Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 255
________________ २२२ काव्यकल्पलतावृत्तिः भुवनावलिवाह नविद्यासन्ध्यागजजातिशंभुनेत्राणि त्रिशिरोमौलिदशाक्षेत्रपालफणकालमुनिदण्डाः ।।२५४॥ त्रिफलात्रिशूलपुरुषाः पलाशदलकालिदासकाव्यानि । वेदावस्था: कम्बुग्रीवारेखा त्रिकूटकूटानि ।।२५५।। हरहतपुरत्रियामा यामा यज्ञोपवीतसूत्राणि । जैन रत्नच्छत्रप्रदक्षिणागुप्तिशल्यानि ॥२५६।। मुद्राप्रणामगौरवशिवभवमार्गा: शुभेतरालेश्या: । सर्वेऽप्यमी त्रिसंरव्योपेताः काव्ये निबोद्धव्याः ।।२५७।। म टी. अथ संख्यातोऽर्थोत्पत्तिं प्रपञ्चयन्नाह-एकादिसंख्यासङग्रहो यथा-तत्रैकसंख्या। आदित्येति-आदित्यः, चन्द्रः, मेरुः, प्रासादः, दीपः, दण्डः, कलशश्च खड्गः, हरनेत्रं ईश्वरस्य तृतीयं लोचनं, शेषः शेषनागः, स्वर्दण्डः अङ्ग ष्ठः, हस्तिकरः नाशावंशः, विनायकदन्तो गणेशदन्त:, पताकामनः शक्राश्वः । उदाहरणं यथा एकदन्तेति-एकदन्तो गणेशो जयति । किं कुर्वन? दधन एकदन्तरूपं स्तम्भम् । कथं? पुरोऽग्रे यो वक्ति इव जगद्विघ्नविधाताद्वैतं आत्मनः । द्विसंख्या यथा-भुजे, दृष्टी कौं, पादौ, स्तनौ, सन्ध्ये, रामलक्ष्मणौ, शृङ्गे गजदन्तौ, प्रीतिरती मदनभार्ये, गङ्गागौयौं ईश्वरभार्ये, विनायकस्कन्दौ शम्भपूत्रो, पक्षी नदीतटे, रथयौं, खड़गधारे, भरतशत्रुघ्नी, रामसूतौ कुशलवी, रविचन्द्राविति। अत्रौदाहरणानि स्पष्टानि । त्रिसंख्या यथा-भुवनानि स्वर्ग १ मर्त्य २ पातालरूपाणि ३ । वलयस्त्रिवलयं। उदरे रेखात्रयीरूपा इति यावत्। वह नय: दक्षिणा १ हवनीय २ गार्हपत्यरूपाः ३। विद्यालक्षण १ साहित्य २ तर्करूपाः ३ । सन्ध्याः प्रभात मध्यान्ह २ सायंरूपा ३ । गजजातयः भद्र १ मन्द २ मृगरूपा: ३। शम्भुनेत्राणि त्रिशिरोमौलयः। त्रिशिरसो धनदस्यः मस्तकानि । दशा उत्तम१ मध्यमा२ ऽधमरूपाः । क्षेत्रपालफणा:३ । कालः शीतोष्ण २ वर्षारूपः ३। मुनिदण्डाः मनोवाक् २ काय ३रूपाः । त्रिफला प्रसिद्धा। त्रिशूलं । पुरुषा उत्तम१ मध्यमा२ धमरूपाः। पलाशदालनि प्रसिद्धानि। कालिदासकाव्यानि मेघदूत१ कुमारसम्भव२ रघुवंशरूपाणि। वेदाः ऋग्१ ययुः (जुः)२ साम३ रूपाः । अवस्था: बाल्य १ तारुण्यर वार्द्धकरूपाः३। छद्मस्थत्व१ केवलित्व२ सिद्धत्वरूपाः३ वा । कम्बुरेखाः शङ्खरेखा:३। ग्रीवारेखाः३ । त्रिकुटकुटानि त्रिकूटपर्वतशिखराणि त्रीणि। हरतपुरा ईश्वरहता पुरा दैत्यविशेषाः । त्रियामा या यामा: प्रहरा:३ आद्यंतचतुर्घटिकयोदिवसमध्ये गणनात् । यज्ञोपवीतसूत्राणि त्रीणि। जैनमते रत्नेत्यादि-तत्र रत्नानि ज्ञान१ दर्शनरचारित्र३ रूपाणि। छत्रत्रयं । प्रदक्षिणात्रयं।३ गुप्तयो मनो१ वाक् २ कायरूपाः। शल्यानि माया१ निदान२ मिथ्यात्वदर्शन३ रूपाणि । मुद्रात्रयी जिनमुद्रा? योगमुद्रा२ मुक्ताशुक्तिमुद्रारूपा३ । प्रणामत्रिकं अञ्जलिबन्ध १ अविनत२ पञ्चाङ्ग३ रूपं । गौरवाणि ऋद्धि१ रस२ सूख३ रूपाणि । शिवमार्ग: ज्ञानर्ग दर्शन १ चारित्ररूपः । भवमा २ राग १द्वेष२ मोहरूप:३। शभलेश्या तेज १ पद्म२ शुक्लरूपा.३ । अशुभलेश्या. कृष्ण१ नील२ कापोत३ रूपा. । अत्रोदाहरणानि स्पष्टानि । का.क. यथा-- कण्ठोऽयमस्या मुदुमध्यतारस्वरत्रयाधार इति त्रिरेखः । मुदं ददाति त्रिजगज्जयाय प्रयाणशङखो मकरध्वजस्य।। कि रोमराजी यमुनातटेऽस्या वलित्रिदण्डी कलयन्ननगः । कस्यापि रूपेण जितस्तपस्वी तमेव जेतं तनुते तपांसि ।। शल्येन धारितस्यासेधाराद्वितयबिम्बित:। त्रिमतिरिव रेजेऽसौ त्रिवेदीवेदिनोऽचितुम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454