SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ १२ भासनाटकचक्रेऽपि च्छेकैः क्षिप्ते परीक्षितुम् । खप्नवासवदत्तस्य दाहकोऽभून्न पावकः ॥ (सूक्तिमुक्तावलिः.) केषांचन नाटकानां कर्ता भासकविः कालिदासात्याचीनः. यतो मालविकाग्निमित्रप्रस्तावनायां भासकवेर्नाम वर्तते. 'सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेमे भासो देवकुलैरिव ॥' इति हर्षचरितप्रारम्मे बाणभट्टः ‘पेया सुरा प्रियतमामुखमीक्षणीयं ग्राह्यः स्वभावललितो विकटश्च वेषः । येनेदमीदृशमदृश्यत मोक्षवम दीर्धायुरस्तु भगवान्स पिनाकपाणिः ॥' इति यशस्तिलकचम्प्वां भासकवेः श्लोकः, अन्येऽपि भासकवेः श्लोकाः सुभाषितावल्यादिषु प्राप्यन्ते. तत्कृतो प्रन्थस्तु नाद्याप्येकोऽप्युपलब्धः. किंतु स्वप्नवासवदत्तनाटकस्य 'संचितपक्ष्मकपाट-' इत्यायेकार्था श्रीमदभिनवगुप्तेन ध्वन्यालोकलोचनस्य तृतीयोहयोत उदाहृतास्ति. कालारप्रतिश्चक्रे भीमटः पञ्चनाटकीम् । प्राप प्रबन्धराजत्वं तेषु खप्नदशाननम् ।। (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) 'कलिञ्जरपतिः' इति पुस्तकान्तरपाठः. कालजरगिरिः प्रयागनगराद्वायुकोणे द्वादशयोजनान्तरे वर्तते. तदुपलक्षितदेशाधिपतिरयं भीमटः. 'दृष्टे चन्द्रमसि' इत्यादिश्लोकः सूक्तिमुक्तावलौ भीमटनाम्ना समुद्धृतोऽस्ति. अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः। श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः ।। ( शार्ङ्गधरपद्धतिः.) पुस्तकान्तरे ‘यच्चाण्डालदिवाकरः' इति पाठः. दर्प कविभुजंगानां गता श्रवणगोचरम् । विषविद्येव मायूरी मायरी वाङ् निकृन्तति ।। . (सूक्तिमुक्कावलिः.)
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy