Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कस्तूरी मृगमृत्युमात्रसुलभा न ह्यङ्गरागे प्रिया
मुक्ताः शुक्तिविभङ्गजा नहि मतांस्तस्या विभूषाविधौ । कौशेयं किल नैच्छदच्छहृदया नेपथ्यमातन्वती
माता कुक्षिगते सुते बहुकृपासिन्धौ सबन्धौ हरेः ॥ ३८॥ दानाय मेरुं चकमे महामना -
स्तथा च ताराचलरोहणाचलौ ।
सपादभारप्रमितार्जुनप्रदं
पुनः पुनः कर्णनृपं निनिन्द सा ॥ ३९ ॥ नोज्झाचकार दाक्षिण्यमपि विप्रियकारिणि । नासभ्यमब्रवीत्सभ्या दास्याः परुषभाषणे ॥ ४० ॥ दिनेषु पूर्णेष्वथ हृष्टबन्धुष्वाकारसन्दोहमुदारमूर्त्तिम् । बिम्बं हिमांशोरिव पूर्णमासी
प्रासूत सा सूनुमनूनभाग्यम् ॥४१॥ भूषोत्कर्षा अकार्षुः पणहरिणदृशस्ताण्डवाडम्बराणि
व्यक्तानन्दा अमन्दं कुलकमलदृशः प्रोचिरे मङ्गलानि । साशीर्वाद प्रणेदुः पटुतरपटहाश्चत्वरे चत्वरेऽसौ
चक्रे भूचक्रशक्रः सुमहमिति तनुजन्मनो जन्मनोऽस्य ॥ ४२ ॥ शुभेऽहनि स्थामवतां ग्रहाणां
बलैर्बलिष्ठः प्रकटप्रभावः ।
मातापितृभ्यामयमीरितोऽभूत् श्रीसाहिजातोऽकबरेति नाम्ना ||४३||
१. मनस्तस्या मुं. कां. हं. ॥ २. चैच्छ० मां. ॥
४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96