SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ कस्तूरी मृगमृत्युमात्रसुलभा न ह्यङ्गरागे प्रिया मुक्ताः शुक्तिविभङ्गजा नहि मतांस्तस्या विभूषाविधौ । कौशेयं किल नैच्छदच्छहृदया नेपथ्यमातन्वती माता कुक्षिगते सुते बहुकृपासिन्धौ सबन्धौ हरेः ॥ ३८॥ दानाय मेरुं चकमे महामना - स्तथा च ताराचलरोहणाचलौ । सपादभारप्रमितार्जुनप्रदं पुनः पुनः कर्णनृपं निनिन्द सा ॥ ३९ ॥ नोज्झाचकार दाक्षिण्यमपि विप्रियकारिणि । नासभ्यमब्रवीत्सभ्या दास्याः परुषभाषणे ॥ ४० ॥ दिनेषु पूर्णेष्वथ हृष्टबन्धुष्वाकारसन्दोहमुदारमूर्त्तिम् । बिम्बं हिमांशोरिव पूर्णमासी प्रासूत सा सूनुमनूनभाग्यम् ॥४१॥ भूषोत्कर्षा अकार्षुः पणहरिणदृशस्ताण्डवाडम्बराणि व्यक्तानन्दा अमन्दं कुलकमलदृशः प्रोचिरे मङ्गलानि । साशीर्वाद प्रणेदुः पटुतरपटहाश्चत्वरे चत्वरेऽसौ चक्रे भूचक्रशक्रः सुमहमिति तनुजन्मनो जन्मनोऽस्य ॥ ४२ ॥ शुभेऽहनि स्थामवतां ग्रहाणां बलैर्बलिष्ठः प्रकटप्रभावः । मातापितृभ्यामयमीरितोऽभूत् श्रीसाहिजातोऽकबरेति नाम्ना ||४३|| १. मनस्तस्या मुं. कां. हं. ॥ २. चैच्छ० मां. ॥ ४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy