेदककोटौ निवेशादेक पुरुषीयबाधबुद्धिदशायां न पुरुषान्तरस्य विशिष्टबुद्धयनुदयप्रसङ्गः। इत्थञ्च पुरुषभेदेन प्रतिबन्धकताभेदेऽपि विशेष्यतावछेदकभेदेन तद्भेदाभावालाघवं धर्मितावच्छेदकापेक्षया पुरुषाणामल्पत्वात्तेषामपि धर्मितावच्छेदकस्वादिति वाच्यम् ; तथा सत्यनागतादिरूपावच्छिन्नविशेष्यकविशिष्टबुद्धेविशेष्यतावच्छेदकता For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२. 'नच' रत्नमालिका यत्तु सत्प्रतिपक्षग्रन्थे विरोधिनिश्चयानुत्तरतद्वत्ताबुझिस्वावच्छिन्नं प्रति विरोधिनिश्चयस्य प्रतिबन्धकत्वमुक्तम् , तद्रीत्या व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववान् वह्नयभाववानिति निश्चयस्य स्यानुसरतद्वत्ताबुद्धित्वावच्छिन्नं प्रति प्रतिबन्धकन्वकल्पनमे गेचितम्, प्रतिवध्यतावच्छेदककोटावनाहार्यत्वादेरनिवेशनीयतया लाघवात् । एवं व्यधिकरणधर्मा मच्छिन्नप्रतियोगिताकवनयभावधान् पर्वत इति निश्चयस्यापि । अत्रोत्तरचं स्ववृत्तिकृतिमत्त्व खवृत्तिप्राग नूतनालोकः अन्यथा तत्तच्छरीरावच्छिन्नबाधनिश्चयविशिष्टत्वेन प्रतिबन्धकत्वपक्षेऽपि यत्र भूतशरीरावच्छेदेन बाधनिश्चयानन्तरक्षणे भूतावेशः, तदुत्तरक्षणेऽभिभाव्यशरीरावच्छेदेन तद्वत्ताबुद्धयापत्तेरवारणात् । अथवा तत्तत्पुरुषीयत्वं प्रतिबन्धकतावच्छेदककोटावुपादीयते, तावतापि शरीरापेक्षया पुरुषाणामल्पत्वेन लाघवानपायात्। इत्थश्च भूताद्यन्तर्भावेण न प्रतिबध्यप्रतिवन्धकभावः, प्रयोजनाभावादित्याहुः । सत्प्रतिपक्षग्रन्थ इति । "न भवत्येव तावद्यावदप्रामाण्यं न गृह्यते, अगृहीताप्रामाण्यस्यैव विशेषदर्शनस्य विरोधित्वात्” इति रत्नकोशकारमतपरिष्कारस्थदीधितिपतिव्याख्यानावसर इति शेषः । नन्वत्र स्वध्वंसाधिकरणक्षणध्वंसानधिकरणीभूतो यः क्षणः, तद्वृत्तित्वसम्बन्धेन विरोधिनिश्चयविशिष्टान्यत्वरूपमेवानुत्तरत्वं प्रतिवध्यतावच्छेदकं वाच्यम् , एवश्च ध्वंसाधिकरणक्षणध्वंसानधिकरणक्षणाप्रसिद्धया स्वत्वस्य सम्बन्धशरीरप्रवेशावश्यकतया प्रतिबन्धकताभेदप्रसङ्ग इत्यत आह-अत्रेति । व्यवहिताव्यव हतपूर्ववृत्त्यन्यदीयज्ञानव्यावृत्तिर्दलप्रयोजनं आलोकप्रकाशः सम्बन्धेन तादृशरूपादावनुदयप्रसङ्गात् । कार्यायवहितप्राक्क्षगावच्छेदेन बाधाभावघटितसामग्यास्तत्रासत्वात्। तत्क्षणस्यावच्छेद्याधिकरणतादृशरूपासम्बन्धितया तादृशरूपादिनिष्ठबाधाभावाधिकरणत्वानवच्छेदकत्वात् । व्याख्यायाम्-प्रयोजनाभावादिति । आत्मनिष्ठप्रत्यासत्या भूतादितद्वत्ताबुद्धि प्रति बाधनिश्चयविशिष्टत्वेन प्रतिबन्धकत्वकल्पनेनैव भूतादेधिनिश्चयसत्त्वे तद्वत्ताबुद्धथनुदयनिर्वाहादिति भावः।। मूले-स्वानुत्तरतद्वसाबुद्धित्वावच्छिन्नं प्रतीति । प्रतिवध्यतावच्छेदकधर्मस्य तद्वत्ताबुद्धित्वव्याप्यत्वनिर्वाहाय तद्वत्ताबुद्धि त्वनिवेशनम्। इदञ्च व्यायधर्मावच्छिन्नजनकसामग्या एव सहकारित्वमित्यभिप्रायेण । अत एव सत्प्रतिपक्षलक्षणे उन्नायकत्वदले प्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नजन्यत्वं भट्टाचार्यैर्निवेशितम् । अत्र प्रतिवध्यता For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १२१ भावप्रतियोगित्व-स्वसामानाधिकरण्यैतत्त्रितयरूपम् । प्रागभावानङ्गीकारे तु वध्वंसवृत्तित्वमेव स्ववृत्तिप्रागभावप्रतियोगित्वस्थाने वाच्यम् , तेन नाननुगमः। एवं विरोधिव्याप्यवत्तास्थलेऽपीति शानविशिष्टज्ञानत्वेन प्रतिबन्धकत्वमेवाप्रामाणिक नूतनालोकः बोध्यम् । प्रागभावानङ्गीकारे विति । अयमाशयः-प्रागभावो नाभ्युपगन्तव्यः, प्रमाणाभावात् । इहेदानी घटप्रागभाव इति प्रत्यक्षस्यासिद्धः। तत्पूर्वत्वतदुत्तरत्वव्यवहारस्तु न तत्प्रागभावकालीनत्व-तत्कालीनप्रागभावप्रतियोगित्वविषयकः, अपि तु तदुत्पत्तिकालीनध्वंसप्रतियोगित्व-तदधिकरणकालध्वंसाधिकरणकालोत्पत्तिकत्वविषयक एव । घटो भविष्यतीति प्रत्यक्षादिश्च वर्तमानकालध्वंसाधिकरणकालवृत्तित्वरूपोत्तरकालीनत्वावलम्बन एवेत्येतादृशव्यवहारादेस्तदसाधकत्वात् । अभावत्वं विनाशित्वसमानाधिकरणं पदार्थविभाजकोपाधित्वाद् भावत्ववदित्यस्याप्रयोजकत्वात् । न चोत्तरकालीनत्वमात्रस्योक्तप्रत्यक्षादिविषयत्वोपगमे ह्य उत्पन्ने श्वः स्थायिनि भविष्यतीति व्यवहारप्रसङ्ग इति वर्तमानकालध्वंसाधिकरणकालोत्पत्तिकत्वमेव भविष्यत्वं वक्तव्यम् । अत एव भविष्यति, उत्पत्स्यत इत्यादेः समानार्थकत्वोपपत्तिः। एवञ्चोक्तप्रतीत्यैव स्वाधिकरणक्षणवृत्तेः स्ववृत्तेर्वा प्रागभावस्याप्रतियोगित्वरूपं तदाद्यत्वम् , तद्वत्क्षणसम्बन्धरूपोत्पत्तिघटकतया प्रागभावसिद्धिरिति आलोकप्रकाशः वच्छेदककोटौ जन्यत्वमपि विवक्षणीयम् । तेन कार्यताविशेषरूपप्रतिवध्यताशून्यभगवज्ञानासाधारण्यनिर्वाहः । यद्वा अनुत्तरत्वस्य स्वरूपकालिकोभयसम्बन्धेन विवक्षणान्न तत्साधारण्यम् । वस्तुतस्तु नित्यसाधारणधर्मस्य कार्यतावच्छेदकत्वेऽपि न क्षतिः। कालविशेषावच्छेदेन स्वावच्छिन्नाधिकरणवृत्त्यभावप्रतियोगितानवच्छेदककारणतावच्छेदकत्वाभिमतधर्मकं यत् स्वम् , तद्वत्त्वरूपकार्यताया अनतिप्रसक्तत्वसम्भवात् । सिद्धान्ते तु लौकिकसन्निकर्षजन्ये दोषविशेषजन्ये च ज्ञाने साक्षात्कारित्वव्यञ्जकविषयताविशेषोपगमात्तच्छून्यत्वं निवेश्यैव तादृशज्ञाने व्यावर्तनीये। एवञ्च भगवज्ज्ञानेऽपि तादृशविषयताया एव स्वीकारात् प्रतिवध्यतावच्छेदकस्य नित्यसाधारण्याभावेन न तत्र जन्यत्वनिवेशनमावश्यकम् । स्पष्टं चैतत् सत्प्रतिपक्षगादाधर्यामिति । स्वाधिकरणक्षणध्वंसाधिकरणक्षणवृत्तित्वरूपस्वोत्तरत्वस्य विवक्षणे विशिष्टबुद्धेरवारणाद्वयाख्यायाम् - स्वध्वंसाधिकरणेति । प्रतिबन्धकताभेदप्रसङ्ग इति । यद्यपि स्वध्वंसाधिकरणक्षणध्वंसाधिकरणत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताप्रतियोगिताकभेदवत्क्षणवृत्तित्वविवक्षणे नायं दोषः, तथापि For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ 'म च' रस्नमालिका नूतनालोकः वाच्यम् ; स्वाधिकरणसमयध्वंसानधिकरणसमयसम्बन्धस्यैवोत्पत्तिरूपतया ततस्तदसिद्धेः । न चोत्पत्तेरुक्तरूपत्वे महाप्रलयोत्पत्तावव्याप्तिः, तदधिकरणसमयस्य महाकालस्य ध्वंसाप्रसिद्धेरिति वाच्यम् ; महाप्रलयस्यैवानङ्गीकारात् । अत एव दीधित्युक्तं "अध्वस्तक्षणयोगस्य क्षणयोगो जनिर्मता" इत्याचार्यलक्षणमुपादाय "अध्वस्तो यत्क्षणेऽविनष्टः क्षणयोगः क्षणनिष्ठतत्स्वरूपसम्बन्धो यस्य । यदीयक्षणयोगध्वंसानधिकरणं यत्क्षण इति यावत् । तस्य तरक्षणसम्बन्धो जनिरुत्पत्तिरित्यर्थः” इति भट्टाचार्यव्याख्यानं सङ्गच्छते । न च यदीयक्षणयोगे यत्क्षणनिष्ठध्वंसाप्रतियोगित्वम् , तस्य तत्क्षणयोग उत्पत्तिरिति यथाश्रुतार्थस्वीकारे महाप्रलयोत्पत्तावव्याप्त्यनवकाशान्महाप्रलयमनङ्गीकृत्य यथाश्रुतार्थपरतया किमर्थं तथा व्याख्यानमिति वाच्यम् ; यथाश्रुतार्थस्वीकारे तदीयद्वितीयादिक्षणयोगस्य द्वितीयादिक्षणवृत्तिध्वंसाप्रतियोगितया द्वितीयादिक्षणसम्बन्धेऽतिव्याप्तेः । यदीयक्षणयोगत्वावच्छेदेन यत्क्षणवृत्तिध्वंसाप्रतियोगित्वविवक्षया तद्वारणे गौरवात् । महाप्रलयानङ्गीकारे स्वीयक्षणयोगध्वंसाधिकरणत्वसामान्याभावस्यैव लाघवेन लक्षणे निवेशौचित्यात् । तदङ्गीकारे तु तदुत्पत्तावप्रसिद्धिनिबन्धनाव्याप्तेर्वारणाय गुरुभूतस्यापि यथाश्रुतार्थस्यैवादरणीयत्वात् । अत एव दीधितिकृता "तदङ्गीकारे तु" इत्यादिना तादृशार्थ एवाभिहितः। न चैवमपि क्षणत्वघटकतया तसिद्धिः, क्षणत्वस्य स्ववृत्तिप्रागभावप्रतियोग्यनधिकरणत्व-स्ववृत्तिप्रतियोगिताकपागभावानधिकरणत्वादिरूपतया तद्वटितत्वादिति वाच्यम् ; पदार्थतत्त्वनिरूपणोक्तरीत्या क्लुप्तपदार्थातिरिक्तस्य स्ववृत्तिध्वंस आलोकप्रकाशः क्षणत्वस्य स्ववृत्तिप्रागभावप्रतियोग्यनधिकरणत्वादिरूपस्वत्वघटितत्वात् प्रतिबन्धकताबाहुल्यं दुर्वारमेवेत्याशयः । मूले-स्ववृत्तीति । वृत्तित्वं कृतिमत्त्वञ्च कालिकसम्बन्धेन । व्याख्यायाम् - क्षणनिष्ठतत्स्वरूपसम्बन्ध इति । क्षणनिष्ठः क्षणानुयोगिकः, तत्स्वरूपः क्षणस्वरूपः सम्बन्ध इत्यर्थः । क्षगानुयोगिकल्य घटादिप्रतियोगिककालिकसम्बन्धस्य घटादिरूपत्वे घटाद्यधिकरणयावत्क्षणानामपि तदीयक्षगयोगधंसाधिकरणत्वाद् द्वितीयादिक्षणसम्बन्धस्यापि तदुत्पत्तित्वापत्तेस्तत्स्वरूपत्वोक्तिः । यथाश्रुतार्थपरतयेति । अध्वस्तपदस्य यत्क्षणनिष्ठाभावप्रतियोग्यधिकरणताकध्वंसप्रतियोगिरूपेत्यादिः । खवृत्तिप्रतियोगिस्ववृत्तिनी कालिकसम्बन्धेन क्षगनिष्ठा प्रतियोगिता यस्य तादृशेत्यर्थः। पदार्थ तत्वनिरूपणोक्तरीत्येति । तत्थमुक्तम्-"क्षणश्च क्षणिकोऽतिरिक्तः कालोपाधिः" इति। अनन्तातिरिक्त For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः प्रतियोग्य नाधारत्वविशिष्टसमयस्य वा क्षणपदार्थत्वाङ्गीकारात्तत्र च तस्याघटकत्वात् । ध्वंसप्रतियोगिनोरेकक्षणावृत्त्योरधिकरणं स्थूल एव कालः, न तु क्षण इति स्ववृत्तिध्वंसप्रतियोग्यनधिकरणत्वस्य तत्र सुघटत्वात् । न च क्षणिकपदार्थानङ्गीकारेण यादृशविशेषणविशिष्टस्य क्षणमात्रस्थायिता तादृशविशेषणविशिष्टकर्मादेरेव क्षणतया उक्तलक्षणमसम्भवग्रस्तमेव, समयमात्रस्यैव स्ववृत्तिध्वंसप्रतियोग्याधारत्वादिति वाच्यम् ; यतः प्रतियोग्यनधिकरणत्वं हि न प्रतियोग्यधिकरणभिन्नत्वम् , किन्तु प्रतियोग्यधिकरणता विरहः, प्रतियोगिविरह एव वा। तथा चोपान्त्यादिक्षणावच्छेदेन स्ववृत्तिध्वंसप्रतियोग्याधारस्यापि कर्मादेरन्यक्षणावच्छेदेन तद्विरहवत्त्वं सूपपादमेवेति । न च स्ववृत्तिध्वंसप्रतियोग्यनाधारत्वं यदि तादृशाधारताप्रतियोगिकोऽभावः, तादृशप्रतियोगिविरहो वा विवक्ष्यते, तदा स्ववृत्तिध्वंसप्रतियोगिपूर्वविनष्टपदार्थाधारताविरहवत्त्वं सर्वदैव कर्मादेरित्यतिप्रसङ्गात्तादृशाधारतात्वाद्यवच्छिन्नाभाव एव विवक्षणीयः । तथा च महाप्रलयेऽव्याप्तिः, तवृत्तिध्वंसप्रतियोग्याधारतात्वादेः स्वसमनियतध्वंसप्रतियोग्याधारतात्वापेक्षया गुरुत्वेन तदवच्छिन्नाभावाप्रसिद्धः। महाप्रलयस्य क्षणत्वाभाव इष्ट एवेति तु न युक्तम् ; तथा सति चरमध्वंसाधिकरणक्षणप्रसिद्धचा तदुत्पत्तावुक्तलक्षणाव्याप्तेरिति वाच्यम् ; गुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वे स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिका यावन्तो ध्वंसास्तावद्विशिष्टत्यस्य अधिकरणतावदधिकरणताविशिष्टत्वपर्यवसितस्यैव क्षणत्वरूपत्वात् । तदुक्तं सामान्यलक्षणाशिरोमणौ-"स्ववृत्तिध्वंसप्रतियोग्यनाधारत्वं स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावद्ध्वंसविशिष्टसमयत्वं वा” इति । अत्र प्रथमलक्षणं गुरोरवच्छेदकत्वपक्षे । आलोकप्रकाशः पदार्थकल्पनाप्रयुक्तगौरवादाह-स्ववृत्तिध्वंसेति । अधिकरणतावदधिकरणताविशिष्टत्वपर्यवसितस्येति। अधिकरणतायामधिकरणतावत्त्वञ्च तादात्म्य स्वसमानाधिकरणेत्यादिभेदवत्त्वोभयसम्बन्धेन । स्वाधिकरणत्वं स्वसमानाधिकरणध्वंसप्रतियोगिप्रतियोगिकध्वंसत्वसम्बन्धेन । भेदप्रतियोगितावच्छेदकता निरूपकतासम्बन्धेन । अधिकरणतावैशिष्ट्यं स्वरूपसम्बन्धेन । तथा च नाननुगम इति भावः । स्ववृत्तिध्वंसप्रतियोगिपूर्वविनष्टप्रतियोगिकध्वंसवैशिष्ट्यस्य कर्मादौ सर्वदा सत्त्वाद्यावत्त्वं ध्वंसविशेषणम् । प्रलयेऽपि घटाद्यात्मकस्वप्रागभावध्वंसानधिकरणत्वाद्यावद्ध्वंसविशिष्टत्वमप्रसिद्धमतः स्ववृत्तिध्वंसप्रतियोगिकत्वं यावत्त्वविशेष्यतावच्छेदकतया निवेशितम् । समयत्वं वेति । विषयितालक्षगवैशिष्ट्यं द्विक्षणस्थायिनोऽपि यावद्ध्वंसविषयकज्ञानादेरिति कालिकसम्बन्धात्मकवैशिष्ट्य For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२४ 'न च' रत्नमालिका नूतनालोकः द्वितीयन्तु तदभावपक्ष इति तदीयगादाधर्यां स्पष्टमिति । वस्तुतस्तुत्पन्नस्य पुनरुत्पादापत्तिवारणाय प्रागभावोऽवश्यमभ्युपगन्तव्यः । तदभ्युपगमे तु प्रतियोग्युत्पत्तिकाल एव तस्य विनाशेन तद्घटितसामध्यभावान्नापत्तिः । उत्पन्नस्य पुनरुत्पादश्चाप्रसिद्धत्वान्नापादयितुं शक्य इति तु न; प्रथमक्षणे प्रसिद्धस्य तदुत्पादस्यैवोत्तरक्षणे आपादनीयत्वात् । यत्र सहस्रसंयोगारब्धपटस्य दशसंयोगादिनाशानन्तरं नाशः, तत्र खण्डपटोत्पत्तिकाले तदापत्तिवारणाय विनिगमनाविरहेण दशादिसंयोगानां हेतुत्वकल्पनापेक्षया तत्प्रागभावस्यैकस्य हेतुत्वकल्पनमेवोचितमिति वा तत्सिद्धिः । विस्तरस्तु आलोकप्रकाशः Acharya Shri Kailassagarsuri Gyanmandir निवेशलाभाय समयपदम् । यद्वा स्ववृत्तिध्वंसप्रतियोगिकशब्दादिप्रतियोगिकयावद्ध्वं सविशिष्टत्व महाप्रलये गगनादेरप्यस्तीति तद्वारणाय कालिकसम्बन्धानुयोग्यर्थकं तत्पदम् । न च कालिकसम्बन्धेन स्ववृत्तित्वनिवेशादेव नातिप्रसङ्गः शङ्कयः; तत्र तदनिवेशात् । तन्निवेशस्फोरणायैव वा तत् । वस्तुतस्तु यदीयसमययोगे यत्समयनिष्ठध्वंसाप्रतियोगित्वम् तस्य तत्समययोग उत्पत्तिरिति क्षणघटितमप्युत्पत्तिलक्षणं सुवचमिति । प्रागभावानङ्गीकारे त्वित्यनेन सूचितमस्वरसं प्रकटयतिवस्तुतस्त्विति । आापादनीयत्वादिति । तदाकारश्च एतद्वद्याद्युत्पत्तिद्वितीयक्षण एतइट सामग्र्यव्यवहितोत्तरः स्यात् । एतद्वटोत्पादवान् स्यादिति । ननु यो यद्धर्मावच्छिन्नसामग्र्यव्यवहितोत्तरक्षणः, स तद्धर्मावच्छिन्नोत्पादवानित्येतादृशी सामग्रीव्याप्तिरेव नोपेयते, येनेयमापत्तिः, किन्तु यो यद्धर्मांवच्छिन्नसामग्र्यव्यवहितोत्तरक्षणः स तद्धर्मावच्छिन्नवानित्येव । एतादृशव्याप्तिबलाद्यद्धर्मावच्छिन्नवत्त्वे एवाग्रक्षणसम्बन्धरूपोत्पत्तिमत्त्वलाभसम्भवेनोत्पत्तिमनन्तर्भाव्य " " सिद्धेऽर्थत व्याप्त्यभ्युपगमे क्षतिविरहात् । एवञ्च तद्वटोत्पत्तिद्वितीयक्षणे तद्वयवत्त्वमेवापादनीयम् तच्चेष्टमेव । अथवा उत्पत्तिमन्तर्भाव्य व्याप्त्यभ्युपगमेऽपि न प्रागभावसिद्धिः जन्यद्रव्यत्वावच्छिन्नं प्रति द्रव्यत्वेन प्रतिबन्धकत्वाभ्युपगमेनैवोक्कापत्तिवारणसम्भवात्तत्तद्वयक्तित्वावच्छिन्नं प्रति तत्तत्प्रागभावत्वेनानन्तकारणतानामनन्तप्रागभावानाञ्च कल्पनापेक्षया एतादृशप्रतिवध्यप्रतिबन्धकभावकल्पनाया एव न्याय्यत्वात् । एतत्पय्नाशानन्तरं खण्डपटोत्पत्तिकाले एतत्पटोत्पत्तिवारणाय प्रागभावहेतुत्वकल्पनमावश्यकमित्यपि न, तत्र यादृशसंयोगनाशोत्तरं पटनाशस्तत्संयोगव्यक्तेरेव तद्धेतुत्वापगमेन तदापत्तिवारणादित्यतः कल्पान्तरमाह---यत्रेति । तत्सिद्धिरिति । न च तादात्म्येन कार्यसामान्यं प्रति प्रतियो1 गितासम्बन्धेन नाशत्वेनैकप्रतिबन्धकत्वकल्पनेनैवोक्तापत्तिवारणसम्भवादतिरिक्तप्रागभावो न कल्पनीय इति वाच्यम् ; तथा सत्युत्पन्नस्य पुनरुत्पादवारणार्थे जन्यद्रव्यत्वावच्छिन्नं प्रति प्रतिबन्धकत्वान्तर For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२५ नूतनालोकटीका-तरप्रकाशंटिप्पण्योपबृंहिता आलोकप्रकाशः स्यापि कल्पनीयतया गौरवात् , प्रागभावत्वेनैकहेतुत्वकल्पनस्यैवोचितत्वात् । न च तत्कायें उत्पन्नेऽपि कार्यान्तरप्रागभावबलात्तत्कार्योत्पादवारणाय तत्तत्कार्य प्रति तत्तत्कार्यप्रागभावत्वेन प्रागभावस्वीकाऽप्यनन्तकारणतानां कल्पनीयतया विपरीतमेव गौरवमिति वाच्यम् ; तादात्म्यसम्बन्धेन कार्यसामान्य प्रति प्रतियोगितासम्बन्धेन प्रागभावत्वेनैकहेतुतयैव निर्वाहात् , उत्पन्नप्रतियोगिकपागभावविनाशेनोत्पन्नकार्य तदसत्त्वात् । न चैवं सति कार्योत्पत्तौ प्राक्क्षणावच्छेदेन कार्याधिकरणे कारणसत्वस्यापेक्षिततया उत्पत्तेः पूर्वं कार्यस्यैवासत्त्वेन सर्वत्र कार्योत्पादानुपपत्तिरिति समवायिनिष्ठप्रत्यासत्या विशिष्य तद्धतुत्वकल्पनमवर्जनीयमेवेति वाच्यम् ; प्रतियोगितासम्बन्धेन नाशस्य प्रतिबन्धकत्वे प्रतियोगिनिष्ठप्रत्यासत्त्या नाशाभावस्य हेतुत्वमावश्यकमिति तत्राप्युक्तदोषतादवस्थ्येन समवायिनिष्ठप्रत्यासत्या विशिष्यैव प्रतिवध्यप्रतिबन्धकमावस्यावश्यं वक्तव्यतया प्रागभावहेतुत्वस्यैव युक्तत्वात् । एवं सहस्त्रतन्तुकपटस्थले तत्पटव्यक्तेः पटानधिकरणतन्तुषूत्पादापत्तिवारणाय समवायेन तत्पटव्यक्तिं प्रति बहूना तन्तूनां तत्संयोगानां वा तत्तद्वयक्तित्वेन कारणत्वकल्पनापेक्षया प्रागभावस्यैकस्य हेतुत्वकल्पनाया ज्यायस्त्वात्तत्सिद्धिः । न च तत्पटत्वस्य जन्यतानवच्छेदकतया आपादकाभावात् कथमियमापत्तिरिति शङ्कयम् ; कार्यमात्रवृत्तिधर्मस्य जन्यतावच्छेदकत्वनियमेन तत्पटत्वस्य कस्यचिजन्यतावच्छेदकत्वनियमात् । अन्यथा समवायेन तत्तद्वयक्तिसमवेतसत्सामान्य प्रति तादात्म्येन तत्तद्वयक्तित्वेन समवायिकारणत्वस्यावश्यकतया तेनैव निर्वाहे पटत्वादेरप्यतथात्वापत्तेः। न च प्रागभावाङ्गीकारेऽपि त्रिचतुर्यु तन्तुषु संयुक्तेषु तत्पटव्यक्तरुत्पत्तिवारणाय तद्वयक्त्यसमवायिकारणचरमसंयोगव्यक्तस्तद्वयक्तित्वेन कारणताया आवश्यकतया तेनैव पटान्तराधिकरणतन्तुषु तद्वयक्त्यापत्तिवारणसम्भव इति वाच्यम् ; समवायेन तत्पटव्यक्तिं प्रति तत्संयोगव्यक्तेः समवायेन हेतुत्वे तत्पटाधिकरणतन्त्वन्तरेषु व्यभिचारापत्त्या कालिकसम्बन्धेनैव हेतुताया वाच्यत्वेन पटान्तराधिकरणतन्तुषु तत्पटव्यक्त्यापत्तेर्दुरित्वात् । न च कार्यतावच्छेदकावच्छिन्नयावद्वयक्तिनिष्ठाभावप्रतियोगित्वस्यैव व्यभिचारपदार्थताया अन्यतरकर्मजस्थलानुरोधेन वक्तव्यतया तदभावेन चरमसंयोगव्यक्तेः समवायेन हेतुत्वं सम्भवतीति वाच्यम् ; तथापि तत्संयोगव्यक्तिरूपविशेषसामग्रीमनपेक्ष्यैव तन्तुसंयोगत्वाद्यवच्छिन्नघटितसामान्यसामग्री पूर्वसंयुक्ततन्तुषु तत्पटव्यक्तिमुत्पादयति, तथा पटान्तराधिकरणतन्तुष्वपि तां कुतो नोत्पादयेत् , तादृशसामग्र्यास्तत्राबाधादिति तत्पटव्यक्त्यनुपधायकपटान्तराधिकरणतन्तुव्यावृत्तस्य तत्पयाधिकरणयावत्तन्तुसाधारणस्य किञ्चिद्वस्तुनोऽवश्यमन्वेष्टव्यत्वात् । न च तत्तद्वयक्तिगतरूपरसादीनामन्यत्रोत्पादवारणाय समवायेन तत्तद्वयक्तिसमवेतसत्सामान्यं प्रति तादात्म्येन तत्तद्वयक्तहेतुत्वमवश्यं स्वीकरणीयम् । तथा च For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नच' रत्नमालिका मिति नासम्भव इति । तदसत्, एवं सति विरोधिनिश्चयदशायां तद्वत्ताप्रत्यक्षापत्तेवारयितुमशक्यत्वात् । उक्तप्रतिवध्यतावच्छेदकतद्वत्ताबुद्धित्व-तद्वत्ताप्रत्यक्षत्वयोरनुमित्याहार्यसाधारणयोाप्यव्यापकभावाभावेन विरोधिनिश्चयाभावस्य तद्वत्ताप्रत्यक्षसामग्रीघटकत्वासम्भवात् । स्ववृत्तिकृतिमत्त्वं स्ववृत्तीच्छावत्त्वं स्ववृत्तिवर्णा नूतनालोकः सामान्यलक्षणाप्रकरणे द्रष्टव्य इति। नासम्भव इति । व्यधिकरणधर्मावच्छिन्नवह्नयभाववान वह्नयभाववानिति निश्चयकालीनस्य व्यधिकरणधर्मावच्छिन्नवह्नयभाववान् पर्वत इति निश्चयस्य साध्यवत्ताबुद्धिप्रतिबन्धकत्वेऽपि तत्प्रतिवध्यतायास्तादृशनिश्चयासमानकालीनतादृशनिश्चयोत्तरज्ञानसाधारणसाध्यवत्ताज्ञानत्वाव्यापकत्वादिति भावः। विरोधिनिश्चयदशायामिति । बाधादिनिश्चयकाल इत्यर्थः। व्याप्यधर्मावच्छिन्नजनकसामध्या अपि सहकारितया तद्वत्ताबुद्धथापादनासम्भवादुक्तम्प्रत्यक्षापत्तेरिति । सामग्रीत्वासम्भवादिति । सामग्रीघटकत्वासम्भवादित्यर्थः। नन्वेवमपि स्वावच्छिन्ने जननीये स्वव्याप्यव्यापकधर्मावच्छिन्नजनकसामध्या आलोकप्रकाशः समवायेन तत्पटव्यक्ति प्रति कालिकेन समवायेन वा कारणीभूतया चरमसंयोगव्यक्त्या तत्पटव्यक्ती जननीयायां ततःपटव्यक्तिवृत्तितत्तत्तन्तुसमवेतत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयीभूतानां तावतन्तुव्यक्तीनामन्यतमत्वेन रूपेण तत्संयोगव्यक्तिनिष्ठफलव्याप्यतावच्छेदककोटिप्रविष्टत्वरूपसहकारित्वरूपेणोक्तापत्तिवारणान्न प्रागभावप्रत्याशेति वाच्यम् ; तत्तन्तुसमवेतपटस्य तन्त्वन्तरेऽप्युत्पत्त्या व्यभिचारेण तत्तद्वयक्तिसमवेतसत्सामान्यं प्रति तत्तद्वयक्तेहे तुत्वस्यैवासम्भवदुक्तिकत्वात् । कथञ्चि यभिचारवारणेऽपि तत्पटसमवेतसंयोगादेरिव तत्समवेतरूपरसादीनामपि व्यक्त्यन्तरोत्पत्तायुक्तकार्यकारणभावस्यापरिपन्थितया व्यर्थत्वात् । सहस्रतन्तुकपटव्यक्तस्तन्वन्तरेष्वनुत्पत्तौ तत्तत्तन्त्वन्यतमाभावस्य प्रयोजकत्वकल्पनावश्यकतया महागौरवाच्च । न च सामान्यसामग्रीबलात्तत्पटव्यक्तेस्तदनधिकरणतन्तुष्वापत्तिवारणाय तद्वयावृत्तस्य तत्पटाधिकरणतत्तत्तन्त्वन्यतमत्वरूपक्लप्ताभावस्यैव तत्तद्वयक्तित्वेन हेतुत्वस्य कल्पयितुमुचिततया प्रागभावस्वीकारो निरर्थक एवेति वाच्यम् , तत्पटानधिकरणतन्त्ववृत्तिघटादिसाधारणान्यतमत्वमादाय विनिगमनाविरहप्रसङ्गेनैकप्रागभावहेतुत्वस्यैवोचितत्वादिति। नन्वेवमपि द्वितन्तुकपटस्थले प्रागभावासिद्धिः, तत्र क्लप्तस्य तन्तुद्वयसंयोगस्य तत्संयोगस्यैव वा हेतुत्वकल्पनेनैव देशनियमोपपत्तेरित्याशङ्कयाहविस्तरस्त्विति । अयमाशयः-उक्तयुक्त्याऽनेकत्र प्रागभावहेतुत्वसिद्धौ यद्विशेषयोरिति न्यायेन For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका-तत्प्रकाशटिप्पण्यो पबृंहिता नूतनालोकः अपि सहकारित्वावश्यकतया तद्वत्ताप्रत्यक्षे जननीये यदनाहार्यतद्वत्ताप्रत्यक्षत्यम्, तद्वयापकविरोधिनिश्चयानुत्तरतद्वत्ताबुद्धित्वावच्छिन्नजनकसामग्र्यन्तर्गतविरोधिनिश्चयाभावस्य तत्कालेऽभावान्नोक्ता पतिरित्यतो दूषणान्तरमाह - स्ववृत्तीति । वस्तुतस्तु स्वावच्छिन्ने जननीये स्वव्याप्ययत्किञ्चिद्धर्मव्यापकधर्मावच्छिन्नजनक सामग्या एवापेक्षिततया जलवान् वह्नयभाववान् जलवांश्व हृद इति ज्ञानद्वयकाले तद्वत्ताबुद्धयापत्तिर्दुर्वारैव । तद्वत्ताबुद्धित्वव्याप्ययत्किचिद्धर्मो घटवान् वह्नद्यभाववानिति निश्चयानुत्तरत्वसहितघटवत्ता निश्चयानुत्तरतद्वत्ताबुद्धित्वम्, तद्वयापकतत्तन्निश्चयानुत्तरतद्वत्ताबुद्धित्वावच्छिन्न जनकसामध्या जलवान् वह्नयभाववानिति निश्चयाभावाघटितायास्तत्राक्षतत्वादिति ज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धकत्व - मावश्यकमेव । न च स्वावच्छिन्ने जननीये स्वव्याप्ययत्किचित्तद्वयक्तित्वव्यापकयावद्धर्मावच्छिन्नजन कसा मध्याः सहकारित्वं स्वीक्रियते । इत्थन तादृशज्ञानद्वयकाले वह्निमत्ताबुद्धेः कदाप्यनुत्पत्त्या वह्निमत्ताबुद्धित्वव्याप्यं ज्ञानद्वयानुत्तरबुद्धिनिष्ठं आलोकप्रकाशः Acharya Shri Kailassagarsuri Gyanmandir } १२७ तत्रापि जन्यत्वावच्छिन्नं प्रति प्रागभावत्वेन सामान्यतो हेतुत्वस्यावश्यकतया तत्सिद्धिरख्यातैवेति । सहकारित्वावश्यकतयेति । अन्यथा व्यभिचारवारणाय तत्तत्परामर्शाव्यवहितोत्तरत्वस्य परामर्शकार्यतावच्छेदककोटाववश्यं निवेशनीयत्वे पुनः प्रयोजनाभावात्तत्र न विषयनिवेश इति पक्षे परामर्शशून्यतादशायां पक्षतादिबलादनुमित्यापत्तेरवारणात् । परामर्शकार्यतावच्छेदकस्य पक्षतादिकार्यतावच्छेदकी भूतपर्वताद्युद्देश्यकवयादिविधेयकानुमितिं For Private And Personal Use Only तादृशप्रत्यक्षत्वव्याप्यं प्रति व्याप्यत्वस्य व्यापकत्वस्य वा भावेन परामर्शविरहस्याकिञ्चित्करत्वात् । सहकारित्वे तु पर्वतो वह्निमानित्याद्यनुमितित्वव्याप्यं यत्तत्परामर्शाव्यवहितोत्तरत्वसहितं पर्वतो वह्निमानित्याद्यनुमितित्वम्, तद्व्यापकस्वकार्यतावच्छेदककत्वात् परामर्शस्यापि सामग्रीघटकत्वसम्भवेनोक्तापत्तेरनवकाशात् । इत्थश्च विरोधिनिश्चयानुत्तरबुद्धित्वमेव लाघवात् प्रतिवध्यतावच्छेदकं बोध्यम्, तत्सहकारित्वञ्च तन्निष्ठफलोपधायकत्वाभावप्रयोगासमवधानप्रतियोगित्वम् । यत्किञ्चिव्यापकधर्मावच्छिन कसामझ्या एवापेक्षिततयेति । अन्यथा पर्वतो वह्निमानित्याद्यनुमित्यौपयिक विभिन्नहेतुकसकलपरामर्शानामप्युक्तरीत्या सहकारिताप्रसङ्गेन यत्किञ्चित्परामर्शदशायां तादृशानुमित्यनुत्पादापत्तेरिति भावः । यत्किञ्चिदिति । तथा च पर्वतो वह्निमान् हृदश्च तथेति Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ 'म च' रत्नमालिका नूतनालोकः तद्वयक्तित्वमेव तद्वयापकञ्च भवति, तादृशज्ञानद्वयान्यतरप्रतिवध्यतावच्छेदकमिति तादृशज्ञानान्यतराभावस्यापि सामग्रीघटकत्वान्न पूर्वोक्तापत्तिः। यद्वा सामान्यलक्षणाप्रकरणोक्तरीत्या तद्धर्मावच्छिन्नोत्पत्तौ तद्धर्मावच्छिन्नसामध्येव प्रयोजिका । तद्धर्मावच्छिन्नसामग्री च तद्धर्माश्रययत्किश्चित्तद्वयक्तिनिरूपितकारणतावच्छेदकनिखिलधर्मावच्छिन्नसमुदायः। इत्थञ्च ज्ञानद्वयकाले कस्या अपि तद्धर्माश्रयव्यक्तेर्निखिलकारणतावच्छेदकावच्छिन्नसमुदायात्मकसामग्या असत्त्वान्न तद्वत्ताबुद्धिप्रसङ्गः। अत एव तत्तत्परामर्शानन्तर्यस्य तत्तत्परामर्शकार्यतावच्छेदककोटौ व्यभिचारवारणायावश्यं निवेशनीयतया प्रयोजनाभावान्न तत्र विशेषणान्तरप्रवेश इति नव्याः । आलोकप्रकाशः समूहालम्बननिष्ठतद्वयक्तित्वमादाय जलवान् वह्नयभाववान् जलवांश्च हृद इति ज्ञानद्वयकाले न पर्वतो वह्निमानिति ज्ञानानुपपत्तिः। तद्वयक्तित्वोपादानाजलवान् वह्नयभाववान् अलवांश्च ह्रद इति ज्ञानद्वयकाले शैवालवान् वह्नयभाववान् शैवालवांश्च हृद इति शानद्वयानुत्तरपूर्वोक्तज्ञानद्वयान्यतरोत्तरतद्वत्ताबुद्धिनिष्ठतावदन्यतमत्वादिरूपयत्किञ्चिद्धर्ममादाय न तद्वत्ताबुद्धिप्रसङ्गः । यावद्धर्मेति । जन्यतावच्छेदकेत्यादिः । तेन निरुक्तयावद्धर्मान्तर्गतप्रमेयत्वाद्यवच्छिन्नजनकसामग्या अप्रसिद्धत्वेऽपि न क्षतिः, व्याप्यव्यापकत्वयोरनिवेशप्रयुक्तलाघवादाह-यद्वेति । सामान्यलक्षणोक्तरीत्येति । तत्थमभ्यधायि-"अथ तद्धर्मावच्छिन्नोत्पत्तौ तद्धर्मावच्छिन्नसामग्री, तद्वयतिरेके च तद्धर्मावच्छिन्न सामग्रीव्यतिरेकः प्रयोजकः । यत्किञ्चित्कारणतावच्छेदकावच्छिन्नाभावस्य सामग्रीविरहनिर्वाहकतयैव कार्यानुत्पादप्रयोजकत्वम् , तद्धर्मावच्छिन्नसामग्री च तद्धर्माश्रययत्किञ्चिद्वयक्तिनिरूपितकारणतावच्छेदकसकलधर्मावच्छिन्नसमुदायः" इति । अत एवेति । उक्तरीत्या सहकारित्वस्वीकारादेवेत्यर्थः । विशेषणान्तरप्रवेश इति । विषयनिवेशप्रवेश इत्यर्थः । द्वित्वादिकमादाय व्यभिचारवारणायानुमितित्वस्यावश्यं निवेशनीयत्वात् । न च कार्यनिरूपितं दैशिकव्यापकत्वं न कारणताघटकमपि तु कार्यतावच्छेदकव्यापकसामानाधिकरण्यप्रतियोगित्वम् । अत एव क्रियानधिकरणोत्तरदेशे संयोगोत्पत्तावपि तस्यास्तत्कारणत्वम् , इत्थश्च नोक्तव्यभिचारावकाश इति वाच्यम् ; प्रकृते कार्यनिरूपितदैशिकव्यापकतायाः कारणत्वाघटकत्वे कार्याधिकरणदेशत्वस्य कारणाधिकरणदेशत्वनियतत्वानिर्वाहात् । क्रियाधिकरणे उत्पाद्यमानः संयोगो यथा तदनधिकरणोत्तरदेशे जायते, तथा परामर्शाधिकरण इव तदनधिकरणेऽपि सिद्धयभावादिघटितसामग्रीबलादनुमित्युत्पादस्य दुरित्वात्तस्या अपि तद्धटकत्वावश्यकत्वात् । विस्तरस्त्वनुमितिगादाधों जातिघटितलक्षण For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता दिमत्त्वं वा उत्तरत्वघटकमित्यत्र विनिगमकासम्भवाच्चेत्यवच्छेदकधर्मदर्शनानां ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वं युक्तमिति । यच्च प्रतिबन्धकतावच्छेदककोटा नूतनालोकः परामर्शशून्यतादशायामनुमितेरुक्तरीत्यैव वारणीयत्वात्। अत एव च धूमादालोकवान् पर्वतो वह्निमान् धूमादित्यादौ हेत्वन्तरसमुदाये हेतौ प्रतिज्ञैकदेशे चोद्देश्यानुमित्यन्यूनानतिरिक्तविषयकत्वघटितप्रतिज्ञालक्षणातिव्याप्तिः । अनतिरिक्तविषयकबोधनिष्ठान्यूनविषयकत्वावच्छिन्नजन्यतानिवेशेऽसम्भवः । तत्तत्प्रतिज्ञाद्यानुपूर्वीज्ञानजन्यतावच्छेदककोटौ तत्तदानुपूर्वीज्ञानानन्तर्यस्यावश्यं निवेशनीयतया विषयनिवेशे प्रयोजनाभावादित्याशङ्कय "अन्यूनानतिरिक्तपदं विहाय लिङ्गाविषयकत्वं वा ज्ञानविशेषणम्” मणिकृतां सङ्गच्छत इति वाच्यम् ; उक्तरीत्या सामग्रीशरीरे यत्किञ्चिदेकतद्वयक्तित्वस्य प्रवेशे यत्किञ्चिदेकप्रागभावघटितैव सामग्री स्यादिति व्यभिचारेण स्वव्याप्ययावत्तद्वयक्तित्वान्यतमव्यापकयावद्धर्मावच्छिन्नजनकसामग्र्याः स्वाश्रयता. वद्वथक्त्यन्यतमसामग्या वा सहकारित्वकल्पनावश्यकतया महागौरवाद् मणौ कल्पान्तरानुसरणम् अन्यूनविषयकत्वस्य पक्षे साध्यवैशिष्टयावगाहित्वरूपत्वे मतुपः सार्थक्यपक्षे पर्वतो वह्निमानित्यादिप्रतिज्ञायामव्याप्तिः, प्रतिज्ञादिप्रतिपाद्यतत्तद्विशिष्टार्थविषयकबोधान्यतमत्वरूपत्वे यत्रैकविध एव प्रतिज्ञार्थस्तत्रान्यतमत्वाप्रसिद्धथा अव्याप्तिः । तत्स्थलीयलक्षणस्यान्यतमत्वाघटितत्वे तु एकोक्तिभङ्ग इत्यभिप्रायेणैव, न त्वानन्तर्यस्य कार्यतावच्छेदकत्वध्रौव्येण न विषयनिवेशावश्यकतेत्यभिप्रायेण । अन्यादिपदघटितानुपूर्वीज्ञानकार्यतावच्छेदककोटावन्वयितावच्छेदकावच्छिन्नप्रतियोगित्वावगाहित्वप्रवेशावश्यकतया विषयनिवेशध्रौव्यादिति । अत्रापेक्षाबुद्वेः क्षणत्रयावस्थायित्वाज्ज्ञानोपेक्षा । वर्णादीत्यनेन वर्णत्वव्याप्यधर्मावच्छिन्नपरिग्रहः । ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वं युक्तमिति । अत एव सामान्यनिरुक्तौ स्वरूपसम्बन्धरूपावच्छेदकत्व आलोकप्रकाशा विचारावसरे द्रष्टव्यः । नव्या इति । सत्प्रतिपक्षलक्षणविचारावसर इत्यादिः । सङ्गच्छत इति । उक्तसहकारित्वानुपगमे कस्याप्यानुपूर्वीज्ञानस्य विरहदशायां शाब्दबोधानुत्पादनिर्वाहाय विषयनिवेशावश्यकतयोक्तशङ्काया एवासङ्गतेरिति भावः। प्रवेशावश्यकतयेति। अन्यथा नीलो घटो घटादन्य इति प्रयोगः स्यादिति भावः । मूले-ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वं युक्तमिति । तथा चावच्छेदकधर्मदर्शनादिप्रतिबन्धकतामादायासम्भववारणार्थ ज्ञानवैशिष्टयान १७ For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० 'नच' रत्नमालिका वनाहार्यत्वानिवेशप्रयुक्तलाघवमिति, तदपि न, ह्रदो वह्निमान् वह्नयभाववांश्चेत्यांशिकाहार्यस्यानुपपत्तेः, कार्यकाले विरोधिनिश्चयाभावासत्त्वादिति तत्र तन्निवेशा नूतनालोकः निवेशपले पाषाणमयत्वविशिष्टपर्वतादावतिव्याप्तिवारणायानतिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशपक्षे महाविशिष्टेऽतिव्याप्तिवारणाय च ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशः प्रतिबन्धकतायामाशङ्कितः। न च तत्र मतविशेषमाश्रित्यैव तथा निवेशशङ्का, न तु सिद्धान्तानुसारेणेति शङ्कयम् ; तथा सति पाषाणमयत्वविशिष्टपर्वतविषयकनिश्चयप्रतिवध्यतायाः पाषाणमयो न वह्निमानिति ज्ञानसहितं यत् पर्वतः पाषाणमय इति ज्ञानम् , तदुत्तरानुमितिसाधारणसमूहालम्बनानुमितित्वाव्यापकत्वेनैवातिव्याप्त्यप्रसक्त्या अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षणासङ्गतेः। एवमुक्तरीत्या महाविशिष्टेऽप्यतिव्याप्त्यसम्भवेन तद्वारकविशिष्टद्वयाघटितत्वविशेषणासङ्गतेश्चेति । आंशिकाहार्यस्येति । वह्नयभावांशेऽनाहार्यत्वादांशिकेति । नह्यांशिकाहार्यमेव सिद्धान्तविरुद्धमित्याशङ्कथम् ; परे तु कल्पे सामान्यनिरुक्तौ स्पष्टं तदभिधानात् । अनुपपत्तिरिति । न चानियताहार्यस्य विरोधिनिश्चयोत्तरत्वनियमेनोक्ताहार्यस्य प्रतिवध्यतावच्छेदकानाक्रान्तत्वात् कथमनुपपत्तिरिति वाच्यम् ; वह्नयभावव्याप्यजलवान् हृद इति निश्चयोत्तरत्वमात्रेणोपपन्नाहार्यभावस्यास्य वह्नयभाववद्धदविषयकविरोधिनिश्चयानुत्तरत्वानपायात् । विरोधिनिश्चयाभावासत्त्वादिति । उक्ताहार्यस्य विरोधिनिश्चयरूपत्वादिति भावः । न च प्रतिबन्धकाभावस्य पूर्वकालवृत्तितयैव हेतुत्वमस्तु, न तु कार्यकालवृत्तितयापीति वाच्यम् ; तथा सति प्रतिवध्यप्रतिबन्धकयोयोगपद्येनोत्पादापत्तेर्वारयितुमशक्यत्वात् । तन्निवेशावश्यकत्वादिति। न चैवं सत्यनाहार्य आलोकप्रकाशः वच्छिन्नत्वनिवेशनमावश्यकमेवेति भावः । अथ साध्यवत्ताज्ञानप्रतिबन्धकत्वं नास्तीत्यस्य साध्यवत्ताज्ञान प्रतिबन्धकं यस्येति व्युत्पत्त्या साध्यवत्ताज्ञानप्रतिवध्यत्वं नास्तीत्येवार्थोऽस्तु, तथा चावच्छेदकधर्मदर्शनादेः साध्यवत्ताज्ञानप्रतिवन्धकत्वेऽपि तदप्रतिवध्यत्वान्नासम्भवप्रसक्तिरिति तन्निवेशनमनावश्यकमेवेति चेन्न; प्रतिबन्धकतायामवश्यविवक्षणीयव्यापकत्वनिर्वाहार्थ साध्यवत्ताज्ञानेऽप्रामाण्यज्ञानानास्कन्दितत्व-संशयान्यत्वयोनिवेशनीयतया गौरवात् , क्लिष्टकल्पनापत्तेश्च तादृशविवक्षाया अनुचितत्वादिति ध्येयम् । व्याख्यायाम्-वह्वयभाववद्धदविषयकविरोधिनिश्चयानु तरस्यानपायादिति । विरोधित्वस्यानुगतस्य दुर्वचत्वेन विशिष्य तत्तन्निश्चयानुत्तरत्वं निवेश्यैव For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतना लोकटीका-तप्रकाशटिप्पण्योपबृंहिता वश्यकत्वात्। वह्नयभाववान् हृद इत्यनाहार्यनिश्चयस्य स्वप्रतिवध्यत्वापत्ति १३५ नूतना लोकः त्वज्ञानत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहः शङ्कयः अनुत्तरत्वनिवेशपक्षेऽपि तस्य तुल्यत्वात् । वस्तुतस्तु अनुत्तरत्वप्रतियोगिकोटिप्रविष्टविरोधिनिश्चयेऽनाहार्यत्वमवश्यं निवेशनीयम् । अन्यथा आहार्यविरोधिनिश्चयोत्तरं तद्वत्ताबुद्वचुत्पादात्, तत्स्थलीयसामग्रीबलादनाहार्यविरोधिनिश्चयोत्तरमपि तादृशबुद्धयापत्तेर्दुर्वारत्वात् । इत्थञ्च प्रतिवध्यदिश्यननुगतं गुरुभूतमनुत्तरत्वमपहाय तन्निवेशनमेव लाघवादुचितमिति । ननु हृदो वह्निमान् वह्नयभाववद्भिन्नो हृदः, हदे न वह्नथभावः, ह्रदवृत्त्यभावप्रतियोगी न वह्निः, हृदवृत्तिभेदप्रतियोगितानवच्छेदको वह्निरित्यादिबुद्धीनामेकरूपेण वहयभाववान् हृद इति निश्चयप्रतिवध्यत्वनिर्वाहाय विषय निवेशावश्यकत्व प्रदर्शनेन परिहरति-- वह्नयभाववान् हृद इति । विषयनिवेशोऽप्यावश्यक इति । तथा च तादृश " विरोधिनिश्चयानुत्तरत्वनिवेशनमेवोचितमित्याशङ्कां For Private And Personal Use Only आलोकप्रकाशः प्रतिवध्यप्रतिबन्धकभावस्य वक्तव्यत्वादिति भावः । विनिगमनाविरह इति । न च महानसीयत्वविशिष्टतया वह्नित्वाद्यनुपस्थितिदशायामपि प्रतीयमानस्य महानसीयवह्नयभावादेः प्रतियोगितायां यथा धर्मिविशेषणतापन्नयोर्महानसीयत्ववह्नित्वयोर्मिंथो विशेषणविशेष्यभावानापन्नयोरेवा वच्छेदकत्वं प्रत्येकं तादृशधर्मयोरतिप्रसक्तत्वेऽपि यत्र कस्मिन्नवच्छेद्ये नानाधर्माणामवच्छेदकत्वं तत्रावच्छेदकसमुदायानतिप्रसक्त्यैवावच्छेदकता निर्वाहः, सम्बन्धादिभेदेनावच्छेदकताया भेदेऽपि नावच्छेद्यभेदः, अवच्छेद्यप्रतीतिनिरूपितावच्छेदकनिष्ठ प्रकार तानिरूपितविषयताभेदेनैव तद्भेदात्, महानसी वह्निर्नास्तीति प्रतीतौ च महानसीयत्ववह्नित्वप्रकारकसमूहालम्व नव्यावृत्त वह्नयादिविषयताया ऐक्यात् ; तथा प्रकृतेऽपि धर्मिविशेषणतापन्नयोर्मियो विशेषणविशेष्यभावानापन्नयो रेवानाहार्यत्वज्ञानत्वयोः प्रतिवध्यतावच्छेदकत्वमिति न विनिगमनाविरह इति वाच्यम्; अनाहार्यत्वसहितज्ञानत्वेन धर्मिणो युगपज्ज्ञाने एकतरस्यापरधर्मितावच्छेदकत्वभानमावश्यकम्, समूहालम्बन विलक्षण निर्धर्मिता बच्छेदककोभयमानस्याप्रामाणिकत्वादित्यनाहार्यत्वधर्मितावच्छेदकतापन्नज्ञानत्वप्रकारिकाया धर्मितावच्छेदकतापन्नानाहार्यत्व कारिकायाश्व धर्मिविषयताया भेदेनावच्छेद्यभेदावश्यकत्वात् । स्पष्यं चैतत् सत्प्रतिपक्षगादाधर्याम् | आंशिकाहार्यानम्युपगमेऽप्याह -- वस्तुस्थिति । जन्यतावच्छेदकविषयितेति । जन्यतावच्छेदकविषयिताप्रवेशे भगवदिच्छायाः कार्यत्वावच्छिन्नं प्रत्येव ज्ञानत्व Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ 'न' रत्नमालिका वारणाय विषयनिवेशोऽप्यावश्यकः । अन्यत् स्वयमूह्यमिति । इति द्वितीयावली ॥ .- - नूतनालोकः बुद्धीनामगत्या विभिन्नरूपेणैव प्रतिबन्धकत्वस्य वक्तव्यतया अनुत्तरत्वनिवेशनं विफलमेवेति भावः। अन्यत् स्वयमूह्यमिति । अयं भावः-अथ किमिदमनाहार्यत्वम् ? न तावजन्यतासम्बन्धेनेच्छाविशिष्टान्यत्वम् , जन्यज्ञानसामान्यस्यैव भगवदिच्छाजन्यतया .असंग्रहापातात् । नापि जन्यतावच्छेदकविषयितासम्बन्धेन तद्विशिष्टान्यत्वम् ; समानाकारकज्ञानेषु विषयिताभेदस्याप्रामाणिकतया संग्राह्यानाहार्यासंग्रहापत्तेः, विषयित्वावच्छिन्नजन्यतासम्बन्धेन तद्विशिष्टान्यत्वं तदित्यपि न, इच्छाविरहविशिष्टानुमितिसामग्रीत्वादिना भिन्नविषयकप्रत्यक्षादिकं प्रति प्रतिबन्धकत्वकल्पनापेक्षया तादृशानुमितिसामग्रीकालीनप्रत्यक्षादाविच्छाया हेतुकत्वकल्पनमेव लाघवादुचितमिति तादृशप्रत्यक्षस्याप्याहार्यत्वप्रसङ्गात् । एतेन भगवदिच्छामादाय दोषवारणाय कार्यत्वानवच्छिन्नजन्यतानिवेशेऽपि न निस्तार इति बोध्यम् । नापि बाधाकालीनेच्छाजन्यभिन्नत्वम् , तत्र बाधात्वस्य निर्वक्तुमशक्यत्वात् । तथाहि-तद्धि न ग्राह्याभावनिश्चयत्वम् ; ग्राह्याभावव्याप्यवत्तानिश्चयासंग्रहात्। न वा ग्राह्याभावतद्वयाप्यतदवच्छेदकधर्मप्रकारकनिश्चयान्यतमत्वम् ; व्याप्यवत्तानिश्चयादीनां बहुविधानामननुगतत्वात्तत्तद्रूपेणान्यतमत्वशरीरप्रवेशावश्यकतया .अनन्तभेदघटितनिरु आलोकप्रकाशः । जनकतया नोक्तदोष इति भावः। लाघवादिति । इच्छाया उत्तेजकत्वे कारणसमुदायात्मक सामग्रीघटककारणेषु विनिगमनाविरहेण प्रत्येकं विशेषणत्वापत्त्या प्रतिबन्धकताबाहुल्यप्रसङ्गादिति भावः । बहुविधानामिति । व्याप्यतावच्छेदकभेदेनेत्यादिः । तत्तद्रूपेण तत्तद्वयाप्यतावच्छेदकादिघटितरूपेण । न च भेदकूटावच्छिन्नभेदात्मकस्यान्यतमत्वस्य तद्वयक्तित्वेनैव निवेशान्न दोष इति वाच्यम् ; एवं सति यावत्यस्तदभाववत्त्वादिनिश्चयप्रतिवध्यव्यक्तयस्तावदन्यतमत्वव्यक्तरेव प्रतिवध्यतावच्छेदकत्वौचित्येन प्रतिवध्यतावच्छेदकशरीरेऽनाहार्यत्वादिनिवेशस्यैवानावश्यकत्वात्तत्तद्रूपेण व्याप्यवत्तानिश्चयादीनामग्रहणे तद्वयक्तित्वेनापि निरुक्तान्यतमत्वव्यक्तेर्ग्रहणासम्भवाञ्चेति भावः । ननु स्वनिरूपितव्यापकत्वनिष्ठप्रकारताघटितपूर्वोक्तसम्बन्धेन ग्राह्याभावत्वावच्छिन्नविशेष्यताविशिष्टनिश्चयत्वेन ग्राह्याभाववत्तानिश्चयानां स्वनिरूपितविशेष्यतावच्छेदकतावच्छेदकधर्मघटितपूर्वोक्तसम्बन्धेन ग्राह्याभावत्वावच्छिन्नप्रकारताविशिष्टनिश्चयत्वेनावच्छेदकधर्मदर्शनानामन्यतमत्व For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता नूतनालोकः Acharya Shri Kailassagarsuri Gyanmandir ૧૨૩ क्वान्यतमत्वस्य दुर्ज्ञेयत्वात् । घटाभाववद्भूतलमित्याद्याहार्यज्ञानस्यापि निरुक्तबाधात्वापत्या तत्कालीनभिन्नविषय कानुमित्यादिसामग्रीकालीने च्छाजन्यस्य भूतलं घटाभाववदित्यादिप्रत्यक्षस्यानाहार्यत्वानुपपत्तेश्च अनवस्थाप्रसङ्गेनानाहार्यत्वस्य बाधात्वशरीरे प्रवेशयितुमशक्यत्वात् । नापि प्राह्मबुद्धिप्रतिबन्धकत्वं तत्; इच्छाकालीनतदभाववत्तानिश्चयस्येच्छानुत्तरतद्वत्ताबुद्धिं प्रति प्रतिबन्धकत्वसम्भवेऽपि भूतलं नीलघटवदिति बुद्धिनिष्ठघटत्वावच्छिन्नप्र का रताशालिबुद्धित्वावच्छिन्नप्रतिवध्यतानिरूपको यो नीलघटाभाववदिति निश्चयः, तत्कालीनभिन्नविषयकानुमितिसामग्री कालीनेच्छाजन्यस्य भूतलं घटवदिति ज्ञानस्याहार्यत्वापत्तेः । स्वीयप्रकारतावच्छेदकधर्मपर्याप्तावच्छेदकताकआलोकप्रकाशः शरीरे प्रवेशः । न तु घटत्वपटत्वादिरूपावच्छेदकभिन्नरूपेणेति न दुर्ज्ञेयतेत्यत आह- घटाभावव भूतलमित्यादीति । अनवस्थाप्रसङ्गेनेति । अनवस्था चात्रान्यतमत्वनिष्ठानाहार्यत्वानवच्छिन्नबाधाशब्दार्थनिष्ठस्वघटकभिन्नत्वरूपा । न च तत्रेच्छाजन्यत्वाभावमात्रस्य प्रवेशान्न तत्प्रसङ्गः । एवमपि समानविषयकप्रत्यक्षसामग्रीकालीनेच्छाजन्यस्य भूतलं घटाभाववदित्यनुमित्यात्मकनिश्चयस्यानन्तरमिच्छाजन्यस्य भूतलं घटवदित्याहार्यज्ञानस्य तत्त्वापत्त्या तन्मात्रस्य तत्र प्रवेशयितुमशक्यत्वादिति भावः । न चानुमितित्वानवच्छिन्नेच्छाजन्यत्वाभावस्य विवक्षणान्नेयमापत्तिरिति वाच्यम् ; एवमपि समानविषयकप्रत्यक्षसामग्रीकालीनेच्छा जन्यस्य भूतलं घटाभाववदिति शाब्दस्यानन्तरं जायमानस्य घटाद्याहार्यज्ञानस्य तत्त्वापत्तेः । यद्यपि जन्यतायां शाब्दत्वानवच्छिन्नत्वमपि विवक्ष्यते, तथापि यत्र विषयविशेषे समानविषयकप्रत्यक्षसामग्रीदशायां प्रत्यक्षान्यज्ञानं जायतामितीच्छयैव तद्भूतलं तद्घटाभाववदिति शाब्दानुमिती, न तु शाब्दत्वादिप्रकारकेच्छया तत्र तादृशशाब्दाद्युत्तरमिच्छया जायमानस्य तद्भूतलं तद्वय्वदिति ज्ञानस्य तत्त्वापत्तिः तादृशस्थले तादृशानुमितिसाधारण परोक्षत्वावच्छिन्नं प्रत्येव तादृशेच्छाया हेतुत्वात् । न च परोक्षत्वावच्छिन्नत्वस्यापि निवेशात् प्रतीकारः शङ्कयः ; भिन्नविषयकानुमित्यादिसामग्रीकालीनेच्छाजन्यं यद्भूतलं घटाभाववदिति प्रत्यक्षम्, तदनन्तरं जायमानाहार्यस्य तत्त्वापत्तेः । आहार्यपरोक्षज्ञानानभ्युपगमेनेच्छा - जन्यतायाः प्रत्यक्षत्वावच्छिन्नतया तत्र तदनवच्छिन्नत्वविवक्षणासम्भवादिति ध्येयम् । ग्राह्यबुद्धिप्रतिबन्धकत्वमिति । ग्राह्यतावच्छेदकावच्छिन्नप्रकारताशालिबुद्धित्वघटितधर्मावच्छिन्नप्रतिबध्यता For Private And Personal Use Only निरूपितप्रतिबन्धकत्वमित्यर्थः । अतो नोदासीनज्ञानसाधारण्यम्, न वा भिन्नविषयकप्रत्यक्षप्रतिबन्धकानुमित्यादिसामग्रीसाधारण्यम्, सामग्रीप्रतिवध्यतायाः प्रत्यक्षत्वावच्छिन्नाया ज्ञानत्वान वच्छिन्न Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Ŕ* 'न च' रत्नमालिका नूतनालोकः प्रकारतात्वावच्छिन्नावच्छेदकता कज्ञानत्वावच्छिन्न प्रतिवध्यता विवक्षणेऽप्यवच्छेदकावच्छेदेन तद्वत्ताबुद्धिं प्रति सामानाधिकरण्येन तदभाववत्तानिश्चयस्य प्रतिबन्धकतया तत्समानकालीनेच्छाजन्यस्य सामानाधिकरण्येन तद्वत्ताज्ञानस्य तत्त्वापत्त्यवारणात् । न च स्वीयधर्मितावच्छेदकावच्छिन्न विशेष्यता निरूपित स्वीय प्रकारतावच्छेदकावच्छिन्न प्रकारताशाल्यनुमितित्वव्यापक ज्ञानत्वावच्छिन्न प्रतिवध्यतानिरूपित प्रतिबन्धकत्वस्यैव तथात्वोपगमान्न कोऽपि दोष इति वाच्यम्; एवं सति घटो घटभिन्न इत्याद्यनुमितेरप्रसिद्धया तादृशज्ञाने आहार्यत्वस्यानाहार्यत्वस्य वा अनुपपत्तेः । न च तत्रेष्टापत्तिः; आहार्यानाहार्यान्यतरविलक्षणज्ञानस्य सिद्धान्तविरुद्धतया आहार्यत्वस्यावश्यमङ्गीकार्यत्वात् । न च प्रतिबन्धकसमवधानकालीन एव तान्त्रिकाणामाहार्यत्वव्यवहारादुक्तज्ञानस्य प्रतिबन्धका प्रसिद्धेराहार्यत्वं कथं घटत इति वाच्यम्; इच्छां विना तदभावादिकं धर्मितावच्छेद की कृत्य तद्वत्ताबुद्धेरनुदयेन तादृशबुद्धौ तदभावाद्युपस्थितित्वेन प्रतिबन्धकत्वस्यावश्यं कल्पनीयतया तादृशोपस्थितिमादाय बाधाकालीनत्वस्य तत्राप्युपपादयितुं शक्यत्वात् । स्पष्टखेदं प्रतिबन्धकताविचारे । वस्तुतस्तु अनियताहार्यस्थले प्रतिबन्धकसमवधानकालीन एवाहार्यत्वव्यवहारः । नियताहार्यस्थले तु तदसमवधानकालेऽपि तादृशव्यवहारोऽस्त्येव । तेन तादृशज्ञानं प्रति तादृशज्ञानगोचरेच्छात्वेन हेतुत्वकल्पनेनैवोपपत्तौ तदभावाद्युपस्थितित्वेन प्रतिबन्धकत्व Acharya Shri Kailassagarsuri Gyanmandir आलोकप्रकाशः त्वात् । स्वीयेत्यादि । घटवद्भूतलं पटाभाववदिति निश्चयनिरूपिताया घटवद्भूतलं पटवदिति निश्चयनिष्ठप्रतिबध्यताया भूतलत्वावच्छिन्नविशेष्यतानिरूपितधर्मितावच्छेदकता रूपघटत्वावच्छिन्नप्रकारताघटितधर्मावच्छिन्नतया तन्निरूपक ज्ञानकालीन भिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यस्य भूतलं घटवदिति प्रत्यक्षस्याहार्यत्वापत्तिरतः प्रकारतात्वावच्छिन्नेति । तत्समानकालीनेच्छाजन्यस्येति । तत्समानकालीनभिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यस्येत्यर्थः । स्त्रीयप्रकारतावच्छेदकावच्छिन्नप्रकार तेति । स्वीयसंसर्गतावच्छेदकता पर्याप्त्यधिकरणधर्मपर्याप्तावच्छेदकताकसंसर्गताकेत्यादिः । तेन सामानाधिकरण्येन बाधनिश्चयकालीनाया अवच्छेदका - वच्छेदेन तद्वत्ताबुद्धेर्नाहार्यत्वानुपपत्तिः । अन्यत् स्वयमूह्यम् । घटो घटभिन्न इत्यादीति । आदिना घटो घट इत्यादेः परिग्रहः । अनुपपत्तेरिति । तत्तद्धर्मावच्छिन्नविशेष्यताक तत्तद्धर्मावच्छिन्नप्रकार ताकज्ञाननिष्ठाहार्यत्वानाहार्यत्वयोस्तत्तद्धर्मावच्छिन्नविशेष्यताकतत्तद्धर्मावच्छिन्न For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपधुंहिता नूतनालोकः स्याप्रामाणिकत्वेऽपि न क्षतिरिति ध्येयम् । न च नियताहार्यत्वं स्वविरोधिधर्मधर्मितावच्छेदककस्वप्रकारकज्ञानत्वम्, अनियताहार्यत्वन्तु निरुक्तबाधाकालीनेच्छाजन्यत्वम् , तत्रानियताहार्यत्वाभावस्यैव प्रतिवध्यताद्यवच्छेदककुक्षौ प्रवेशो न तु नियताहार्यत्वाभावस्यापि, प्रयोजनाभावादिति वाच्यम् ; अवच्छेदकावच्छेदेन जलवान् ह्रद इति निश्चयकालीनस्य वह्नयभाववजलवत्कालीनह्रदो वह्निमानिति ज्ञानस्यानाहार्यत्वापत्तेः। तादृशज्ञानस्याहार्यत्वेन जलवान हृद इति निश्चयस्यानाहार्यवह्नयभाववजलवद्विषयकनिश्चयविशिष्टत्वरूपप्रतिबन्धकतावच्छेदकानाक्रान्ततया बाधापदेन ग्रहणासम्भवात् । न च ग्राह्यधर्मितावच्छेदकावच्छिन्नविशेष्यकग्राह्यतावच्छेदकधर्मावच्छिन्नप्रकारताकानुमित्यवृत्तिरूपावच्छिन्नविषयकनिश्चयस्यैव बाधापदेन विवक्षणान्न दोषः । वृत्तित्वश्च स्वावच्छिन्नविषयकानुमित्यव्यवहितोत्तरत्वसम्बन्धेन । आलोकप्रकाशः प्रकारताकानुमितित्वघटितत्वादिति भावः । अनाहार्यत्वानुपपत्तेरिति । न चेष्टापत्तिः, तथा सति तादृशबुद्धेर्जलवान् ह्रद इति निश्चयप्रतिबध्यत्वापत्तेः, तादृशज्ञानानन्तरं वह्नयभाववत्ताबुद्धथनापत्तेश्च । न च केवलजलवत्तानिश्चयत्वेनैव प्रतिबन्धकत्वं कल्प्यते, न तु ज्ञानविशिष्टज्ञानत्वेनेति शङ्कयम् ; गौरवात्तादृशहदे वह्निसाधने जलवद्धदस्य हेत्वाभासत्वापत्तेश्चेति भावः। अव्यवहितोत्तरत्वसम्बन्धेनेति । वह्निमान् हद इति निश्चयकालीनभिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यस्य वह्नयभाकव्याप्यवान् हद इति ज्ञानस्यानाहार्यत्वसम्पत्तये स्वावच्छिन्ननिरूपितविषयितायाः सम्बन्धत्वोपेक्षा । अनाहार्यत्वाद्यनिवेशप्रयुक्तलाघवादुभयत्रानुमितीति । यत्तु ज्ञानविशिष्टत्वमनाहार्यत्वम् । ज्ञानवैशिष्ट्यञ्च तादात्म्य-स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वोभयसम्बन्धेन । प्रतियोगिता च स्वविशिष्टज्ञानकालीनेच्छाजन्यत्वसम्बन्धावच्छिन्ना। ज्ञाने स्ववैशिष्ट्यञ्च स्वविशिष्टानुमित्यवृत्तिरूपावच्छिन्नविषयकत्व-स्वविशिष्टप्रतिवध्यतानिरूपितप्रतिबन्धकताविशिष्टत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वोभयसम्बन्धेन । अनुमितौ स्ववैशिष्ट्यं स्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितस्वीयप्रकारतावच्छेदकावच्छिन्नप्रकारताकत्वसम्बन्धेन। वृत्तित्वञ्च स्वावच्छिन्नविषयकानुमित्यव्यवहितोत्तरत्वसम्बन्धेन । प्रतिवध्यतायां स्ववैशिष्ट्यं स्वविशिष्टानुमितिनिष्ठभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नखनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन । अनुमितौ स्ववैशिष्ट्यं पूर्ववत् भेदप्रतियोगितावच्छेदकतास्वरूपसम्बन्धेन। प्रतिबन्धकताविशिष्टत्वं स्वावच्छेदकीभूताभावप्रतियोग्युपहितत्वसम्बन्धेन । इत्थञ्च द्वितीयसम्बन्धमहिम्ना आहार्याद्यात्मक For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नच' रत्नमालिका नूतनालोकः इत्थश्च न प्रतिवध्यतावच्छेदकस्य प्रतिवध्यताघटितत्वेनान्योन्याश्रयोऽपीति वाच्यम् ; एवं सति वह्नयभाववान हृद इत्याहार्यस्यापि बाधात्वापत्त्या तत्समानकालीनभिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यस्य हृदो वह्निमानिति ज्ञानस्याहार्यत्वापत्तेरिति दिक्। केचित्तु ज्ञानविशिष्टप्रत्यक्षत्वावच्छिन्नजन्यतासम्बन्धेनेच्छाविशिष्टा - न्यत्वरूपमनुगतमनाहार्यत्वं सुवचम्, बाधनिश्चयोत्तरप्रत्यक्षत्वस्येच्छाजन्यतावच्छेदकत्वात् । ज्ञानवैशिष्टयश्च जन्यतायां स्वोत्तरत्वसम्बन्धावच्छिन्नस्वनिष्टावच्छेदकताकत्वसम्बन्धेन। इत्थश्च भिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यप्रत्यक्षस्य नानाहार्यत्वानुपपत्तिः, तत्रेच्छाजन्यतायाः सामग्र्युत्तरप्रत्यक्षत्वावच्छिन्नतया ज्ञानानवच्छिन्नत्वात् । यदि चानुमितिसामयाः पक्षतादिविशिष्टपरामर्शादिरूपतयाऽनुमितिसामग्युत्तरप्रत्यक्षत्वावच्छिन्नजन्यताज्ञानावच्छिन्नैवेत्युच्यते, तदा वैशिष्टयघटकज्ञाननिष्ठावच्छेदकताया इच्छाघटितधर्मानवच्छिन्नत्वेन विशेषणान्न दोषः, उक्तप्रत्यक्षत्वावच्छिन्नेच्छाजन्यतावच्छेदकतायाः सिषाधयिषाविरहविशिष्टसिद्धयभावरूपपक्षता. . आलोकप्रकाशः : बाधादिनिश्चयमादाय नानुपपत्तिः। न च वह्नयभावव्याप्यत्वांशे आहार्यात्मकः संशयात्मको वा यो वह्नयभाववत्तानिश्चयः, तत्कालीनेच्छाजन्यस्य वह्निमत्ताज्ञानस्यानाहार्यत्वानुपपत्तिरिति वाच्यम् ; ज्ञाने स्ववैशिष्ट्यघटकपूर्वोक्तद्वितीयसम्बन्धस्थाने स्वविशिष्टप्रतिवध्यतानिरूपितप्रतिबन्धकताविशिष्टत्वं विवक्ष्यते । प्रतिबन्धकतावैशिष्ट्यञ्च-स्वावच्छेदकीभूतभेदप्रतियोगितासम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्व-स्वावच्छेदकीभूतविषयितावत्वोभयसम्बन्धेन । प्रतिवध्यतायां स्ववैशिष्ट्यं च पूर्वोक्तमेव । न चैवमप्येकरूपेण प्रतिबन्धकतापक्षे वयभाववजलवद्वृत्तिजलवत्त्वांशे आहार्यायात्मकस्य . वह्नयभाववच्छेवालववृत्तिशैवालवत्तानिश्चयस्योक्तसम्बन्धेन प्रतिबन्धकताविशिष्टत्वासम्भवेन तत्कालीनेच्छाजन्यवह्निमत्ताबुद्धेरनाहार्यत्वापत्तिः। जलवान् वह्नयभाववान् जलवांश्च ह्रद इत्यादिविशकलितज्ञानस्य स्वविशिष्टानुमित्यवृत्तिरूपावच्छिन्नविषयिताकत्वाभावेन तत्कालीनेच्छाजन्यस्यानाहार्यत्वापत्तिश्चेति वाच्यम् , तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नाभावप्रकारकनिश्चयप्रतिवध्यतावच्छेदकमनाहार्यत्वं तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नप्रकारकानुमितित्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकत्वाश्रयतद्धर्मावच्छिन्नविशेष्यकतधर्मावच्छिन्नाभावप्रकारकनिश्चयकालीनेच्छाजन्यत्वाभावरूपमिति- रीत्या. विशिष्यैव निर्वाच्यमित्यदोषादिति । तदसत् । प्रतिवध्यतावच्छेदकीभूतधर्मस्य प्रतिवध्यताघटितत्वेनान्योन्याश्रयप्रसङ्गात् । प्रत्यक्षत्वा For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः घटितसामग्रीत्वावच्छिन्नतया इच्छाघटितधर्मानवच्छिन्नत्वाभावात् । न चैवमपि व्यतिरेकिणि साध्यज्ञानसत्त्वे इतरभेदरूपसाध्यप्रकारिकैवानुमितिः, न तु तद्विशेष्यिकेति साध्यविशेष्यकानुमितौ साध्यतावच्छेदकप्रकारकज्ञानसामान्यमेव प्रतिबन्धकम् । तत्र न पक्षताशरीरे सिषाधयिषाविरहस्य निश्चयत्वस्य वा निवेशो गौरवात् । अत एव " तादृशानुमितिं प्रति सिद्धिमात्र विरोधि, साध्यप्रसिद्धिरेव वा" इति पक्षता शिरोमणौ साध्यप्रसिद्धिमात्रस्य प्रतिबन्धकत्वमभिहितम् । तथा चाप्रसिद्धसाध्यकस्थलीयानुमितिसामाया इच्छाविरहाघटितत्वेन तादृशसामग्युत्तर प्रत्यक्षत्वावच्छिन्नेच्छा जन्यतानिरूपित परामर्शनिष्ठावच्छेदकता इच्छाघटितधर्मानवच्छिन्नैवेति वाच्यम्; यतः साध्यप्रसिद्धिप्रतिबन्धकतायामपि साध्यविशेष्य कानुमितित्वप्रकारकेच्छाया उत्तेजकत्वमावश्यकम् । अन्यथा पक्षविशेष्यकसिद्धिदशायां तादृशेच्छासत्त्वे साध्यविशेष्यकानुमित्यपलापापत्तेः । सिद्धसमवहितसाध्य प्रसिद्धिदशायां साध्यविशेषणकानुमितेः सम्भवेन तत एवोद्देश्यसंशयनिवृत्त्यादिसम्भवे साध्य विशेष्यकानुमित्यनुपगमोऽपि न क्षतिकर इत्यभिप्रेत्यैव साध्यप्रसिद्धिमात्रस्य तद्विरोधित्वमुररीकृतं दीधितिकृता । उक्तसिद्धीच्छयोः सत्ये च साध्यविशेषणका नुमित्युत्पादासम्भवेनोद्देश्यसंशयादिनिवृत्यर्थं साध्यविशेष्यकानुमित्युत्पादस्यावश्यकतया तदपलापानौचित्यात् । स्पष्टुं चैतत् पक्षतागादाधर्याम् । तथा चाप्रसिद्धसाध्यकस्थलीयानुमितिसामथ्र्यपि सिषाधयिषाघटितैवेति । न चैवमपि यादृशपक्षकयादृशसाध्यकस्थले सिद्धिकाले परामर्शादिसत्त्वे अनुमित्साया असमवधानम्, तादृशपक्षसाध्यकस्थले केवलसिद्धभाव एव पक्षता । न तु तत्र सिषाधयिषाविरह वैशिष्ट्यनिवेशः, प्रयोजनाभावात् । तथा च शिरोमणिः - " यत्र सिद्धयनन्तरं कदाप्यनुमितिर्न जाता, तत्र आलोकप्रकाशः १८ Acharya Shri Kailassagarsuri Gyanmandir वच्छिन्नेति । इदञ्च स्वरूपकीर्तनमात्रम्, तन्निवेशे प्रयोजनाभावात् । इच्छाघटितधर्मानवच्छिन्नैवेति । तथा च