Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 98
________________ षष्ठोऽधिकारः । १५४ कुशीलयोः, तौ युगपदसंख्येयस्थानानि गच्छतः । ततः पुलाको व्युच्छिद्यते। कपायकुशीलस्तु असंख्येयस्थानानि एकैको गच्छति, ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदसंख्येय स्थानानि गच्छन्ति, ततो बकुशो व्युच्छि - द्यते । ततोऽसंख्येय स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते । ततोऽसंख्येयस्थानानि गत्वा कपायकुशीलो व्युच्छिद्यते । अत ऊर्ध्वमकपायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽपि असंख्येयस्थानानि गत्वा व्युच्छिद्यते । अत ऊर्ध्वस्थानं गत्वा निर्ग्रन्थस्नातको निर्वाणं प्राप्नोतीत्येषां संयमलव्धिरनन्तगुणा भवति । अत्र स्थानपदेनाध्यवस्थानं वा परिणामस्थानं वा संयमस्थानं वा गृह्यते । तत्र यावत्कपायस्तावत् संक्लेशविशोधयोऽवश्यभाविन्यः । क्षीणकषायस्य तु विशोधिरेव न संक्लेशः । तत्र कषायस्यासंख्येयानि संयमस्थानानि, भावना त्वियं कार्या-पुलाककपायकुशीकयोः सर्वजघन्यस्थानानि यानि सन्ति, अधस्ततस्तौ युगपंद संख्येय स्थानानि गच्छतः, तुल्याध्यवसायत्वात्, ततः बुलाको न्युच्छिद्यते, हीनपरिणामत्वात् । व्युच्छिन्ने पुलाके कपायकुशीळ एक एवासंख्येयानि स्थानानि गच्छति, वर्धमानपरिणामत्वात्, कपायमतिसेवनाकुशीलवकुशा युनपदसंख्येयस्थानानि गच्छन्ति, ततो वकुशो व्यच्छिद्यते, ततः तावन्ति गत्वा प्रतिसेवनाकुशीको व्युच्छिद्यते । ततस्तावन्ति गत्वा कपायकुशीको व्युच्छिद्यते । ततो निर्प्र

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129