Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 7
________________ काव्यादर्शः । प्रथमः परिच्छेदः । चतुर्मुखमुखाम्भोजवनहंसबधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरखती ॥ १ ॥ प्रणम्य कमलाकान्तं भक्ताभीष्टफलप्रदम् । काव्यादर्शस्य विकृतिं वितनोमि सतां मुदे ॥ किंवदन्तीयं यत् महामहोपाध्यायः श्रीमान् देखौनाम कविः ग्रन्यमिमं स्वयं विरच्य कमपि राजपुत्त्रम् अध्यापयामास इति । ग्रन्थारम्भे निर्विघ्नेन प्रारिसितपरिसमाप्तिकामनया कविग्रन्याधिष्ठाटतया वाग्देवतायाः स्मरणरूपमङ्गलमाचरन्नाह चतुर्मुखेति । चतुर्मुखस्य ब्रह्मणः सुखान्येव अम्भोजवनानि पद्मवृन्दानि तेषु हंसबधूः हंसौखरूपा सर्वतः सर्वावयवेन सर्वप्रकारेण च शुक्ला श्वेतवर्णा परिशुद्धा च सरखती वागधिष्ठात्री देवो नित्यं सततं मम मानसे चेतसि तदाख्यसरसि च रमतां विहरतु मानसे सरसि पद्मवनेषु हंसीव या ब्रह्मणो मुखकमलेषु श्रुतिरूपेण सततं विहरति सा सर्वशुद्धा वाग्देवी मम हृदये सततं वसतु इति निष्कर्षः । नित्यमित्यत्र दौर्घमिति पाठे दीर्घं सुचिरमित्यर्थः ॥ १ ॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 286