Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
१२
भासनाटकचक्रेऽपि च्छेकैः क्षिप्ते परीक्षितुम् । खप्नवासवदत्तस्य दाहकोऽभून्न पावकः ॥
(सूक्तिमुक्तावलिः.) केषांचन नाटकानां कर्ता भासकविः कालिदासात्याचीनः. यतो मालविकाग्निमित्रप्रस्तावनायां भासकवेर्नाम वर्तते. 'सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेमे भासो देवकुलैरिव ॥' इति हर्षचरितप्रारम्मे बाणभट्टः ‘पेया सुरा प्रियतमामुखमीक्षणीयं ग्राह्यः स्वभावललितो विकटश्च वेषः । येनेदमीदृशमदृश्यत मोक्षवम दीर्धायुरस्तु भगवान्स पिनाकपाणिः ॥' इति यशस्तिलकचम्प्वां भासकवेः श्लोकः, अन्येऽपि भासकवेः श्लोकाः सुभाषितावल्यादिषु प्राप्यन्ते. तत्कृतो प्रन्थस्तु नाद्याप्येकोऽप्युपलब्धः. किंतु स्वप्नवासवदत्तनाटकस्य 'संचितपक्ष्मकपाट-' इत्यायेकार्था श्रीमदभिनवगुप्तेन ध्वन्यालोकलोचनस्य तृतीयोहयोत उदाहृतास्ति.
कालारप्रतिश्चक्रे भीमटः पञ्चनाटकीम् । प्राप प्रबन्धराजत्वं तेषु खप्नदशाननम् ।।
(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) 'कलिञ्जरपतिः' इति पुस्तकान्तरपाठः. कालजरगिरिः प्रयागनगराद्वायुकोणे द्वादशयोजनान्तरे वर्तते. तदुपलक्षितदेशाधिपतिरयं भीमटः. 'दृष्टे चन्द्रमसि' इत्यादिश्लोकः सूक्तिमुक्तावलौ भीमटनाम्ना समुद्धृतोऽस्ति.
अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः। श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः ।।
( शार्ङ्गधरपद्धतिः.) पुस्तकान्तरे ‘यच्चाण्डालदिवाकरः' इति पाठः.
दर्प कविभुजंगानां गता श्रवणगोचरम् । विषविद्येव मायूरी मायरी वाङ् निकृन्तति ।।
. (सूक्तिमुक्कावलिः.)

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 184