Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 218
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका १९५ त चित्रकर्मणि । निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् ' || १|| इत्यादि । प्रवृत्तिरपि सा किं प्राक्तनकर्मफला न वा ? । आद्ये, स्पgमदृष्टस्य स्वयं फलदानप्रत्यलत्वमपरापरप्रवृत्तेरेव सुखदुःखविधानविधुरत्वाच्च निरर्थकमसत्यमेवान्यस्य कर्तृत्वगानम् | अन्त्ये, सर्वासामाकस्मिकत्वं किं न प्रवृत्तीनां तथा च दोष उक्तपूर्व एव । यदि च ' यं तु कर्मणि यस्मिन् स न्ययुक्त प्रथमं प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ' ॥ १ ॥ इत्यादिवचनादादि - प्रवृत्तिरेव तत्कर्त्तकेति गीयते । तदाप्यसमञ्जसमेव, पूर्वोक्तदोषानतिवृत्तेः । कृतकृत्यता च नेशस्य स्यादेवं वर्णितातिप्रबन्धेनासमाप्तकामनस्य तथात्वे, यावज्जीवजातेऽपि भावात् तस्य । स्वभावतस्तथाप्रवृत्तिस्तस्य चेत्, अधुनापि कथं नादिसर्गः सर्गे वा ? स्वभावच्युतिनान्तरीयकत्वात् पदार्थच्युतेः । उक्तं च पूज्यपादैरेवान्यत्र - ' आदिसर्गेऽपि नो हेतुः कृतकृत्यस्य विद्यते । प्रतिज्ञानविरोधित्वात् स्वभावोप्यप्रमाणकः || १|| इत्यलं विस्तरेण । > अधुना प्रकृतप्रकरणस्यैतदर्थत्वात् तस्यैव विवरिष्यमाणत्वात् कथं वर्त्तन्ते इत्युचिवांस -' कज्जकारणभावेण 'ति । तत्र कार्यत्वम् - उत्पत्तिमत्त्वं, कारणत्वं चान्वयव्यतिरेकानुविधायित्वम्, अबश्यक्लृप्तनियतपूर्ववृत्तिमत्त्वमप्येतदेव ताभ्यां वर्त्तन्त एते । भावशब्दो भावार्थ एव । करणतृतीया चेयम् । तेन वर्त्तना, नान्यथा, किन्तु कार्यकारणभावाभ्यामेव । एकवचनं च प्रतिनियतकार्यकारणभावज्ञापनाय । यतो यदेव धर्मास्तिकायादिद्रव्यं नभोपेक्षया नभसोऽवगाहनात्तस्मिन्नघगाहनस्य च स्वाव्यतिरिक्तत्वात् कार्यभूतं तदेव गतिस्थितिपरिणतजीवपुद्गलोपचितोपग्रहदानापेक्षया कारणमिति । यद्वा-कार्यं च कारणं च For Private And Personal Use Only

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256