Book Title: Jaypayad Nimmittashastra
Author(s): Jinvijay
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 23
________________ जयपाहुडनाम निमित्तशास्त्रम् । [गाथा १५-१८] (ख)मूलचिन्ताभ्यां गाथायामिन्तभूतास्ते चेत्युच्यन्ते । तदप व स' इत्येते पंच धात्वक्षराः अन. भिहताः लघवो मात्रारहिताश्च जीवधातुचिन्तां कथयन्ति । लकार एक एव मूलाक्षरो लघुः । अनभिहतो मात्राविवर्जितः स स्वजीवमूलचिन्तां कथयति ॥ १४ ॥ मत्तासु जो विअप्पो, जो वि य आलिंगिओ वि अभिघाओ। तं सचं वण्णेहं, जहक्कम आणुपुबीए ॥ १५ ॥ मात्रासु यो विकल्प इति वक्ष्यमाणोपन्यासार्थगाथा । विकल्पग्रहणेन मात्राभेद उच्यते। स ए[वं] तिर्यग्मात्रा अधोमात्रा इति । [५० ८, पा० १ ]आलिंगिताभू(भि)धूमितदग्धलक्षणोपघाता[त्] (त्रि)धा । तदेतत् सप्रपंचं यथाक्रममानुपूर्व्या कथयिष्यामः ॥ १५ ॥ पढमो तइओ य सरो, सत्तम णवमो य तिरियमायाओ । मूलसर उद्द(ड)मत्ता, पंचम-छट्ठा अहोमत्ता ॥ १६ ॥ अकारः प्रथमः स्वरः, इकारः तृतीयखरः, एकारः सप्तमस्वरः, ओकारो नवमस्वर:-एते चत्वारः स्वरास्तिर्यग्मात्राः । एतेषु मूलयोनौ लब्धायां तिर्यग्लतायां वल्यां(हयां) शाखायां वा संघन्धि मुष्टिगृहीतं किमपि कथयन्ति । नष्टप्रश्रेऽप्यन्तरीक्षतिर्यग्भागस्थित द्रव्यमेत एव स्वराः कथयन्ति । ईकारश्वतुर्थः, ऐकारोऽष्टमः, औकारो दशमः । [प०८, पा० २] एते त्रयः स्वरा ऊर्द्ध॥ मात्राः। मूलयोनौ लब्धायां वृक्षस्योर्द्धभागसंबन्धि किमपि मुष्टिगृहीतं कथयन्ति । नष्टप्रश्ने ऊर्द्धभागस्थितद्रव्यमेते त्रयः स्वराः कथयन्ति । पंचमः उकारः, षष्ठः औकारः, एतौ द्वौ स्वरौ अधोमात्रौ मूलयोनौ लब्धायां वृक्षस्याधोभागसंबन्धि किमपि मुष्टिप्र()हीत(तं) कथयत(तः) । नष्टप्रश्भेऽप्यधोभागव्यवस्थित्रा(त)मेतावेव स्वरौ कथयतः ॥ १६ ॥ [१० ९, पा० १] जीवाईसट्टाणं, णियमा द[रि]संति उट्ठ(ड)मत्ताओ। व(वि)वरीय अहोमत्ता, णायवा जीव-धाऊणं ॥ १७ ॥ ऊर्द्धमात्रा यि(येऽ)भिहतात्रयस्रयः स्वराः। ते जीवाक्षराणां पंचदशानामुपरिगता जीवमूलसंस्थानं दर्शयन्ति। काष्ठं मूलमुच्यते । तस्मिन्नुत्कीर्णप्राणिगणस्यान्यतमजीवमूलसंस्थानमुच्यते इति । अधोमात्रो(नौ) द्वौ स्वरावुक्तो(क्तौ) तौ यदा जीवाक्षरसंयुक्तौ दृश्य(इये)ते तदा जीवधा तुं दशेयतः । [प०९,पा० २] को जीवधातुरित्यत्रोच्यते-सुवर्णरूप्यतांबा(ताम्रा)ऽरकांस(स्य)पाषा8 णादिष्वेवंविधेषु धातुषु(पू)त्कीर्णो जीवाकृतिसंस्थानः सकलपाणिगणो जीवधातुरित्युच्यते ॥१७॥ मूलक्खरा उ सबे, धाउं दंसंति जे अहोमत्ता । दंसंति तिरियमत्ता, परपक्खगया उभयपक्खं ॥ १८ ॥ मूलाक्षराः 'ङबण न म र ल षा' श्चाष्टावेते उक्ता व(अ)धोमात्रा(त्राः) स्वरद्वयसमेता यदा दृश्यन्ते तदा धातुद्रव्यं दर्शयन्ति । तिर्यग्मात्राभि[५० १०, पा० १]हताश्चत्वारो जीवस्वराः, ते * मूलाक्षराणामुपरिगता जीवमूलं दर्शयन्ति । जीवमूलस्य आकारः। पूक्तिमेव । धात्वक्षराणा मुपरिगताश्चैते यदा जीवस्वराश्चत्वारो दृश्यन्ते तदा जीवधातुं दर्शयन्ति । जीवधातुसंस्थानं - चोक्तमेव ॥ १८॥ (20) Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76