साध्यविशेष्यकानुमितिसामग्रीकाली नेच्छाजन्यभिन्नविषयकप्रत्यक्षस्यानाहार्यत्वानुपपत्तिरिति भावः । पक्षविशेष्यकसिद्धेः सत्त्वे पक्षविशेष्यकानुमित्युपगमेनैवोपपत्तौ साध्यविशेष्यकानुमितेरनुपगमो न क्षतिकर इत्यभिप्रायेण पक्षविशेष्यकसिद्धिदशायामिति । सिद्धसमवहितेति । पक्षविशेष्यकेत्यादिः । प्रयोजनाभावादिति । सिद्धिकाली नानुमित्यनुरोधेनैव विशिष्टसिद्धयभावस्य पक्षतात्वं स्वीकरणीयमित्युक्तस्थलेऽनुमिते रेवाभावे किमर्थं For Private And Personal Use Only १३७ Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १३८ www.kobatirth.org 'न च' रत्नमालिका नूतनालोकः सिद्धयभावमात्रं कारणम्, न तु तत्रेच्छानिवेशोऽपि, गौरवात् प्रयोजनाभावाच " इति । इत्थञ्च तादृशपक्षसाध्य कानुमितिसामग्री नेच्छाविरहघटितेति वाच्यम् । समवायसम्बन्धावच्छिन्न प्रतियोगिता कज्ञानाभावघटितधर्मानवच्छिन्नत्वेन वैशिष्ट्यघटकावच्छेदकता या विशेषणीयतयोक्तापत्तेरनवकाशात्, अनुमितिसामध्याः समवायसम्बन्धावच्छिन्नप्रतियोगिता कसिद्धयभावादिघटितत्वात् । न चैवं सति विरोधिनिश्चयनिष्ठेच्छा जन्यतावच्छेदकता या अव्याप्यवृत्तित्वज्ञानविर हवैशिष्ट्या Acharya Shri Kailassagarsuri Gyanmandir वच्छिन्नतया समवायसम्बन्धावच्छिन्नप्रतियोगिताकज्ञानाभावघटितधर्मानवच्छिन्नज्ञाननिष्ठावच्छेदकता केच्छाजन्यत्वाप्रसिद्धिरिति वाच्यम्; व्याप्यवृत्तित्वावगाहित्वेन प्रतिबन्धकत्वाभ्युपगमेन तत्प्रसिद्धेः । उत्तेजकतापक्षेऽप्यव्याप्यवृत्तित्वज्ञानविरहवैशिष्ट्यवच्छिन्नत्वेनैव तया वैशिष्ट्यघटकावच्छेदकताया विशेषणीय अप्रसिद्ध नवकाशादिति । वस्तुतः स्वनिष्ठावच्छेदकतायाः स्वकार्यकारणानवच्छिन्नत्वेन विवक्षणादनुमितिसामग्रीमादाय न दोषः । परामर्शनिष्ठावच्छेदकतायाः पक्षतादिरूपतत्कार्य कारणावच्छिन्नत्वादिति वदन्ति । तन्न । एवं सति वह्नयभाववान् ह्रद इति निश्चय प्रतिवध्यस्य जलवत्त्वांशे आहार्यात्मकस्य जलवान् हृदो वह्निमांश्चेति ज्ञानस्य वह्नचंशेऽनाहार्यत्वानुपपत्तेरिति चेदत्रोच्यते - आंशिकाहार्यानभ्युपगमान्नोक्तदोषावकाशः । यद्वा अनुगताना आलोकप्रकाशः तन्निवेश इति भावः । समवायसम्बन्धावच्छिन्नेति । तेन विरोधिज्ञानादिनिष्ठावच्छेदकताया विषयतासम्बन्धावच्छिन्नप्रतियोगिताकाप्रामाण्यज्ञानाभावघटितधर्मावच्छिन्नत्वेऽपि न क्षतिः । सिद्ध्यभावादीति । आदिपदाद्विरोधिनिश्चयाभावपरिग्रहः । तत्प्रसिद्धेरिति । व्याप्यवृत्तित्वावगाहित्वेन प्रतिबन्धकत्वपक्षे व्याप्यवृत्तित्वावगाहिविरोधिनिश्चयस्यैव जन्यतावच्छेदकत्वादिति भावः । अव्याप्यवृतित्वज्ञान विरह वैशिष्टया व च्छिन्न स्वेनैवेति । संशयनिश्चयसाधारणान्याध्यवृत्तित्वज्ञानत्वावच्छिन्नप्रतियोगिताकाभाववैशिष्टयावच्छिन्नत्वेनैवेत्यर्थः । तेन घटो व्याप्यवृत्तित्वाभाववानित्यनुमितिसामय्या बाधाभावविधया व्याप्यवृत्तित्वप्रकारकनिश्चयाभावघटितत्वेऽपि न क्षतिः, तत्राव्याप्यवृत्तित्वज्ञानत्वावच्छिन्नप्रतियोगिताका भावस्याप्रवेशात् । एवकारेण पूर्वोक्ताभावघटितधर्मानवच्छिन्नत्वव्यवच्छेदः । अनाहार्यत्वानुपपत्तेरिति । जलाभाववान्, हृद इति For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता नूतनालोकः हार्यत्वस्य निर्वक्तुमशक्यत्वेऽप्यव्यवहितोत्तरत्वसम्बन्धावच्छिन्नतत्तद्धर्मावच्छिन्नविशेष्यकतत्तद्धर्मावच्छिन्नाभावादिप्रकारकनिश्चयत्वावच्छिन्नावच्छेदकताकेच्छाजन्यतावद्भिन्नत्वरूपस्य विरोधितावच्छेदकरूपभेदभिन्नस्याननुगतस्यैव तस्य तत्तन्निश्चयप्रतिवध्यतावच्छेदकत्वमगत्या वक्तव्यम् । अथवा तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नप्रकारकानाहार्यत्वं नाम तद्धर्मावच्छिन्नविशेष्यकतद्वर्मावच्छिन्नप्रकारकत्वावच्छिन्नज्ञाननिष्ठावच्छेदकताकजन्यतासम्बन्धेनेच्छाविशिष्टान्यत्वम् । इत्थं चोक्तांशिकाहार्यस्य वह्नित्वावच्छिन्नप्रकारकत्वानवच्छिन्नतया न वह्नयभाववत्तानिश्चयप्रतिवध्यत्वानुपपत्तिरिति ।। इति द्वितीयालोकः ॥ आलोकप्रकाशः विरोधिनिश्चयनिष्ठावच्छेदकताकजन्यताया निरुक्तांशिकाहार्ये सत्त्वादिति भावः । तत्तगुर्मावच्छिन्नाभावादीति । आदिपदेन तत्तद्धर्मावच्छिन्नाभावव्याप्यावच्छेदकधर्मादेः परिग्रहः । निश्चयत्वावच्छिन्नेति । तन्निवेशाभूतले घटाभाववत्त्वांशे आहार्यात्मकेन वह्निव्यायधूमवान् पर्वत इति परामर्शन घटिता या सामग्री तदुत्तरं जायमानस्य भूतलं घटवदित्यनाहार्यप्रत्यक्षस्य भिन्नविषयकानुमितिसामग्रीत्वावच्छिन्ना या भूतलं घटाभाववदिति निश्चयात्मकपरामर्शनिष्ठावच्छेदकता, तन्निरूपकेच्छाजन्यत्वसत्त्वेऽपि न क्षतिः ॥ इति द्वितीयालोकप्रकाशः ॥ For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ तृतीयालोकः अथ संयोगसमवायादिनानासंसर्गकसाध्यवत्ताज्ञानत्वव्यापिका कामिनीजिज्ञासादिप्रतिवध्यतैव, तदनिरूपकत्वञ्च साध्याभावप्रमासामान्यस्येत्यतिव्याप्तिः । न च स्वविषयीभूताभावप्रतियोगितावच्छेदकसम्बन्धसंसर्गकसाध्यवत्ताज्ञानविवक्षणान्नातिव्याप्तिरिति वाच्यम् ; एवमपि पूर्वक्षणवृत्तित्वविशिष्टस्वाभावनिष्ठप्रतियोगितावच्छेदकीभूतस्वरूपसम्बन्धाव्यावृत्तेः, समवायेन गुणाभाववान् द्रव्यत्वादित्यादौ समवायसम्बन्धाव्यावृत्तेश्चेति चेत् ,सत्यम् । यत्समानाधिकरण नूतनालोकः कामिनीजिज्ञासादीति । आदिपदेन साध्य वृत्तित्वसामान्याभाववदिति ज्ञानपरिग्रहः । स्वविषयीभूतत्वमभावे प्रतियोगितायां वा विशेषणमिति विकल्पं मनसि निधायाह-एवमपीति । स्वरूपसम्बन्धाव्यावृत्तेरिति । न च प्रतियोगितायां साध्यनिष्ठत्वस्यापि विवक्षणानोक्ता व्यावृत्तिरिति वाच्यम् ; एवं सति साध्याभावपदवैयाभिधानासङ्गतः । तत्पदानुपादाने घटाभावप्रमाया अपि सामान्यान्तर्गततया तद्विषयीभूताभावनिरूपितसाध्यनिष्ठप्रतियोगित्वाप्रसिद्धस्तत्सार्थक्यसम्भवात् । समवायसम्बन्धाव्यावृत्तेरिति । गुणाभावाभाववानिति प्रमायां गुणाभावनिष्ठस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताया इव गुणनिष्ठसमवायसम्बन्धावच्छिन्नप्रतियोगिताया अपि भानादिति भावः। अयश्च दोषः कल्पद्वयसाधारणो बोध्यः। न च स्वीयमुख्यविशेष्यतानिरूपितप्रकारतानिरूपितविषयताश्रयप्रतियोगितावच्छेदकसम्बन्धसंसर्गकत्वविवक्षणान्नोक्तदोष इति वाच्यम् ; एवमपि संयोगेन गुणवान् द्रव्यत्वादित्यादावतिव्याप्तः, गगनत्वेन गगनं नास्तीत्यभावप्रतियोगिताया गगनत्वेन गगनभिन्नं नास्तीति प्रतीतिसिद्धप्रतियोगित्वादिव स्वरूपसम्बन्धावच्छिन्नगुणत्वावच्छिन्नप्रतियोगितायाः संयोगसम्बन्धावच्छिन्नतादृशप्रतियोगित्वादनतिरेकेण स्वरूपसम्बन्धस्यापि संयोगेन गुणाभाववानिति आलोकप्रकाशः अनतिरेकेणेति । "अवृत्तिमात्रवृत्तिगगनत्वादिना” इति दीधितिव्याख्यानावसरे चतुर्दशलक्षणीगादावर्या प्रदर्शितयुक्तः प्रतियोगितावच्छेदकसम्बन्धभेदेऽपि प्रसरादिति भावः । For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका-तस्प्रकाशटिप्पण्योपहिता Acharya Shri Kailassagarsuri Gyanmandir १४१ साध्याभावप्रमा सामान्ये स्वविषयीभूताभावप्रतियोगितावच्छेदकीभूता ये ये सम्बन्धाः, प्रत्येकं तत्तत्संसर्गक साध्यवत्ताज्ञानत्कव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकत्वाभाव कूटवत्त्वस्य साध्यवत्ताज्ञाने स्वीय मुख्यविशेष्यतानिरूपितप्रकारतावृत्तिसम्बन्धसंसर्गकत्वस्य वा विवक्षणीयतया सर्वसामञ्जस्यम् । वृत्तित्वं च स्वावच्छिन्नत्वावच्छिन्नप्रतियोगित्वनिष्ठा वच्छेद कताकनिरूपकत्वनिष्टसांसर्गिकविष - यतानिरूपितत्वसम्बन्धेन । वस्तुतस्तु साध्यतावच्छेदकसम्बन्धेन साध्यतावच्छेदकविशिष्टसाध्यवत्ताज्ञानसामान्यप्रतिबन्धकत्वाभाव एव विवक्षणीयः । ज्ञानं च स्वविषयीभूताभावप्रतियोगितावच्छेदकसम्बन्ध संसर्गकत्वेन विवक्षणीयमित्युक्तिस्तु तथाविवक्षायां कथञ्चित् साध्याभावपद सार्थक्यं सम्भवतीत्यभिप्रायेणेति । अथैवमप्यसम्भवः, प्रतिबध्यतायाः प्रतिबन्धकस्वरूपतया कस्या अपि तस्याः साध्यवत्ताज्ञानत्वव्यापकत्वासम्भवात्, घटत्वविशिष्टवह्निमान् पर्वत इति निश्चयनिष्ठाया घटत्वेन वयभाववानिति ज्ञानप्रतिवव्यताया अपि प्रतिवध्यतात्वादिना व्यापकत्वादसम्भवप्रसक्त्या यत्किञ्चिद्रूपेण तद्विवक्षणासम्भवात् । स्वावच्छेदकविषयितासम्बन्धेन प्रतिवध्यताव्यक्तेर्व्यापकत्व विवक्षणे पर्वतो वह्निमान् घटत्वविशिष्टवह्निमांश्चेति ज्ञाननिष्ठयोः प्रतिवध्यत्वव्यक्त्योः प्रतिवध्यस्वरूपयोरैक्येन घटत्वेन वह्नयभाववान् पर्वत इति निश्चय निरूपित प्रतिवव्यतावच्छेदकत्वस्य वह्निमत्पर्वतविषयिता सामान्ये ऽप्यक्षतत्वादसम्भवता दवस्थ्यम् । न च जन्यतासम्बन्धेन प्रतिबन्धकत्व घटकाभाव एव साध्यवत्ताज्ञानत्वव्याप कत्वविवक्षणान्न दोषः, वह्नचभाववान् पर्वत इति निश्चयत्वावच्छिन्नाभावस्यैवोक्तसम्बन्धेन साध्यवत्ताज्ञानत्वव्यापकतया तत्प्रतियोगित्वाभावस्य घटत्वेन वह्नय नूतनालोकः प्रमीयतादृशविषयिताश्रयप्रतियोगितावच्छेदकसम्बन्धतया तद्व्यावृत्तेः । लाघवादाह - साध्यवत्ताज्ञान इति । ततोऽपि लाघवादाह - वस्तुतस्त्विति । कथञ्चिदिति । साध्यतावच्छेदकसम्बन्धावच्छिन्न प्रतियोगिता का भावनिवेशे तात्पर्य ग्राहकत्वाभ्युपगमेनेत्यर्थः । तथा विवक्षायां तादृशाभावानिवेशे समवायाद्यवच्छिन्नवह्नयाद्यभावप्रमामादायासम्भवापत्तेः । For Private And Personal Use Only प्रतिबन्धकत्वघटकाभाव एवेति । कारणीभूताभावप्रतियोगित्वस्यैव प्रतिबन्धकत्वरूपत्वादिति भावः । बाधनिश्वयाभावान्यभेदेति । यद्यप्यभावान्यभेदस्याप्यभाव Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ 'न च' रत्नमालिका भाववान् पर्वत इति प्रमायां सत्त्वादिति वाच्यम् ; एवमपि बाधनिश्चयाभावान्यभेद-तादृशाभावावृत्त्यभावयोरभावमात्राधिकरणकतया अधिकरणस्वरुपयोर्बाधनिश्चयाभावत्वेन कारणतया तत्प्रतियोगिनि घटत्वेन वह्नयभाववानिति शाने प्रतिबन्धकत्वस्यैव सत्त्वादसम्भवापत्तेः । न च निरूपकत्वसम्बन्धेन साध्यवत्ताज्ञानत्वव्यापिका या कारणता, अनुयोगिताविशेषसम्बन्धावच्छिन्नतदवच्छेदकत्वस्यैव विवक्षणान्न दोषः, बाधनिश्चयाभावान्यभेदत्वादिना कारणत्वाभावादिति वाच्यम् ; कारणतायाः पदार्थान्तरत्वे कार्यतारूपप्रतिवध्यताया अप्यतिरिक्तस्वादुक्तपरिष्कारस्यानावश्यकत्वात् , स्वरूपसम्बन्धविशेषरूपत्वे तस्या बाधनिश्चयाभावान्यभेदत्वाद्यवच्छिन्नाधेयत्वानतिरिक्ततया तादृशभेदत्वस्यापि तदवच्छेदकत्वाक्षतेस्तद्दोषतादवस्थ्यादिति चेत्, सत्यम् । तस्याः स्वरूपसम्बन्धविशेषरूपत्वेऽपि प्रकृते कार्यतावच्छेदकसम्बन्धेन कार्याधिकरणे तत्पूर्वक्षणावच्छेदेन विद्यमानाभावीयकारणतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताविशिष्टान्यविषयतारूपत्वविवक्षया बाधनिश्चयाभावत्वाद्यवच्छिन्नाविषयताया नूतनालोकः मात्राधिकरणकत्वादभावान्येत्येव वक्तुं शक्यम् , तथाप्यभावान्यभेदस्यानन्ताभावाधिकरणकस्याधिकरणात्मकत्वे गौरवादतिरिक्तत्वमेवेत्यभिप्रायेणेत्थमभिहितम् । तत्प्रतियोगिनीति । घटत्वेन वह्नयभाववान् पर्वत इति ज्ञानस्यापि बाधनिश्चयाभावान्यत्वाद् बाधनिश्चयाभावावृत्तित्वाच्चेति भावः । अनुयोगिताविशेषेति । अभावीयानुयोगितेत्यर्थः। विवक्षणादिति । प्रतिबन्धकत्वपदेनेत्यादिः । अनावश्यकत्वादिति । अतिरिक्तत्वपक्षे कार्यतायामेव व्यापकत्वस्य शक्यनिवेशनादिति भावः। आधेयत्वानतिरिक्ततयेति । तादृशाधेयत्वस्यापि स्वरूपसम्बन्धविशेषात्मकत्वादिति भावः । तस्याः कारणतायाः। अन्यत्रेति शेषः । तथात्वेन कारणतात्वेन । व्यापकतासम्बन्धेनेति । द्वित्वाद्यवच्छिन्नबाधनिश्चयाभावनिष्ठा या प्रतियोगिता, तदादाना आलोकप्रकाशः मूले-विषयतारूपत्वविवक्षयेति। उपलक्षणमेतत् , प्रतियोगितादिरूपत्वविवक्षाया अपि सम्भवात् । बाधनिश्चयाभावत्वाद्यवछिन्नविषयताया एवेति । एवकारेण बाधनिश्चयाभावान्यभेदत्वाद्यवच्छिन्नविषयताया व्यवच्छेदः । कार्याधिकरणे आत्मनि बाधनिश्चयाभावान्यभेदो नास्तीति प्रतीतेः सत्त्वेन तस्या निरुक्तप्रतियोगिताविशिष्टत्वात् । व्याख्यायाम् -तदादानादिति । पूर्वक्षणा For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतन लोकटीका तत्प्रकाशटिप्पण्योपबृंहिता एव तथात्वेनानुयोगिता विशेषसम्बन्धावच्छिन्नतदवच्छेदकत्वस्य बाधनिश्चयादन्यत्रासत्त्वान्नासम्भवावकाशः । प्रतियोगिता वैशिष्ट्यं च स्वसमानेत्यादि व्यापकतासम्बन्धेन, अधिकरणता अवच्छेदकता चावच्छेदकता सम्बन्धेनेति । अथवा कारणतावच्छेदकसम्बन्धेन स्वावच्छेदकावच्छिन्नाधिकरणे उत्तरक्षणावच्छेदेन विद्यमानाभावीय कार्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताविशिष्टान्यविषयता रूपकार्यतासम्बन्धेन साध्यवत्ताज्ञानत्वव्यापिका या अभावप्रकारता, तद्विशिष्टान्यस्वस्य प्रमा सामान्ये विवक्षणान्न कोऽपि दोषः । प्रतियोगितावैशिष्ट्यं पूर्ववत् । प्रकारतावैशिष्ट्यमनुयोगिता विशेष सम्बन्धावच्छिन्नावच्छेदकतासम्बन्धेनेति । इयमेव रीति वाभास सामान्यलक्षणादावनुसर्तव्येति दिक् । अथात्र स्वरूपसम्बन्धरूपं साध्यवत्ताज्ञानत्वावच्छिन्नत्वमेव प्रतिवध्यतायां विवक्षितुमुचितम् । न तु व्यापकत्वरूपम्, तथा सत्यसम्भवापत्तेः । कृतिसाध्येष्ठनूतनालोकः तादृशविषयत्वाप्रसिद्धेः सामानाधिकरण्यसम्बन्धपरित्यागः । एतत्पक्षे व्यापकतावच्छेदकसम्बन्धात्मक निरूपकत्वस्य वक्ष्यमाणकार्यताविलक्षणस्य वक्तुमशक्यतया तस्या अपि प्रवेशनीयत्वे गौरवादाह - अथवेति । अभावप्रकारतेति । अभावेति प्रकारताविशेषपरिचायकम् । न च विषयताया अपि स्वरूपसम्बन्धरूपतया प्रतियोगिता विशिष्टान्यविषयत्वाप्रसिद्धिः, बाघनिश्चयाभावत्वाद्यवच्छिन्नविषयताया बाघ निश्चयाभावघटोभयत्वाद्यवच्छिन्नविषयत्वानतिरिक्तत्वादिति वाच्यम्, विषयतायाः पदार्थान्तरत्वादित्यभिप्रेत्य द्विमित्युक्तम् । वस्तुतस्तु विषयतायाः पदार्थान्तरत्वे तुल्ययुक्त्या कार्यताया अपि तथात्वमौचित्यावर्जनीयमित्यन्यतर पक्षपातोऽनुचित एवेति ध्येयम् । विषयत्वादीनामतिरित्वे युक्तिरन्यतोऽवगन्तुं शक्यत इति नेह वितन्यते । कृतिसाध्येति । कृतिसाध्यज्ञानविधया इष्टसाधनताज्ञानविषया च हेतुत्वसम्पादनार्थं पाके विशेषणद्वयोपादानम्, प्रतिवध्यतायां विषयित्वावच्छिन्नत्वस्यापि निवेशे त्वाह – गौरवाच्चेति । अनाहार्यत्वादेर्निवेशनीयत्वादिति भावः । - For Private And Personal Use Only १४३ आलोकप्रकाशः वच्छेदेन विद्यमानाभावप्रतियोगितात्वेन तस्या अपि ग्रहणसम्भवादित्यर्थः । वक्तुमशक्यतयेति । निरूपकत्वस्य प्रतियोगितारूपस्य बाघनिश्चयाभावविषयक साध्यवत्ताज्ञानासाधारण्यादिति भावः । अभिप्रेत्येत्यनेन सूचितमस्वरसमाविष्करोति - वस्तुतस्त्विति । Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका साधनपाककालीनघटत्वेन वह्नयभाववान् पर्वत इत्यादि प्रमाया अपिसामान्यान्तर्गततया तस्याश्च फलेच्छासहितकृतिसाध्यताशानसहितसिद्धत्वज्ञानाभावसहितपाकर्मिकेष्टसाधनत्वज्ञानादिरूपेच्छासामग्रीविधया ज्ञानसामान्यं प्रति प्रतिबन्धकत्वागौरवाच । न च स्वरूपसम्बन्धरूपावच्छिन्नत्वनिवेशेऽप्यसम्भवः, घटत्वविशिष्टवह्निमानिति ज्ञाननिष्टा या घटत्वेन वह्नयभाववानिति प्रमानिरूपितप्रतिवध्यता, तस्या अपि वह्नित्वघटत्वोभयावच्छिन्नप्रकारताशालिबुद्धित्वावच्छिन्नतया साध्यवत्ताबुद्धित्वावच्छिन्नत्वानपायादिति वाच्यम् ; साध्यतावच्छेदकपर्याप्तावच्छेदकताकप्रकारताशालिवुद्धित्वावच्छिन्नत्वस्यैवात्र विवक्षणेन तादृशप्रतिवध्यताव्यावृत्तेः। __ न चैवमप्यसम्भवः, वह्निमत्पर्वतकालीनघटत्वेन वह्नयभाववान् पर्वत इति प्रमाप्रतिवध्यतावच्छेदककोटौ शुद्धवद्वित्वावच्छिन्नप्रकारताया अपि प्रवेशेन तादृशप्रतिवध्यत्वाव्यावृत्तेरिति वाच्यम् ; स्वीयमुख्यविशेष्यतावच्छेदकावच्छिन्नमुख्यविशेष्यतानिरूपितत्वेनापि प्रकारताया विशेषणात्तद्वयावृत्तः । नूतनालोकः वह्निमत्पर्वतकालीनेति । स्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वनिवेशेनापि प्रतीकारो मा भूदिति वह्निकालीनत्वोपेक्षा । स्वीयेति । वह्निमद् भूतलमिति ज्ञाननिष्ठाया वह्नयभाववद्भूतलसमानकालीनघटत्वेन वह्नयभाववान् पर्वत इति प्रमाप्रतिवध्यताया मुख्यविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारत्वावच्छिन्नतया तद्वयावृत्त्यर्थं मुख्यविशेष्यतायां स्वीयत्वोपादानम् । आलोकप्रकाशः मूले-प्रतिबन्धकत्वादिति । न च सामग्र्या एकविशिष्टापरत्वेनैव प्रतिबन्धकतया ज्ञानवैशिष्टयानवच्छिन्नत्वविरहादेव तद्वयावृत्तिरिति वाच्यम् ; फलोपधायकत्वेनैव प्रतिबन्धकत्वस्य कल्पनीयतया तदव्यावृत्तेः। फलोपधायकत्वं च प्रकृते इच्छारूपं यत् फलम् , तदव्यवहितपूर्ववृत्तित्वे सति तत्सामानाधिकरण्यम् । अन्यथा विशेष्टविशेषणभावे विनिगमनाविरहात् प्रतिबन्धकताबाहुल्यप्रसङ्गात् । वक्ष्यमाणस्वरूपस्य ज्ञानवैशिष्टयानवच्छिन्नत्वस्यात्राक्षश्च । व्याख्यायाम् --विशेषणहयोपादानमिति । वस्तुतस्तु तदुपादानं वैकल्पिकमेव, एकतरोपादानेनैव प्रतिबन्धकत्वनिर्वाहादिति बोध्यम् । For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १४५ न चैवमपि भिन्नविषयकशाब्दसामग्र्याः प्रत्यक्षसामग्र्यपेक्षया प्राबल्याद्योग्यताज्ञानविधया तखटकीभूतायां व्यधिकरणधर्मावच्छिन्नवह्नयभावप्रमायां साध्यतावच्छेदकावच्छिन्नप्रकारत्वावच्छिन्नप्रत्यक्षनिष्ठप्रतिवध्यतानिरूपकत्वस्यैव सत्त्वादव्याप्तिरिति वाच्यम् ; प्रत्यक्षमात्रनिष्ठायास्तादृशप्रतिवध्यताया निरुक्तप्रकारत्वावच्छिन्नत्वेऽपि ज्ञानत्वावच्छिन्नत्वाभावात्तद्वथावृत्तः । न चैवमपि भिन्नविषयकानुमितिसामग्र्याः शाब्दप्रत्यक्षसाधारणज्ञानत्वघटितधर्मावच्छिन्नं प्रत्येव प्रतिबन्धकत्वात् प्रमेयत्वानुमितिसामग्र्यन्तर्गतां प्रमेयत्वव्याप्यव्यधिकरणधर्मावच्छिन्नवह्नयभाववान् पर्वत इत्यादिप्रमामादायासम्भवो दुर्वार एवेति वाच्यम् ; उत्तेजकाननुगमेन पृथगेव प्रतिवध्यत्वस्य वक्तव्यतया उक्तप्रमायाः साध्यवत्ताज्ञानत्वावच्छिन्नाप्रतिबन्धकत्वात् । इत्थं च प्रतिवध्यतायां स्वरूपसम्बन्धरूपावच्छेद्यत्वनिवेशनमेवोचितमिति चेन्न; असम्भवापत्तेः। संशयोत्पत्तिक्षणे निश्चयवारणाय तं प्रति संशयसामग्याः प्रतिबन्धकत्वात् , साध्याभावप्रमाया धर्मिशानादिविधया तादृशसामग्यन्तर्गतत्वाञ्च । नूतनालोकः व्यधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया अनायासेन सामग्रीघटकत्वसम्पादनाय-शाब्देति । प्राबल्यादिति । तदपेक्षया प्राबल्यं च तत्प्रयोज्यकार्यानधिकरणीभूततदुत्तरक्षणवृत्तिस्वप्रयोज्यकार्यकत्वम् । तथा च भिन्नविषयकशाब्दसामग्र्याः प्रत्यक्षप्रतिबन्धकत्वमर्थात् सिद्धयति । ___अत्राट निष्कर्षः-तद्धर्मावच्छिन्नविशेष्यतानिरूपिततद्धर्मसम्बन्धावच्छिन्नप्रकारताशालिप्रत्यक्षं प्रति तद्धर्मसम्बन्धोभयानवच्छिन्नप्रकारतानिरूपिता या मुख्यविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारता तन्निरूपकत्व-तद्धर्मान्यधर्मावच्छिन्नमुख्यविशेष्यतानिरूपकत्वैतदन्यतरवच्छाब्दसामग्री प्रतिबन्धिकेति । पर्वतो घटवान् महानसं वह्निमदिति शाब्दबोधयोः पर्वतो वह्निमानिति प्रत्यक्षाद्भिन्नविषयकत्वनिर्वाहायान्यतरवत्त्वनिवेशः । अन्यत् स्वयमूह्यम् । ____ ज्ञानत्वघटितधर्मावच्छिन्नमिति । अनुमितिभिन्नसाध्यवत्ताज्ञानत्वावच्छिन्नमित्यर्थः । उत्तेजकाननुगमेनेति । एकत्र प्रत्यक्षं जायतामितीच्छाया अन्यत्र शाब्दं जायतामितीच्छाया उत्तेजकत्वादिते भावः। पृथगेवेति । शाब्दत्वप्रत्यक्षत्वरूपविभिन्नधर्मेणैवेत्यर्थः । धर्मिज्ञानादीत्यादिपदेन विशेषणज्ञानपरिग्रहः । For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ 'न च' रत्नमालिका न च प्रतिवध्यतायाः स्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारतासामान्यावच्छिन्नत्वविवक्षणानोक्तप्रतिव यतामादायासम्भवः, संशयीयतादृशप्रकारतायास्तदनवच्छेदकत्वादिति वाच्यम् ; एवं सति तादृशविषयतासामान्यान्तर्गताया लौकिकविषयताया बाधादिनिश्चयप्रति . नूतनालोकः तादृशप्रकारतायास्तदनवच्छेदकत्यादिति । निश्चयत्वस्य प्रतिवध्यतावच्छेदकघटकत्वादिति भावः । लौकिकविषयताया बाधनिश्चयप्रतिवध्यतानवच्छेदकतयेति । प्रतिवध्यतावच्छेदकघटकलौकिकसन्निकर्षाजन्यत्वस्य प्रकारतायां लौकिकविषयताभिन्नत्वपर्यवसायित्वादिति भावः । न च लौकिकतदभाववत्तानिश्चयकाले लौकिकतद्वत्ताबुद्धिवारणाय लाघवाल्लौकिकत्वं प्रतिवध्यतावच्छेदककोटावनिवेश्य तद्वत्ताबुद्धिसामान्यं प्रति तादृशनिश्चयत्वेन प्रतिबन्धकत्वान्तरस्य कल्पनीयतया न तादृशप्रतिवध्यत्वाप्रसिद्धिरिति वाच्यम् ; अतीन्द्रियसाध्यके लौकिकतदभाववत्तानिश्चयस्यैवासम्भवेन तादृशप्रति आलोकप्रकाशः निश्चयत्वस्य प्रतिवध्यतावच्छेदकघटकस्वादिति । न च संशयनिश्चयांवेषयतया रैवयानिश्चयत्वस्य प्रतिवध्यतावच्छेदकघटकत्वेऽपि तादृशप्रकारतासामान्यावच्छिन्नत्वं निरुक्तसामग्री प्रतिवध्यतायां सम्भवत्येवेति वाच्यम् ; निश्चयीयतादृशप्रकारतायाः संशयसाधारण्यं दुर्घटमिति तद्विषयतयोरैक्यासम्भवात् । तथाहि-समुच्चयवैलक्षण्याय संशये एका विशेष्यता स्वीक्रियत इत्येकः पक्षः । कोटिविषयतयोरवच्छेद्यावच्छेदकभाव इत्यपरः पक्षः। कोटिताख्यविलक्षणविषयतेत्यन्यः पक्षः। कोट्योर्विरोधमानमितीतरः पक्षः। एतत्तत्त्वमुपरिष्टाद्वयक्तीभविष्यति । तत्राचरमे पक्षे संशयीयविषयताया विलक्षणत्वेन निश्चयसाधारण्यमप्रसक्तमेव । चरमपक्षे ताया वह्नयभावविरुद्धवह्निमानित्यादिविरोधावगाहिनिश्चयसाधारण्यसम्भवेऽपि साध्यतावच्छेदकपयांशावच्छेदकताकप्रकारताया एव प्रकृते विवक्षितत्वाद्विरोधानवगाहिनिश्चयमात्रस्थया तया तदवगाहिसंशयीयविषयताया ऐक्यं नैव सम्भवतीति । लौकिकविषयताभिन्नत्वपर्यवसायित्वादिति । अन्यथा धााशे लौकिक-यासंग्रहापत्तेरिति भावः। तद्वत्ताबुद्धिसामान्यं प्रतीति । न चोक्तप्रतिवध्यप्रतिबन्धकभावावच्छेदककोटौ दिनकरोक्तरीत्या तत्तदिन्द्रियजन्यत्वनिवेशनस्यावश्यकतया कथं तद्वत्ताबुद्धिसामान्यस्य लौकिकतदभाववत्तानिश्चयप्रतिवध्यत्वम् , चाक्षुषादेरेव तथात्वादिति वाच्यम ; चक्षुरादीन्द्रियभेदेनेव विषयभेदेना युक्तप्रतिवध्यप्रतिबन्धकभावस्य भिन्नतया प्रमायभावलौकिक चाक्षुपादिप्रतिवध्यतावच्छेदककोटौ चाक्षुषत्वादिनिवेशे प्रयोजनाभावेन तन्निष्ठप्रकारताकबुद्धित्व For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तरप्रकाशटिप्पण्योपबृंहिता वध्यतानवच्छेदकत्वात्तादृशप्रतिवध्यत्वाप्रसिद्ध या अव्याप्त्यापत्तेः । सामान्यपदस्य व्यापकत्वार्थपर्यवसायितया लाघवानवकाशाच। एवं च साध्यवत्तानुमितित्वव्यापकत्वमेव विवक्षितुमुचितमिति ।। न चैवं सति इच्छासामग्री विधया पूर्वोक्तज्ञानसामान्यप्रतिबन्धकतामादायासम्भव इति वाच्यम् : फलेच्छासाहित्येनैवेष्टसाधनत्वादिज्ञानस्य प्रतिबन्धकतया इच्छायाः पूर्व परतो वा तदुत्पादे पूर्वक्षणे उत्तरक्षणे वा तादृशक्षाने प्रतिबन्धकत्वाभावाबाधात् । न चैवं सति धूमवान् वढेरित्यादावतिव्याप्तिः, अयोगोलकं धूमाभाववदिति प्रमाप्रतिवध्यताया अयोगोलकत्वनिष्टजातित्वाद्यवच्छिन्नावच्छेदकताकविशेष्यताकज्ञानसाधारणसाम्यवत्तानुमितित्वाव्यापकत्वादिति वाच्यम् ; स्वधर्मितावच्छेदकनिष्ठनिरवच्छिन्नावच्छेदकताकसाध्यवत्तानुमितित्वव्यापकत्वस्यैव प्रतिवध्यतायां विवक्षणेनोक्तप्रमाप्रतिवध्यताया अपि तथात्वेनातिव्याप्त्यनवकाशात् । मूतनालोकः वध्यत्वाप्रसिद्धेः । न च तत्र भिन्नविषयकानुमितिसामग्रीप्रतिवध्यता तादृशी प्रसिद्धैवेति वाच्यम् ; तादृशप्रतिवध्यतायाः प्रत्यक्षमात्रनिष्ठतया तादृशप्रकारतासामान्यान्तर्गतविधेयत्वानवच्छिन्नत्वात् । तादृशप्रकारतायां लौकिकविषयताभिन्नत्वविवक्षणे त्वाह-सामान्य पदस्येति । ज्ञानत्वव्यापकत्वनिवेशेऽनाहार्यत्वादेनिवेशनीयतया गौरवादाह-अनुमितित्वव्यापकत्वमेवेति । फलेच्छासाहित्येनेति । वस्तुतस्तु प्रतिवध्यतायां विषयित्वावच्छिन्नत्वविवक्षणादेव तद्वथावृत्तिर्बोध्या। निरवच्छिन्नावच्छेदकताकेत्यादि । न चैवमसम्भवः, प्रमेयस्वादिसखण्डधर्मितावच्छेदककसाध्याभावप्रमाया अपि सामान्यान्तर्गततया स्वीय आलोकप्रकाशः स्यैव निवेशनीयता तज्ज्ञानसामान्यस्य तथात्वोपपत्तः। अतीन्द्रियसाध्यक इति । योग्यायोग्यवृत्तिसाध्यतावको दकक इत्यर्थः । रूपादिसाध्यक इति यावत् । तेन गुरुत्वादिसाध्यकस्थले साध्यतावच्छेदकावच्छिन्नलौकिकविषयताया अप्रसिद्धया पूर्वोक्तप्रकारतासामान्यावच्छिन्नप्रति वध्यत्वप्रसिद्धावपि न क्षतिः। असम्भवेनेति । रूपसामान्याभावस्यातीन्द्रियानुद्भूतरूपप्रति योगिकत्वेन प्ररक्षायोग्यचादिति भावः । मूले- उत्तरक्षण इति । इच्छोत्पत्तितृतीयक्षण इत्यर्थः । व्याख्यायाम-विवक्षणेनेति । न चैवं सावच्छिन्न वच्छेदकताकविशेष्यताकप्रमायाः कुत्रापि लक्षणघटकत्वं न स्यादिति शङ्कयम; For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ 'न च' रस्नमालिका न चैवं सति महानसीयवह्वयादिसाध्यकव्यभिचारिण्यतिव्याप्तिः, तत्र महानसीयवान् वह्निमान् , वह्निमहानसीयवानित्यादिज्ञानसाधारणसाव्यवत्तानुमितित्वव्यापकत्वस्य कामिनीजिज्ञासादिप्रतिवध्यतायामेव सत्त्वादिति वाच्यम् ; साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकप्रकारताकत्वविवक्षणादुक्तशानव्यावृत्तेर तिव्याप्त्यनवका नूतनालोकः धर्मितावच्छेदकनिष्ठनिरवच्छिन्नावच्छेदकत्वाप्रसिद्धेरिति वाच्यम् ; किश्चिद्धर्मनिष्ठनिरवच्छिन्नावच्छेदकताकविशेष्यताकप्रमाया एव विवक्षणेनादोषात् ।। साध्यतावच्छेदकताव्यापकावच्छेदकताकप्रकारताकत्वविवक्षणे वाहवह्निमहानसीयवानिति । अस्मिन् ज्ञाने महानसीयत्वं वह्नित्वापेक्षया धर्मितावच्छेदकं बोध्यम् । प्रकारताकत्वविवक्षणादिति । न च जातित्वादिना अयोगोलकत्वाद्यवगाहिज्ञानव्यावृत्त्यर्थं स्वसमानधर्मितावच्छेदककत्वं स्वनिरूपितधर्मितावच्छेदकतापर्याप्यनुयोगितावच्छेदकावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकविशेष्यताकत्वरूपमेव विवक्ष्यताम् । तथा च महानसीयवह्निमद्भिन्नं महानसीयवह्नयभाववदित्यादि प्रमाया अपि सामान्यान्तर्गततया तत्समानधर्मितावच्छेदककसाध्यवत्तानुमित्यप्रसिद्धयैव महानसीयवह्नयादिसाध्यकस्थलेऽतिव्याप्तिवारणसम्भवे विफलमेवोक्तविवक्षणमिति वाच्यम् ; एवं सति कपिसंयोगाभाववन्मूलावच्छिन्नो वृक्षो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताककपिसंयोगाभाववानिति प्रमाया अपि सामान्यान्तर्गतत्वापत्त्या पर्याप्तिघटितनिरुक्तस्वसमानधर्मितावच्छेदककत्वस्य विवक्षितुमशक्यत्वेनोक्तविवक्षणस्यावश्यकत्वात् । एतेनोक्तस्थले समवायसम्बन्धेन महानसीयत्वं स्वरूपसम्बन्धेन वह्नित्वं चावगाहमानसाध्यवत्ताज्ञानस्याव्यावृत्त्यातिव्याप्तिः । न च येन येन सम्बन्येन यस्य यस्य साध्यतावच्छेदकता, तत्तत्सम्बन्धावच्छिन्नतत्तन्निष्ठावच्छेदकताकत्वय साध्यतावच्छेदकताकत्वपर्यवसितस्य साध्यप्रकारतायां विवक्षणाददोषः । अत्र व्याप्यता स्वरूपसम्बन्धावच्छिन्ना, व्यापकता तु स्वनिरूपितावच्छेदकताविशिष्टत्वसम्बन्धावच्छिन्ना । वैशिष्ट्यञ्च समानाधिकरण्य-स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेनेति वाच्यम्; एवमपि कालिकसमवायोभयसम्बन्धेन रूपत्ववतः समवायेन साध्यत्वे जलत्वादि आलोकप्रकाशः इष्टत्वात् । निरवच्छिन्नावच्छेदकताकविशेष्यताशालिप्रमामादायैव सर्वत्र लक्षणस्य सूपणादत्वादिति । For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका तत्प्रकाश टिप्पण्योपबृंहिता शात्, साध्यतावच्छेदकता पर्याप्त्यनुयोगितावच्छेदकस्य इति ज्ञानविषयत्वस्य महानसीयवान् वह्निमान् वह्निमहानसीयवानित्यादिज्ञानीय प्रकारतावच्छेदकतापर्याप्त्यनुयोगितानवच्छेदक वात् । अथैवं सति व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाव्याभावप्रमाया अ समानविषयकप्रत्यक्षसामग्रीविधया स्वसमानधर्मितावच्छेद ककसाध्यवत्तानुमिति सामान्यप्रतिबन्धकत्वादव्याप्तिः, दण्डो रक्तो न वेति संशयानन्तरं रक्तदण्डवानय मित्यादिविशिष्टवैशिष्ट्या वगाहिबोधानुदयेन तादृशबोधं प्रति विशेषणतावच्छेदक प्रकारकनिर्णयत्वेन हेतुत्वस्यावश्यकतया तस्या अपि वह्नयादिज्ञानविधया तादृश सामग्री घटकत्वात् । Acharya Shri Kailassagarsuri Gyanmandir आलोकप्रकाशः १४ नूतनालोकः " तावतिव्याप्तेः । एकैकसंसर्गेण रूपत्वावगाहिसाध्यवत्ताज्ञानसामान्यं प्रति साध्याभाव प्रमाया अप्रतिबन्धकत्वात् न चोक्तव्यापकतावच्छेदकसम्बन्धघटकावच्छेदकता वैशि grस्य सामानाधिकरण्य- स्वावच्छेदकसम्बन्धतावच्छेदकावच्छिन्नावच्छेदकताकत्वोभय रूपत्वविवक्ष गादेकैकसम्बन्धेन, रूपत्वावगाहिनिरुक्तज्ञानव्यावृत्तिरिति वाच्यम्; एव मपि कालिकसमवायोभयसम्बन्धेन रूपत्वविशिष्टवतस्तादात्म्येन साध्यत्वे उक्तहेता वतिव्याप्तेर परिहारात् । तत्र पूर्वोक्तरीत्या साध्याभावप्रमायाः साध्यवत्ताज्ञानप्रतिबन्ध कत्वादिति परास्तम् । पर्याप्त्यवच्छेदकधर्मविवक्षणेनैव पूर्वोक्ताप्रतिबध्यज्ञानव्यावृत्तेः वह्निर्महानसीयइति ज्ञानविषयत्वस्येति । प्रकारतासम्बन्धेन तादृशज्ञानस्येत्यर्थः । वह्निर्महानसी साध्यवत्ताबुद्धित्वावच्छिन्नत्वस्य निवेशेऽनुमितित्वाद्यवच्छिन्नोक्त प्रतिवध्यता मादाय दोषाप्रसक्तेराह - एवं सतीति । व्यापकत्वनिवेशे सतीत्यर्थः । निर्णयत्वेन हेतुत्वावश्यक तयेति । इदच हेतुत्वं दीधितिकारानुमतम् । न तु मणिकार मिश्राद्यनुमतम् । यथ रक्तत्वायंशे निर्धर्मितावच्छेदककतद्विशिष्टवैशिष्टद्य बोधे तत्प्रकारकज्ञानत्वेनैव हेतुता For Private And Personal Use Only साध्यतावच्छेकतावच्छेदकतावच्छेदकसम्बन्धप्रकारतावच्छेद अपरिहारादिति । न च कतावच्छेदकतावच्छेदकसम्बन्धयोरैक्यविवक्षणात् प्रतीकारः शङ्कयः, तथा सति निरवच्छिन्न साध्यतावच्छेदककस्थलेऽव्याप्त्यापत्तेरिति हृदयम् । अङ्गीकारादिति । तथा च दण्डो रक्तो न वेति संशयानन्तरं विशिष्टवैशिष्ट्या वगाहिबोध इ एव । यदि नेष्यते, तदा वक्ष्यमाणरीत्या संशयसामग्र्याः प्रतिबन्धकत्वादेव स वारणीय इति तदाशयः Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० 'नच' रस्नमालिका नूतनालोकः न तु संशयान्यत्वप्रवेशः, तथा तदंशे . सधर्मितावच्छेदककविशिष्टवैशिष्टयबोधेऽपि तत्तद्धर्मितावच्छेदकावच्छिन्नविशेष्यकतत्प्रकारकज्ञानत्वेनैव संशयसाधारणहेतुतायास्तैरङ्गीकारात्। ___ अथ किमिदं विशेषणतावच्छेदकप्रकारकधीजन्यतावच्छेदकं विशिष्टवैशिष्टयावगाहिबोधत्वम् ? न तावद्विशिष्टप्रतियोगिकवैशिष्टचावगाहिज्ञानत्वम् , व्यधिकरणसम्बन्धावगाहिविशिष्टभ्रमे व्यभिचारात् । नापि विशिष्ट प्रकारकबुद्धित्वम् , काश्चनमयवह्निमानित्यादिभ्रमप्रकारीभूतविशिष्टाप्रसिद्धचा तत्र काञ्चनमयो वह्रिरित्यादिज्ञानानपेक्षणीयतापत्तेः । नापि विशेषणान्तरप्रकारेण भासमानप्रकारकबुद्धित्वम् , रक्को दण्डः, दण्डवान् पुरुष इति समूहालम्बनस्थलेऽपि रक्तो दण्ड इति ज्ञानापेक्षाप्रसङ्गान् । नापि विशेषणान्तरप्रकारतानिरूपितविशेष्यत्वावच्छिन्नप्रकारताकबुद्धित्वम् , रक्तत्वादिप्रत्येक पदार्थोपस्थितिमूलके रक्तदण्डवानिति ज्ञाने व्यभिचारात् । तादृशाकारकबोधो रक्तो दण्ड इत्यादिविशिष्टज्ञानानन्तरमेव जायत इति तु न साम्प्रतम् , बाधग्रन्थे काश्चनमयत्वविशिष्टवरप्रसिद्धचैवोपनीतकाञ्चनमयत्वविशिष्टवह्निवैशिष्टयानुमितिः शुद्धवह्नित्वाद्यवच्छिन्नव्याप्यधूमादिमत्त्वज्ञानादिना पर्वते न सम्भवतीति कथं तद्विरोधितया व्यधिकरणकाञ्चनमयत्वावच्छिन्नवह्नयभावस्य दोषान्तरासङ्कीर्णबाधस्य हेत्वाभासतेत्याशङ्काया विशिष्टविशेषणज्ञानं विनापि विशेष्ये विशेषणं तत्रापि विशेषणान्तरमिति रीत्या तादृशानुमितिसम्भव इत्यभिधाय दीधितिकारैः समाहितत्वात् । विशिष्टव्याप्तिज्ञानं विनापि तद्बटकप्रत्येकपदार्थोपस्थितिभ्यो विशिष्टपरामर्शोत्पत्त्या अनुमितिरिनि मिश्रादिभिरभिधानात् । एकत्वविशिष्टकर्तुः पूर्वमज्ञानेऽपि क्षितिरेककर्तृकेत्यनुमितेरेभिरङ्गीकृतत्वाञ्च । अत्राहुः-विशेषणान्तररक्तत्वादिविशेष्यतापन्नदण्डादिप्रकारकं ज्ञानं द्विधा, रक्तत्वाद्यवच्छिन्नप्रतियोगिकत्वेन दण्डादिवैशिष्टयावगाहि, तद्रूपानवच्छिन्नतद्वैशिष्टयावगाहि च । तदवच्छिन्नप्रतियोगिकत्वञ्च दण्डादिप्रकारतानिरूपकसंसर्गतायामवच्छेदकतया भासते, तद्विशिष्टसंयोगादेरेव दण्डादिसंसर्गतया भानात् । दण्डादिविशेषणतापन्नरक्तत्वादेरेव वा स्वावच्छिन्नप्रतियोगिकसंयोगात्मकपरम्परासम्बन्धेन पुरुषादी प्रकारता, तादृशे विशिष्टवैशिष्टयबोधे एव विशेषणतावच्छेदकप्रकारकधीः कारणम् । न तु विशिष्टविशेषणावगाहिन्यपि रक्तत्वादिकं वैशिष्टयप्रतियोगिन्युपलक्षणतयाऽवगाहमाने द्वितीयबोधे । अत एव च प्रतियोगिविशेषिताभाव For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतना लोकटीका तथ्यकाशटिप्पण्योपबृंहिता नव रक्तो दण्डो न वेति संशयानन्तरं रक्तदण्डवानिति निश्चयस्यैवानुत्यादोऽनुभवसिद्धः स च विशेषणसन्देहस्यौचित्यावर्जनीयत्वादुपपद्यते । निश्चयोसंशयसमध्यभावस्यापेक्षितत्वात् । रक्तदण्डवान्न वेति विशिष्टसंशयस्य तूत्पाद एवेति निश्चयत्वेन हेतुतायां साधकविरहो बाधकसत्त्वं चेति वाच्यम् ; संशयस्य विशिष्टवैशिष्ट्यबोधजनकत्वे दण्डो रक्तो न वेत्यादिसंशयाद्रक्तत्वतदभावाद्युभय विशिष्टदण्डादिवैशिष्ट्यावगाहिबोधापत्तेः । न चेष्टापत्तिः, तादृशज्ञानtree दण्डादौ धर्मिणि विरुद्धोभयप्रकारकतया रक्तत्वादिनिश्चयत्वासम्भवात, विशेष्यान्तरविशेषणतापन्नधर्मिकसंशयस्य चानुभवविरुद्धतया तत्र संशयत्वोपगमासम्भवान्च, केवलं विशेष्ये विशेषणमिति रीत्या रक्तदण्डवानिति ज्ञानेऽप्युक्तसंशयः कार्यसहवृत्तितया प्रतिबन्धकः । न च विशेषणसन्देहाधीनविशिष्टसन्देहानुपपत्तिः, दण्डत्वादिसामानाधिकरण्येन रक्तत्वनिश्चयरूपकोटितावच्छेदनूतनालोकः १५१ बुद्वौ घटो नास्तीत्याकारिकायां प्रतियोगिनि प्रकारीभवतो घटत्वादेः प्रतियोगितावच्छेदकतयैव भानमिति तत्र घटत्वादिप्रकारकज्ञानापेक्षानियमः । दण्डो नास्ति रक्तो नास्तीत्यादिज्ञानदशायां नियमतो रक्तदण्डो नास्तीत्यादिज्ञानोत्पादविरह एवोक्तविशिष्टवैशिष्यो विशेष गतावच्छेदकप्रकारक विशेषणधीहेतुता कल्पक इति । अधिकमन्यत्रानुसन्धेयम् । बाधकसत्त्वं चेति । विशेषणसन्देहस्थले विशिष्टसन्देहोत्पत्त्या निश्चयत्वेन कारणतायां व्यभिचारादिति भावः । संशयस्येति । संशयसाधारणज्ञानत्वावच्छिन्नस्येत्यर्थः । नन्वेवं रक्ततदभावाद्युभयविशिष्टदण्डादिवैशिष्टया वगाहिबोधापत्तिवारणसम्भवेऽपि विशेष्ये विशेषणमिति रीत्या दण्डांशे रक्तत्वतदभावावगाहिबोधापत्तिदुर्वारैवेत्यत आहकेवलमिति । ज्ञानेऽपीति । अपिना रक्तत्वाभाववद्दण्डवानिति ज्ञानसमुच्चयः, न च तत्र आलोकप्रकाशः For Private And Personal Use Only मणिकारदीधितिकारोभयमतानुसारेणोक्तहेतुतास्वीकारे युक्तिमाह – दण्डो नास्तीत्यादि । रक्तत्वादिधर्मितावच्छेदकावच्छिन्न विशेष्यकरक्तत्वादिप्रकारकज्ञानत्वेन यद्वा कारणत्वे युक्तिमाह - दण्डो नास्तीत्यादि । विशिष्टवैशिष्ट्यानवगाहिनोऽपि रक्तदण्डवानिति ज्ञानस्य सम्भवाद् रक्तदण्डो नास्तीति प्रतीतिपर्यन्तानुधावनम् । अन्यन्त्रेति । विशिष्टवैशिष्ट्य - बोधविचारादावित्यर्थः । Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ 'न च' रत्नमालिका कावच्छिन्नप्रसिद्धिस्थल एव चैत्रीयो दण्डो रक्तो न वेति विशेषरूपावच्छेदेन रक्तत्वाभावावगाहिसंशयाद्रक्तदण्डवान्न वा चैत्र इति विशिष्टसंशयोदयात्तथाविधनिश्चयस्य तादृशसंशयाविरोधित्वात् । न च ज्ञानानुपरमेऽपि विशिष्टविषयोपधानेनेच्छाद्वेषयोः कृतेश्च साक्षात्का - नूतनालोकः संशयस्य प्रतिबन्धकत्वे विशिष्टवैशिष्टयबोधसाधारणधर्म एव तत्प्रतिवध्यतावच्छेदकोऽस्तु । तावतैव संशयानन्तरं : तद्विशिष्टचैशिष्टयबोधस्य वारणसम्भवे तत्र तत्प्रकारकज्ञानत्वेनैव हेतुत्वमुचितमिति वाच्यम् ; कतत्संशयद्वितीयक्षणे कथश्चित्तत्प्रकारकनिश्चये तद्वितीयक्षणे तद्विशिष्टवैशिष्टयधीनिर्वाहाय विशिष्टवैशिष्टयविषयताभिन्नविषयताया एव संशयप्रतिवध्यतावच्छेदकत्वं वाच्यमिति निश्चयत्वेन विशिष्टवैशिष्टयबोधाहेतुत्वे संशयोत्तरं विनापि निश्चयं विशिष्टवैशिष्टयधीप्रसङ्गात् । न च यत्र दण्डे रक्तत्वस्य संशयः, पुरुषे, च दण्डस्यानुमितिसामग्री, रक्तेतरदण्डस्य पुरुषे लौकिकबाधग्रहश्र तत्र संशयसत्त्वेऽपि केवलं विशेष्ये विशेषणमिति रीत्या रक्तदण्डवान् पुरुष इत्याद्यनुमित्युत्पत्तेः कथं तादृशबोधे संशयप्रतिबन्धकतेति वाच्यम् ; अलौकिकप्रत्यक्षं प्रत्येव तत्प्रतिबन्धकताया वक्तव्यत्वात् , लौकिकप्रत्यक्षसामथ्या विपरीतज्ञानविरोधितयैव च विशेषणधर्मिकलौकिकप्रत्यक्षात्मकसंशयस्य नापत्तिः। एवञ्च विशिष्टवैशिष्टयबोधव्यावर्तकविशेषणस्य संशयप्रतिवध्यतावच्छेदककोटावनिवेशेऽपि दण्डो रक्तो न वेति संशयबलादितरबाधाद्युपनीतरक्तत्वादिविशेषितदण्डाद्यनुमितौ रक्तत्वादि• विशिष्टवैशिष्टयावगाहिताप्रसङ्गस्य तादृशसन्देहानन्तरजातरक्तत्वादिविशेषितदण्डादिप्रकारकलौकिकप्रत्यक्षे तत्प्रसङ्गस्य च वारणाय तबुद्धौ विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन हेतुताकल्पनमावश्यकमेवेति । ज्ञानोपरमेऽपि । इच्छादिजनकविशिष्टज्ञाननाशेऽपि । विशिष्टविषयोपधानेनेति। रक्तत्वादिविशिष्टदण्डादिरूपविषयप्रकारेणेत्यर्थः । इच्छाद्वेषयोः साक्षात्कारा आलोकप्रकाशः ज्ञानत्वेनैव हेतुत्वमुचित मिति । तावतैव तादृशज्ञानविरहदशायां विशिष्टवैशिष्ट्यावगाहिबोधापत्तिवारणसम्भवादिति भावः । कथञ्चिदिति । लौकिकसन्निकर्षादिनेत्यर्थः । नन्वलौकिकत्वस्य प्रत्यक्षविशेषणत्वे लौकिकसन्निकर्ष बलाक्तत्वावगाहिनी विशेषणर्मिकसंशयस्यापत्तिः, तस्य संशयप्रतिवध्यस्वाभावादित्यत आह-लौकिकप्रत्यक्षेति । For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तरप्रकाशटिप्पण्योपबृंहिता राविशिष्टविषयकसंस्कारादेव विशिष्टवैशिष्टयस्मरणाञ्च विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन हेतुत्वे व्यभिचार इति वाच्यम् ; इच्छादिसाधारणतत्प्रकारकसंशया नूतनालोकः . दित्यन्वयः । रक्तदण्डमिच्छामि, रक्तदण्डं द्वेष्मीत्याकारकेच्छाद्वेषसाक्षात्कारेच्छात्वादिप्रकारकेच्छाद्वितीयक्षणोत्पन्नेच्छात्वादिनिर्विकल्पकादिच्छातृतीयक्षण एवोत्पत्स्यते, तत्पूर्वक्षण एव जनकज्ञानं नश्यतीति तत्र व्यभिचारः । यदि चेच्छात्वादिनिर्विकल्पकेऽपि विशिष्टविषयप्रकारेणेच्छादिकं भासते, तथा च तदेव निर्विकल्पकमिच्छाद्यंशे विशिष्टवैशिष्टयबोधात्मकरक्तत्वविशिष्टदण्डविषयिणीत्याद्याकारकभिच्छासाक्षात्कारपूर्व स्थास्यतीति न तत्र व्यभिचारः । अत एव नरसिंहाकारकं तन्निर्विकल्पकमिति सिद्धान्त इत्युच्यते, तदापि यत्र विशिष्टविषयकफलसाधनताज्ञानं प्रथमम् , तदुत्तरं च फलेच्छा, तदनन्तरं च विशिष्टोपायविषयिणीच्छा, तत्रेच्छात्वनिर्विकल्पकरूपे विशिष्टविषयकेच्छासाक्षात्कारे, एवं द्विष्टसाधनताज्ञानानन्तरजातफलद्वेषजन्योपायद्वेषविषयकसाक्षात्कारे च व्यभिचारो दुर्वार एव, द्विक्षणस्थायिनो ज्ञानस्य तत्पूर्वक्षण एव नाशादिति भावः । कृतिसाक्षात्काराव्यवहितपूर्व च ज्ञानस्य विनश्यदवस्थास्यापि सत्त्वं न सम्भावितमिति सूचयितुं कृतिसाक्षात्कारे व्यभिचारं दर्शयति-कृतेश्चेति । अत्रापि विशिष्टविषयोपधानेनेत्यनुषज्यते । तत्प्रकारकेति । विशेषणतावच्छेदकाप्रकारकेत्यर्थः। विशेषणज्ञानस्याप्युक्तरीत्यैव हेतुत्वमवसेयम् । न च ज्ञानत्वनिवेशेऽनुबुद्धसंस्काराद्विशिष्टवैशिष्टयावगाहिप्रत्यक्षापत्तिः, स्मृतावेवोद्वोधकस्य हेतुतया प्रत्यक्षे च तस्याकिञ्चित्करत्वादिति वाच्यम् ; अगत्योद्बोधकासमव आलोकप्रकाशः तत्र व्यभिचार इति । इच्छादिसाक्षात्कारे व्यभिचार इत्यर्थः । व्यभिचारो दुर्वार एवेति । तथाच कचिन्नरसिंहात्मकत्वकल्पनेन व्यभिचारवारणेऽपि सर्वत्र तत्प्रकल्पनाया असम्भवाद्वयभिचारोद्धारो दुर्घट एवेत्याशयः। न सम्भावितमिति । कृत्युत्पत्तिक्षण एव नाशादिति भावः । एतद्विशेषमभिप्रेत्यैव मूले कृतेश्चेति व्यासेन लिखनमिति द्रष्टव्यम् । ननु विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुतया तद्विना विषयविशिष्टकृत्यादिसाक्षात्कार एव न भवितुमर्हतीत्यगत्या तत्पूर्व विषयस्मरणमेव कल्पनीयम् । तथा च विशेषणतावच्छेदकप्रकारकज्ञानत्वावच्छिन्नस्यापि न तत्र व्यभिचार इत्यत आहविशेषणज्ञानस्यापीति । विशेषणज्ञाननाशेऽपि विशेषणविषयकाद्विशिष्टविषयकसंस्कारादेव विशिष्ट For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५४ 'नव' रत्नमालिका न्यत्वेनैव हेतुत्वापगमात् । वस्तुतस्तु अनुभवं प्रत्येव हेतुत्वस्य नियमतः कृति - साक्षात्कारपूर्वं विषयस्मृतेश्च कल्पनान्निश्चयत्वेन हेतुत्वेऽपि न क्षतिः । अनुभवत्वनूतनालोकः Acharya Shri Kailassagarsuri Gyanmandir धानविशिष्टसंस्कारत्वाभावस्यावच्छेदककोटौ प्रवेशेन तदापत्तेर्वारणीयत्वात् । विस्तरस्त्वनुमितिगादाधर्यामनुसन्धेयम् । उद्बोधकानामननुगततया तदभावसहस्रस्य निवेशनीयतया महागौरवाल्लघुरूपेण कारणतासिद्धौ तन्निर्वाहकस्मरणकल्पनागौरवस्य फलमुखत्वेनादोषत्वादाह-- वस्तुतस्त्विति । हेतुत्वस्येति । विशेषणतावच्छेदकप्रकारकधिय इत्यादिः । इच्छाद्वेषसाक्षात्कारे व्यभिचारस्योक्तरीत्या कथनिद्वारणसभवात् । कृतिसाक्षात्कारे तमुद्धरति - नियमत इति । यत्र यत्र कृतिसाक्षात्कारस्तत्र कृतिद्वितीयक्षणे विशिष्टविषय कस्मृतिं कल्पयित्वा तदनन्तरक्षण एव कृतिसाक्षात्कारोपगमादित्यर्थः । न च विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य हेतुतया विशिष्टस्मृतेः पूर्वं तत्कल्पनस्यावश्यकतया कृतेर्विनाशात् साक्षात्कारानुपपत्तिरिति वाच्यम्; अनुभवं प्रत्येव विशेषणज्ञानस्य हेतुत्वात् । न चैवमपि कृतित्वनिर्विकल्पकविषयस्मरणयोर्युगपदुत्पादासम्भवात् क्रमेण तदुभयोत्पत्तेरावश्यकतयोतानुपपत्तिर्दुर्वारैवेति वाच्यम्; विषयस्मरणस्यैव कृतित्वविषयकत्वोपगमेनोपपत्ती तन्निर्विकल्पकस्यानावश्यकत्वात् । अनादौ संसारे सर्वदैव कृतित्वविषयकसम्भवेन कृतिसाक्षात्कारजनकविषयस्मृतौ तद्भाने बाधकाभावात् । न चैवं सत्यन्यत्रापि निर्विकल्पकोच्छेदः, अपूर्वचैत्रत्वादेः प्राथमिकविशिष्टबुद्धिपूर्वं तत्स्मरणासम्भवेन तन्निर्विकल्पकस्यावश्यकत्वात् । यत्र पटादिचाक्षुषसामग्रीकाले विशेषणज्ञानेतर घटादिप्रत्यक्षसामग्री, तत्र द्वितीयक्षणे पटादिचाक्षुषोत्पत्त्या तदुत्तरं घटत्वादिविशिष्टधीनिर्वाहाय घटत्वादिनिर्विकल्पकस्यावश्यकत्वाच्च । नन्वनुभव चतुष्टयसाधारणी जातिरप्रमाणिकी, ज्ञानत्वेनैव स्मृतिसंस्कारहेतुतासम्भवात् । न च ज्ञानत्वेन हेतुत्वे स्मृतिजन्य नानासंस्कारव्यक्तिकल्पनापत्त्या गौरवमिति वाच्यम्; फलमुखत्वेन तस्यादोषत्वात् । न आलोकप्रकाशः विषयकस्मरणोत्पत्तेरिति भावः । संस्कारस्वाभावस्येति । कालान्तरे उद्बोधका समवहितसंस्काराद्विशिष्टवैशिष्ट्या वगा हिस्मरणनिर्वाहायात्र भेदोपेक्षा । उद्बोधकसमवहिते संस्कारे च विशेषणाभावाद्विशिष्टसंस्कारत्वाभावः सुलभः । उक्तरीस्थेति । यदि चेत्यादिना अनुपदोक्तप्रकारेणेत्यर्थः । कथञ्चित् नरसिंहाकारकत्वमुपगम्य प्रसिद्धस्थलेऽपि तदावश्यकतां दर्शयति-यत्रेति । पटादिचाक्षुषोत्परयेति । एतेन तत्क्षणे स्मृतिकल्पना न सम्भवतीति पटचाक्षुषस्यैव घटत्वशे निर्विकल्पक For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतन लोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता जात्यनङ्गीकारे तु विशिष्टवैशिष्टयावगाहिविजातीयज्ञानत्वमेव जन्यतावच्छेदकं बोध्यम् । नूतनालोकः चैवमप्युपेक्षात्मक स्मृतेः संस्कारोत्पादवारणाय तत्तत्स्मृतिव्यक्तिभिन्नत्वस्य हेतुतावच्छेदकशरीरेऽवश्यं निवेशनीयत्वाद्गौरवं दुर्वारमेवेति वाच्यम्; अनुभवत्वेन तत्त्वे पुनः पुनः स्मरणाद् दृढदृढतरादिसंस्कारोत्पादानुपपत्तेरगत्या ज्ञानत्वेनैव हेतुत्वस्याभ्युपेयत्वात् । न च स्मरणोत्तरं न विजातीयं संस्कारान्तरमुत्पद्यते; अपि तु पूर्वतनसंस्कारे दैववशसम्पन्नझटित्युद्बोधकसमवधानरूपं दार्व्यमेव, चरमस्मृतिव्यक्तेरेव नाशकत्वेनान्तरालिकस्मृत्या संस्काराविनाशात् । ज्ञानत्वेन हेतुतापक्षे समानप्रकारकत्वेन नाशकता सम्भवेऽपि तस्याः प्रतिबन्धकत्वकल्पनाया आवश्यकतया गौरवानवकाशादिति वाच्यम्; झटिति स्मृतेर्देवाधीनत्वमुपगम्य विजातीयसंस्कारोत्पादानभ्युपगमे शास्त्राभ्यासादेरनुप योगप्रसङ्गादित्यत आह- अनुभवत्वेति । विजातीयज्ञानत्वमिति । वैजात्यन आलोकप्रकाशः For Private And Personal Use Only १५५ " रूपत्वं वक्तव्यमिति सूचितम् । तत्तत्स्मृतिव्यक्तिभिन्नस्वस्येति । न चोपेक्षात्मकत्वरूपजातिविशेषावच्छिन्नभिन्नत्वनिवेशस्यानुभवत्वेन हेतुत्वपक्षेऽप्यावश्यकतया तत एवोक्त्तापत्तिवारणे तत्तत्स्मृतिव्यक्तिभिन्नत्वं नोपादेयमिति वाच्यम्; चाक्षुषत्वादिना साङ्कर्येणोपेक्षात्वस्य जातित्वासम्भवात् फला नुपधायकव्यक्तिभिन्नत्वनिवेशस्यैवावश्यकत्वादिति भावः । अनुपपत्तेरिति । अनुभवजन्यसंस्कारापेक्षया स्मरणादूदृढः, तदुत्तरक्षणस्मरणादितश्च दृढतरदृढतमाः संस्कारा जायन्त इत्यवश्यमेव स्वीकार्यम् । दाढ चोत्कर्षरूपो जातिभेदो झटिति स्मृत्युत्पादक प्रयोजकः । तथा चानुभवत्वेन हेतुत्वे तदनुपपत्तिः स्यादिति भावः । श्रभ्युपेयत्वादिति । तथा च गौरवं सह्यमेवेति भावः । न चैवं सति संस्कारस्य स्मृतिजन्यत्वावश्यकतया सिद्धान्तविरोधः शङ्कयः, तात्पर्यटीकायां प्रमाणप्रमेयेत्यादिप्रथम सूत्रेऽवयवविवेचन प्रस्तावे " स्मृतीनां स्वकार्यसंस्कारविरोधिनीनामसहभावात्" इति मिश्रोक्तेः । विस्तरस्त्वनुमितिगादाधर्या द्रष्टव्यः । ननु स्मरणानन्तरं स्मरणं न स्यात्, पूर्वस्मरणेन नष्टत्वादनुभवाभावेन संस्कारान्तरानुत्पादाच्चेत्यत आह- चरमस्मृतिव्यक्ते रेवेति । ननु तत्तद्वयक्तित्वेन नाशं प्रति हेतुत्वे गौरवमित्यत आह - शानस्वेन हेतुतापक्ष इति । तस्याः चरमस्मृतिव्यक्तः । प्रतिबन्धकत्वकल्पनाया इति । स्मृतिसंस्कारौ प्रतीत्यादिः । श्रावश्यकतयेति । अन्यथा चरम - स्मृत्यनन्तरमपि स्मरणापत्तेरिति भावः । प्रत्यक्षानुमितिमात्रवृत्तीति । इतरबाधाद्युपनीतरक्तत्वादि Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५६ 'न च' रत्नमालिका न च व्यधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया उक्तरीत्या प्रत्यक्षसामग्रीघटकत्वेऽपि तादृशसामय्या इन्द्रियसन्निकर्षसहित विशेष्यतावच्छेदकप्रकारकनिर्णयविशिष्टविशेषणतावच्छेदक निर्णयत्वादिनैव प्रतिबन्धकतया ज्ञानवैशिष्टयानवच्छिन्नत्वाविशेषणेनैव तद्वयावृत्तिरिति वाच्यम् ; एवमपि विनिगमनाविरहेण विशेष्यतावच्छेदकप्रकारकज्ञानविशिष्टेन्द्रियसन्निकर्षसहित विशेषणतावच्छेदकप्रकारकनिश्चयत्वेनापि प्रतिबन्धकत्वस्यावश्यकतया तदव्यावृत्तेः । न च सामग्र्या नैकविशिष्टापरत्वेन प्रतिबन्धकत्वं युक्तं गौरवात्, विशेषणविशेष्यभावे विनिगमकाभावेन प्रतिबन्धकताबाहुल्याच्च । नापि तत्तत्कारणसमुदायत्वेन, समुदायत्वस्य तत्तद्विषयकज्ञानविशेषविषयतारूपतया गौरवात्, तत्तद्विषकत्वानां विशेषणविशेष्यभावे विनिगमनाविरहाच्च । किन्तु फलविशिष्टत्वेन, वैशियं च स्वावयवहितपूर्ववृत्तित्वसम्बन्धेन । इत्थमेव च धातोः खण्डशतिपक्षे भिन्नविषयकानुमितिप्रतिबन्धकतावच्छेदकशरीरे उपस्थितिद्वयप्रवेशप्रयुक्तं गौरवमधुना नूतनालोकः विशेषणतावच्छेदकप्रकारकनिर्णय जन्यतावच्छेदकः Acharya Shri Kailassagarsuri Gyanmandir प्रत्यक्षानुमितिमात्रवृत्तिर्जाति विशेषः । एतत्पक्षे विशेषणज्ञानजन्यतावच्छेदकं तु विशिष्टप्रत्यक्षत्वमेवेति बाध्यम् । विनिगमनाविरहेणेति । न चेन्द्रियसन्निकर्षस्य मध्यनिवेशे स्वाश्रयेन्द्रियसंयुक्तमनःप्रतियोगिकविजातीयसंयोगादेर्द्विधा प्रवेशनीयतया गौरवान्न विनिगमनाविरहावकाश इति वाच्यम्; बहिरिन्द्रियजन्यप्रत्यक्षस्थले उक्तसम्बन्धस्यैव प्रवेशनीयत्वेऽपि मानसस्थले समवायस्यैव तथात्वेन विनिगमनाविरहसम्भवात् । तत्तत्कारणसमुदायत्वेनेति । तत्तत्कारणतावच्छेदकावच्छिन्नसमुदायत्वेनेत्यर्थः । तेनातीतानागतादिकारणव्यक्तिघटितसमुदायस्य क्वचिदप्यसत्त्वेऽपि न क्षतिः । स्वाव्यवहितपूर्ववृत्तित्वसम्बन्धेनेति । तच स्वप्रागभावाधिकरणक्षणप्रागभाव धिकरणत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकता कप्रतियोगिताकभेदवत्त्व - स्वप्रागभाववत्त्वोभय - आलोकप्रकाशः विशेषितदण्डाद्यनुमितौ लौकिकप्रत्यक्षे च विशिष्टवैशिष्ट्यावगाहिताप्रसङ्गस्य तावतैव वारणसम्भवाः दिति भावः। विशिष्टप्रत्यक्षत्वमेवेति । अनुमित्यादिसाधारणधर्मस्य तत्त्वे प्रमाणाभावादिति भावः । द्विधेति । सामानाधिकरण्यरूपस्य विशेष्यतावच्छेदकप्रकारकज्ञान वैशिष्ट्य स्येन्द्रियसन्निकर्ष साहित्यस्य च घटकतयेत्यर्थः । For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १५७ तनैः परिहृतम् । तथा च ज्ञानवैशिष्टयावच्छिन्नमेव तादृशं प्रतिबन्धकत्वमिति वाच्यम् ; विषयतानिष्ठस्वनिरूपकनिश्चयवैशिष्टयावच्छिन्नावच्छेदकताकान्यत्व एव तद्विशेषणपर्यवसानस्य पूर्वमुक्ततया ततस्तदव्यावृत्तेः। न चोक्तप्रतिबन्धकताव्यावृत्तये ज्ञानवैशिष्टयानवच्छिन्नत्वविशेषणं पृथगुपादीयत इति वाच्यम् ; फलविशिष्टत्वेन प्रतिबन्धकत्वे यत्रानुमितिसामग्रीकाले स्वसामग्रीवशात् समानविषयकप्रत्यक्षं जातम् । तत्रानुमितिसामग्र्या अपि प्रत्यक्षविशिष्टतया अनुमिति प्रति प्रतिबन्धकत्वव्यवहारापत्तिरित्येकविशिष्टापरत्वेनैव तत्कल्पनस्यावश्यकतया तद्विशेषणस्याकिञ्चित्करत्वात्।। नच यत्र प्रत्यक्षपूर्वकालीनानुमितिसामग्र्यामनुमितिसामग्रीत्वादिना अनुमिति प्रतिबन्धकत्वव्यवहारस्तत्र तादृशसामग्रीत्वावच्छिन्न प्रतिबन्धकत्वविषयकत्वान्नापादयितुं शक्यः । प्रत्यक्षविशिष्टत्वेन तादृशव्यवहारस्त्विष्यत एव । अन्यथा एकविशिष्टापरत्वेन प्रतिबन्धकत्वस्वीकारेऽपि पर्वतो वह्निमानित्यनुमितिजनकपरामर्शस्य नूतनालोकः सम्बन्धेन स्वविशिष्टक्षणवृत्तित्वरूपम् । अतः प्रागभावाधिकरणक्षणप्रागभावानधिकरणक्षणाप्रसिद्धावपि न क्षतिः । उपस्थितिद्वयेति । उपस्थितिरत्र फलव्यापारयोर्बोध्या । ज्ञानवैशिष्टयानवच्छिन्नत्वेति । यद्यप्युक्तविशेषणोपादाने बाधज्ञानविशिष्टत्वेन प्रतिबन्धकत्वपक्षे साध्यवत्ताबुद्धित्वावच्छिन्ननिरूपिततादृशप्रतिबन्धकत्वाप्रसिद्धिः, तथापि तत्पक्षे निरुक्तस्वविशिष्टक्षणवृत्तित्वसम्बन्धावच्छिन्नज्ञाननिष्ठावच्छेदकताकान्यत्वरूपस्यैव तस्य विवक्षणान्नाप्रसिद्धिः, तत्पक्षे समवायघटितसामानाधिकरण्यस्यैव वैशिष्ट्यरूपत्वादित्यभिप्रायः । अत एव तद्विशेषणस्याकिश्चित्करत्वादित्यनुपदोक्तिरपि सङ्गच्छते । अनुमितिसामग्या अपीति । यद्यपि प्रत्यक्षप्राक्कालीनोदासीनेष्वप्युक्तरीत्या प्रतिबन्धकत्वव्यवहारापत्तिः सम्भवति, तथाप्युत्पादक एव प्रतिबन्धकत्वव्यवहारापत्तिरित्यन्तानिष्टतासूचनाय, वैशिष्ट्यमध्ये जनकत्वनिवेशेऽप्यतिप्रसङ्गतादवस्थ्यावेदनाय वा सामग्रीपर्यन्तानुधावनम् । आलोकप्रकाशः मूले-पृथगिति । पूर्वोक्तस्वरूपादतिरिक्तमित्यर्थः । यथाश्रुतमपीति यावत् । व्याख्यायाम्-अतिप्रसङ्गतादवस्थ्येति । परामर्शादिरूपानुमितिसामग्या अपि विशेषणशानादिविधया कथञ्चित् प्रत्यक्षजनकत्वसम्भवादिति भावः । For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ 'न च' रत्नमालिका विशेषणतावच्छेदकप्रकारकनिर्णयविधया पर्वतो वह्निमानिति प्रत्यक्षसामग्रीघटकत्वादुक्तापत्तेरवारणादित्युक्तरूपेण प्रतिबन्धकत्वं सम्भवत्येवेति वाच्यम् ; तथा सति समानविषयकप्रत्यक्षसामग्रीदशायामनुमित्यापत्तेरवारणात् । पूर्वक्षणे प्रत्यक्षानुदयेन, तत्क्षणे तद्वैशिष्टयघटकप्रागभावाभावेन च तत्सामग्र्याः प्रत्यक्षविशिष्टत्वासम्भवात् । नूतनालोकः प्रत्यक्षविशिष्टत्वासम्भवादिति । तथा च प्रतिबन्धकतावच्छेदकविशिष्टप्रतिबन्धकसत्त्वमेव कार्यानुत्पादप्रयोजकमिति तत्काले पूर्वकाले वा तदभावात्तदानीमनुमित्युत्पत्तेरशक्यवारणतया सामग्रीप्रतिबन्धकत्वकल्पनमेव निरर्थकं स्यादिति भावः । न च द्वितीयक्षणे जायमानं कार्यमादाय प्रथमक्षणे तद्विशिष्टत्वं सम्भवत्येव, अन्यथा कार्यनियतपूर्ववृत्तित्वादिरूपकारणादिलक्षणं कथमुपपद्यतेति वाच्यम् ; यतः कारणतावच्छेदकावच्छिअस्य पूर्ववृत्तित्वमेव कार्योत्पत्तावपेक्षितम् , न तु कारणताविशिष्टस्येति तस्य पूर्ववृत्तित्वासम्भवेऽपि न क्षतिः, प्रकृते तु कार्यविशिष्टत्वरूपप्रतिबन्धकतावच्छेदकावच्छिन्नस्य पूर्वक्षणाद्यवच्छेदेन सत्त्वमेव कार्यानुत्पादप्रयोजकमिति तदसम्भवे प्रतिबन्धकसमवधानदशायामपि कार्योत्पत्तेरशक्यवारणतया निरुक्तरूपेण प्रतिबन्धकत्वमसम्भवदुक्तिकमेवेति । आलोकप्रकाशः - मूले--प्रत्यक्षानुदयेनेति । तथा च पूर्वक्षगस्य विशेषणानधिकरणत्वान्न प्रतिबन्धकतावच्छेदकविशिष्टाधिकरणत्वमिति भावः। प्रत्यक्षविशिष्टत्वासम्भवादिति। न चोक्तापत्तिवारणाय प्रत्यक्षोपलक्षितस्यैव प्रतिबन्धकत्वाङ्गीकारो युक्तः, एवं सति प्रत्यक्षसामग्रीविरहदशायामध्यनुमित्युत्पादानुपपत्तेः, तदानी प्रत्यक्षोपलक्षितस्य यस्य कस्यचित् सत्त्वादिति ध्येयम् । व्याख्यायाम्- कथमुपपद्यतेति । उक्तरीत्या कार्याधिकरणक्षणप्रागभावाधिकरणक्षणप्रागभावानधिकरण- . क्षगाप्रसिद्धथा पूर्ववृत्तित्वस्य कार्यविशिष्टत्वरूपताया वक्तव्यत्वादिति भावः । कारणताविशिष्टस्येति । कार्यविशिष्टत्वरूपपूर्ववृत्तित्वविशिष्टस्येत्यर्थः । पूर्ववृत्तित्वासम्भवेऽपीति । वस्तुतस्तु कार्यनियतपूर्ववृत्तित्वं न कार्यविशिष्ट वरूपम् , अपि तु कार्याव्यवहितपूर्वत्वोपलक्षितक्षणाच्छिन्नकार्याधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वरूपमिति कार्याव्यवहितप्राक्क्षगे कारणताविशिष्टस्यापि सत्त्वं निर्वाधमेवेति ध्येयम् । For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता १५९ न च स्वप्रागभाववत्त्वस्थाने खोत्पत्त्यधिकरणक्षणध्वंसप्रागभाववत्त्वं निवेश्य कार्यसहभावेन प्रतिबन्धकत्वं कल्प्यते । तथा च न प्रत्यक्षोत्पादकालेऽनुमित्यापत्तिरिति वाच्यम् । एवमपि यत्र विनश्यदवस्थसामग्रीवशात् प्रत्यक्षं शाब्दसामग्रीसमवधानं च, तत्र तदनन्तरं शाब्दानुपपत्तेः, पूर्वक्षणे प्रतिबन्धकसत्त्वात् , लाघवादुत्पत्तिक्षणावच्छिन्नाश्रयतासम्बन्धेन फलस्यैव प्रतिबन्धकत्वौचित्याञ्च । यद्यप्यत्र क्षणैकविलम्येन शाब्दबोधोऽभ्युपगम्यते, तथापि यत्र पदार्थोपस्थित्यादिकारणाव्यवहितोत्तरक्षण एव विनश्यदवस्थापनसामग्यधीनं प्रत्यक्षम् , तत्र शाब्दानुपपत्तिर्दुवारैवेति । नूतनालोकः स्थान इति । वस्तुतस्त्वव्यवधानांशो नोपादेय इति बोध्यम् । पूर्ववृत्तितया प्रतिबन्धकत्वमात्रस्वीकारमात्रेण प्रकृतेऽनिर्वादाह-कार्यसहभावेनेति । कार्यसहभावेनापीत्यर्थः। शाब्दानुपपत्तेरिति । सामग्रीप्रतिबन्धकत्वपक्षे तु सामन्याः पूर्वक्षणे विनाशान शाब्दानुपपत्तिरिति बोध्यम् । . आलोकप्रकाशः मूले--शाब्दसामग्रीसमवधानमिति । प्रत्यक्षात्मकसिद्धिसत्त्वान्नानुमितिसामग्रीसम्भव इत्यतोऽनुमितिसामग्र्युपेक्षा। इदमुपलक्षणम् । यत्र विनश्यदवस्थसामग्रीजन्यानुमितिभिन्नविषयकप्रत्यक्षसामग्रीसमक्धानञ्च, तत्र तदनन्तरं प्रत्यक्षानुपपत्तेरपि । व्याख्यायाम्-कार्यसहभावेनापीत्यर्थ इति । यस्य पूर्वकालवृत्तितया प्रतिबन्धकत्वम् , तस्यैव कार्यकालवृत्तितया प्रतिबन्धकत्वमिति नियममनुसृत्येदम् । ___ मूले--यद्यपीत्यादि। अत्र यद्यपीत्यस्य अनादरोऽर्थः। अप्रयोजकत्वरूपस्य तस्याभ्युपगमेऽन्वयः । तथा च प्रतिबन्धकताविघटकव्यभिचारवारणायोपन्यस्तोऽयं क्षणैकविलम्बाभ्युपगमो न किञ्चित्करः, क्वचिद्वयभिचारवारणेऽपि सर्वत्र तदवारणादिति भावः । एतदेवाह-तथापीत्यादिना । तथापीत्यस्योक्ताभ्युपगमज्ञानाप्रतिवध्यज्ञानविषयत्वमः, “तथापि स्यादवाध्यत्वे यद्यपि स्यादनादरे" इत्युक्तत्वात् । तस्य शाब्दानुपपत्तावन्वयः । तथा च शाब्दस्य क्षणैकविलम्बकल्पना अकिञ्चित्करी, व्यभिचारज्ञानसामान्यानिवर्तकत्वादिति निर्गलितोऽर्थः । एवमेवान्यत्रापि । यद्यपि-तथापीत्यनयोरवूिहनीयौ। यत्र ज्ञानार्थकबोध्यादिपदं श्रूयते तत्र ज्ञानाप्रतिवध्यत्वपर्यन्तमेव तथाप्यर्थो वक्तव्य इति । अभ्युपगम्यत इति । क्षणस्यातिसूक्ष्मत्वेन तथाऽभ्युपगमेऽनुभवविरोधविरहादिति भावः । शाब्दानुपपत्तिरिति । तत्र प्रत्यक्षानन्तरक्षणे पदार्थोपस्थित्यादे शेन क्षणविलम्बस्य कल्पयितुमशक्यत्वादिति For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रस्नमालिका न च प्रत्यक्षविशिष्टत्वेन प्रतिबन्धकत्वं नोपेयते, किन्तु तत्पूर्वक्षणवृत्तित्वविशिष्टत्वेन, तथा च न काप्यनुपपत्तिरिति वाच्यम् ; एवं सति तादृशप्रतिबन्धकताया ज्ञानवैशिष्टयानवच्छिन्नतया ततस्तदव्यावृत्तेः। घटप्रत्यक्षशाब्दयोः पटप्रत्यक्षानुमित्योश्च सामग्रीसमवधानदशायां घटशाब्दाद्यापत्तेर्दुरित्वाञ्च । तत्र परस्परप्रतिबन्धेन कस्याप्यनुत्पत्त्या सामग्र्याः प्रत्यक्षपूर्ववृत्तित्वविशिष्टत्वासम्भवात् । न चैकविशिष्टापरत्वेनापि सामग्र्याः प्रतिबन्धकत्वं न सम्भवति, तथा सति खाश्रयसंयुक्तवृत्तित्वसम्बन्धेन पर्वतचक्षुःसंयोगादिविशिष्टवह्निचक्षुःसंयोगत्वादेरेवैकविशिष्टापरतारूपत्वाद्वह्निपर्वतसंयोगानवच्छेदकदेशावच्छेदेन वह्निपर्वतयोः नूतनालोकः घटशाब्दाद्यापत्तेरिति । न च तवेष्टापत्तिः, प्रत्यक्षसामग्रीशरीरे भिन्नविषयकानुमितिसामग्र्यभावस्यापि घटकतया प्रतिबन्धकाभावेन सिद्धान्तेऽपि शाब्दाद्युत्पत्ती बाधकाभावादिति वाच्यम् ; प्रत्यक्षसामग्रीशरीरे तस्य घटकत्वेऽपि प्रतिबन्धकतावच्छेदकशरीरे तदप्रवेशात् । अन्यथा शाब्दसामग्र्यां भिन्नविषयकानुमितिसामन्यभावस्य, तत्र समानविषयकप्रत्यक्षसामग्र्यभावस्य, तत्र च भिन्नविषयकशाब्दादिसामग्र्यभावस्य प्रवेशनीयत्वेनानवस्थाप्रसङ्गात् । दुर्वारत्वादिति । तथा चागत्या एकविशिष्टापरत्वेनैव प्रतिबन्धकत्वस्य वक्तव्यतया निरुक्तज्ञानवैशिष्टयानवच्छिन्नतादृशप्रतिबन्धकतामादायाव्याप्तिर्दुवारैवेति भावः । आलोकप्रकाशः भावः। न काप्यनुपपत्तिरिति । तत्क्षणवृत्तित्वविशिष्टस्य तत्क्षण एव सत्त्वादिति भावः । व्याख्यायाम्प्रवेशनीयत्वेनेति । इदमत्र बोध्यम्-जातिसाङ्कर्यस्य ज्ञानयोगपद्यस्य चानभ्युपगततयोभयसामग्रीसत्त्वे केनचिदेकेनैव कार्येण भवितव्यम् । तत्र प्रतिबन्धकत्वादृते नान्यद्विनिगमकं सम्भवतीत्यावश्यक प्रतिबन्धकत्वम् । तत्रेयं व्यवस्था तान्त्रिकानुमता-प्रत्यक्षसामग्री अनतिरिक्तविषयिकायामनुमितौ शाब्दमतौ च प्रतिबन्धिका, विभिन्नविषयके शाब्देऽनुमितिसामग्री, तादृशे प्रत्यक्षे च शाब्दसामग्रीति । अनवस्थाप्रसङ्गादिति । अनवस्था चात्र प्रतिबन्धकतावच्छेदकस्य सामग्रीनिष्ठस्वघटकतात्वव्यापकसामग्रीत्वघटितधर्मावच्छिन्नप्रतियोगिताकाभावावच्छिन्नत्वकत्वम् । तथा चानन्तसामग्यभावादिघटितत्वात् प्रतिबन्धकतावच्छेदकधर्मस्य दुर्जेयता स्यादिति भावः । एकविशिष्टापरत्वेनैवेति । स्वाश्रयसंयुक्तवृत्तित्वादिसम्बन्धेन पर्वतचतुःसंयोगादिविशिष्टवह्निचक्षुःसंयोगत्वादिनेत्यर्थः । तथा च विशेषणविशेष्यभावे विनिगमनाविरहप्रयुक्तं गौरवं सोढव्यमेवेति भावः । For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तरप्रकाशटिप्पण्योपबृंहिता चक्षुस्संयोगदशायामपि प्रतिबन्धकसत्त्वात् पर्वतो वह्निमानित्यनु मित्यादेरनुत्पादप्रसङ्गादिति वाच्यम् ; स्वावच्छेदकावच्छिन्नवह्निपर्वतसंयोगावच्छेदकावच्छिन्नत्वसम्बन्धेन पर्वतचक्षुस्संयोगादिविशिष्टवह्निचक्षुस्संयोगत्वादिनैव प्रतिबन्धकत्वस्वीकारेणोक्तापत्त्यनवकाशात् । न चात्र प्रतिवध्यतावच्छेदकसम्बन्धः प्रतिबन्धकतावच्छेदकसम्बन्धश्च कः ? न तावद्विधेयतासमवायाविति युक्तम् , तथा सत्येकपुरुषीयपर्वतचक्षुस्संयोगविशिष्टान्यपुरुषीयवह्निचक्षुस्संयोगसत्त्वे तयोर्वह्नयनुमित्यनुपपत्तेः। तत्पुरुषीयत्वनिवेशे च पुरुषभेदेन प्रतिवध्यप्रतिबन्धकभावबाहुल्यप्रसङ्ग इति वाच्यम् ; प्रतिवध्यतावच्छेदकसम्बन्धः समवायः, प्रतिबन्धकतावच्छेदसम्बन्धस्तु खाश्रयचक्षुस्संयुक्तमनःप्रतियोगिकविजातीयसंयोग इत्यङ्गीकारेणानुपपत्त्यभावात् । वस्तुतस्तु पर्वतचक्षुस्संयोगविशिष्टवह्निचक्षुस्संयोगविशिष्टविशेषणतावच्छेदकप्रकारकनिर्णयादे - रेव प्रकृते सामग्रीपदार्थतया प्रतिबन्धकतावच्छेदकसम्बन्धत्वमपि समवायस्यैव युक्तमिति चेन्मैवम् ; विशेषणतावच्छेदकप्रकारकनिर्णयादेः सामग्रीघटकत्वेऽपि प्रतिबन्धकतावच्छेदकशरीरे प्रयोजनाभावेनाप्रवेशाद्वयधिकरणधर्मावच्छिन्नसाध्याभावप्रमायां तादृशप्रतिबन्धकत्वस्यासत्त्वेनाव्याप्तिप्रसक्तेरेवाभावात्। । - नूतनालोकः अनुत्पादप्रसङ्गादिति । न चात्रेष्टापत्तिः । तदानीं वह्निपर्वतयोः प्रत्यक्षसम्भवेऽपि स्वावच्छेदकावच्छेद्यत्वसम्बन्धेन वह्निपर्वतसंयोगे चक्षुस्संयोगासत्त्वेन तत्प्रत्यक्षासम्भवेन वह्निपर्वतसंयोगानुमितेभिन्नविषयकतया तदुत्पत्तौ बाधकाभावादित्याशयः। ___ तपोरिति । यद्यप्यत्र पुरुषान्तरस्याप्यनुमित्यनुपपत्तिः सम्भवति; तथाप्येकत्र संयोगे तत्पुरुषीयत्वनिवेशेन सा वारयितुं शक्येति तदापत्तिर्नोद्भावितेति ध्येयम् । प्रतिबन्धकतावच्छेदकसम्बन्धस्त्विति । एतत्पक्षे प्रतिबन्धकावच्छेदकतावच्छेदकसम्बन्धः स्वाश्रयचक्षुःप्रतियोगिकत्वं बोध्यम् । आत्ममात्रसाधारण्यवारणायविजातीयेति । वैजात्यञ्च ज्ञानकारणतावच्छेदकतया सिद्धः परात्मसंयोगादिव्यावृत्तो जातिप्रयोजनाभावेनेति । विशेषणतावच्छेदकप्रकारकनिर्णयादिविरहदशायामनुमितिसामग्र्या एवाभावेन तदानीमनुमित्यापत्त्ययोगादिति भावः । आलोकप्रकाशः चक्षुःप्रतियोगिकत्वमिति । तथा च पर्वतचक्षुस्संयोगविशिष्टवह्निसंयोगत्वेनैव प्रतिबन्धकतेति ध्येयम् । For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६२ 'न च' रश्नमालिका न चैवमपि समानविषयकशाब्द सामग्रीप्रतिबन्धकतामादायाव्याप्तिताद वस्थ्यम्, तदवच्छेदककोटौ योग्यताज्ञानादेः प्रवेशावश्यकतया व्यधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया अपि तादृशज्ञानविधया तद्भटकत्वादिति वाच्यम्; स्वरूप- स्वावच्छेदकीभूतभेदप्रतियोगित्वान्यतरसम्बन्धेन साध्यवत्ताज्ञानत्वव्यापकत्वस्य प्रतिवध्यतायां विवक्षणेन सामग्रीप्रतिबन्धकताव्यावृत्तेः । इत्थञ्च साध्याभावप्रमासामान्यान्तर्गतयत्किञ्चित्प्रमानिरूपितधर्मितावच्छेदकावच्छिन्न विशेष्यक साध्य वत्तानुमितेः क्वचिदनुत्पादेऽपि न क्षतिः । न चैवं सतीश्वरज्ञाने जन्यत्वाभावात्तद्विशेषरूपप्रतिवध्यतायां तत्साधारणसाध्यवत्ताज्ञानत्वव्यापकत्वासम्भवादसम्भव इति वाच्यम्; स्वरूपस्थाने स्वावच्छेद Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकः शाब्दसामग्रीप्रतिबन्धकतामादायेति । समाने विषये प्रत्यक्षसामग्रया इव शाब्दसामग्रया एवानुमितिसामथ्र्यपेक्षया प्राबल्यात् प्रतिबन्धकता बोध्या । योग्यताज्ञानादेरिति । आदिना तात्पर्यज्ञानादिपरिग्रहः । प्रवेशावश्यकतयेति । अन्यथा योग्यताज्ञानादिशून्यकालेऽवशिष्टशाब्दसामध्या समानविषयकानुमितिप्रतिबन्धापत्तिरिति भावः । व्यधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया इति । वह्निमत्पर्वतकालीनघटत्वेन वह्नद्यभाववान् पर्वत इति प्रमाया इत्यर्थः । केवलस्वरूपस्य व्यापकतावच्छेदकसम्बन्धत्वे लौकिकसन्निकर्षादिजन्यज्ञानान्तर्भावेन व्यापकत्वभङ्ग इत्यन्यतरविवक्षा | नन्वनुमितित्वव्यापकप्रतिवध्यतायां ज्ञानत्वावच्छिन्नत्वविवक्षणेनैव सामग्रीप्रतिबन्धकताव्यावृत्तिसम्भवेऽन्यतरसम्बन्धेन व्यापकत्वविवक्षणमयुक्तमित्यत आह-इत्थं चेति । सतीत्यर्थः । एवं सतीति । उक्तान्यतरसम्बन्धेन व्यापकत्वविवक्षणे तद्विशेषेति । प्रतिबन्धका भावजन्यतेत्यर्थः । असम्भव इति । न च नित्यसाधारणधर्मस्य जन्यतावच्छेदकतया लौकिकसन्निकर्षजन्यभिन्नत्वस्येव नित्यज्ञानान्य आलोकप्रकाशः व्यापकत्वभङ्ग इति । तदभाववसानिश्चयप्रतिवध्यताया इत्यादिः । तथा च कामिनीजिज्ञासादिप्रतिवध्यतामादायातिव्याप्तिः स्यादिति भावः । व्यावृत्तिसम्भव इति सामग्रीप्रतिवध्यताया अनुभवत्वव्याप्यजात्यवच्छिन्नतया ज्ञानत्वानवच्छिन्नत्वादिति भावः । हेतुमत्ताज्ञानासमानकालीनज्ञानव्यावृत्तये कालिकविशेषणताप्रवेशः । For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १६३ कविषयित्वस्य सम्बन्धत्वविवक्षणेन व्यापकत्वाक्षतेः, समानाकारकशानेषु विषयिताभेदस्याप्रामाणिकतया ईश्वरक्षानीयविषयिताया अपि प्रतिवध्यतावच्छेदकत्वात् । न च स्वाश्रयज्ञानसामग्रीप्रयोज्याया जन्यशानीयविषयितायास्तद्प्रयोज्यभगवज्ञानीयविषयितातः कथमभेद इति वाच्यम् ; विषयितायाः सामग्रीप्रयोज्यत्वानङ्गीकारात् । तत्सम्बन्धस्यैव तदङ्गीकारात् । अत एव यद्विषयकत्वेनेत्यादिहेत्वाभासलक्षणे विषयितासामान्ये स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशपक्षे नासम्भवोऽव्याप्तिर्वाभिहितः। नूतनालोकः त्वस्यापि जन्यतारूपप्रतिवध्यतावच्छेदककोटौ निवेशनीयत्वात् स्वावच्छेदकीभूतभेदप्रतियोगित्वमीश्वरज्ञानसाधारणमेवेति कथमसम्भव इति वाच्यम् ; नित्यसाधारणधर्मस्यापि कार्यतावच्छेदकत्वे बाधकाभावेन प्रतिवध्यतावच्छेदककोटावीश्वरज्ञानान्यत्वस्यानिवेशनीयत्वात् । अत एवोक्तं “जन्यस्नेहत्वं तथा बोध्यम्” इति मुक्तावलीपतिव्याख्यानावसरे-"जन्यपदं न देयमेव" इति महादेवेन । कालिकसम्बन्धानुयोगित्वस्य लघोर्निवेशेनैव नित्यज्ञानव्यावृत्तिसम्भवाच्चेत्याशयः । न चैवं सति स्वावच्छेदकीभूतभेदप्रतियोगित्वस्य सम्बन्धघटकत्वे प्रयोजनाभावः, लौकिकप्रत्यक्षादिविषयिताया अपि प्रतिवध्यतावच्छेदकत्वादिति वाच्यम् ; नियताहार्यज्ञानीयविषयितायाः कथमपि प्रतिवध्यतानवच्छेदकतया तत्साधारण्याय तदावश्यकत्वात् । अनङ्गीकारादिति। कथं तर्हि जन्यज्ञानीयविषयितायास्तत्सामग्रीप्रयोज्यत्वव्यवहार इत्यत आह.-तत्सम्बन्धस्यैवेति । तथा चौपचारिक एव तादृशव्यवहार इति भावः । अत एव जीवेश्वरज्ञानीयविषयितयोरैक्यस्वीकारादेव । अन्यथा प्रतिबन्धकतानवच्छेदकभगवज्ज्ञानीयविषयितायाः सामान्यान्तर्गततयाऽसम्भवप्रसक्तेः । न च भगवज्ज्ञानस्यापि बाधनिश्चयविधया प्रतिबन्धकत्वेन तद्विषयिताया अप्यवच्छेदकत्वमव्याहतमेवेति वाच्यम् ; भगवज्ज्ञानस्य प्रतिबन्धकत्वाङ्गीकारे मानाभावादिति भावः । ननु लाधवादीश्वरज्ञानसाधारणतदभाववत्तानिश्चयत्वेनैव प्रतिबन्धकत्वं स्वीक्रियते, तथा च नासम्भवः; अत आह-अव्याप्तिति । पक्षावृत्त्यसाधारण्यादावित्यादिः । अयमाशयः - वहिव्यापकीभूताभावप्रतियोगिजलादिरूपासाधारण्यविषयकनिश्चयस्य पर्वतादिविशेष्यकजलवत्तानिश्चयविशिष्टत्वेनैव प्रतिबन्धकत्वं वक्तव्यम् । वैशिष्टयं च सामानाधिकरण्य-कालिकविशेषणत्वैतदुभयरूपं नित्यव्यावृत्तमिति भगवज्ञाने तादृश For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ ___'नच' रत्नमालिका अथ स्वावच्छेदकविषयितासम्बन्धेन व्यापकत्वविवक्षणे पदार्थोपस्थित्यादिविधया शाब्दबोधं प्रति हेतुभूताया व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववान् पर्वत इति शाब्दप्रमायाः समानविषयकशाब्दसामग्रीघटकत्वेन पर्वतो वह्निमानित्यनुमितिप्रतिबन्धकत्वादव्यासिस्तवस्थैव, तादृशप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदकीभूतपर्वतत्वावच्छिन्नविशेष्यतानिरूपितवतित्वावच्छिन्नप्रकारता - याः पर्वतो वह्निमानिति ज्ञानसामान्यसाधारण्यात् । नूतनालोकः प्रतिबन्धकत्वमप्रसक्तमेवेति । न चाव्यापकविषयिताशून्यत्वविशेषणस्य स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशकल्पेऽप्यावश्यकतया तेनैव भगवज्ज्ञानव्यावृत्तिरिति वाच्यम् ; सिद्धान्ते तादृशविशेषणस्यैवानुपादानादित्यलमधिकेन । शाब्दप्रमाया इति । पर्वतपदजन्यपर्वतोपस्थितित्ववह्निपदजन्यवह्नयुपस्थितित्वसम्पत्तये शाब्देत्युक्तम् । आलोकप्रकाशः अप्रसक्तमिति । एकस्यापि सम्बन्धस्य भगवज्ज्ञानसाधारण्याभावादिति भावः । आवश्यकतयेति । जातित्वेन हृदत्वाद्यवगाहिज्ञानव्यावृत्यर्थमित्यादिः । अनुपादानादिति । अयमाशयःयद्रूपावच्छिन्नविषयतेत्यत्र यद्रूपसहितप्रकारतेत्यर्थः । यद्रूपं ह्रदो वह्नयभाववानिति ज्ञानविषयत्वम् । प्रकारतासम्बन्धेन तादृशज्ञानवत्त्वं वा । साहित्यञ्च स्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकत्वम् । वह्नयभाववद्धदवानिति ज्ञानीयप्रकारतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वं तादृशयद्रूपस्येति तादृशप्रकारतामादाय लक्षणसमन्वयः । तद्रूपावच्छिन्नत्वञ्च तद्रूपावच्छिन्नपर्याप्तिकावच्छेदकताकप्रकारत्वरूपं विवक्षितमिति जातिमान् वह्नयभाववानिति ज्ञानीयविषयताव्यावृत्त्या नासम्भवावकाश इति । विस्तरस्त्वन्यतोऽवसेयः । __ननु तद्विशेषणानुपादानेऽपि प्रमेयत्वविशिष्टव्यभिचारादिवारणायावश्यं निवेशनीयस्य विशिष्टान्तराघटितत्वस्य ज्ञाने विशिष्टान्तरतावच्छेदकरूपावच्छिन्नाविषयकत्वपर्यवसन्नस्य भगवज्ज्ञानेऽसत्त्वात्तदीयविषयिताव्यावृत्तिरित्यत आह–अलमधिकेनेति । अयं भावः--व्यभिचारघटितबाधादावव्याप्तिवारणाय विशिष्टान्तराघटितत्वविशेषणस्य प्रतिबन्धकतायां विशिष्टान्तरतावच्छेदकरूपावच्छिन्नविषयितासामान्यावच्छिन्नत्वाभावपर्यवसानस्यावश्यं वाच्यतया तद्विशेषणेन भगवज्ज्ञानीयविषयित्वाव्यावृत्तेरिति । For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता १६५ न च पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितवह्नित्वावच्छिन्नविधेयताया एव तादृशसामग्रीप्रतिवध्यतावच्छेदकतया प्रत्यक्षादिसाधारणसाध्यवत्ताज्ञानत्वं प्रति उक्तसम्बन्धेन तादृशप्रतिवध्यताया व्यापकत्वमेव नास्तीति वाच्यम् ; एवमपि भिन्नविषयकप्रत्यक्षं प्रति शाब्दसामग्रयाः प्रतिबन्धकतया तामादायाव्याप्ते१र्वारत्वात् । तन्निरूपितप्रतिवध्यतावच्छेदककोटौ प्रकारताया एव प्रवेशेन तादृशप्रतिवध्यतायास्तथात्वाक्षतेः। न च प्रत्यक्षीयविषयिताया एव तादृशप्रतिवध्यतावच्छेदकतया वह्नित्यावच्छिन्नविधेयतायास्तदप्रसक्त्या तादृशप्रतिवध्यताया उक्तसम्बन्धेन साध्यवत्ताशानत्वाव्यापकत्वान्न ताशप्रतिबन्धकतामादायाव्याप्तिप्रसक्तिरिति वाच्यम् ; एवमपि वह्निव्याप्यधूमवत्पर्वतकालीनघटत्वेन वह्नयभाववान् पर्वत इत्यादिप्रमाया अपि विशेषदर्शनविधया संशयोत्तरप्रत्यक्षं प्रति हेतुत्वेन प्रत्यक्षसामग्रीघटकत्वा नूतनालोकः वह्नित्व वच्छिन्नविधेयताया एवेति । पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्नित्वावच्छिन्नप्रकारताया वह्निमत्पर्वतो घटवानित्यादिभिन्नविषयकानुमित्यादिसाधारण्यादिति भावः । नास्तीति । विधेयताया अनुमितिशाब्दमात्रवृत्तित्वादिति भावः । प्रत्यक्षीयविषयिताया एवेति । प्रत्यक्षस्यैव प्रतिवध्यत्वेन तस्या एव प्रतिवध्यविशेषणत्वादिति भावः। विशेषणज्ञानादेहेतुत्वेऽप्युक्तरीत्या तस्य प्रतिबन्धकसामग्रीप्रवेशे प्रयोजन विरहादावश्यकतत्प्रवेशविशेषदर्शनरूपतासम्पादनाय वह्निव्याप्यधूमवत्पर्वतकालीनेति । हेतुत्वेनेति । इदश्च मिश्रमतेन । उपाध्यायप्रभृतिभिः संशयप्रतिबन्धकतायामुत्तेजकत्वस्यैव आलोकप्रकाशः मूले-साध्यवत्ताज्ञानत्वाव्यापकत्वादिति । अनुमितीयविधेयताप्रकारतयोरैक्यात् प्रत्यक्षीयविषयताया अनुमितिसाधारण्यासम्भवादिति भावः । वस्तुतस्तु तयोर्भद एव । अत एव लाघवोपनीतकाञ्चनमयत्वभानस्थले विधेयतावच्छेदकत्वं वह्नित्वस्यैव, न तु प्रकारतावच्छेदकीभूतकाञ्चनमयत्वस्येति सिद्धान्तः सङ्गच्छते । तथा च प्रत्यक्षीयविषयताया अनुमितिसाधारण्ये बाधकाभाव इति ध्येयम् । भट्टाचार्यास्तु विषयतावादे "इदं त्ववधेयम्" इत्युपक्रम्य "अस्तु विधेयत्वमुद्देश्यत्वं चातिरिक्तम् , तयोविषयतात्वे मानाभावः । पर्वतो वह्निमानित्यनुमितौ पर्वतवह्नयादिषु तथाविधप्रत्यक्षसाधारणविशेष्यताप्रकारतास्वीकारस्यावश्यकतया तत एव तादृशज्ञानस्यसविषयकत्वोपपत्तेः । प्रकारतादीनां तत्रानुपगमे तादृशानुमित्यादीनां बाधाद्यप्रतिवध्यत्व For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __'न च' रत्नमालिका वश्यकतया समानविषयकप्रत्यक्षान्यज्ञानप्रतिबन्धकतामादायाव्याप्तेqारत्वादिति चेन्मैवम् ; विशेषदर्शनाभावविशिष्टसंशयसाधारणविपरीतज्ञानस्य प्रतिबन्धकत्वस्वीकारेणैवोपपत्तौ तत्र विशेषदर्शनहेतुताया एवाप्रामाणिकत्वात् । केचित्तु विरोधिनिश्चयानन्तरं ग्राहासंशयानन्तरञ्च विना ग्राह्यव्याप्यवत्ताशानं पुरुषत्वादिनिश्चयो नोत्पद्यते, सति तु तस्मिन् जायते । अतोऽन्वयव्यति नूतनालोकः स्वीकारात्। यद्यपि विशेषदर्शनविरहदशायामनुमितिसामग्या एवाभावेन विशेषणज्ञानादेरिव तस्याप्यनुमितिप्रतिबन्धकसामग्रीघटकत्वं व्यर्थम्,तथापि शाब्दप्रतिबन्धकसामग्रीशरीरे तत्प्रवेश आवश्यकः । अन्यथा तद्विरहदशायां शाब्दानुपपत्तेः । न च प्रतिबन्धकसामध्या विशेषदर्शनघटितत्वाघटितत्वाभ्यां भेदेन प्रतिवध्यतावच्छेदकभेदेन च प्रतिवध्यतयोर्भेदान्न कस्या अपि तस्याः साध्यवत्ताज्ञानत्वव्यापकत्वमिति वाच्यम् ; यत्रकविधयैवेच्छया प्रतिबन्धकसामग्रीसमवधानकाले शाब्दानुमिती तत्र लाघवेनोभयसाधारणपर्वतत्वावच्छिन्नमुख्यविशेष्यतानिरूपितवह्नित्वावच्छिन्नप्रकारताशलिप्रत्यक्षान्यज्ञानत्वावच्छिन्नं प्रति विशेषदर्शनघटितसामच्या एकविधप्रतिबन्धकत्वस्यैव कल्पनीयत्वादित्याशयः । उपपत्तौ संशयोत्तरं प्रत्यक्षनिश्चयानुत्पादनिर्वाहे । मिश्रानुयायिनां मतमाह-केचित्त्विति । पुरुषत्वादिनिश्चयः प्रात्यक्षिकपुरुषत्वादिनिश्चयः। किं विशेषदर्शनस्य हेतुतयेति । स्वव्यतिरिक्तनिखिलकारणसत्त्वसमानकालीन आलोकप्रकाशः प्रसङ्गः। विरोधिज्ञानाप्रतिबन्धकत्वप्रसङ्गश्च, प्रकारतादीनामेव तादृशप्रतिवध्यप्रतिबन्धकभावावच्छेदकत्वादिति दिक्” इति प्राहुः । व्याख्यायाम्-प्रतिबन्धकसामग्रीप्रवेश इति । सामग्रीविधया या प्रतिबन्धकता, तदवच्छेदककोटिप्रवेश इत्यर्थः । भावश्यकतत्प्रवेश इति । आवश्यकस्त प्रवेशः प्रतिबन्धकसामग्रीप्रवेशो यस्य तादृशं यद्विशेषदर्शनं तद्रूपतासम्पादनायेत्यर्थः । विशेषदर्शनघटितरवाघटितत्वाभ्यां भेदेनेति । शाब्दिप्रतिबन्धकीभूतायाः प्रत्यक्षसामग्या विशेषदर्शनघटितत्वात् , अनुमितिप्रतिबन्धकतायाश्च तस्या उक्तयुक्त्या तदघटितत्वाच्च भेदो बोध्यः । उत्तेजकेच्छाभेदस्याप्युपलक्षणमेतत् । प्रतिवध्यतावच्छेदकभेदेनेति । शाब्दत्वानुमितित्वयोरेव तदवच्छेदकत्वादिति भावः । एकविधयैवेति । प्रत्यक्षान्यज्ञानं भूयादित्याकारिकयैवेत्यर्थः । अन्यथोत्तेजकभेदेन प्रतिवध्यप्रतिबन्धकभावभेदस्य दुरितापत्तेरिति भावः। प्रकारताशालीति । इदश्च विशेषणमसमानविषयकशाब्दादिव्यावृत्यर्थम् । For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता १६७ रेकाभ्यां विपरीतज्ञानानन्तरप्रत्यक्षनिश्चयत्वावच्छिन्नं प्रति ग्राह्यव्याप्यवत्तानिश्चयत्वेन हेतुत्वं कल्प्यते। न च ग्राह्याभावशानेन प्रतिबन्धादेव विपरीतनिश्चयाद्यनन्तरं प्रत्यक्षनिश्चयानुत्पत्तिनिर्वाहे किं विशेषदर्शनस्य हेतुतयेति वाच्यम्; विपरीतनिश्चयादिसत्त्वेऽपि विशेषदर्शने प्रत्यक्षनिश्चयोत्पत्त्या प्रत्यक्षनिश्चये ग्राह्याभावग्रहस्याप्रतिबन्धकत्वात् । विपरीतनिश्चयकालेऽनुमित्यादेर्वारणाय विपरीतनिश्चयस्य विशिष्टधीविरोधित्वकल्पनाया आवश्यकत्वेऽपि प्रत्यक्षनिश्चयान्यत्वस्यैव तत्प्रतिवध्यतावच्छेदकत्वोपगमात् । न च प्रत्यक्षनिश्चयं प्रति विपरीतशानस्याप्रतिबन्धकत्वे शङ्खो न श्वेत इत्यादि दोषजन्यविपरीतनिश्चयकाले श्वैत्यव्याप्यशङ्खत्वादिदर्शनात् शङ्खः श्वेत इत्यादि चाक्षुषापत्तिरिति वाच्यम् ; तादृशदोषस्यैव श्वैत्यादिग्रहप्रतिबन्धकत्वात् । यदि च विनश्यदवस्थापन्नदोषजन्यविपरीतनिश्चयसत्त्वे न श्वैत्यादिप्रत्यक्षम् , तदास्तु प्रत्यक्षे समानेन्द्रियजन्योपनीतभानभिन्नविपरीतनिश्चयस्य प्रतिबन्धकत्वम् । नूतनालोकः कार्यव्यतिरेकप्रयोजकीभूताभावप्रतियोगिन एव कारणत्वम्। विपरीतज्ञानदायां विपरीतज्ञानाभावघटितस्वेतरनिखिलकारणसत्त्वमेव नास्तीति विशेषदर्शनस्यान्यथासिद्धत्वमेवेति भावः । ग्रहस्य ज्ञानत्वावच्छिन्नस्य । अप्रतिबन्धकत्वादिति । तथा च व्यतिरेकव्यभिचारेण विपरीतज्ञानाभावस्य हेतुत्वाभावान्निखिलकारणसत्त्वं प्रकृते निर्बाधमेवेति भावः । निश्चयान्यत्वस्यैवेति । विपरीतनिश्चयोत्तरं संशयानुत्पत्त्या प्रत्यक्षान्यत्वस्येति नोक्तम् । तत्प्रतियोगितावच्छेदकत्वोपगमादिति । तथा च तादृशप्रतिबन्धकतयापि न विपरीतनिश्चयाद्यनन्तरं प्रत्यक्षनिश्चयानुत्पत्तिनिर्वाह इति भावः । ___समानेन्द्रियेति । चक्षुषा वंशे उरगत्वभ्रमेऽपि त्वचा तत्र तदभावग्रहात् समानेन्द्रियजन्यत्वनिवेशनम् । प्रतिबन्धकत्वमिति। तथा च शजो न श्वेत इति भ्रमे शङ्खांशेऽनुभूयमानस्यैव पित्तद्रव्यनिष्ठश्वैत्याभावस्यारोपोपगमेन आलोकप्रकाशः मूले--उपनीतभानभिन्नेति । लौकिकेत्यर्थः। तेन सामान्यलक्षणाधीनविपरीतनिश्चयस्याप्रतिबन्धकत्वेऽपि न क्षतिः। मणौ साक्षात्कारिविशेषदर्शनमित्यस्य समानेन्द्रियजन्यं ग्राह्याभावादिप्रकारकलौकिकप्रत्यक्षमित्यर्थः । व्याख्यायाम्-दोषस्येति । विपरीतनिश्चयजनकदोषस्येत्यर्थः । For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८ 'न च' रत्नमालिका एवं शङ्खः श्वेत इति चाक्षुषनिश्चयोत्पत्तौ सत्यां यत्र दोषसमवधानम् , तत्र तादृशनिश्चयसत्त्वे यदि दोषान्न शङ्खो न श्वेत इति चाक्षुषनिश्चयस्तदा तन्निर्वाहोऽपि, समानेन्द्रियजन्यविपरीतनिश्चयस्य प्रतिबन्धकत्वादेव । अत एव साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनमेव विरोधीत्यनेन मणिकृतां "दोषविशेषजन्यभ्रमे समानेन्द्रियजन्यलौकिकग्राह्याभावशानस्य विरोधिता नान्यविधविपरीतज्ञानस्य" इत्यभिधानं