Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतनिश्रितम् सम्बध्यमानस्य शब्दादि रूपस्यार्थस्याव्यक्तरूप: परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यते इति व्यञ्जनानि, 'कृबहुल' मिति वचनात् 'कर्मण्यनट व्यञ्जनानां शब्दादिरूपतयापरिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्रा. प्तानामवग्रह:- अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, व्यज्यतेऽनेनार्थः प्रदीपेनेव घटः इति व्यञ्जन-उपकरणेन्द्रियं तेन स्वसम्बद्धस्यार्थस्य-शब्दादे रवग्रहणम्-अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, इयमत्र भावना-उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धे प्रथम समयादारभ्यार्थावग्रहात् प्राक् या सुप्तमत्तमूच्छितादिपुरुषाणामिव शब्दादिद्रव्यसम्बन्धमात्र विषया काचिदव्यक्ता ज्ञानमात्रा सा व्यञ्ज नावग्रहः, स चा तमुहूत्तंप्रमाणः। अत्राह --ननु व्यञ्जनावग्रहवेलायां न किमपि संवेदनं संवेद्यते, तत् कथमसौ ज्ञानरुपो गीयते ? उच्यते, अव्यक्तत्वान्न संवेद्य ते, ततो न कश्चिद्दोषः, तथाहि-यदि प्रथमसमयेऽपि शब्दादिपरिणतद्रव्यैरुपकरणेन्द्रियस्य सम्पृक्तौ काचिदपि न ज्ञानमात्रा भवेत्, ततो द्वितीयेऽपि समये न भवेत, विशेषाभावात्, एवं यावञ्चरमसमयेऽपि, अथ च चरमसमये ज्ञानम र्थावप्रहरूपं जायमानमुपलभ्यते, ततः प्रागपि कापि कियती ज्ञान मात्रा द्रष्टव्या, अथ मन्येथाः --माभूत् प्रथमसमयादिषु शब्दादिपरिणत द्रव्य सम्बन्धेऽपि काचिदपि ज्ञानमात्रा, शब्दादिपरिणतद्रव्याणां तेषु समयेषु स्तोकत्वात, चरमसमये तु भविष्यति, शब्दोदिरूपपरिणतद्रव्य समूहस्य तदानीं भूयसो भावात् , तदयुक्त', यतो यदि प्रथमसमयादिषु शब्दादिद्रव्याणां स्तोकत्वात् सम्पृक्तावव्यक्ताऽपि काचिदपि ज्ञानमात्रा न समुल्लसेत् , तर्हि प्रभूतसमुदायसम्पर्केऽपि न भवेत , न खलु सिकता For Private And Personal Use Only

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148