Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 157
________________ मृगावती चरित्रम् चार | द्वासवदत्तेव, दृश्यतामंग कौतुकं । वर्षीयान् स च विप्रोऽपि, जातो यौगंधरायणः ॥ २२ ॥ तामित्युक्त्वा पुरो गत्वा, नत्वा प्रद्योतनंदिनीं । अवोचदायें याऽवज्ञा, चक्रे सा मयि मृष्यतां ॥२३॥ ततः प्रद्योतजा प्राह, स्नेहात् पद्मावतीं प्रति । सेवास्मि मास्मभूः खिन्ना, नावाज्ञातास्मि यत्त्वया ॥ २४ ॥ जामातुश्च सुतायाश्च, प्रवृत्तिं ज्ञातवानथ । संभ्रांतमानसस्तत्र, महाबाहुरुपाययो ॥ २५ ॥ पितुः पद्मावती तत्र, वृत्तमाख्यत्तदातनं । अशंसच्च नमस्यंती, प्रीत्या प्रद्योतजां पुरः ॥२६॥ तात प्रणौति | | विनया-ज्ज्यायसी ते तनूरुहा । दृष्टयैव जीवयामास, यासौ जामातरं तव ॥२७॥ युग्मं ॥ चिर- | | कालमवैधव्यं, वत्से धत्स्वेति चेदिपः । तामभ्यनंददाशीर्भि-मालवेश्वरसंभवां ॥ २८ ॥ ___अत्रांतरे गिरौ तत्र, बृंहितैरथ हेषितैः । निःखाननिःस्वनैश्चापि, शब्दाद्वैतमजायत ॥ २९ ॥ | अथ वत्सेश्वरस्तारं, तं निशम्य सविस्मयः । धीरां व्यापारयामास, दृशं शब्दानुसारिणीं ॥ ३०॥ | नगरस्योपत्यकोपांते, ततोऽनेकाननेकपान् । ऐक्षिष्ट स पुरो लक्षां-स्तुंगांश्चैव तुरंगमान् ॥ ३१ ॥ विस्मयात्पश्यतस्तस्य, भटकोटिमयी महीं । वेगादेत्य पुमानेकः, पादयोरपतत्तदा ॥३२॥ तमुत्थाप्य | १५५॥

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172