सङ्गच्छते । शङ्खो न श्वेत इत्यादिनिश्चयानन्तरं सति विशेषदर्शने चाक्षुषसामग्रीविगमे शङ्खः श्वेत इत्यादि मानसज्ञानमिष्यत एव । अस्तु वा तादृशमानसादिसाधारणं लौकिकनिश्चयान्यज्ञानत्वमेवानुमितिसाधारणं विपरीतनिश्चयप्रतिवध्यतावच्छेदकम् । यत्र सत्यपि चक्षुरादेः सन्निकर्षे कराद्यदर्शनसहितदूरत्वादिदोषादयं स्थाणुरित्यादि भ्रमः, तत्र करादिदर्शने सति नायं स्थाणुरित्यादिलौकिकनिश्चयो जायते । तत्रैव भ्रमोत्तरप्रत्यक्षे विशेषदर्शनहेतुतेत्याहुः । तन्न; विशेष - नूतनालोकः तदंशेऽपि लौकिकत्वात्तदशायां शङ्खः श्वेत इति प्रत्यक्षानुत्पादनिर्वाहः । प्रतिबन्धकत्वादेवेति । तथा चात्र दोषस्याभावान्न तत्प्रतिबन्धकतया निर्वाह इति भावः । इष्यत एवेति । विशेषदर्शनेन शङ्खो न श्वेत इति निश्चयनाशे विशेषदर्शनेन प्रतिबन्धात्तादृशनिश्चयान्तरस्य चानुत्पत्त्या तादृशमानसोत्पादस्यावश्यकतया विना क्षणविलम्ब तदुत्पादोपगमेऽनुभवविरोधविरहादिति भावः। नन्वेवं विशेषदर्शनहेतुताविलयप्रसङ्ग इत्यत आह-यत्रेति । भ्रमोत्तरप्रत्यक्ष इति । भ्रमपदेन संशयस्यापि परिग्रहः । ननु तत्र भ्रमोत्पत्तिक्षणे न कथं तादृशलौकिकज्ञानम् ? विपरीतज्ञानोत्तरप्रत्यक्ष एव विशेषदर्शनस्य हेतुतया तदुत्पत्तिक्षणे प्रत्यक्षोत्पत्तौ तद्विरहस्याकिश्चित्करत्वात् । यदि च दूरत्वादिदोषेण प्रतिबन्धान्न तदानीं तदुत्पादापत्तिरिति मन्यते, तदा भ्रमोत्तरं विशेषदर्शनात् कथं तदुत्पत्तिस्तदानीमपि तदोषसत्त्वादिति चेन्न; विशेषदर्शनासहितस्यैव दूरत्वादेः प्रतिबन्धकत्वोपगमेनोभयोपपत्तेः । अस्तु वा तादृशदोषसमवधान आलोकप्रकाशः अभावादिति । विपरीतनिश्चयस्यात्र प्रमात्वेन दोषाजन्यत्वादिति भावः । तादृशमानसोत्पादस्येति । विशेषदर्शनतृतीयक्षण इत्यादिः । उभयोपपत्तेरिति । दूरत्वादिदोषसत्त्वे विशेषदर्शनाभावदशायामप्रत्यक्षस्य तदशायां प्रत्यक्षस्य चोपपत्तेरित्यर्थः । विशेषदर्शनाभावविशिष्टदुरत्वादेः प्रतिबन्धकत्वे उत्तेजकत्वापत्तेर्लाघवाचाह--अस्तु वेति । तादृशदोषेति । दूरत्वमन्दान्धकारादिदोषेत्यर्थः । प्रत्यक्षेऽपीति। For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता दर्शनाभावविशिष्टसंशयसाधारणविपरीतज्ञानत्वेन विशिष्टबुद्धिं प्रति प्रतिबन्धकतयैवोपपत्तेस्तद्धेतुत्वानावश्यकत्वात् ।। न चैवं बाधनिश्चयकाले लिङ्गपरामर्शात्मकविशेषदर्शनादनुमित्यापत्तिविशिष्टाभावसत्त्वात्। एवं निश्चयत्वानिवेशात् संशयोत्तरंसंशयानुपपत्तिः, योग्यतासंशयस्य शाब्दबोधप्रतिबन्धकतापत्तिश्च, प्रतिवध्यतावच्छेदकगर्भ निश्चयत्वप्रवेशेन संशयोत्तरसंशयोपपादने बाधनिश्चयोत्तरमपि संशयापत्तिरिति वाच्यम् ; परोक्षशाने बाधनिश्चयस्य प्रतिबन्धकत्वान्तरकल्पनेन बाधनिश्चयदशायामनुमित्यापत्तिवारणात्, प्रत्यक्षनिश्चयत्वस्यैव च संशयादिसाधारणविपरीतज्ञानप्रतिवध्यतावच्छेदकतया ग्राहासंशयोत्तरं संशयशाब्दबोधाधुपपत्तेः। न च प्रत्यक्षनिश्चयान्यबुद्धौ विपरीतनिश्चयत्वेन प्रतिबन्धकत्वान्तरस्यैतन्मतेऽप्यावश्यकत्वेन प्रत्यक्षनिश्चये विशेषदर्शनाभावविशिष्टविपरीतशानाभावहेतुता नूतनालोकः कालीनप्रत्यक्षेऽपि विशेषदर्शनस्य हेतुत्वान्तरं विपरीतज्ञानवत्तादृशदोषाणां च प्रतिबन्धकत्वमिति । उपपत्तेरिति । भ्रमदशायां विशेषदर्शनस्य सत्त्वे प्रत्यक्षनिश्चयस्यासत्त्वे तदभावस्य चोपपत्तेरित्यर्थः। निश्चयत्वानिवेशादिति । प्रतिवध्यतावच्छेदकादिकोटावित्यादिः । अनुमित्यापत्तिवारणादिति । न चैवं बाधनिश्चयोत्तरं संशयस्यापत्तिः; अनुमित्यादिसाधारणबाधनिश्चयप्रतिवध्यतावच्छेदकगर्भे प्रत्यक्षनिश्चयान्यत्वस्य प्रवेशनीयतया संशयस्य बाधनिश्चयप्रतिवध्यत्वोपपत्तेः। __ आलोकप्रकाशः अपिना भ्रमोत्तरप्रत्यक्षपरिग्रहः । हेतुस्वान्तरमिति । स्वविषयनिरूपितं यदूरत्वम् , तद्विशिष्टखाधिकरणतासम्बन्धेन स्थाणुल्वप्रकारकौकिकप्रत्यक्षत्वावच्छिन्नं प्रति विशेषदर्शनं कारणमिति निष्कर्षः । दूरत्ववैशिष्ट्यं स्वाश्रयशरीरावच्छिन्नत्व-खावच्छेदककालावच्छिन्नत्वोभयसम्बन्धेन । इत्थं च समीपस्थपुरुषस्य विना विशेषदर्शनं स्थाणुत्वादिप्रत्यक्षनिर्वाहः । ___ संशयस्यापत्तिरिति । परोक्षजानं निश्चयात्मकमेवेति सिद्धान्तेन संशयस्याप्रतिवध्यत्वादिति भावः। मूले-हेतुत्वकल्पनमेवेति । विपरीतज्ञानोत्तरप्रत्यक्षनिश्चयत्वावच्छिन्नं प्रतीत्यादिः । उचितमिति । लाघवाद्विनिगमनाविरहाप्रसक्त्या कार्यकारणभावद्वयस्थानावश्यकत्वाच्चेति भावः । For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ 'न च' रत्नमालिका कल्पनापेक्षया विशेषदर्शनस्य हेतुत्वकल्पनमेवोचितमिति वाच्यम्; व्याप्तेः सम्बन्धादिभेदेन भिन्नतया व्याप्यदर्शनस्याननुगमेन व्यभिचारात्त तुताकल्पनासम्भवात्, नानाविधविशेषदर्शनाभावकूटविशिष्टविपरीतशानाभावस्थानुगतत्वाच्च । एवमसत्यपि विशेषदर्शने विपरीतज्ञानासत्त्व इव तत्सत्त्वेऽपि सामग्रीबलात् प्रत्यक्षसामान्यापत्तिारैवेति, विपरीतज्ञानानुत्तरप्रत्यक्षे संशयसाधारणविपरीतशानाभावस्य विशेषसामग्रीत्वमावश्यकमिति गौरवम् । नुतनालोकः गौरवमिति । न च नानाविधविशेषदर्शनाभावानां विपरीतनिश्चयप्रतिबन्धकतावच्छेदकगर्भनिवेशे एकाभावविशिष्टत्वेनैवापराभावस्य निवेशनीयतया आलोकप्रकाशः सम्बन्धादीति । आदिना धर्मपरिग्रहः । विशेषसामप्रीत्वमावश्यकमिति । विशेषसामग्रीत्वस्वीकारेऽन्यतरसामग्रीसहकारेणैव सामान्यसामग्याः फलोपधायकत्वमिति वक्तुं शक्यत्वान्न सामान्यसामग्रीमात्रेण ग्राह्यप्रत्यक्षत्वरूपसामान्यधर्मावच्छिन्नापत्तिरिति भावः । न चापाद्यमानस्य प्रकृते विपरीतज्ञानोत्तरत्वेन विशेषदर्शनकार्यतावच्छेदकाक्रान्तत्वात्तदभावे कथमापत्तिरिति वाच्यम् ? आपाद्यमानव्यक्तेर्यत्कारणकार्यतावच्छेदकाक्रान्तत्वम् , तद्विरहेणापत्तिवारणे बाधनिश्चयादेविशिष्टबुद्धित्वावच्छिन्नं प्रति प्रतिबन्धकत्वसिद्धान्तभङ्गापत्तिः, वह्निव्याप्यवत्तापरामर्शादेवह्नयनुमितित्वावच्छिन्नहेतुतासिद्धान्तभङ्गापत्तिश्च । तथाहि-बाधनिश्चयाभावस्य बाधनिश्चयानुत्तरबुद्धित्वावच्छिन्नं प्रति हेतुत्वस्वीकारमात्रेण परामर्शोत्तरबुद्धित्वावच्छिन्नं प्रति परामर्शस्य हेतुत्वस्वीकारमात्रेण चोपपत्तौ सत्यां कार्यतावच्छेदककोटौ विषयादिनिवेशानर्थक्यस्य प्रसङ्गात् । न च बाधादिनिश्चयदशायां तद्वत्ताबुद्धयापत्तिः, परामर्शशून्यतादशायामनुमित्यापत्तिश्च सम्भवति, वस्तुत आपाद्यमानतद्वत्ताबुद्धयादेधिनिश्चयोत्तरमसम्भवेन बाधनिश्चयाभावकार्यतावच्छेदकाक्रान्तत्वनियमात् , एवमापाद्यमानानुमितेः परामर्शशून्यतादशायामसम्भवेन परामर्शकार्यतावच्छेदकाक्रान्तत्वनियमात् । एवं मन्त्रौषध्यादीनामपि स्वोत्तरदाहादिकं प्रति हेतुत्वकल्पनेनैवोपपत्तावृत्तेजकत्वसिद्धान्तभङ्गः । एवमवच्छेदकधर्मदर्शनादीनां शानविशिष्टज्ञानत्वेन प्रतिबन्धकतासिद्धान्तविरोधः। तत्र जलवान् वह्नयभाववानिति शानस्य जलवान् ह्रद इति ज्ञानस्य च स्वानुत्तरबुद्धिं प्रति प्रतिबन्धकत्वकल्पनेनैव ज्ञानद्वयकाले तद्वत्ताबुद्धयापत्तिवारणसम्भवादिति तद्धर्मावच्छिन्ने जननीये तद्धर्म प्रति व्यायव्यापकभावापन्नधर्मावच्छिन्नजनकसामग्र्या एव सहकारित्वमित्यवश्यमङ्गीकार्यत्वात् । वस्तुतस्तु व्याप्यव्यापकभावापन्नधर्मावच्छिन्नजनकसामग्र्या न पृथग निवेशः। किन्तु For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः तावदभावानां परस्परमप्रामाण्यग्रहाभावादिभिश्च समं विशेषणविशेष्यभावे विनिगमनाविरहेण कारणताबाहुल्यमिति तादृशतादृशविशेषदर्शनानन्तरप्रत्यक्षे तादृशतादृशविशेषदर्शनानां विपरीतज्ञानानुत्तरप्रत्यक्षे तदभावस्य च पृथकारणत्वमेव युक्तमिति वाच्यम् ; आनन्तर्यस्य स्वत्वघटितत्वेन कार्यकारणभावस्य तत्तद्वयक्तिविश्रमापत्तेः। यदि चानुमितिदीधित्युक्तरीत्या नानाविधविशेषदर्शनानां विपरीतज्ञानविरोधित्वेनानुगमान्नैकविशेषदर्शनस्यान्यविशेषदर्शनजन्यप्रत्यक्षे व्यभिचार इति न तज्जन्यतावच्छेदककोटावानन्तर्यनिवेशनम् । अत एवावच्छेदकधर्मदर्शनस्यापि संग्रह इत्युच्यते, तदापि विपरीतज्ञानानुत्तरप्रत्यक्षे विशेषदर्शनस्य व्यभिचारवारणाय विपरीतज्ञानाव्यवहितोत्तरत्वस्य विशेषदर्शनजन्यतावच्छेदकगर्भेऽवश्यं निवेशनीयतया विशेषदर्शनजन्यतावच्छेदकस्य तत्तद्वयक्तिविश्रामो दुर्वारः। एवं विपरीतज्ञानप्रतिवध्यतावच्छेदकशरीरेऽव्यवहितोत्तरत्वप्रवेशस्यावश्यकतया तदननुगमात्तदभावजन्यतावच्छेदककोटौ तत्तद्विपरीतज्ञानाव्यवहितोत्तरत्वाभावकूटस्यानिवेशनीयतया गौरवं दुर्वारमेव । यत्तु विशेषदर्शनजन्यप्रत्यक्षं व्याप्यधर्मविशिष्टधर्मिविशेष्यकमेव, तदनुत्तरं तु न तथा। तथा च विशेषदर्शनविपरीतज्ञानाभावजन्यतावच्छेदकयोस्तथा आलोकप्रकाशः तद्धर्मावच्छिन्नोत्पत्तौ तद्धर्मावच्छिन्नसामग्रीप्रयोजिका । तद्धर्मावच्छिन्नसामग्री च तद्धर्माश्रययत्किञ्चिद्वयक्तिनिरूपितकारणतावच्छेदकनिखिलधर्मावच्छिन्नसमुदायः। न तु तद्धर्मावच्छिन्ननिरूपितकारणतावच्छेदकनिखिलधर्मावच्छिन्नसमुदायः, तद्धर्माश्रयनिष्ठयत्किञ्चिदेकधर्मावच्छिन्ननिरूपितकारणतावच्छेदकनिखिलधर्मावच्छिन्नसमुदायो वा, सामान्यविशेषसामग्योः परस्परापेक्षानुपपत्तेः । स्पष्टं चैतत्सामान्यलक्षणाप्रकरणस्थगादाधर्यामित्यलमधिकेन । व्याख्यायाम्-एकामावविशिष्टत्वेनैवेति । अन्यथा तत्तद्विषयकज्ञानविषयत्वरूपकूटल्वेन निवेशे ज्ञानांशे तत्तद्विषयकत्वानां विशेषणविशेष्यभावे विनिगमनाविरहप्रसक्त्या महागौरवं स्यादिति भावः। कारणताबाहुल्यमिति । गुरुभूतविपरीतज्ञानाभावकारणताबाहुल्यमित्यर्थः । विशेषदर्शनस्य व्यभिचारवारणायेति । असति विपरीतज्ञाने विशेषदर्शनं विनापि प्रत्यक्षोत्पत्या निरुक्तानुगतरूपावच्छिन्नस्यापि तस्य व्यभिचारादिति भावः। अव्यवहितोत्तरत्वप्रवेशस्येति । अभावप्रतियोगितयेत्यादिः। For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नच' रत्नमालिका वस्तुतस्तु विशेषदर्शनस्य हेतुत्वमुत्तेजकत्वं वा नावश्यकम् , संशयोत्तर विशेषदर्शनासत्त्वे संशयजनककोटिद्वयोपस्थितिधर्मिज्ञानादिघटितसामग्रीबलात् संशयस्यैवोत्पादन संशयान्यज्ञानत्वरूपनिश्चयत्वावच्छिन्नापत्त्ययोगात्। तत्सामध्यभावसहितशानसामान्यसामग्या एव संशयान्यज्ञानत्वावच्छिन्नोत्पत्तिप्रयोजकत्वात । न चैवं संशयसामथ्यभावस्य निश्चयोत्पत्तावपेक्षणे संशयप्रयोजकविशेषादर्शनस्याभावो विशेषदर्शनं तन्निश्चये हेतुरित्यायातमिति वाच्यम् । तत्प्रयोजका नूतनालोकः त्वघटितत्वाघटितत्वाभ्यामेव व्यभिचारवारणे नानन्तर्यप्रवेश इति । तन्न; करादिमान् पुरुष इत्यादिनिश्चयकालीनकरादिमत्त्वरूपावच्छेदकधर्मनिश्चयस्यापि पुरुषत्वादिनिश्चायकतया तजन्यनिश्चये विपरीतज्ञानाभावव्यभिचारस्यानन्तर्यमनिवेश्य दुर्वारत्वात् । करादिमत्त्वावच्छिन्नाविशेष्यकत्वस्य विपरीतज्ञानाभावजन्यतावच्छेदकत्वे करादिमान् पुरुष इत्यादिनिश्चयशून्यकालीनकरादिमत्ताग्रहोत्तरजातस्य करादिमानयं पुरुष इत्यादिप्रत्यक्षस्यासंग्रहप्रसङ्गात् । तन्नाशानन्तरमेवेति । स्पष्टं चेदं बाधशिरोमणी । आलोकप्रकाशः तदनुत्तरं तु न तथेति। विशेषदर्शनानुत्तरन्तु प्रत्यक्षं न व्याप्यधर्मावच्छिन्नविशेष्यकमित्यर्थः । भानन्तर्यमनिवेश्येति । अभावप्रतियोगितया विपरीतज्ञानाभावजन्यतावच्छेदककोटावानन्तर्यमनिवेश्येत्यर्थः । नन्ववच्छेदकधर्मदर्शनोत्तरप्रत्यक्षे व्याप्यत्वेनानुपस्थितधर्मस्य धर्मितावच्छेदकतया अभानेऽपि व्याप्यत्वाविशेषितकरादेस्तथा भाने बाधकामावादुभयत्रापि करायवच्छिन्नविशेष्यकत्वमक्षतमेवेति तदनवच्छिन्नविशेष्यकत्वस्य जन्यतावच्छेदकत्वस्वीकाराद्वयभिचाराभावान्नानन्तर्यनिवेशावश्यकतेत्याशङ्कयाह करादिमत्त्वेति । इत्यादिनिश्चयशून्यकालीनेति । इत्याद्यवच्छेदकत्वनिश्चयाभावदशायामित्यर्थः । दीधितिकृन्मतमाह मूले-वस्तुसस्त्विति। तत्सामध्यभावसहितेति । न च संशयसामध्यभावस्यापेक्षणे संशयसामग्याः प्रतिबन्धकत्वमेवायाति, तद्वरं विशेषदर्शनहेतुत्वमेवेति वाच्यम् ; विशेषदर्शनस्य हेतुत्वे व्यभिचारवारणाय स्वत्वघटितस्य विपरीतज्ञानोत्तरत्वस्य कार्यतावच्छेदककोटाववश्यं निवेशनीयतया तत्तद्वयक्तिविश्रमापत्तेः । व्याख्यायाम्-स्पष्टं चेदं बाधशिरोमणाविति । तत्रेत्थमभिहितम्-"विशेषदर्शनेन तन्नाशानन्तरमेव प्रत्यक्षोदयात्" इति । For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नृतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १७३ भावस्य तदन्यत्वावच्छिन्नाजनकस्यापि तदन्यत्वावच्छिन्नोत्पत्तौ प्रयोजकत्वमात्रेणापेक्षितनिर्वाहात् । अन्यथा पटज्ञानान्यघटज्ञानत्वावच्छिन्नोत्पत्तावपेक्षितस्य पटादिज्ञानसामग्र्यभावस्य पटशानान्यज्ञानत्वावच्छिन्नहेतुताप्रसङ्गात् । विपरीतनिश्चयानन्तरं च तेन प्रतिबन्धादेव न प्रत्यक्षम् । विपरीतनिश्चयस्य प्रत्यक्षसाधारणलौकिकसन्निकर्षाद्यजन्यविशिष्टबुद्धित्वावच्छिन्नं प्रत्येव प्रतिबन्धकत्वात् । विपरीतनिश्चयानन्तरं विशेषदर्शनेऽपि तन्नाशानन्तरमेव प्रत्यक्षं जायते । किञ्च, विशेषदर्शनस्य हेतुत्वेऽन्धकारे घटसंशये आलोकसंयोगसमवधानात्तन्निश्चयानुपपत्तिः । एवं कुङ्कुमादौ तैलसंयोगादिरूपव्याकविरहाधीनसौरभादिसन्देहानन्तरं व्यञ्जकसमवधानेऽपि तनिश्चयानुपपत्तिः। न चालौकिकत्वस्य विशेषदर्शनजन्यतावच्छेदकत्वोपगमान्नेयमनुपपत्तिः, तत्र घटसौरभादेौकिकप्रत्यक्षस्यैव विशेषदर्शनं विनोत्पत्तेरिति वाच्यम्; लौकिकसन्निकर्षवत्यपि यत्र विशेषदर्शनसहितदूरत्वादिदोषप्रयुक्तः पुरुषत्वादिसंशयः, तत्र विशेषदर्शने सत्येव लौकिकप्रत्यक्षोत्पत्तेर्विशेषदर्शनजन्यतावच्छेदकरूपस्य लौकिकप्रत्यक्षेऽप्यङ्गीकार्यत्वात् । अत एव विशेषदर्शिनामनुमितिसामग्रीसत्त्वादनुमितिरेव भविष्यति, न प्रत्यक्षमिति कथं तस्य प्रत्यक्षहेतुतेत्याक्षिप्य समानविषये प्रत्यक्षसामग्या बलवत्त्वमिति प्रत्यक्षमेव जायते, नानुमितिरिति मणिकारेण समाहितमुत्पत्तिवादे, विशेषदर्शनस्यालौकिकप्रत्यक्षमात्रहेतुत्वे तादृशप्रत्यक्षसामग्र्या अनुमितिसामग्र्यपेक्षया बलवत्त्वासङ्गतः, अधिकमन्यत्रानुसन्धेयम् । तथा च समानविषयकप्रत्यक्षसामग्रीमादाय नाव्याप्तिरिति । नूतनालोकः बलवत्त्वासङ्गतेरिति । यदि च विपरीतज्ञानोत्तरप्रत्यक्षनिष्ठविशेषदर्शनजन्यतावच्छेदकशरीरेऽलौकिकत्वनिवेशेऽपि न क्षतिः, दूरस्थे धर्मिणि पुरुषत्वादिसन्देहोत्पत्तिक्षण एव लौकिकसन्निकर्षात्तन्निश्चयवारणाय दूरत्वादिदोषसमवधानकालीनप्रत्यक्षेऽपि विशेषदर्शनहेतुताया आवश्यकतया तत एव दूरस्थे धर्मिणि संशयोत्तरमपि विशेषदर्शनं विना पुरुषत्वादिनिश्चयवारणसम्भवादित्युच्यते, तदापि सम्बन्धादिभेदभिन्ननानाविधव्याप्त्यवगाहिविशेषदर्शनावच्छेदकधर्मदर्शनादिसाधारणविशेषदर्श आलोकप्रकाशः मृले-तन्निश्वयानुपपत्तिरिति । विशेषदर्शनरूपकारणविरहादिति भावः । For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका _अथैवमप्यतिव्याप्तिः, समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमायामपि तादृशप्रतिबन्धकत्व-घटोभयाभावस्य सत्त्वात् । तादृशप्रतिबन्धकतात्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावविवक्षणेऽपि नोक्ताभावव्यावृत्तिः, प्रत्येकापर्याप्तस्य समुदायापर्याप्तत्वमिति न्यायेन समुदायस्य प्रत्येकानतिरिक्तत्वमूलकेन घटत्व-तादृशप्रतिबन्धकतात्व-द्वित्वैतत्त्रितयपर्याप्तावच्छेदकताया अपि तादृशप्रतिबन्धकतात्वपर्याप्तत्वावश्यम्भावात् । नहि साध्यवत्ताबुद्धित्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकतात्वमात्रावच्छिन्नत्वस्य तदितरानवच्छिन्नत्वपर्यवसितस्य प्रतियोगिताविशेषणत्वात्तद्वन्यावृत्तिरिति शङ्कयम् ; तथा सति द्वित्वावच्छिन्नभेदस्य प्रत्येकं सत्त्वेन तादृशप्रतिबन्धकतात्वस्यापि तदितरतया तदितरानवच्छिन्नप्रतियोगित्वाप्रसिद्धः। अवच्छिन्नत्वघटोभयाभावमादायोक्ताभावाद्यव्यावृत्तेश्च । . नूतनालोकः नत्वस्यानुगतस्याभावान्न तेन रूपेण हेतुतासम्भवः । इदमेवाभिप्रेत्य अधिकमित्युक्तम् । अन्यत्र अनुमितिगादाधर्याम् । यत्तु विपरीतज्ञानविरोधित्वेन विशेषदर्शनस्य हेतुत्वम् , तच्च रूपमालोकसंयोगादिसाधारणम् , तस्यापि विपरीतज्ञानपरिपन्थित्वादिति विशेषदर्शनविरहेऽप्यालोकसंयोगादितः प्रत्यक्षमुपपद्यत एवेति, तन्न, आलोकसंयोगादेविपरीतज्ञानविरोधित्वे प्रमाणाभावादिति दिक्। __अनुयोगितासम्बन्धन तादृशप्रतिबन्धकता विशिष्टाभाव एवात्र निवेश्यते, तथा चोभयत्वावच्छिन्ननिरूपितानुयोगितायास्तादृशप्रतिबन्धकतात्वावच्छिन्नसम्बन्धताविरहेणैवोभयाभावव्यावृत्तिः । स्पष्टं चैतत् "अभावत्वं चेदमिह नास्ति' आलोकप्रकाशः अनुमितिजनकज्ञानत्वस्यानुगमकत्वशङ्कानिरासायाह व्याख्यायाम्-अवच्छेदकधर्मदर्शनादिति । प्रमाणाभावादिति । चक्षुस्संयोगसत्त्वेऽपि पुरुषादावालोकसंयोगासत्वे तत्सत्वे च दूरत्वादिदोषात् संशयोत्पत्त्या आलोकसंयोगत्वेन विपरीतज्ञानविरोधित्वासम्भवादित्याशयः । अस्तु वा लौकिकप्रत्यक्षकारणान्तरसहितालोकसंयोगत्वेन तथात्वम् । तथापि तस्यात्मनिष्ठोऽन्यः सम्बन्धः । अन्यश्च विशेषदर्शनस्येत्युभयोरनुगतकारणतावच्छेदकसम्बन्धो दुर्वच इत्येकरूपेण हेतुत्वासम्भव इति । एतत्सूचनायैव दिगित्युक्तम् । ___वह्निव्याप्यधूमवत्पर्वतकालीनघटत्वेन वह्नयभाववान् पर्वत इति ज्ञानस्य विशेषदर्शनविधया वह्निमान् पर्वत इति प्रत्यक्षं प्रत्युक्तयुक्त्या हेतुत्वासम्भवान्न पूर्वोक्ताच्याप्तिरिति निगमयति मूले-तथा चेति । For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता Acharya Shri Kailassagarsuri Gyanmandir १७५ न च तादृशप्रतिवध्यतानिरूपितत्व-प्रतिबन्धकता त्वैतदुभयत्वावच्छिन्नस्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगिताकप्रतियोगिताकाभावस्य विवक्षणान्न दोषः, उभयाभावादिप्रतियोगितावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगिताया उभयत्वादिघटितसमुदायत्वेनैवावच्छेदान्न निरुतोभयत्वावच्छिन्नत्वमित्युभयाभावादिव्यावृत्तेरिति वाच्यम्; एवमपि तादृशप्रतिवध्यतानिरूपित प्रतिबन्धकतात्वेन व्यधिकरणधर्मेण घटाद्यभावस्याव्यावृत्तेः, व्यधिकरणधर्मावच्छिन्न प्रतियोगितावच्छेदकतायाः समानाधिकरणधर्मे प्रयोजनाभावादनङ्गीकारेण तत्पर्याप्तर्निरुक्तोभयत्वेनैवावच्छेदादिति चेन्न; प्रतियोगितायां स्वव्याप्यत्व-स्वावच्छिन्नत्वोभयसम्बन्धेन तादृशप्रतिबन्धकतात्वविशिष्टत्वविवक्षणादुक्ताभावव्यावृत्तेः । नूतनालोकः इति पक्तिव्याख्यानावसरे सिद्धान्तलक्षणगादाधर्यामित्यत उक्तम् उभयाभावादीति । आदिना विशिष्टाभावपरिग्रहः । विशिष्ट निरूपितानुयोगिताया अप्यधिकन्त्वित्यादिन्यायेन प्रतिबन्धकतात्वविशिष्टनिरूपितत्वसत्त्वेन तस्या अपि तत्सम्बन्धत्वानपायात् । एतदपि तत्रैव स्फुटम् । अनङ्गीकारेणेति । न च समानाधिकरणधर्मस्य व्यधिकरणधर्मावच्छिन्न प्रतियोगितावच्छेदकत्वानङ्गीकारे घटवति घटत्वेन घटपटोभयं नास्तीति प्रतीतिसिद्धाभावा निर्वाहप्रसङ्ग इति वाच्यम्, तादृशाभावप्रतियोगिताया व्यासज्यवृत्तित्वापगमेन प्रतियोगितावच्छेदकविशिष्टप्रतियोगिता पर्याप्त्यधिकरणवत्त्वस्य विरोधिनोऽप्रसिद्धया तादृशाभावस्य तत्रापि निर्वाहादिति भावः । निरुक्तोभयत्वेनैवावच्छेदादिति । तादृशप्रतिवध्यतानिरूपितत्व - प्रतिबन्धकतात्वोभयत्वेनैवावच्छेदादित्यर्थः । न च प्रतियोगितायां प्रतिबन्धकतानिष्ठत्वस्यापि विवक्षणादुक्ताभावव्यावृत्तिरिति शङ्कयम् ; एवमपि तादृशप्रतिबन्धकतात्वेन तादृशप्रतिबन्धकत्व घटोभयाभावाव्यावृत्तेरित्याशयः । उक्ताभावव्यावृत्तेरिति । न चैवमपि तादृशप्रतिबन्धकतात्वेन आलोकप्रकाशः For Private And Personal Use Only व्याख्यायाम् — सिद्धान्तलक्षणगादाधर्यामिति । तत्रेत्थमभिहितम् - " उभयत्वावच्छिन्ननिरूपितानुयोगिताया मणित्वादिविशिष्ट सम्बन्धताविरहाच्छुद्धानुयोगितासम्बन्धेनैव मणित्वादिविशिष्टस्योभयत्वाद्यवच्छिन्नाभावव्यावर्तकतासम्भवेन तादृशानुयोगितात्वेन सम्बन्धतानुपगमात्" इति । मूले – उभयत्वावच्छिन्नेति । इदञ्चानुयोगिताविशेषणम् । Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न' रत्नमालिका यद्वा व्यधिकरणधर्मावच्छिन्नप्रतियोगिता समानाधिकरणधर्मेऽप्यवश्यमुररीकरणीया, अन्यथा घटत्वेन वह्निर्नास्तीत्यादिप्रतीतौ वह्नित्वादेरुपलक्षणतया भानं वक्तव्यमिति तस्यास्तद्विशिष्टवैशिष्टयानवगाहितया तन्निर्विकल्पकानन्तरमप्युत्पत्त्यापत्तेः। न च वह्नित्वे प्रतियोगितावच्छेदकत्वानवगाहने तनिर्विकल्पकानन्तरंतादृशप्रतीतिरिष्टैव, फलीभूतप्रतीतौ प्रतियोगितावच्छेदकतया यदवभासते, तनिर्विकल्प नूतनालोकः तादृशयत्किञ्चित्प्रतिबन्धकत्वतदन्यतादृशप्रतिबन्धकत्वोभयाभावाव्यावृत्तिरिति वाच्यम् ; उक्ताभावविषयकप्रतीतौ प्रतियोगिविशेषणतापन्नतादृशोभयत्वस्यैव प्रतियोगितावच्छेदकत्वावगाहनात् , तृतीयया केवलवैशिष्टयस्यैवोल्लेखनात् । न च तादृशप्रतिबन्धकतात्वेन प्रमेयं नास्तीति प्रतीतौ प्रमेयसामान्यनिष्ठत्वेन भासमानप्रतियोगितैव तादृशप्रतिबन्धकत्वं नास्तीति प्रतीतौ प्रतिबन्धकतानिष्ठत्वेन भासते न त्वतिरिक्ता, लाघवात् । तथा च तादृशप्रतिबन्धकत्वाभावाप्रसिद्धथा असम्भव इति वाच्यम् ; तादृशप्रतिबन्धकतात्वेन प्रमेयं नास्तीति प्रतीतौ तादृशप्रतिबन्धकत्वं नास्तीति प्रतीतिसिद्धप्रतिबन्धकतामात्रनिष्ठप्रतियोगिताया एव प्रमेयत्वसामानाधिकरण्येन भानोपगमादुक्ताप्रसिद्धिविरहात् । स्पष्टं चेदम्-"अवृत्तिमात्रवृत्तिगगनत्वादिना" इति ग्रन्थावतरणिकायाम्। मतान्तरेऽप्रसिद्धेर्लाघवाच्चाह-यद्वेति । तेजस्त्वनिर्विकल्पकानन्तरमन्धकारादेरिदमिति प्रतीतिनिर्वाहाय-फलीभूतप्रतीताविति । तथा च तादृशप्रतीतेस्तेजस्त्वनिर्विकल्पकफलत्वाभावात्तदनन्तरं तादृशप्रतीतिनिर्वाह इति भावः। फलीभूतप्रतीतिविषयाभावप्रतियोगितावच्छेदकनिर्विकल्पकानन्तरमेवाभावप्रतीत्यनुपगमादित्युक्तौ द्रव्याद्यभावे घटत्वाद्यवच्छिन्नप्रतियोगितावच्छेदकत्वसम्बन्धेन घटाद्यवगाहिनो घटो नास्तीत्यादिप्रत्ययस्य आलोकप्रकाशः व्याख्यायाम्-मतान्तर इति । प्रतिबन्धकतात्वेन प्रमेयं नास्तीति प्रतीतौ प्रमेयसामान्यनिष्ठत्वेन भासमानप्रतियोगितैव प्रतिबन्धकत्वं नास्तीति प्रतीतौ प्रतिबन्धकतानिष्ठत्वेन भासत इति पक्ष इत्यर्थः । .. ननु स्वसमानाधिकरणप्रतियोगिताकत्वसम्बन्धेन प्रतियोगिविशेषणतःपन्नवह्नित्वादेरभावांशे धर्मिपारतन्व्येण भानमुपगम्य विशिष्टवैशिष्टयावगाहित्वोपगमान्न वह्नित्वादिनिर्वि For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता १७७ कानन्तरमेवाभावप्रतीत्यनुपगमादिति वाच्यम् ; तथा सति विशेषाभावेन वह्नित्वनिर्विकल्पकानन्तरं वह्नित्वे प्रतियोगितावच्छेदकत्वानवगाहिनो वह्निर्नास्तीत्याकारकप्रत्ययस्यापि स्वीकारापत्तेः । स्पष्टं चेदं चक्रवर्तिलक्षणादौ । इत्थं चोक्तपर्याप्तिनिवेशेनैव तादृशप्रतिबन्धकतात्वेन घटाभावादेावृत्तिः। ___अथवा प्रतियोगितायां तादृशप्रतिवध्यतानिरूपितत्व प्रतिबन्धकतात्वोभयत्ववृत्तित्वविवक्षणान्न कोऽपि दोषः। वृत्तित्वं च स्वनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्व-स्वपर्याप्त्यनुयोगितावच्छेदक - वृत्तित्वोभयसम्बन्धेनेत्यलमधिकेन । नूतनालोकः घटत्वादिनिर्विकल्पकानन्तरमुत्पादापत्तिरिति यदवभासत इत्युक्तम् । प्रतियोगितावच्छेदकत्वानवगाहिन इति । वह्नित्वादौ प्रतियोगितावच्छेदकतासत्त्वेऽपि विशेष्ये विशेषणमिति रीत्या वह्नित्वाद्यवगाहिन इत्यर्थः । प्रतियोगिविशेषिताभावप्रतीतिविशिष्टवैशिष्ट्यमर्यादां नातिशेत इति नियमस्त्विदानीमप्रयोजक इति भावः। स्वीकारापत्तेरिति । न चेष्टापत्तिः, अनुभवविरोधात्, वह्निमत्यपि वह्निर्नास्तीति बुद्धयापत्तेश्चेति भावः । समानाधिकरणधर्मस्य प्रतियोगितानवच्छेदकत्वमते त्वाह-अथवेति । न च तादृशप्रतिबन्धकतात्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेद एव निवेश्यताम् ? व्यधिकरणधर्मावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदानङ्गीकारेण तादृशभेदमादायातिव्याप्तेरनवकाशात् । घटत्वेन वह्निमान् नेति प्रतीतौ घटत्वावच्छिन्नवह्नयत्यन्ताभावस्यैव विषयत्वोपगमादिति वाच्यम् ; व्यधिकरणधर्मावच्छिन्नात्यन्ताभाववादिमते तादृशधर्मावच्छिन्नावच्छेदकताकभेदस्यापि तुल्ययुक्त्याऽङ्गीकरणीयत्वात् । अत एव “समवायितया वाच्यत्ववद्भेदोऽपि द्रष्टव्यः" इति मिश्राभिधानसङ्गतिः। स्पष्टं चेदं चक्रवर्तिलक्षणे। एतत्पने प्रतियोग्यवृत्तिश्चेत्यादिप्रन्थस्तूपलक्षणम् । स्वपर्याप्त्यनुयोगितावच्छेदक आलोकप्रकाशः कल्पकानन्तरं वह्निर्नास्तीति बुद्धिप्रसङ्ग इत्यत आह-वह्निमत्यपीति । वह्निर्नास्तीति बुद्धयापत्तेश्चेति । महानसीयवह्नयाद्यभावमादायेत्यादिः। मूले इदमिति । समानाधिकरणधर्मान्तर्भावेन पर्याप्तत्वम् । चक्रवर्तिलक्षणादाविति । चक्रवर्तितृतीयलक्षणे व्यधिकरणधर्मावच्छिन्नाभावखण्डनावसरे च गादाधर्यामित्यर्थः । व्याख्यायाम्-चक्रवर्तिलक्षण इति । चक्रवर्तितृतीयलक्षणव्याख्यानावसर इत्यर्थः । उपलक्षणमिति । प्रतियोगितावच्छेदकावृत्तिश्च धर्मो न प्रतियोगितावच्छेदकतावच्छेदक इत्यर्थस्यापि न्यूनतापरिहाराय वाच्यत्वादिति भावः । २३ For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७८ 'न च' रत्नमालिका अथ यत्समानाधिकरणसाध्याभावनिष्ठप्रमीयप्रकारतानिरूपितहेतुमन्निष्ठविशेष्यतासामान्ये स्वावच्छेदकावच्छिन्नविशेष्यताकसाध्यवत्ताशानसामान्यप्रतिबन्धकतावच्छेदकत्वाभावः कुतो नेह विवक्षितः, तथा सति पूर्वोपदर्शितस्य समूहालम्बनभिन्नत्वस्य, स्वसमानधर्मितावच्छेदककसाध्यवत्ताशानप्रतिबन्धकतावच्छेदकसाध्यवत्ताज्ञानप्रतिबन्धकतावच्छेदकविषयितानिरूपकतावच्छेदकावच्छिन्नाविषयकत्वस्य वाऽनिवेशनीयतया लाघवात् । नूतनालोकः वृत्तित्वेति । स्वावच्छिन्नाधिकरणत्वसम्बन्धेन स्वव्यापकत्वपर्यवसितेत्यर्थः । तेन प्रतिबन्धकत्वाभावप्रतियोगिताया अव्यासज्यवृत्तितया पर्याप्त्यनभ्युपगमेऽपि न क्षतिः । एतत्सर्वमभिप्रेत्य अलमधिकेनेत्युक्तम् । समूहालम्बनभिन्नत्वस्येति । एकत्र द्वयमिति रीत्या ज्ञानव्यावर्तकविशेषणं तूपादेयमेव । अन्यथा एतत्पक्षे तथाविधज्ञानीयविषयतामादायाव्याप्यवृत्तिसाध्यकस्थलेऽव्याप्त्यापत्तेरिति बोध्यम् । समूहालम्बनभिन्नत्वादेः पूर्वमेव परित्यागादाह-स्वसमानधर्मितावच्छेदकेत्यादि । धर्मितानवच्छेदकत्वेनेति । पुष्पोत्पत्तेः कर्तृतया सप्तच्छदेऽन्वयात् । न च सप्तच्छदा इति प्रथमान्तार्थस्याख्यातार्थद्वारा क्रियायामन्वयोऽस्तु, तथा च धर्मितावच्छेदकत्वं सम्भवत्येवेति वाच्यम्; प्रथमान्तमुख्यविशेष्यकत्वानुपपत्त्या तथा अन्वयासम्भवात् । आलोकप्रकाशः भाख्यातार्थद्वारेति । अयमाशयः-चैत्रः पचतीत्यादौ कर्ता आख्यातार्थः । तत्र प्रथमान्तार्थचैत्रादेरभेदेनान्वयः। तस्य क्रियायां स्वनिष्ठकर्तृतानिरूपकत्वसम्बन्धेनान्वयः, "क्रियाप्रधानमाख्यातम्" इति महाभाष्यात् । न चैवं सति चैत्रो न पचतीत्यादावुक्तसम्बन्धावच्छिन्नप्रतियोगिताकचैत्राभिन्नकप्रभाववान् पाक इति बोधो वक्तव्यः । पाकाभावबोधाङ्गीकारे पचत्यपि चैत्रे तथा प्रयोगप्रसङ्गात् , अन्यत्र पाकाभावसत्त्वात् । तथा च वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकतया अभावाप्रसिद्धिः। एवं चैत्रत्वाद्यपेक्षया चैत्राद्यभिन्नकर्तृत्वस्य गुरुतया तदवच्छिन्नप्रतियोगिताकाभावाप्रसिद्धिः । एवं चैत्रः पचतीत्यादौ कर्तृत्वस्य द्वेधा भानमावश्यकमिति । भिन्न विषयकप्रत्यक्षं प्रति तादृशवाक्यघटितशाब्दसामग्रीप्रतिबन्धकतायां गौरवम् , योग्यताज्ञानादेविविधकर्तृत्वविषयताघटितगुरुरूपेण तत्र प्रवेशनीयत्वादिति वाच्यम् ; क्रियामुख्यविशेष्यकत्रोधाङ्गीकारे बहुतरगौरवसत्त्वेऽपि तस्य प्रमाणिकतया फलमुखतया चादोषत्वादिति । प्रथमान्तमुख्यविशेष्यकत्वानुपपत्तेरिति । न च प्रथमान्तमुख्यविशेष्यकत्वमेवासिद्धम् , "ते For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतन लोकटीका तत्प्रकाशटिप्पण्योपबृंहिता न चैवं सति धूमवान् वद्धेरित्यादावतिव्याप्तिः, तत्र साध्यवत्ताज्ञानत्वव्यापक प्रतिवक्ष्यतानिरूपितप्रतिबन्धकताया अयोगोलकत्वावच्छेदेन साध्याभाववत्तानिश्चयमात्रनिष्ठतया धर्मिविषयत्वेनानवच्छेदादिति वाच्यम्; धर्मितावच्छेदकव्यापआलोकप्रकाशः 1 विभक्त्यन्ताः पदम्” इति गौतमसूत्रे, “क्रियाप्रधानमाख्यातम्, यथा पचति" इति न्यायवार्त्तिककारवचनात्, "भावप्रधानमाख्यातम् सत्त्वप्रधानानि नामानि " इति यास्कवचनाच्च क्रियाप्राधान्यस्यैव स्वरसतः सिद्धत्वात् । एवं कर्तुः प्राधान्ये "पश्य मृगो धावति, शृणु कूजति कोकिलः " इत्यादेर्दर्शनाद्यन्वयानुपपत्तेश्च, तस्य कर्तृत्वविशेषणत्वादिति वाच्यम्; क्रियाप्राधान्याभ्युपगमे " इदानी चैत्रीय तण्डुलं न पचति मैत्रः" इति प्रयोगानुपपत्तेः । तथा हि-तत्र तादृश तण्डुलकर्मकपाके एतत्कालावच्छिन्नत्वस्य बाधितत्वान्नञर्थाभावे एवान्वयो वाच्यः, स च न सम्भवति, तादृशपाकनिष्ठ मैत्रकर्तृकत्वाभावस्यैतत् कालान वच्छिन्नत्वात् । अवच्छेद्याधिकरणसम्बन्धिन एवावच्छेदकत्वात् । एतत्कालस्यावच्छेद्याधिकरणतादृशपाकानधिकरणत्वात् । कर्तुः प्राधान्यपक्षे मैत्रनिष्ठ कर्तृत्वाभावस्य एतत् कालावच्छिन्नत्वात्तत्र तदन्वयो निर्वाध एवेति क्रियाप्रधानमाख्यातमित्यत्र क्रिया करणम्, "कृञः शचः" इति भावे शः । क्रियायाः प्रधानमिति विग्रहः । तथा च क्रियानिरूपितप्रधानताश्रय इत्यर्थः । स च यत्रास्तीत्यर्थे अर्शाद्यजन्तः क्रियाप्रधानशब्दः । अन्यपदार्थ आख्यातम् । एवञ्च क्रियानिरूपितप्रधानत्वाश्रयोऽर्थात् कृतिरेव वाचकतया तदधिकरणमाख्यातमिति वार्त्तिकार्थः । एवं "भावप्रधानमाख्यातम्" इत्यत्र भाव्यते उत्पाद्यतेऽनेनेति भावः कृतिः, सा प्रधानं यस्य तदाख्यातमिति या वचनार्थः । पश्य मृगो धावतीत्यादिप्रयोगानुपपत्तिः परम् आमन्त्रय, शिष्यो धावति, शिशुः क्रीडति, ताडयेत्यादि प्रयोगानुपपत्तिवत् समाधेया । वस्तुतस्तु नैयायिकमते सर्वत्र प्रथमान्तमुख्यविशेष्यक एव बोध इति न नियमः कैरव्यभियुक्तस्तथा अलिखनात् अनिर्वाहाच्च, किन्तु यथासम्भवं तत्तद्विशेष्यकः । अत एव पचतीत्यादौ प्रथमान्तपदासमभिव्याहारे भावना मुख्यविशेष्यकः, भावाख्यातस्थले क्रियामुख्यविशेष्यक एव बोधः । एवञ्च "इह भवने मैत्रेणैव तैमनं पक्ष्यते" इत्यादावेवकारेण तैमनकर्मकैतद्गृहाधिकरणपाकत्वावच्छेदेन मैत्रान्यकर्तृकत्वाभावो बोध्यताम्, न तु तेमनत्यावच्छेदेनैतद्गृहाधिकरणकमैत्रान्यकर्तृकपाककर्मत्वाभावोऽप्रसिद्धेः" इति taradharafar दीधितिकृतां शङ्का सङ्गच्छते । एवं न कलञ्जं भक्षयेदित्यादौ कञ्जभक्षणं बलवदनिष्टानुबन्धित्वाभाववदिति बोधाङ्गीकरणं मणिकृतां सङ्गच्छते । यत्तु न कलञ्जमित्यादौ बलवदनिष्टाननुबन्धित्वाभाववत्कलञ्जभक्षणानुकूलकृतिमानिति प्रथमान्तार्थमुख्यविशेष्यकबोधलिखनं केषाञ्चित्तदसत् ; तत्र प्रथमान्तपदस्यैवाभावात्, अध्याहारे प्रमाणाभावाच्च । अत एवान्ध आकारां " " For Private And Personal Use Only १७९ Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८० .. 'नच' रत्नमालिका कत्वादन्यस्य संसर्गाशे विशेषणतया भाने मानाभावेन लाघवायापकत्वघटककेवलाभावविशिष्टस्वरूपसम्बन्धावच्छिन्नधूमाभावत्वावच्छिन्नप्रकारतानिरूपितायोगोलक - त्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेनैव प्रतिबन्धकत्वस्य वक्तव्यतया धर्मिविषयिताया अपि तदवच्छेदकत्वात् । आलोकप्रकाशः न पश्यतीत्यादिप्रयोगाणामप्युपपत्तिः। अन्धवृत्तित्वाकाशविषयकत्वोभयाभावप्रकारकदर्शनविशेष्यकबोधसम्भवात् । आकाशविषयकदर्शनाभाववानन्ध इति प्रथमान्तार्थमुख्यविशेष्यक बोधस्याप्रसिद्ध या असम्भवात् । इत्थञ्च चैत्रः पचतीत्यादौ प्रथमान्तार्थमुख्यविशेष्यकबोधेऽपि पश्य मृगो धावतीत्यादौ मृगकर्तृकधावनस्य विषयतया दर्शनान्वयेन क्रियाविशेष्यकबोधाऽङ्गीकारेऽपि बाधकाभावः। विशेष्यविशेषणभावस्य तात्पर्यग्रहमात्राधीनतया क्वचिद्धात्वर्थविशेष्यकबोधाङ्गीकारे क्षतिविरहात् । अत एव पचति भवतीत्यादिप्रयोगानुपपत्तिरपि समाहिता। तत्र पाकानुकूलकृतिर्भवतीति भावनाविशेष्यकबाधाङ्गीकारादिति सारम् । एतेन प्रथमान्तमुख्यविशेष्यकबोधनियमे त्वया अत्र कः पच्यते ? इति प्रश्ने, मया तण्डुलस्य पाकः क्रियत इत्युत्तरस्य पाकविशेष्यकबोधजनकस्य प्रश्ननिवर्तकत्वानुपपत्तिः, समानविशेष्यकबोधजनकवाक्यस्यैव प्रश्ननिवर्तकत्वात् । एवं "ब्राझो विवाह आहूय यत् कन्या. दीयते स्वयम्” इति स्मृतिवाक्यादाह्वानपूर्वकं स्वयं कन्यादानं ब्राह्मो विवाह इत्यर्थलाभानुपपत्तिः। यत्तु क्रियामुख्यविशेष्यकबोधाङ्गीकारे उक्तानुपपत्तिविरहेऽपि "प्रयान्ति गुरवस्तेषां पादयोरभिवादये” इत्यादौ तच्छब्दस्य गुणीभूतगुरुपरामर्शकत्वानुपपत्तिः, सर्वनाम्नां प्रधानपरामर्शित्वनियमादिति, तन्न; उक्तनियमस्यौत्सर्गिकत्वेन गुणीभूतार्थस्यापि क्वचित् परामर्श बाधकाभावात् । अन्यथा “दशैते राजमातङ्गास्तस्यै वामी तुरङ्गमाः", "चैत्रो ग्रामगतस्तत्र मैत्रः किं कुरुतेऽधुना", "चैत्र ! प्रजावतीयं मे त्वं तस्मै देहि कम्बलम्" इत्यादौ तच्छब्देन यथाक्रमं राजग्रामभ्रातृपरामर्शानुपपत्तेः । अत एव "अनुमानं निरूप्यते” इप्युपक्रम्य, “तत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः” इत्युक्तम् । तत्र तच्छब्देन निरूपणपरामर्शासम्भवात् “तत्र अनुमाने निरूपणीये" इति व्याख्यातं दीधितिकारैरिति तटस्थानामाशङ्का निराकृता, यथासम्भवं क्रियाप्रथमान्तार्थमुख्यविशेष्यकबोधयोरुक्तरीत्याभ्युपगमसम्भवेनानुपपत्त्यभावात् । अथवा प्रथमान्तपदासमभिव्याहारे उक्तरीतिरेव । तत्समभिव्याहारे च सर्वत्र प्रथमान्तार्थविशेष्यकबोध एव, न चोक्तदोषः । कः कुलीन इति प्रश्ने यस्य धनमिति भिन्नविशेष्यकबोधजनकादप्युत्तरवाक्यात् प्रश्ननिवृत्त्या समानविशेष्यकबोधजनकवाक्यस्यैव प्रश्ननिवर्तकत्वमिति नियमाभावात् । अन्यथा कश्चैत्र इति For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १८१ न च संसर्गाशे धर्मितानवच्छेदकस्यापि व्यापकत्वभानमावश्यकम् । अन्यथा शरदि पुष्पन्ति सप्तच्छदा इत्यादि शाब्दबुद्धौ सप्तच्छदपुष्पोत्पत्तित्वस्य धर्मितानवच्छेदकत्वेन संसर्गविधया तव्यापकत्वभानानुपपत्तेः । पुष्पोत्पत्तित्वसामानाधिकरण्यमात्रेण शरवृत्तित्वभानोपगमे शरदि पुष्पन्ति चम्पका इत्यादिप्रयोगापत्तेः। तथा चावच्छेदकावच्छेदेन बाधबुद्धिप्रतिबन्धकतावच्छेदककोटौ तत्तद्धर्मव्यापकत्वविशिष्टतत्तत्सम्बन्धावच्छिन्नप्रकारताया अप्रवेशे शरदि पुष्पन्ति सप्तच्छदा इति शाब्दबुद्धेश्चम्पकपुष्पोत्पत्तिः शरवृत्तिर्न वेति संशयप्रतिबन्धकत्वापत्तिरिति वाच्यम् ; विशेषणसम्बन्धे धर्मितानवच्छेदकस्यापि व्यापकत्वभानोपगमे इह भवने मैत्रेणैव पक्ष्यते तेमनमित्यत्र एतद्भवनाधिकरणकतेमनपाकत्वेन रूपेण शब्दात् पाकानुपस्थित्या तवच्छिन्ने मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वव्यवच्छेदबोधासम्भवकथनस्य दीधितिकृतामसाङ्गत्यापत्तेः। नूतनालोकः प्रयोगापत्तेरिति । शरदि चम्पकानां पुष्पोत्पत्तेरिति भावः। पुष्पोत्पत्तित्वसामानाधिकरण्येनैव शरवृत्तित्वभानलाभाय चम्पकेतिः। विशेषण एव भासत इति । अयमभिप्राय:-विशेषणसंसर्गे व्यापकत्वभानोपगमे द्रव्यत्वावच्छेदेन रूपवत्ताबुद्धेः प्रमात्वप्रसङ्गः, समवाये द्रव्यत्वव्यापकत्वाबाधात् । विशेषणे तद्भानोपगमे तु न आलोकप्रकाशः प्रश्ने यः पाचक इतिवद् यः पचतीति वाक्यस्यापि समानविशेष्यकबोधजनकत्वेनैव प्रश्ननिवर्तकत्वे क्रियाविशेष्यकबोधनियमाङ्गीकर्तृमतेऽप्यगतेः। एवं "ब्राह्मो विवाहः” इति स्मृतिवाक्यस्य तादृशकन्यादानं ब्राह्मो विवाह इति नार्थः, गान्धर्वादिविवाहसाधारण्याय "वह प्रापणे” इति धात्वनुसारेण वरनिष्ठकन्याप्राप्त्यनुकूलविलक्षणव्यापारस्यैव विवाहतया कन्यादानस्य विवाहत्वाभावात् । अत एव स्मृतौ विवाहस्याष्टधा प्रविभागः सङ्गच्छते । सामान्यधर्माक्रान्तानां विशेषरूपेण प्रतिपादनस्यैव विभागत्वात् । किन्तु यद्यस्मै यादृशविवाहात्मकव्यापारायाहूय स्वयं दीयते कन्या स व्यापारो ब्राह्मो विवाह इति । इह भवने मैत्रेणैव तेमनं पक्ष्यत इत्यादावण्येवकारार्थव्यवच्छेदस्योभयत्वावच्छिन्नप्रतियोगिताकतया भानोपगमेनैतद्भवनाधिकरणकमैत्रान्यकर्तृकत्वोभयाभाववत्पाककर्म तेमनमिति प्रथमान्तार्थविशेष्यक एव बोधः । अन्ध आकाशं न पश्यतीत्यादौ च आकाशविषयकत्वाभाववदर्शनाभाववानन्ध इत्येव बोध इति न कोऽपि दोष इति । अधिकन्तु न्यायकौस्तुभादौ द्रष्टव्यमिति । For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ 'नच' रत्नमालिका न च तदवच्छेदेन विशिष्टबुद्धौ तदवच्छेद्यत्वं विशेषण एव भासत इति मताभिप्रायेणैव तेषां तदभिधानम् । विशेषणसंसर्ग एव तदवच्छेद्यत्वं भासत इति पक्षे तु तत्र धर्मितानवच्छेदकस्यापि व्यापकत्वभाने वाधकाभावः। तथा च धर्मिविषयतायास्तादृशप्रतिबन्धकतावच्छेदककोटिप्रवेशो व्यर्थ एवेति वाच्यम् ; अत्रावच्छेदकावच्छेदेन साध्यवत्ताज्ञानत्वव्यापकप्रतिवध्यताया एव विवक्षणेनोक्तातिव्याप्त्यनवकाशात् । नूतनालोकः तत्प्रसङ्गः, रूपस्य द्रव्यत्वाव्यापकत्वादिति । इति मताभिप्रायेणैवेति । तथा चैतद्भवनाधिकरणतेमनपाकत्वस्य शब्दादनुपस्थित्या तत्र व्यापकतासम्बन्धावच्छिन्नप्रकारतारूपमवच्छेदकत्वभानं न सम्भवतीति भावः । विशेषणसंसर्ग एवेति । वायू रूपवानिति प्रयोगवारणाय रूपप्रतियोगिकत्वविशिष्टसमवायानुयोगिताया एव रूपसम्बन्धत्वावश्यकतया तत्र द्रव्यत्वव्यापकत्वस्य बाधान्न द्रव्यत्वावच्छेदेन रूपवत्ताप्रतीतिः। इत्थं च सप्तच्छदपुष्पोत्पत्तित्वस्य शब्दादनुपस्थितत्वेऽपि तत्र व्यापकत्वनिष्ठसंसतावच्छेदकतावच्छेदकत्वरूपस्यावच्छेदकत्वस्य भानं निराबाधमेवेति भावः । न च घटत्वावच्छेदेन द्रव्यत्वावगाहिन्यां घटो द्रव्यमित्यादिशाब्दबुद्धौ पदार्थतावच्छेदकद्रव्यत्वजातेः स्वरूपत उपस्थिततया केवलसमवायस्यैव प्रवृत्तिनिमित्तताघटकसम्बन्धतया च घटत्वावच्छेद्यत्वभानं न सम्भवतीति व्यापकत्वभाननियम एव दुर्घट इति वाच्यम् ; तत्र द्रव्ये तत्तादात्म्ये वा तदवच्छेद्यत्वभानोपगमात् । तथा चेति । संसर्गाशे धर्मितानवच्छेदकस्यापि व्यापकत्वभानावश्यकतया तत्तद्धर्मव्यापकत्वविशिष्टतत्तत्संसर्गावच्छिन्नप्रकारताया एव तादृशप्रतिबन्धकत्वावश्यकत्वे चेत्यर्थः। अवच्छेदकावच्छेदेनेति । प्रमायां प्रतिबन्धकत्वाभावनिवेशपक्षे घटत्वावच्छिन्नप्रतियोगिताकाभावान्यः पटाभावत्वादित्यादौ घटत्वावच्छिन्नप्रतियोगिताकसाध्याभाववानभाव इत्यादिप्रमामादायाव्याप्त्यापत्तेरेतद्विवक्षणासम्भवेऽपि प्रतिबन्धकत्वाभावनिवेशपक्षे तद्विवक्षणे न किश्चिद्बाधकमिति भावः। आलोकप्रकाशः न किञ्चिद्वाधकमिति । घटत्वावच्छिन्नप्रतियोगिताकत्वनिष्ठप्रकारतानिरूपिताभावत्वाव च्छिन्नविशेष्यताया एव तादृशप्रतिबन्धकतावच्छेदकतया साध्याभावनिष्ठप्रकारतानिरूपितहेतुपन्निष्ठविशेष्यतायां तदवच्छेदकत्वाभावादिति भावः । For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतना लोकदीका तत्प्रकाशटिप्पण्योपबृंहिता यद्वा हेतुमन्निष्ठमुख्यविशेष्यतानिरूपितयत्समानाधिकरणसाध्याभावनिष्ठप्रमीय प्रकारता सामान्ये स्वनिरूपित विशेष्यतावच्छेदकावच्छिन्न विशेष्यताक साध्यवत्ताज्ञानसामान्यप्रतिबन्धकतावच्छेदकत्वाभावविवक्षणाददोष इति चेन्मैवम् ; धर्मितावच्छेदकव्यापकत्वं विधेय एव भासत इति पक्षे बाधबुद्धिप्रतिबन्धकतावच्छेदककोटौ धर्मिविषयतायाः प्रयोजनाभावेनाप्रवेशादतिव्याप्त्यापत्तेः । एवं यत्र व्यभिचारिविशेषे व्यभिचारनिरूपकाधिकरणे तत्क्षेत्रादौ तदङ्कराभावस्य भ्रमात्मकं ज्ञानं न जातम्, तत्र बाधज्ञानस्य निरूप्यनिरूप कभावापन्नविषयताशालिनिश्चयस्वेन प्रतिबन्धकत्वकल्पने गौरवात्तदङ्कुराभावविशिष्टतत्क्षेत्रादिविषयकनिश्चयत्वेनैव प्रतिबन्धकत्वस्य कल्पनीयतया तदङ्कराभावविषयतायास्तादृशप्रतिबन्धकतानवच्छेदकत्वादतिव्याप्त्यापत्तेश्च । For Private And Personal Use Only १८३ नूतनालोकः एकत्र द्वयमिति रीत्या ज्ञानव्यावर्तक विशेषणस्यावच्छेदकावच्छेदेन साध्यवत्ताज्ञानत्वव्यापकत्वस्य चानिवेशेन लाघवादाह - यद्वेति । एतेन अवृत्तिर्विभुत्वादित्यादौ भावाभावसाधारणाभावत्व रूपहेतुमद्वृत्तिधर्मावच्छिन्नविशेष्यकव्यधिकरणधर्मावच्छिन्नप्रतियोगिता कसाध्याभावप्रमाया अपि सामान्यान्तर्गततया तत्समानधर्मितावच्छेदककस्यावच्छेदकावच्छेदेनानाहार्य साध्यवत्ताज्ञानस्याप्रसिद्धयाऽव्याप्ति रिति परास्तम् इदानीं सामानाधिकरण्येन तथाविधसाध्यवत्ताज्ञानमादाय लक्षणसमन्वयसम्भवात् । धर्मितावच्छेदकव्यापकत्वमिति । व्यापकतासम्बन्धेन धर्मिता - वच्छेदकवत्त्वमित्यर्थः । भासत इति । विशिष्टवैशिष्टय मर्यादयेत्यादिः । अप्रवेशादिति । एतत्पक्षे तद्धर्मावच्छिन्नविशेष्यकतद्वत्ताबुद्धिं प्रति तद्धर्मनिष्ठ व्यापकता सम्बन्धावच्छिन्नप्रकारता निरूपिततद्भावत्वावच्छिन्नप्रकार ताशालिनिश्चयत्वेनैव प्रतिबन्धकताया वक्तुं शक्यत्वादिति भावः । द्वितीयकल्पे दूषणमाह - एवमिति । आलोकप्रकाशः व्यापकत्वस्य शब्दादनुपस्थित्या प्रकारतया भानासम्भवाद्वयाचष्टे - व्यापकतासम्बन्धेनेति । शक्यत्वादिति । न चायोगोलकत्वव्यापकधूमाभाववान् घट इत्यादि ज्ञान - व्यावृत्तये धर्मिविषयतायाः प्रवेश आवश्यक एवेति वाच्यम्; विशिष्ट वैशिष्ट्य मर्यादया धर्मितावच्छेदकव्यापकत्वभानस्थले धर्मितावच्छेदकनिष्ठप्रकारताया धर्मिविषयतावच्छेदकत्वरूपधान्यनियमेन धर्मितावच्छेदक निष्ठावच्छेदकीभूतप्रकारतानिरूपिततदभावत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेन प्रतिबन्धकत्वोपगमादुक्तज्ञानव्यावृत्त्या धर्मिविषयतानिवेशस्य निष्प्र Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका न च तादृशप्रकारतासामान्ये स्वाश्रयत्व-स्वाश्रयविषयतानिरूपितत्वान्यतरसम्बन्धावच्छिन्नप्रतियोगिताकप्रतिबन्धकतावच्छेदकत्वाभावस्य विवक्षणान्नोक्तदोष इति वाच्यम्; एवमपि विशिष्टसत्ताभाववान् जातेरित्यादावतिव्याप्तेर्दुरित्वात्। विशिष्टसत्ताभावाभाववद् द्रव्यमित्यादिनिश्चयस्य विशिष्टवैशिष्ट्यावगाहिन एव प्रतिबन्धकत्वेनाभावप्रकारतायास्तदनवच्छेदकत्वादिति । वस्तुतस्तु गौरवादेवं विवक्षा न कृता। केचित्तु यादृशव्यभिचारिणि हेतुमद्विशेष्यकं समानाधिकरणधर्मावच्छिन्नसाध्याभावप्रकारकशानं भ्रमात्मकं समूहालम्बनात्मकमेव वा जातम्, तादृशव्यभिचारिण्यतिव्याप्तिः, यत्समानाधिकरणसाध्याभावप्रमासामान्यस्य साध्यवत्ताशानाप्रतिबन्धकत्वात् । तथा चेदं लक्षणमयुक्तमेवेति । नूतनालोकः अन्यतरसम्बन्धावच्छिन्नेति । इदानीमेकत्र द्वयमिति रीत्या ज्ञानव्यावर्तकविशेषणमुपादेयमेवेत्याशयः । विशिष्टवैशिष्टयावगाहिन एवेति । अभावाभावत्वोपलक्षितस्य सत्तात्मनो विशिष्टसत्ताभावविरोधविरहादिति भावः । तदनवच्छेदकत्वादिति । तादृशनिश्चयस्य स्वावच्छिन्नाधेयतानिरूपकत्वसम्बन्धावच्छिन्नसाध्याभावत्वनिष्ठधर्मिपारतन्त्र्यप्रकारतानिरूपितद्रव्यत्वाद्यवच्छिन्नविशेष्यताशालिनिश्चयत्वेनैव प्रतिबन्धकत्वादिति भावः । यदि तत्र विशेष्यता एकैवेत्युच्यते, तदा तदेकत्र द्वयमिति रीत्या ज्ञानमेवेति तस्य लक्षणाघटकत्वादव्याप्तिः सुतरामिति विशिष्टाभावस्य वैशिष्टयाभावरूपत्वे उक्तदोषाभावादाह-वस्तुतस्त्विति । आलोकप्रकाशः योजनत्वात् । न चैवमप्युक्तज्ञानाव्यावृत्तिः, तज्ज्ञानीयायोगोलकत्वनिष्ठप्रकारताया यत्किञ्चित्प्रतियोगितावच्छेदकत्वात् । अतो धर्मितावच्छेदकनिष्ठप्रकारतायां धर्मिविषयतावच्छेदकत्वरूपं धर्मिपारतन्यमेव निवेशनीयम् । तथा च धर्मिविषयतायाः प्रतिबन्धकतावच्छेदकत्वं निर्बाधमेवेति वाच्यम् ; धर्मितावच्छेदकनिष्ठविषयतायाः प्रतियोगिताद्यवच्छेदकत्वाद्विलक्षणमेव धर्मिपारतन्त्र्याभिधमवच्छेदकत्वमिति तस्यैव प्रतिबन्धकतावच्छेदकशरीरे प्रवेशेनोक्तज्ञानव्यावृत्त्या धर्मिविषयतायास्तत्राप्रवेशादिति भावः। यदि चावच्छेदकत्वनिष्ठं वैलक्षण्यं धर्मिविषयतानिरूपितत्वमेव, न तु धर्मिविषयत्वाघटितमित्युच्यते, तदा वक्ष्यमाणविशिष्टसत्ताभावसाध्यकस्थलातिव्याप्तिरेवात्र कल्पे दोषो बोध्यः। For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १८५ न च जन्यसमूहालम्बनान्यत्वमेव निवेश्यते, तथा च प्रतिबन्धकीभूतेश्वरप्रमाया अपि लक्षणघटकत्वानोक्तातिव्याप्तिरिति वाच्यम् ; एवं सति वह्निमान् धूमादित्यादावव्याप्त्यापत्तेः, हृदे वह्नित्वावच्छिन्नप्रतियोगिताकवह्नयभावावगाहिनो भगवज्ञानस्य स्वसमानधर्मितावच्छेदककसाध्यवत्ताज्ञानप्रतिबन्धकत्वात् । न च हेतुमद्विशेष्यकसाध्यप्रकारकज्ञानसामान्याविरोधित्वमेव निवेश्यते, तथा च भगवज्ञानस्य तादृशशानाविरोधितया नाव्याप्त्यवकाश इति वाच्यम्; उक्तरीत्या भगवज्ञानसंग्रहे तस्य सिद्धिविधया अनुमितिसामान्यविरोधित्वादसम्भवापत्तेः, भगवतोऽनुमिति, भूयादितीच्छाविरहात् । न चानु मितित्वानवच्छिन्नत्वस्य, प्रत्यक्षादिसाधारणसाध्यवत्ताज्ञानत्वव्यापकत्वस्य वा प्रतिवध्यताविशेषणत्वेनोक्तप्रतिवध्यताव्यावृत्तिरिति वाच्यम्; एवमप्यन्याप्यवृत्तिसाध्यकस्थले भगवज्ञानमादायाव्याप्तेरपरिहारात् । नूतनालोकः असमूहालम्बनजन्यज्ञानसंग्रहाय-समूहालम्बनेति । न च जन्यज्ञानासंग्रहेऽपि न क्षतिः, सर्वत्र भगवज्ज्ञानमादायैव लक्षणस्योपपादयितुं शक्यत्वादिति वाच्यम् ; यत्समानाधिकरणत्वादिविशेषणस्य सार्थक्यानुपपत्त्या जन्यज्ञानस्यापि संग्राह्यत्वात् । प्रतिबन्धकीभूतेति । ईश्वरज्ञानस्य प्रतिबन्धकत्वं तु प्रागेव व्यवस्थापितम्। भगवदिच्छायाः सन्मात्रविषयकत्वेनानुमित्सारूपतया तज्ज्ञानस्य सिषाधयिषाविरहविशिष्टत्वाभावात् कथं प्रतिबन्धकत्वमित्यत आह-भगवत इति । भगवतोऽनुमित्यभावान्न तादृशेच्छेति भावः। धर्मिज्ञानादिविधया वह्निमान् पर्वत इति प्रत्यक्षसामग्र्यन्तर्गताया व्यधिकरणधर्मावच्छिन्नवह्नयभाववान् पर्वत इति प्रमाया या समानविषयकानुमितिप्रतिबन्धकता तदव्यावृत्तेराह-प्रत्यक्षादीति । भगवज्ञानमादायेति । यत्समानाधिकरणसाध्याभावावगाहिनो जन्यज्ञानस्य समूहालम्बनस्यैव प्रतिबन्धकत्वम् , व्यधिकरणधर्मावच्छिन्नाभावस्यैव निरवच्छिन्नवृत्तिकत्वघटितयत्समानाधिकरणत्वसम्भवात् । तदनवगाहिनस्तु न लक्षणघटकत्वमिति तत्त्यागः । आलोकप्रकाशः अनुमित्यभावादिति । तथा च तादृशेच्छाविसंवादिन्येवेति भावः । २४ For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्सा १८६ 'नच' रत्नमालिका न च भगवज्ञानस्य नियमतोऽव्याप्यवृत्तित्वज्ञानास्कन्दिततया प्रतिबन्धकत्वमेव नास्तीति वाच्यम्; अव्याप्यवृत्तित्वज्ञानानास्कन्दितत्वस्य सामानाधिकरण्यकालिकविशेषणत्वैतदुभयसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपतया धारण्यात् । न च वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकतयाऽव्याप्यवृत्तित्वज्ञानानास्कन्दितत्वं नोक्तरूपं सम्भवति । किन्तु तादृशज्ञानविरहविशिष्टत्वमेव । वैशिष्टयं च स्वावच्छेदकक्षणावच्छिन्नस्वसामानाधिकरण्यरूपम्, तथा चाव्याप्यवृत्तित्वज्ञानवति भगवति तद्विरहासत्त्वेन प्रतिबन्धकत्वं दुर्घटमिति वाच्यम्; यत्र तत्कपिसंयोगादिसाध्यकस्थलेऽनाहार्याप्रामाण्यज्ञानानास्कन्दितसाध्याभाववत्तानिश्चयदशायामव्याप्यवृत्तित्वज्ञानं न जातम्, तत्राव्याप्यवृत्तित्वज्ञानस्योतेजकत्वानावश्यकतया तत्प्रतिबन्धकताया भगवज्ञानसाधारण्यात् । न चैवमपि तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नवत्ताबुद्धिप्रतिबन्धकतावच्छेदककोटौ तद्धर्मावच्छिन्नविशेष्यकतत्तदभावप्रकारकशानान्यत्वरूपस्य संशयान्यत्वस्यावश्यं निवेशनीयतया तदृक्षत्वावच्छिन्ने कपिसंयोगतदभावावगाहिभगव . नूतनालोकः सामानाधिकरण्यकालिकविशेषणत्वेति । यद्यप्येकक्षणावच्छिन्नैकात्मवृत्तित्वस्याभावप्रतियोगितावच्छेदकसम्बन्धत्वस्वीकारेणोपपत्तिः, तथापि लाघवात् क्षणाघटितस्यैवास्य सम्बन्धता युक्तेत्याशयः । अभावप्रतियोगितावच्छेदकतयेति । ननु वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वे को दोषः ? न च तादृशसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्यातिरिक्तस्य कल्पने गौरवमिति वाच्यम् ; तादृशसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य स्वप्रतियोगिप्रतियोगिकतादृशसम्बन्धाभावसमनियतत्वेन तत्स्वरूपत्वात् , तस्य चोभयवादिसिद्धत्वादिति चेत् ? ताशसम्बन्धावच्छिन्नातिरिक्तप्रतियोगिताकल्पने गौरवमेवेति । भगवज्ज्ञानसाधारण्यादिति । न च भगवज्ज्ञाने स्वावच्छेदकक्षणावच्छिन्नाधेयताघटिताप्रामाण्यज्ञानाभाववैशिष्टयन सम्भवति, तस्य निरवच्छिन्नवृत्तिकत्वादिति कथं तत्साधारण्यमिति वाच्यम् ? स्वावच्छेदकक्षणावच्छिन्नत्वस्य स्वावच्छेदकक्षण आलोकप्रकाशः घटितेति । उक्तयुक्त्या अप्रामाण्यज्ञानानास्कन्दितत्वस्योक्तरूपस्यै वावश्यं वक्तव्यत्वादिति भावः। For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता ज्ज्ञानसाधारण्यं न सम्भवत्येवेति वाच्यम्; यतः संशयत्वं न केवलतद्धर्मिकतत्तदभावप्रकारकज्ञानत्वरूपं समुच्चयसाधारण्यात् । किन्तु एककोट्यंशेऽपरकोटिविरोधावगाहित्वसहितम् । भगवज्ञानस्य प्रमात्वनियमेन तत्र विरोधावगाहित्वात् सम्भव इति तत्साधारण्यं दुरपह्नवमेवेति । न च प्रतिबन्धकतावच्छेदकभेदप्रतियोगितावच्छेदकं संशयत्वं लाघवात समुच्चयसाधारणतत्तदभावप्रकारकमेवास्तु, संशयवत् समुच्चयेऽप्रतिबन्धकत्वस्येष्टत्वादिति वाच्यम् ; समुश्चयतृतीयक्षणे तद्वत्ताबुद्धरनुत्पादस्य प्रामाणिकतया इष्टापत्तेरसम्भवात् । __ न च कोट्यंशे यत्र विरोधानुपस्थितिः, विरोधविशिष्टस्वरूपादिसम्बन्धेन बाधग्रहश्च वर्तते, तत्र संशयोत्पादस्यानुभाविकतया न तत्र कोट्योर्विरोधभाननैयत्यसम्भव इति वाच्यम् ; कोट्योः कोटिसंसर्गे वा विरोधावगाहित्वस्यैव संशयघटकत्वात् । अथवा यथा लौकिकसन्निकर्षजन्यप्रत्यक्षे साक्षात्करोमीति प्रतीते नूतनालोकः सम्बन्धित्वरूपतया तत्र तत्सम्भवात् । विरोधावगाहित्वसहितमिति । तथा च समुच्चयेsव्याप्यवृत्तित्वज्ञानस्य हेतुतया तेन प्रतिबन्धाद्विरोधावगाहित्वासम्भवेन न तत्साधारण्यमिति भावः । समुच्चयव्यावृत्तस्यैव संशयपदप्रवृत्तिनिमित्तत्वेऽपि न तस्य प्रतिबन्धकतावच्छेदकघटकत्वम् , गौरवादित्याशङ्कते-न चेति । इष्टत्वादिति । तस्य नियमतोऽव्याप्यवृत्तित्वज्ञानरूपोत्तेजकविशिष्टत्वादिति भावः । समुच्चयतृतीयेति । समुच्चयस्यापेक्षाबुद्धचास्मकत्वे चतुर्थक्षणेऽपि बोध्या। - अनुपस्थितस्यापि संसर्गघटकतया भाने बाधकाभाव इत्यत आह-विरोधविशिष्टेति । नवीनमतमाह-अथवेति । साक्षात्करोमीति प्रतीतेरिति । न च घटं साक्षात्करोमीत्याद्यनुव्यवसायस्य घटविषयकप्रत्यक्षविषयकत्वेनैवोपपत्तौ किमतिरिक्तलौकिकविषयताविषयकत्वकल्पनेनेति वाच्यम् ; तथा सति घटोपनीतभानानन्तरमपि तथानुव्यवसायापत्तेः । न च तथाविधानुव्यवसायं प्रति घटादिनिष्ठलौकिकसन्निकर्षादिघटितसामग्रीजन्यघटविशेष्यकघटत्वप्रकारकप्रत्यक्षस्य हेतुत्वोपगमान्नेयमापत्तिरिति वाच्यम् ; तथा सत्यपि गगनं साक्षात्करोमीति प्रतीत्यापत्तेः । आलोकप्रकाशः प्रतीत्यापत्तेरिति । न चापाद्याप्रसिद्धया नेयमापत्तिरिति शङ्कथम् ; यतः स्वीयप्रत्यक्षत्वावन्छिन्नविशेष्यतानिरूपितप्रकारतावच्छेदकतासम्बन्धेन घटत्वादौ For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नच' रत्नमालिका नूतनालोकः न चापादकाभावः शङ्कयः, साक्षात्कारो न घटीय इति बाधबुद्धिदशायां घटं साक्षाकरोमीत्यनुव्यवसायवारणार्थं तथाविधानुव्यवसायं प्रति तथाविधवाधबुद्धर्घटत्वादिना घटादिरूपविषयमन्तर्भाव्य प्रतिबन्धकत्वकल्पने विषयभेदेनानन्तप्रतिवध्यप्रतिबन्धकभावकल्पनापत्त्या गौरवाल्लाघवेन स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितविषयतासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेन