Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah

View full book text
Previous | Next

Page 12
________________ ( ९ ) श्रुतज्ञानं समाख्यातं चतुर्दशविधं जिनैः । अक्षरं संज्ञि सम्यक् च, सादिसान्तं तथा गमि ॥४० एवमङ्गप्रविष्टं च, प्रतिपक्षान्वितं मतम् । सांव्यवहारिकं प्रोक्तं मयैवं च यथामति ॥ ४१ ॥ पारमार्थिक मुत्पत्ता-वात्ममात्रतमाश्रितम् । विकलं सकलं चाद्य-मवधिर्मन आख्यकम् ॥ ४२ ॥ विशिष्टावृतिविच्छेदा- दवधी रूपगोचरः । मनःपर्यीयकं ज्ञानं, हृदयमात्रगोचरम् ॥ ४३ ॥ अनेकार्द्धनिधानानां शुद्धसंयमशालिनाम् । पुष्करार्द्धमाख्यातं, संज्ञिनां चित्तवेदकम् ॥४४॥ अवधिज्ञानमेवेद - माहुर्नव्या महाशयाः । सूत्रे भेदाभिधानं च, धर्मभेदाभिप्रायतः ॥ ४५ ॥ घातिकर्मक्षयोद्भूतं, सर्वभावप्रकाशकम् । केवलज्ञानमाख्यातं, सकलं सकलं सदा ॥ ४६ ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48