Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 421
________________ १२४ कोमलाङ्गः पूर्वजोऽस्य गणाधिपतिवाहनम् । तज्जातीयस्य सुरभैः सेव्यों गोवयतस्तथा ॥ ३६ ॥ सिंहः शुक्लवपुः क्रूरारुणाक्षः कुम्भिकुम्भभित् । सद्यः स्वहतमांसादी मृगेन्द्र। वनमण्डलम् ॥ ३ज्ञ। गर्जत्यब्दे समुत्पाती चर्षिणैकतरस्तथा । तनुमध्यः पूर्वजोऽस्य पार्वत्या वाहनं तथा ।। ३८ ।। हरि (हिरण्यकशिपोचति रूपार्द्धं विष्णुरादधौ । मृगस्तृणादनो नारीनेत्रोपमानलोचनः ।। ३९ ।। पूर्वजोऽस्य स्थितश्चन्द्रे वाहनं मरुवस्तथा । कस्तूरीजन्म यज्जातिर्योनि भोग्यन्वगस्य च ॥ ४० ॥ वराहः क्षोणिभृद्दंष्ट्रः शूरः पङ्कस्थितिप्रियः । एतद्रूपेण कृष्णेन दंष्ट्रोग्रेणोधृता मही ॥ ४१ ॥ वानरो वृक्षशाखाभ्यः शाखान्तर गतिप्रियः । पूर्वजैरस्य बद्धोब्धिर्दशग्रीववधोद्यमे ।। ४२ ।। श्रीरामस्य प्रियाप्राप्तियभिस्तै रजायत । एते सुग्रीवहनुमन्मुख्या दोषापहारिणः ||४३|| शृगालो बुद्धिमान् भीरु क्षेत्र सस्यादनो निशि । पुरा पुनि ( नः ? ) प्रबोधाय तद्रूपं हरिणा धृतम् ||४४ || चित्रकश्चित्रकाय श्रीर्महार्घत्वग्भयोज्झितः । मकरः क्रूरहृद्दंष्ट्री मत्स्यो मंगल्यदर्शनः || ४५ ।। पूर्वजातयोजती पुजा बुधरथध्वजौ । मत्स्यरूपेण कृष्णेन ब्रह्मा स्याद्वेदहारिणम् ॥४६॥ पुरा शंखासुरं हत्वा पुनर्वेदाः समुद्धृताः । कूर्मो वृत्ताकृतिस्पृष्टकठोरः कमलोदरः ||४७ ॥ पुरा समुद्धृता धात्री कूर्मरूपेण विष्णुना । षट्पदो भ्रमरः श्यामः पुष्पलिट् मञ्जुगुञ्जितः ॥४८॥ भृङ्गश्रेणी स्मरधनुमै स्त्रीवेणुसंनिभाः । सरलोऽष्टपदस्तस्य पृष्ठस्थास्थाच्चतुष्पदी ॥ ४९ ॥ यो हत्वा हस्तिनं स्कन्धे समर्थो वहति स्थितिम् । कर्णशृगालीखर्जूरमुख्याः स्युरमितां हयः ॥ ५०॥ जीवानां जीवभावानां बहुत्वात कथ्यते कियत् । दशानयास्वयं प्राज्ञैरन्यदप्य ह्यमादरात् ॥ ५१ ॥ Jain Education International इति श्री वायटगच्छीय श्री जिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते स्वोपज्ञकाव्यकल्पलतापृत्तिविवेचने परिमलनाम्नि वर्ण्य स्तबकोल्लासी स्वभावविभावनश्चतुर्दशः प्रसरः ।। ग्रं. ४२५ । काव्यकल्पलतावृत्तिः - परिशिष्ट For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454