लौकिकमानसत्वावच्छिन्नं प्रति स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपिताभावनिष्ठप्रकारतानिरूपितविषयितासम्बन्धा - वच्छिन्नप्रतियोगितासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेन निर्णयस्य प्रतिबन्धकत्वकल्पनमेवोचितमिति यथोक्तसम्बन्धावच्छिन्नप्रतियोगिताकबाधाभावस्यैवात्रापादकत्वसम्भवात् । न चानुव्यवसायं प्रति लौकिकप्रत्यक्षसामग्रीजन्यव्यवसायस्य स्वविषयमन्तर्भाव्य कारणत्वकल्पने गौरवात् स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितविषयतासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेन लौकिकमानसं प्रति लौकिकप्रत्यक्षसामग्र्याः स्वजन्यप्रत्यक्षनिरूपितविशेष्यतानिरूपितप्रकारताविशिष्टस्वाश्रयवृत्तित्वसम्बन्धन कारणत्वकल्पनमेवोचितम् । वृत्तित्वे प्रकारतावैशिष्ट्यं सामानाधिकरण्यस्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन । एवं च गगने उक्तसम्बन्धेन लौकिकप्रत्यक्षसामग्रीरूपक्लप्तकारणाभावान्न निरुक्तापत्तिरिति वाच्यम् ; विनश्यदवस्थलौकिकप्रत्यक्षसामग्रीजन्यव्यवसायोत्तरमपि साक्षात्करोमीत्यनुव्यवसायोदयेन तत्र व्यभिचारापत्त्या उपदर्शितकार्यकारणभावकल्पनासम्भवेन विषयविशेषं निवेश्यैव तादृशव्यवसायस्यानुव्यवसायं प्रति कारणत्वकल्पनमावश्यकमिति क्लप्तकारणाभावेन गगनं साक्षात्करोमीत्यनुव्यवसायापत्तिवारणासम्भवात् । लौकिकविषयतास्वीकारे तु स्वीय आलोकप्रकाशः प्रसिद्धसाक्षात्कारस्यैव गगनत्वे आपादनादुक्तापत्तिरयातैवेति । घटत्वादिना घटादिरूपविषयमन्तर्भाव्येति । विषयितासम्बन्धावच्छिन्नप्रतियोगितासम्बन्धावच्छिन्ना या घटत्वावच्छिन्नप्रकारता, तन्निरूपिताभावप्रकारताघटितरूपेणेत्यर्थः। व्यभिचारापत्येति | न च तर्हि लौकिकसन्निकर्षप्रयोज्यविशेष्यतानिरूपितप्रकारतासम्बन्धेन प्रत्यक्षस्यैव हेतुत्वमस्तु । तथा च न व्यभिचार इति वाच्यम् ; तथा सति समानाकारकज्ञानीयविषयतयोरैक्यपक्षे घटोपनीतभानानन्तरं घरं साक्षात्करोमीत्यनुव्यवसायापत्तेस्वारणात् । तयोर्भेदस्वीकारे तु किमपराद्धं लौकिकविषयतयेत्यभिप्रायः । तादृशेति । लौकिकसन्निकर्षजन्येत्यर्थः । कारणत्वकल्पनमावश्यक For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपशृंहिता नूतनालोकः प्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितलौकिकविषयितासम्बन्धावच्छिन्नप्रकारतावच्छेद - कतासम्बन्धेन मानसं प्रति लौकिकविषयतावच्छेदकतासम्बन्धेन व्यवसायस्य हेतुत्वकल्पनया गगनत्वादी तथाविधकारणाभावान्न लौकिकमानसत्वावच्छिन्नापत्तिसम्भवः । यदि च स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपिताभावप्रकारतानिरूपितविषयितासम्बन्धावच्छिन्नप्रतियोगितासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेनोपदर्शितबाधनिर्णयस्य प्रतिबन्धकत्वम् , तदैव प्रतिबन्धकाभावरूपकारणबलाद् गगनत्वे लौकिकमानसत्वावच्छिन्नापत्तिः सम्भवति , तदेव न विचारसहं गौरवात् । तथा हि-आहार्यतथाविधबाधनिर्णयोत्तरोत्पन्नोपदर्शितविशिष्टबुद्धौ व्यभिचारवारणायानाहार्यत्वमवश्यं प्रतिबन्धकतावच्छेदककोटौ निवेशनीयम् । नानुगतमाहार्यत्वं शक्यते निर्वक्तुमिति तत्तद्वयतित्वावच्छिन्नप्रतियोगिताकभेदकूटवत्त्वमेव तत्र निवेशनीयम् । तथा च साक्षात्कारो न घटीयो न पटीय इत्यादिविषयभेदेनानन्ताहार्यज्ञानव्यक्तिभेदकूटानामेकत्र प्रतिबन्धकतावच्छेदककोटी निवेशे तेषां विशेषणविशेष्यभावे विनिगमनाविरहेणानन्तप्रतिवध्यप्रतिबन्धकभावापत्त्या गौरवस्य दुष्परिहरत्वात् । प्रकारतावच्छेदकानां विशिष्य निवेशेनैवोपदर्शितव्यवसायानुव्यवसाययोः प्रतिवध्यप्रतिबन्धकभावकल्पनमावश्यकमिति । एवं च गगनं साक्षात्करोमीत्यनुव्यवसायस्यालीकतया आपादकाभावेनापत्तिरशक्यैव । यत्त्वाहार्यज्ञाने यावदप्रामाण्यं न गृह्यते तावन्न भवत्येव विशिष्टबुद्धिरित्यनाहार्यत्वनिवेशो नावश्यक इति; तदसत् । आहार्यज्ञानस्य विशिष्टबुद्धिविरोधित्वे आत्मतत्त्वविवेकटिप्पण्यामभावबुद्धिं प्रति प्रतियोग्यारोपस्य हेतुताखण्डनावसरे आहार्यारोपस्य तद्वेतुतां खण्डयित्वा "आहार्यज्ञानस्याविरोधितया तद्वेतुत्वं स्यात्" इत्याशङ्कच "आहार्यज्ञानस्य प्रागभाववत्ताबुद्वेरभावात्" इत्यनेन आलोकप्रकाशः मितीति । प्रकृतेऽप्रसिद्धत्वात्तयोस्तदकल्पनादिति शेषः। उपदर्शितविशिष्टयुद्धाविति । घट साक्षात्करोमीत्यादिघटत्वादिविशिष्टबुद्धावित्यर्थः। भिन्नभिन्नप्रतिबन्धकतावच्छेदककोटौ तथाविधानन्ताहार्यज्ञानव्यक्तिभेदनिवेशस्य विशिष्य प्रतिबन्धकत्वपक्षेऽप्यावश्यकत्वादुक्तमेकत्रेति । न चाहार्यज्ञानव्यक्तिनिवेशो न सम्भवति; साक्षात्कारो न घटीयो न पटीयश्चेति समूहालम्बनस्य घटाभावांशे आहार्यस्य तद्वयक्तित्वावच्छिन्नभेदनिवेशे पटं साक्षात्करोमीत्यनुव्यवसायप्रतिबन्धकत्वानुपपत्तेः । तदनिवेशे घटं साक्षात्करोमीत्यनुव्यवसायप्रतिबन्धकतापत्तेरिति वाच्यम् ; आंशिकाहार्य For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९० 'नच' रस्नमालिका रनुमित्यापत्त्योश्चानुमिनोम्यापादयामीति प्रतीतेविषयताविशेषो दुरपह्नवस्तथा सन्देलीत्यनुव्यवसायबलात् संशयेऽपीति तत्प्रतियोगित्वमेव संशयत्वम् , तस्य विरोधानवगाहिज्ञानसाधारण्ये क्षतिविरहात् । नूतनालोकः तद्धेतुत्वखण्डनस्य दीधितिकृतामत्यन्तासाङ्गत्यापत्तेरिति । एवं घटप्रत्यक्षविषयकमानसं प्रति लौकिकप्रत्यक्षसामग्रीजन्यघटादिप्रत्यक्षस्य हेतुत्वकल्पनेनैव घटायुपनीतभानानन्तरं घटं साक्षात्करोमीत्यनुव्यवसायापत्तिरशक्यैवेत्युच्यते, तदापि न घट साक्षात्करोमीत्याद्यनुव्यवसायानुपपत्तेौकिकविषयता स्वीकार्या। अधिकमन्यत्रानु आलोकप्रकाशः स्यैवानुपगमात्तन्निवेशसम्भव इत्याशयात् । अत्यन्तासाङ्गत्यापत्तेरिति । आहार्यज्ञानस्यापि विरोधित्वे शङ्काया एवानुत्थितेः, आहार्यज्ञानोत्तरमभाववत्ताबुद्धरेवानुत्पादादित्येव समाधातुं युक्तत्वाच्चेति भावः । स्वीकार्येति । अन्यथा नवटिततादृशप्रतीतेर्घटविषयकप्रत्यक्षाभावविषयकवे घटायुपनीतभानोत्तरमपि तदनुत्पत्त्यापत्तेः, तदानी घटप्रत्यक्षसत्त्वेन तदभावरूपविषयासत्त्वात् । न च घटादिनिष्ठलौकिकसामग्रीजन्यत्वविशिष्टप्रत्यक्षाभाव एव तस्य विषय इति वाच्यम् ; सामग्यादेरनुपस्थितिदशायां तादृशप्रतीत्यनुपपत्तेः। न च स्वनिष्ठलौकिकसामग्रीजन्यत्वसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावविशिष्टप्रत्यक्षमेव तद्विषय इति वाच्यम् ; तस्य वृत्त्यनियामकतया अभावप्रतियोगितानवच्छेदकत्वादिति भावः । केचित्तु घटादिप्रत्यक्षविषयकलौकिकमानसत्वावच्छिन्नं प्रति लौकिकप्रत्यक्षसामग्रीजन्यघटादिव्यवसायस्य हेतुत्वे जन्यत्वादिघटितधर्मस्य कारणतावच्छेदकत्वं कल्पनीयमिति गौरवापत्त्या अतिरिक्तलौकिकविषयतां स्वीकृत्य तथाविधानुव्यवसायं प्रति घटादिनिष्ठलौकिकविषयताशालिनिश्चयत्वेन हेतुत्वकल्पने लाघवादतिरिक्तलौकिकविषयतासिद्धिरित्याहुः । तदसत् ; लाघवेनातिरिक्तविषयतासिद्धेः प्रतिबन्दिसहस्रकबलितत्वात् । तथा हि-उक्तरीत्याऽतिरिक्तविषयताङ्गीकारे पर्वतो वह्निमानित्यनुमितिं प्रति वह्निव्याप्यधूमवान् वह्निव्याप्यालोकवानित्याद्यनेकविधपरामर्शानां भिन्नभिन्नरूपेण हेतुताविलयप्रसङ्गः, तावत्सु परामर्शेष्वेकां वह्नयादिनिष्ठातिरिक्तविषयतामङ्गीकृत्य तादृशविषयताशालिनिश्चयत्वेन हेतुत्वकल्पनस्यैव लाघवेनोचितत्वात् । न चेष्टापत्तिः, तथा सति तादृशजनकतावच्छेदकविषयताश्रयव्याप्तिनिरूपणस्यासाङ्गत्यापत्तेः। एतेन चतुःसंयोगादिजन्यतावच्छेदकतया लौकिकविषयतासिद्धिः । अन्यथा तत्रोपनीतभानादौ व्यभिचारस्य दुरित्वादिति निरस्तम् , स्वान्यवहितोत्तरक्षणोत्पत्तिकत्वसम्बन्धेन चक्षुःसंयोगादिकं विशिष्य निवेश्य कार्यकारण For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता न च तादृशविषयतानिष्ठं वैलक्षण्यं दुर्वचम् , अखण्डोपाधेरपसिद्धान्तकबलितत्वादिति वाच्यम् ; एवं सति विषयतात्वप्रकारतात्वादीनामपि विलयप्रसङ्गेन बहुतरासामञ्जस्यात् । अस्तु वा कोट्यन्तरविषयकत्वानवच्छिन्नतत्कोटिविषयकत्वमेव तन्निश्चयत्वम् , संशये च समुच्चयवैलक्षण्याय कोटिद्वयविषयकत्वयोरवच्छेद्यावच्छेदकभावोपगमात् । इत्थञ्च भगवज्ञानस्य प्रतिबन्धकत्वं दुरपतवमेवेत्यव्याप्तिः। नूतनालोकः सन्धेयमिति । संशयेऽपीति । साध्यायुपरागेणैवानुमिनोमीत्यादिप्रतीतेरिव कोटयुपरागेणैव सन्देहीति प्रतीतेरनुभूयमानत्वादिति भावः। तत्प्रतियोगित्वमेवेति । एतेन संशयत्वस्य तत्तदभावावगाहित्वरूपतया तदभावानवगाहिनां सामान्यव्यवस्थापनादावुक्तानां वृक्षः कपिसंयोगाभाववान् तत्र तत्संयोगो वा, वृक्षः कपिसंयोगाभाववान् तनिष्ठाभावप्रतियोगी वा, तत्संयोगाभावः, वृक्षस्तत्संयोगाभाववान् तन्निष्ठभेदप्रतियोगितावच्छेदको वा तत्संयोगाभाव इत्यादिसंशयानां तद्वत्ताबुद्धिप्रतिबन्धकत्वापत्तिरिति परास्तम् । उक्तसंशयानां सर्वेषामपि संयोगाभावनिष्ठकोटिताख्यविषयताशालितया तादृशविषयताशून्यत्वरूपनिश्चयत्वाभावात् ।। ___ कोटिद्वयविषयकत्वयोरिति । यत्तु संशये कोटिविषयतानिरूपितविशेष्यतयोरवच्छेद्यावच्छेदकभावः स्वीक्रियते, समुच्चयीयविशेष्यतयोस्तु न तथात्वम् । एवं चाभावप्रकारतानिरूपितविशेष्यत्वानवच्छिन्नविशेष्यतानिरूपिततत्प्रकारताकत्वमेव तन्निश्चयत्वमिति तन्न; अविरुद्धतया ज्ञायमानद्वन्द्वोपस्थितभावाभावोभयविशिष्टधर्मिविषयकज्ञाने विशृङ्खलधर्मिविषयताद्वयोपगमे ज्ञानस्य समूहालम्बनतया एकवाक्यताविरहेण समासानुपपत्त्या धर्मिविषयतयोरवच्छेद्यावच्छेदकभावध्रौव्येण तादृशज्ञानस्य निश्चयत्वानुपपत्तेः । अवच्छेद्यावच्छेदकभावोपगमादिति । उक्तंचैतद्रनकोशमतपरिष्कारावसरे सत्प्र आलोकप्रकाशः भावस्वीकारादेव तादृशव्यभिचारवारणसम्भवात् । दोषविशेषजन्ये वंशे उरगभ्रमादौ व्यभिचारस्योक्तदिशैव वारयितुं शक्यत्वाच्च । तादृशभानानन्तरमुरगं साक्षात्करोमीति प्रतीत्या तत्रापि लौकिकविषयतास्वीकारस्यावश्यकत्वेन लौकिकविषयताप्रवेशमात्रेण तत्र व्यभिचारवारणसम्भवात् । एतत्सर्व मनसिकृत्याह-अधिकमिति । साध्याद्युपरागेणैवेति । न तु धाद्युपरागेणेत्यर्थः । सामान्यन्यवस्थापनादाविति । आदिपदेन केवलान्वयिप्रकरणपरिग्रहः । For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९२ 'न च' रस्नमालिका नूतनालोकः तिपक्षगादाधर्याम् । न च संशये विरोधभानानभ्युपगमे समुच्चयोत्पाददशायां संशयापत्तिरिति वाच्यम् ; मणिमन्त्रादिन्यायेन कोट्योरव्याप्यवृत्तित्वज्ञानस्य तत्र प्रतिबन्ध - कत्वकल्पनात् । केचित्तु संशये प्रत्येककोटिप्रकारतानिरूपितनिश्चयीय विशेष्यताद्वयमेव, एक विशेष्यतापक्षस्यानुमितिग्रन्थादौ दूषितत्वात् । अत एव तथाविधैकविशेष्यताशालिसमुच्चयाद्वैलक्षण्यम् । इत्थञ्च विशेष्यताद्वयसम्बन्धाकल्पनप्रयुक्तलाघवा नुरोधेनावश्यकल्पनीयसमुच्चयभावस्य भगवज्ज्ञानस्य तादृशविशेष्यताद्वयानिरूपकत्वात् प्रतिबन्धकत्वमव्याहतमेवेति । तन्नः समुच्चयस्याव्याप्यवृत्तित्वज्ञानजन्यत्वनियमेन भगव - ज्ज्ञानस्य समुच्चयरूपत्वासम्भवात् । एककोटिविशेष्यका पर कोटिप्रकार कसंशयस्य तत्तदभावप्रकारतानिरूपित विशेष्यताद्वयशून्यतया संशयत्वानुपपत्तेश्च । यत्तु अवधारणत्वमेव प्रतिबन्धकतावच्छेदकम् । तच्च न निर्णयत्वरूपम्, विरोधिकोट चुपस्थितिकालीन विशेषदर्शनानधीन निर्णयानन्तरमवधारयामीति प्रतीत्यआलोकप्रकाशः Acharya Shri Kailassagarsuri Gyanmandir विरोधभानानभ्युपगम इति । तदभ्युपगमेऽव्याप्यवृत्तित्वज्ञानेन तद्भानप्रतिबन्धान्न संशय इति भावः । अनुमितिग्रन्थादाविति । आदिपदेन केवलान्वयिग्रन्थपरिग्रहः । दूषितत्वादित्यादि । एकको टिविशेष्यकापरकोटिप्रकारक संशयसाधारण्यासम्भवादिनेत्यादिः । प्रतिबन्धकत्वमव्याहतमेवेति । अथाप्रामाण्यग्रहवदव्याप्यवृत्तित्वग्रहस्याप्युत्तेजकत्वं स्वीकरणीयम्, अन्यथा समुच्चयानन्तरं समुच्चयानुपपत्तेः । तथा च भगवज्ज्ञानस्याव्याप्यवृत्तित्वविषयकतया कथं प्रतिबन्धकत्वम् । न च संशयव्यावृत्तये वह्नयाद्यप्रकारकत्वरूपनिर्णयत्वस्य प्रतिबन्धकतावच्छेदककोटावश्यं निवेशनीयतया समुच्चयात्मकबाधबुद्धेः प्रतिबन्धकत्वमप्रसक्तमेवेति व्यर्थमेवोत्तेजकत्वमिति वाच्यम्; एवं सति विनश्यदवस्थापन्नाव्याप्यवृत्तित्व ज्ञानजन्यसमुच्चयानन्तरं संशयवारणाय समुच्चयसाधारणस्य निरुक्तविशेष्यत । द्वयशून्यत्वरूपनिर्णयत्वस्यैव निवेशनीयतया तस्यास्तत्प्रसक्तेव्याप्यवृत्तित्वज्ञानस्योत्तेजकताया आवश्यकत्वात् । स्पष्टं चैतत् प्रतिबन्धकताविचारे इति चेन्न; अव्याप्यवृत्तित्वज्ञानविरहविशिष्टत्वस्य सामानाधिकरण्य-कालिक विशेषणत्वोभयसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपस्यैव लाघवेन प्रकृते विवक्षणीयतया तस्य भगवज्ज्ञानसाधारण्यात् । एतच्च मूल एवोक्तमित्याशयः । For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १९३ नूतनालोकः नुदयात् । किन्तूत्कटनिश्चयत्वम् । औत्कटयञ्च सम्भावनात्वादिकमिव विषयताविशेष एव, अन्यस्य दुर्वचत्वात् । विशेषदर्शनजन्यतावच्छेदकस्य बहुवित्तव्ययायाससाध्यगोचरप्रवृत्त्यादिनिर्वाहकस्य च तस्य नित्यज्ञानसाधारण्ये मानाभावान्न तस्य प्रतिबन्धकत्वमिति तदप्यसत् ; निश्चिनोम्यवधारयामीति प्रतीत्योः समानविषयकतया निश्चयत्वानतिरेकात्। अनभ्यासदशापन्नज्ञानाद्विशेषदर्शनकालीनज्ञानस्याप्रामाण्यशङ्कानास्कन्दनमेव विशेषः । स्पष्टं चैतत्सत्प्रतिपक्षगादाधर्याम् । निरुक्तावधारणत्वस्य प्रतिबन्धकतावच्छेदकत्वे अवधारणानात्मकविरोधिनिश्चयदशायां तद्वत्ताबुद्धयापत्तेश्च । आलोकप्रकाशः प्रवृस्यादिनिर्वाहकस्येति । प्रवृत्तिनिर्वाहकत्वञ्च प्रामाण्यवादमणावुक्तम्- "प्रामाण्यसंशयानन्तरमिदमित्थमित्थमेवेत्यवधारणस्य निष्कम्पप्रवृत्त्यङ्गस्य प्रामाण्यनिश्चयाधीनत्वात्" इति । अत्र निष्कम्पप्रवृत्यङ्गस्येत्यस्य बहुवित्तव्ययायाससाध्यगोचरप्रवृत्तिहेतोरित्यर्थ इति सकम्पत्वनिष्कम्पत्वे प्रवृत्तिनिष्ठविषयताविशेषात्मके इति च तद्वयाख्यायां स्पष्टम् । संशयत्वं मानसत्वव्याप्यजातिरव्याप्यवृत्तिः, सर्वत्र संशयस्य मानसताया एवोपगमात् । चक्षुस्सन्निकर्षादिमद्धर्मिकसंशयदशायां पर्वतं पश्यामीत्यनुव्यवसायश्च संशयस्य पूर्व परतो वा जायमानतद्विषयकचाक्षुषादिज्ञानस्य कल्पनात्तद्विषयकतयैवोपपादनीयः। संशयत्वस्य चावच्छेदकं तत्तद्धर्मिविषयकत्वावच्छिन्नतत्तत्कोटिविषयकत्वमेव । एवञ्च धर्मिविशेष्यकत्वावच्छिन्नग्राह्याभावप्रकारकत्वावच्छेदेन संशयत्वाभाववस्वमेव धर्मिणि ग्राह्याभाववत्तानिश्चयत्वं वाच्यम् । ह्रदो वह्नयभाववान् पर्वतो वह्निमान् वा न वा, ह्रदो वह्नयभाववान् हृदो जलवान् वा न वा-इत्यादिसंशये च ह्रदविशेष्यकत्वावच्छिन्नवह्नयभावप्रकारकत्वावच्छेदेन संशयत्वाभावोऽनुभवसिद्ध एव, हृदे वह्नयभावं न सन्देझीति प्रतीतेस्तत्र सर्वानुभवसिद्धत्वात् । चाक्षुषादिज्ञानस्यापि संशयत्वे सङ्करभयेन नानैव संशयत्वानि स्वीक्रियन्ते । तदभावकूटवक्त्वमेव निश्चयत्वम् । पर्वतो वह्नयभाववान् वह्निमान् वा, पर्वतो वह्नयभाववान् वह्नयभावाभाववान् वा, पर्वतो वह्नयभाववान् वह्नयभाववद्भिन्नो वा-इत्यादिनानाविधसंशयव्यावृत्त्यर्थमनेकाभावघटितस्य पर्वतविशेष्यकवह्निप्रकारकत्वाद्यभावकूटस्य प्रतिबन्धकतावच्छेदककोटौ निवेशनापेक्षया कतिपयसंशयत्वजात्यभावघटितनिश्चयत्वेन सर्वसाधारणप्रतिबन्धकताकल्पने लाघवात् । तदभावव्याप्यवत्तानिश्चयादिप्रतिबन्धकतावच्छेदककोटावप्युक्तदिशा लाघवं बोध्यम् । अस्तु वा व्याप्यवृत्तिरेव संशयत्वजातिः। तद्विशिष्टनिरूपितत्वं संशये कोटिविषयतायामेवोपेयते । तथा च प्रति For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९४ 'न च' रत्नमालिका न च भगवज्ज्ञानस्य प्रतिबन्धकत्वेऽपि तत्समानधर्मितावच्छेदककहेतुमद्विशेष्यक साध्यवत्ताज्ञानत्वव्यापकत्वं कामिनीजिज्ञासादिप्रतिवध्यताया एवेति कथमव्याप्तिरिति वाच्यम्; पूर्वोक्तव्यभिचारिविशेषेऽतिव्याप्तिवारणाय स्वीययत्कि - ञ्चिद्विशेष्यतावच्छेदकावच्छिन्नहेतुमद्विशेष्यकसाध्यवत्ताज्ञानत्वव्यापकत्वस्यैव प्रतिवध्यतायां विवक्षणीयतया साध्याभाववत्तानिश्चयप्रतिवध्यताया अपि तथात्वात् । न चैवं सति स्वीययत्किञ्चिद्विशेष्यतावच्छेदकह्रदत्वेन पर्वतादिविषयकसाध्यवत्ताज्ञान सामान्यं प्रति हदे वह्नयभावावगाहिनो भगवज्ज्ञानस्य प्रतिबन्धकत्वेनाव्याप्ते रुक्तविवक्षणासम्भव इति वाच्यम्; हेतुमद्वृत्तियत्किञ्चिद्धर्मावच्छिन्नविशेष्यकसाव्यवत्ताज्ञानत्वव्यापकत्वस्यैव विवक्षणेनादोषात् । Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकः अव्याप्यवृत्तिजातिविशेष एव संशयत्वमिति मिश्रपक्षस्तु जातेरव्याप्यवृत्तित्वानभ्युपगमादुपेक्ष्य इति । अन्यदन्यतोऽवसेयम् । कामिनी जिज्ञासादिप्रतिवध्यताया एवेति । वृक्षः कपिसंयोगी, द्रव्यं कपिसंयोगीत्यादिनानाधर्मावच्छिन्नविशेष्यकज्ञानानां तादृशसाध्यवत्ताज्ञानत्वादिति भावः । व्यभिचारिविशेषेति । यत्र हेतुमद्विशेष्य कसमानाधिकरणधर्मावच्छिन्नाभावप्रकारकं ज्ञानं भ्रमात्मकं समूहालम्बनात्मकमेव वा जातम्, तादृशव्यभिचारीत्यर्थः । यत्र हेतुमदवृत्तिधर्मप्रकारेण हेतुमद्विशेष्यक साध्यवत्ताज्ञानं न जातम्, तत्र केवलान्वयिस्थले च लक्षणसमन्वयादाह – अव्याप्तेरिति । प्रसिद्धस्थल एवेदानीमव्याप्तिरिति भावः । हेतुमद्वृत्तीति । इदानीं प्रमायां हेतुमद्विशेष्यकत्वविशेषणं नोपादेयमेव । अदोषादिति । न चैवमपि वह्नद्यभाववद्धदवृत्तित्वविशिष्टद्रव्यत्ववत्कालीन पर्वतो व्यधिकरणधर्मावच्छिन्नवह्नयभाववानिति प्रमायाः केवलद्रव्यत्वत्वेन रूपेण हेतुमवृत्तियद्धदवृत्तित्वविशिष्टद्रव्यत्वम्, तदवच्छिन्नविशेष्यकसाध्यवत्ताबुद्धिं प्रति प्रतिबन्धकत्वादव्याप्तिर्दुर्वारैवेति आलोकप्रकाशः बन्धकतावच्छेदककोटौ संशयत्वविशिष्टानिरूपिततदभावप्रकारताया एंव निवेशान्निखिलसंशयव्यावृत्तिरित्यादिकं मनसिकृत्याह -- श्रन्यदिति । अन्यतः केवलान्वयिप्रकरणादिभ्यः । प्रसिद्धस्थल एवेति । न त्वव्याप्यवृत्तिसाध्यकस्थलमात्र इत्यर्थः । वह्नयभाववदिति । एतच्च विशिष्टद्रव्यत्ववतो विशेषणम् । प्रमात्वसम्पत्तये विशिष्टद्रव्यत्वस्यावच्छेदकत्वानुसरणम् । प्रतिबन्धकत्वादिति । तदभावावच्छेदकत्वग्रहस्य तादृशावच्छेदकत्वग्रहविषयधर्मावच्छिन्नविशेष्यकतद्वत्ताबुद्धिं For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतना लोकटीका तत्प्रकाशटिप्पण्योपबृंहिता न चैवं सति वह्नयभाववद्धद समानकालीनपर्वतो व्यधिकरणधर्मावच्छिन्नवह्नयभाववानिति प्रमाया: कालिकसम्बन्धेन हेतुमद्वृत्तिह्रदत्वावच्छिन्नधर्मिकसाध्यवत्ताज्ञानसामान्यं प्रति प्रतिबन्धकत्वादव्याप्तिरिति वाच्यम्; यत्सम्बन्धेन हेतुमद्वृत्तिर्यो धर्मस्तत्सम्बन्धावच्छिन्नतन्निष्ठावच्छेदकताकविशेष्यताकसाध्यवत्ताज्ञानविवक्षणेनादोषात् । यद्वा हेतुमत्त्वावच्छिन्नविशेष्य कसा व्यवत्ताज्ञानत्वव्यापकत्वविवक्षया सर्वसामञ्जस्यम् । न चैवं सति व्यभिचारिणि सर्वत्वात्मक हेतावतिव्याप्तिः, सर्व वह्नयभाववदित्यादिज्ञानस्य भ्रमत्वेऽपि हृदो वह्नयभाववानित्यादिज्ञानस्यासमानधर्मितावच्छेदकस्यापि सर्वत्वावच्छिन्नविशेष्य कवह्नयादिमत्ताज्ञानं प्रति प्रतिबन्धकत्वेन तदादायातिव्याप्तिवारणसम्भवात् । Acharya Shri Kailassagarsuri Gyanmandir स्वावच्छेदकधर्म सम्बन्धावच्छिन्नत्वरूपम् । लाघवादाह - यद्वेति । न च साध्यतावच्छेदकविशिष्टे हेतुमन्निष्ठभेदप्रतियोगिता नवच्छेदकत्वानवगाहित्वस्यापि प्रमाविशेषणत्वान्नेश्वरज्ञानमादायाव्याप्तिः, अव्याप्यवृत्तिसाध्यकसद्धेतौ सर्वत्र साध्यस्य हेतुमन्निष्ठभेदप्रतियोगितानवच्छेदकतया नियमेन तदव• नूतनालोकः वाच्यम् ; येन सम्बन्वेन येन रूपेण यस्य हेतुमद्वृत्तित्वम्, वच्छिन्नतन्निष्ठावच्छेदकता कविशेष्यता कत्वस्य तत्सम्बन्धावच्छिन्नतद्रूपाकिञ्चिन्निष्टहेतुमवृत्तिताविशिष्टाव च्छेदकताकविशेष्यताकत्वपर्यवसितस्य साध्यवत्ताज्ञाने विवक्षणेनादोषात् । वैशिट्यञ्च १९५ एतत्पक्षेऽवच्छेदकावच्छेदेन साध्यवत्ताबुद्धेरेव लक्षणघटक नातिव्याप्तिरिति बोध्यम् । प्रतिबन्धकत्वेनेति । अन्यथा सर्वत्वस्य पक्षतावच्छेदकत्वे बाधो न स्यादिति भावः । स्पष्टं चैतत्सव्यभिचारप्रन्थे । धूमवन्निष्ठभेदप्रतियोगितावच्छेदकवान् धूमादित्यादौ तथाविधप्रमाया अप्रसिद्धया अव्याप्तेः साध्यतावच्छेदकविशिष्ट इति । तदवच्छिन्नाभावप्रसिद्धेरिति । For Private And Personal Use Only आलोकप्रकाशः प्रति ज्ञानवैशिष्ट्यानवच्छिन्नमेव प्रतिबन्धकत्वमिति न ज्ञानवैशिष्ट्यानवच्छिन्नत्वाविशेषणेन तद्वयावृत्तिरिति भावः । सर्वत्वस्येति । कालिकेन साध्यतायामित्यादिः । तेन सर्व संयोगेन गगन - वदित्यादौ बाघप्रसिद्धावपि न क्षतिः । Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६ 'न च' रत्नमालिका गाहिनो भगवज्ञानस्य लक्षणाघटकत्वादिति वाच्यम् । एवं सति द्रव्यं विशिष्टसत्त्वादित्यादावव्याप्त्यापत्तेः । द्रव्यनिष्ठभेदप्रतियोगितावच्छेदकतात्वापेक्षया विशिष्टसत्तावन्निष्ठभेदप्रतियोगितात्वस्य गुरुतया तदवच्छिन्नाभावाप्रसिद्धः।। न च हेतुमन्निष्ठभेदनिरूपिता या या प्रतियोगिता तत्तदनवच्छेदकत्वमेवात्र विवक्षितमिति नाप्रसिद्ध यवकाश इति वाच्यम् ; एवमपि घटादिभेदप्रतियोगितानां तत्तद्वयक्तित्वेनोपादाने तत्तत्प्रतियोगितावच्छेदकतात्वापेक्षया तादृशावच्छेदकत्वनिष्ठतद्वयक्तित्वस्यैव लघोः प्रतियोगितावच्छेदकत्वेनाप्रसिद्धितादवरथ्यात् । पारिभाषिकावच्छेद्यत्वस्य विवक्षणेऽनवस्थाप्रसङ्गात् । न च यत्र प्रतियोगितायां समशरीरनानाधर्माणां समनैयत्येनावच्छेदकता, यत्र च धर्मद्वयादेर्भेदप्रतियोगितायामवच्छेदकता, तत्र तादृशभेदप्रतियोगिता नूतनालोकः तादृशावच्छेदकत्वप्रतियोगिकाभावस्य तादृशावच्छेदकसाधारण्यादवच्छेदकतात्वावच्छिन्नप्रतियोगिताकाभावस्यैव विवक्षणीयत्वादिति भावः । न च व्यधिकरणधर्मावच्छिन्नाभाववादिमते गुरुधर्मस्याभावप्रतियोगितावच्छेदकत्वमिष्टमेवेति वाच्यम् ; तस्य तथात्वे कूटाघटितलक्षणे तत्तत्साध्याभाववद्वृत्तित्वत्वावच्छिन्नप्रतियोगिताकामावस्य विवक्षितुं शक्यतया गुरुभूततत्तत्साध्याभाववद्वृत्तित्वसमनियतप्रतियोगिताकाभावविवक्षाया दीधितिकृतामसाङ्गत्यापत्तेः । ___ पारिभाषिकावच्छेद्यत्वस्येति। हेतुमन्निष्ठभेदप्रतियोगितावच्छेदकतात्वावच्छिन्ननिरूपितस्येत्यादिः । तच्च स्वविशिष्टसम्बन्धिनिष्ठाभावीया या या प्रतियोगिता, तत्तदनवच्छेदकावच्छेद्यत्वरूपम् । समशरीरनानाधर्माणामिति । घटपटविषयकतत्तत्पुरुषीयतत्तज्ज्ञानव्यक्तिविषयत्वादिरूपसमशरीरनानाधर्माणामित्यर्थः । अवच्छेदकतेति । कीदृशतद्वयक्तित्वघटितस्यावच्छेदकत्वमित्यत्र विनिगमनाविरहादिति भावः। न चावच्छेदकभेदेन प्रतियोगिताभेदादेकस्यां प्रतियोगितायां नानाधर्माणां कथमवच्छेदकत्वमिति वाच्यम् ; अवच्छेदकासमनैयत्यस्यैव प्रतियोगिताभेदकत्वात् । समनियतनानाधर्मावच्छिन्नप्रतियोगितैक्ये आलोकप्रकाशः स्वविशिष्टेति । यदवच्छेद्यत्वं प्रतियोगितायामुपपादनीयम् । स एव स्वपदार्थः । घटमात्रविषयकत्वे तत्तज्ज्ञानविषयानेकप्रतीतिसिद्धप्रतियोगितायां लाघवेन घटत्वस्यैकस्यैवावच्छेदकत्वसम्भवादुक्तम्-पटेति । तथा च एटेऽपि तादृशज्ञानव्यक्तिविषयत्वसत्त्वेन घटत्वस्य For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १९७ विशिष्योपादाय तत्तदवच्छेदकतात्वावच्छिन्नाभाव एव निवेश्यते, अन्यादृशभेदप्रतियोगिकतावच्छेदकतानां तु तत्तद्वयक्तित्वेनैवाभावो निवेश्यत इति वाच्यम् ; एवमप्यनन्ततत्तद्वयक्तित्वघटितस्य निरुक्तानवच्छेदकत्वस्य दुर्शयतया दुष्प्रवेशत्वात् । तथा चाव्याप्यसाध्यकाव्याप्त्या केवलसमूहालम्बनान्यत्वस्यैव निवेशनीयत्वाद्वयभिचारिविशेषेऽतिव्यातिर्दुरैवेत्याहुः। तन्नः अप्रामाणिकस्थलविशेष परिकल्प्य दूषणाभिधाने प्रायशः सर्वत्रैव तत्सम्भवेनासामञ्जस्यापत्तेः। अधिकं खयमूहनीयमिति सर्व शिवम् । वक्षःस्थले बालशशाङ्कमौलेः समर्पितेयं 'न च' रत्नमाला । नवैर्लसन्ती विविधैर्विशेषैश्चिरं विधत्तां विबुधप्रमोदम् ॥ इति तृतीयावली । @S नूतनालोकः बाधकविरहात् । धर्मद्वयादेः नैल्यघटत्वादेः । निवेश्यत इति । एकधर्मावच्छिन्नाभावनिवेशेनैवोपपत्तौ विभिन्नतत्तद्वयक्तित्वावच्छिन्नाभावनिवेशस्य गौरवेणानुचितत्वादिति भावः । अन्यादृशभेदेति । घटो नेत्यादिप्रतीतिसाक्षिकभेदेत्यर्थः । तत्तद्वयक्तित्वेनैवेति । न तु तत्प्रतियोगितावच्छेदकतात्वेनेत्यर्थः। तस्य तद्वयक्तित्वापेक्षया गुरोरभावप्रतियोगितानवच्छेदकत्वादिति भावः। वस्तुतस्तु स्वावच्छेदकत्वसम्बन्धेन तत्तत्प्रतियोगित्वावच्छिन्नभेद एव निवेश्यः । अत उक्तरीत्या अनवच्छेदकत्वस्य द्वैविध्येन दुष्प्रवेशत्वेऽपि न क्षतिः। दुर्गेयतयेति । विशिष्टैकार्थरूपत्वाभावस्याप्युपलक्षणमिदम् , असामञ्जस्यापत्तेरिति । अत्र गुरुधर्मसाध्यकव्यभिचारिण्यतिव्याप्तिः, तत्र समानाधिकरणधर्मावच्छिन्नसाध्याभाववत्ताज्ञानस्य भ्रमत्वनियमात् । पारिभाषिकावच्छेदकत्वनिवेशेऽनन्ततत्तप्रतियोगिताघटितत्वेन दुर्जेयत्वमित्यपि बोध्यम्। नन्वत्र साध्यतावच्छेदके स्वावच्छिन्नाधिकरणहेत्वधिकरणसामान्यकत्वानवगाहित्वमेव प्रमायां निवेश्यते, तथा च न पूर्वोक्ताप्रसिद्धिनिबन्धनाव्याप्तिरिति चेन्न; सामान्यपदस्य व्यापकत्वार्थपर्यवसायितया अप्रसिद्धेरपरिहारादित्यभिप्रेत्याधिकमित्युक्तम् । इति तृतीयालोकः॥ आलोकप्रकाशः न्यूनवृत्तेन तादृशभेदप्रतियोगितावच्छेदकत्वप्रसक्तिरित्याशयः । नानाधर्मति । समानाकारकज्ञाननिष्ठविभिन्नतत्तद्वयक्तित्वघटितत्वेन नानात्वं बोध्यम् । इति तृतीयालोकप्रकाशः ॥ ** ** For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving JinShasan 069191 gyanmandir@kobatirth.org For Private And Personal Use Only