Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ १७ ]
(३) यमस्य समयस्य मरणस्य चैकं नाम किम् ? व्याकरणं विचार्य सूत्रतः प्रतिवचनं वद ||४०||
[ अनुष्टुप् ]
आद्यः किमस्ति प्रत्यक्षे- समीपे मध्यमान्तिमौ । स्पष्टमुक्तमिदं सूत्रं पक्षरं किन्न बुध्यते । ४१ ॥
( पञ्जिका )
तादृशमक्षर त्रितयात्मकं सूत्रं वर्तते यस्य प्रथमं किम् अस्ति, द्वितीयतृतीये क्रमशः प्रत्यक्षे समीपे च स्तः, एवमन्वेषणीयं सूत्रं स्पष्टमुक्तं भवति, अथापि किं न ज्ञायते ? ज्ञातेन तेन भवितव्यमिति ॥ ४१ ॥
[ अनुष्टुप् ]
विक्षेपे ध्यानिनो भग्नाः, संक्षेपे ननु भूभृतः । निक्षेपे भूसुराः सक्ताः, सूत्रं किमुपमर्जितम् ॥४२॥
( पञ्जिका )
विक्षेपे चित्तस्य जाते सति ध्यानमग्ना भग्ना भवन्ति । संक्षेपे सति लाघवे सम्पन्ने राजानो नगाश्च भग्नाः स्युः । ब्राह्मणः निक्षेपे संप्रहे सक्ताः सन्तो भग्ना जायन्ते । अत्र सूत्रमुपसर्गीभूत किमाकलितं वर्तते; अर्थात् व्याद्युपसर्गत्रयमपास्य तत्स्थाने किं स्थापिते सति सूत्रं प्रादुर्भवतीति ||४२||
[ अनुष्टुप् ] पाल्यते सद्गृहस्थेन, कुमारः श्रमणादिना । व्रतिना हन्यते कामं कुमारः श्रमणादिना || ४३ ॥
: ( पञ्जिका )
द्वितीयाश्रमस्थितेन सज्जनेन कुमार: किशोरः परिश्रमप्रभृतिना संरक्ष्यते, अथाहिंसादित्रतत्रातधारिणा मुनिप्रमुखेन कुमारः कलुषित -

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82