Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
१३४
कुर्वतो बधपरीषहजयो भवेत् ।
याचना मार्गणा, साधोर्वस्त्रपौत्रान्नपानमतिश्रयादेः परतस्तस्य लब्धे सति न हर्षो, यदि च न लब्धं, न तदा शोकोऽपि, एवं कुर्वतो याचनापरीषहजयो भवेत् ।
जैन तत्व प्रदीपे
+
अलाभस्तु याचिते सति विद्यमानमपि अन्नपानादिकं कदाचिद् ददाति कदाचिच्च न, कस्तत्रासन्तोषाऽवकाशः, एवं विचारयतोऽलाभपरीपहजयो भवेत् ।
रोगो ज्वरा - तिसार-कास-श्वासादिकरूपः, तस्य प्रादु सत्यपि न चिकित्सां प्रति प्रवर्तेत, प्राक् कर्मणां प रिपाकोऽयमिति चिन्तयेत्, गच्छ्वासिनस्तु अल्पबहुत्वालोचनया सम्यक् सहन्ते प्रवचनोक्तविधिना । एवं कुर्वतो रोगपरीषहजयो भवेत् ।
·
अशुपिरतृणदर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छ्वासिनां च यत्र शयनमनुज्ञातं तत्र तान् तृणदर्भादीन् भूमावास्तीर्य संस्तारोत्तरपटकौ च तदुपरि पिधाय ते शेरते । चौरापहृतोपकरणा वा प्रतनुकौ संस्तारोचरपट्टकावत्यन्तजीण वा, तथापि तत्परुषकुशदर्भादिणस्पर्श सम्यक सहन्ते । एवं कुर्वतः तृणस्पर्शपरीपहजयो भवेत् ।
मलस्तु रजः परागमात्रं स्वेदवारिसंपर्ककठिनीभूते वपुषि स्थिरतां प्राप्तो ग्रीष्मोष्यसंतापजनितधर्मजलार्द्रवां

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129