Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah
Catalog link: https://jainqq.org/explore/022459/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ సేది RA ॥ अर्हम् ॥ जैनमुक्तावली सूरिस्तवशतकं च, प्रणेता, मुनिनन्दन विजयः X& STATE Page #2 -------------------------------------------------------------------------- ________________ तपोगच्छाधिपति--शासनसम्राट--आचार्यमहाराजाधिराज - श्रीमद्-विजयनेमिसूरीश्वरजी. Page #3 --------------------------------------------------------------------------  Page #4 -------------------------------------------------------------------------- ________________ ਉਠਣਨ ਤੋਂ ਉਠਣ ਬੈਟਰੀਦਣ ॥ अहम् ॥ ॥ सकलस्वपरसमयपारावारपारीणसुविहितश्री-- भगवत्यादिनिखिलयोगोदहनमूरिमन्त्रसमाराधनविशुद्धशीलानुष्ठानप्रौढप्रभावशा-- लितपोगच्छनभोनभोमणिभट्टारका चार्यश्रीमद्विजयनेमिसूरि भगवद्भयो नमः॥ ॥ श्री जैनमुक्तावली ॥ Keeaster प्रणेता, * मुनि नन्दनविजयः * Asscotcotestestcotcotcotcotcolestcotest सने १९२३ । 8 प्रत,५००. ***K प्रथमावृत्तिः * * A. ... . Page #5 -------------------------------------------------------------------------- ________________ राजनगर ( अमदावाद ) वास्तव्य प्राग्वाटवणिग्वंशावतंसधर्मकर्मकर्मठश्रेष्ठिप्रवर मनसुखभाइ सुत माणेकलालभाइ श्रेष्ठिप्रवरेण ग्रन्थोऽयं राजनगर ( अमदावाद घीकांटा शेठ जेशंगभाइनी वाडी अन्तर्गत ) जैन एडवोकेट प्रीन्टींग प्रेस इत्याख्ये मुद्रणालये शा चीमनलाल गोकलदासद्वारा सम्मय प्रकाशितः, Page #6 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ । श्री परमात्मने नमः ॥ ॥ श्री गौतमस्वामिने नमः ॥ ॥ आचार्य श्रीविजयनेमिसरिभगवद्भयो नमः ॥ ॥ श्री जैनमुक्तावली॥ प्रणमामि महावीरं, चरमं तीर्थनायकम् । सच्चिदानन्दसम्पूर्ण, भव्याभोष्टार्थदायकम् ॥ १॥ वन्दे श्रीगौतमं देवं, देवतासङ्घसेवितम् । निःशेषलब्धिसम्पन्नं, प्रथमं गणनायकम् ॥ २ ॥ श्रीमच्छ्रमणसङ्घस्या-धोश्वर योगशालिनम्। परमप्रौढसाम्राज्यं. नेमिसूरि प्रणामि तम् ॥३॥ सूरेभगवतस्तस्य, पादसेवानुभावतः । "जैनमुक्तावली” काचिद्, विधियाऽपि विरच्यते॥४॥ Page #7 -------------------------------------------------------------------------- ________________ (४) द्रव्यपर्यायभेदेना नेकभेदसमन्विता । सत्पदार्थो समाख्यातो, कृत्स्नभावप्रकाशिभिः ॥५॥ धर्माधर्मनभो जीव-पुद्गलानेहसस्तथा। द्रव्याणि गुणपर्याय-वत्त्वं तत्त्वमुदाहृतम् ॥ ६ ॥ गत्युपकारकोऽसङ्ख्य-प्रदेशोऽरूपिनिष्क्रियः । एकद्रव्यं समाख्यातो, धर्मो धर्मोपदर्शिभिः ॥ ७॥ तथैवाधर्म आदिष्टः, परं स्थित्युपकारकः । अवगाहद आकाशो- वस्तुनामवगाहिनाम् ॥८॥ अनन्तोऽयं प्रदेशैश्च, लोकालोकविभागभाक्। तदसङ्ख्येयभागादि-स्वात्मनामवगाहना ॥ ९ ॥ आसमस्तलाकात् सा-ऽजीवानान्त्ववगाहना। मूतामृतप्रभेदेन, द्विविधाद्यावगाहना ॥ १० ॥ एकप्रदेशमुख्येष्व-प्युक्तान्या तत्र सर्वतः। प्रदेशानां हि संहार-विसर्गों स्तः प्रदीपवत् ॥ ११॥ Page #8 -------------------------------------------------------------------------- ________________ एवं जीवोऽपि विज्ञेयो, विशेषस्तूपदश्यते । अविभुः सक्रियश्चाथा-नेकद्रव्यं वपुर्मितः ॥ १२ ॥ चिह्न चास्योपयोगः, स, साकारेतरभेदतः । द्विविधः स यथासङ्ख्यं, पुनश्चाष्टचतुर्विधः ॥१३॥ मतिश्रुतावधिमनः- पर्यवकेवलानि हि । ... मत्यज्ञानं श्रुताज्ञानं, विभङ्गज्ञानमेव च ॥ १४ ॥ इत्यष्टधा चतुर्धा च, श्रूयतामत्र कथ्यते। . चक्षुरचक्षुरवधि-केवलदर्शनं तथा ॥ १५ ॥ मतिश्चतुर्विधोक्ताव-ग्रहहापायधारणाः । तत्र चावग्रहो द्वैधं, व्यञ्जनार्थप्रभेदतः ॥ १६ ॥ ईहाप्रभृतयस्तु स्यु-बर्थस्यैवाद्यवग्रहः।। स्पर्शजिह्वाघ्राणकर्ण-प्रभेदेन चतुर्विधः ॥ १७ ।। चक्षुर्मनोविधाधिक्यात्, षोढार्थ वग्रहादयः । द्वादशधा पुनः सर्वे, प्रत्येकं परिकीर्तिताः॥१८॥ Page #9 -------------------------------------------------------------------------- ________________ बहुबहुविधक्षिप्रो- निश्रितनिश्चितध्रुवाः । सेतरा इति षट्त्रिंशत्- त्रिशतप्रभिदा मतिः ॥१९॥ मतिपूर्व श्रुतं द्वैध-मङ्गबाङ्गप्रविष्टकम् । अनेकभेदं तत्राद्यं, ज्ञेयं सामायिकादिकम् ॥ २०॥ अङ्गप्रविष्टमांचाराङ्गादि द्वादशधा मतम् । द्विधावधिभवहेतुः, क्षयोपशमहेतुकः ॥ २१॥ द्वितीयस्तत्र विज्ञेयः, षड्विकल्पसमन्वितः । आनुगामिवद्धमाना-वस्थितेतरभेदतः ॥ २२ ॥ मनः पर्यायकं नाम, ज्ञानं द्विविधमिष्यते । ऋजुमतिविपुलधीः, केवलं केवलं मतम् ॥२३॥ प्रमाणं च तदेव स्यात्, स्वपरव्यवसायकम् । व्यवसायस्वभावं तत्, पण्डितैः परिकीर्तितम् ॥२४॥ यतस्तस्यास्ति प्रामाण्यं, समारोपविरोधिता। समारोपोऽतस्मिस्तद-ध्यवसायोऽधिगम्यताम् ॥२५॥ Page #10 -------------------------------------------------------------------------- ________________ ( ७ ) विपर्ययः संशयोऽन-ध्यवसाय इति त्रिधा । अधिज्ञेयः स तत्राद्यो, विपर्ययः प्रदश्यते ॥ २६ ॥ विककोटेः स्यान्निष्टङ्कनं विपर्ययः । भवेद्यथा शुक्तिकायां, रजताकारतामतिः ॥ २७ ॥ तत्संशयोऽनवस्थिता ऽनेक कोटथवलम्बि यत् । ज्ञानं साधकबाधक प्रमाणानुपलम्भतः ॥२८॥ यथा स्थाणुरयं किं वा ? भवेद्वा पुरुषश्च किम् ? | अथानध्यवसायस्थ, स्वरूपं किञ्चिदुच्यते ॥ २९ ! स विद्वद्भिः समाख्यातः किमित्यालोचमात्रकम् । ज्ञानं यत्तद्यथा गच्छ- तृणस्पर्शस्य शेमुषी ॥ ३० ॥ तच्च द्विधाऽथ प्रत्यक्षं, परोक्ष तत्र चादिमम् । स्पष्टं तत्स्पष्टता तत्र, यद्विशेषप्रकाशनम् ॥ ३१ ॥ सांव्यवहारिकपार - मार्थिकत्वेन तद्विधा । सांव्यवहारिकं तत्रेन्द्रियानिन्द्रियहेतुकम् ॥ ३२ ॥ Page #11 -------------------------------------------------------------------------- ________________ (८) इन्द्रियमिन्द्रलिङ्गं स्याद्-इन्द्रदृष्टं तथैव च । इन्द्रसृष्टमिन्द्रजुष्ट-मिन्द्रश्चात्मा प्रकीर्तितः ॥३३॥ तच्चोक्तं पञ्चधा स्पर्श-जिह्वाघ्राणाक्षिकर्णतः। द्विधा तद्रव्यभावाभ्यां, ते द्वेऽप्येवं द्विधा मते॥३४॥ निर्वृत्तिरुपकरणं, द्रव्यतस्तत्र भाव्यताम् । लब्धिश्चाथोपयोगश्च, भावतः परिभावितम् ॥३५॥ स्पर्श-रस-गन्ध-वर्ण--शब्दा अनुक्रमादिमे।। एतेषां विषया ज्ञेया-वक्ष्यन्तेऽधश्च तद्विधाः ॥३६॥ अनिन्द्रियं मनो वैध, द्रव्यभावप्रकारतः। एतद्द्वयं भवेद्वेधा, मतिश्रुतविकल्पतः ॥ ३७॥ स्थाचताननुसार्याद्य-मितरं चेतरं मतम् । अवग्रहादिका प्रोक्ता, चतुर्धेव मतिर्यतः ॥ ३८ ॥ इहा स्यात् संशयाद्भिन्ना, संशयोत्तरभाविनी । क्रमश्चष तथाहेतु-क्षयोपशमभावतः ॥ ३९ ॥ Page #12 -------------------------------------------------------------------------- ________________ ( ९ ) श्रुतज्ञानं समाख्यातं चतुर्दशविधं जिनैः । अक्षरं संज्ञि सम्यक् च, सादिसान्तं तथा गमि ॥४० एवमङ्गप्रविष्टं च, प्रतिपक्षान्वितं मतम् । सांव्यवहारिकं प्रोक्तं मयैवं च यथामति ॥ ४१ ॥ पारमार्थिक मुत्पत्ता-वात्ममात्रतमाश्रितम् । विकलं सकलं चाद्य-मवधिर्मन आख्यकम् ॥ ४२ ॥ विशिष्टावृतिविच्छेदा- दवधी रूपगोचरः । मनःपर्यीयकं ज्ञानं, हृदयमात्रगोचरम् ॥ ४३ ॥ अनेकार्द्धनिधानानां शुद्धसंयमशालिनाम् । पुष्करार्द्धमाख्यातं, संज्ञिनां चित्तवेदकम् ॥४४॥ अवधिज्ञानमेवेद - माहुर्नव्या महाशयाः । सूत्रे भेदाभिधानं च, धर्मभेदाभिप्रायतः ॥ ४५ ॥ घातिकर्मक्षयोद्भूतं, सर्वभावप्रकाशकम् । केवलज्ञानमाख्यातं, सकलं सकलं सदा ॥ ४६ ॥ Page #13 -------------------------------------------------------------------------- ________________ (१०) तहतो दोषमुक्तत्वा-दहत्त्वं प्रतिपादितम् । तस्माच्च तत्र नैवेष्टा क्षित्यादीनां तु कर्तृता ॥ ४७॥ जन्यत्वं च शरीरेणो-पाधिना समलङ्कृतम् । इति प्रत्यक्षमाख्यातं, परोक्षं चाथ कथ्यते ॥ ४८ ॥ तदस्पष्टं समाख्यातं, पञ्चधा पूर्वपण्डितैः । तत्प्रपञ्चोऽथ विज्ञेयो-वक्ष्यमाणो यथानयम् ॥ ४९॥ संस्कारबोधसम्भूत-मनुभूतार्थगोचरम् ॥ तदित्याकारकं ज्ञानं, स्मरण कथितं बुधैः ॥ ५०॥ तिर्यगूर्ध्वत्वसामान्य-प्रभृत्यालम्बनं तथा। संकलनात्मकं ज्ञानं, प्रत्यभिज्ञानमिष्यते ॥ ५१ ॥ त्रिकालवतिनोर्यः स्यात्, साध्यसाधनयोः खलु । सम्बन्धादिस्तदालम्ब-मूहापरनामकम् ॥ ५२ ॥ उपलम्भेतरोद्भगतं, विज्ञान परिकीर्त्यते ॥ सत्येवास्मिन्निदं चेति, तर्कस्तार्किकशेखरैः ॥५३॥ Page #14 -------------------------------------------------------------------------- ________________ (११) अनुमानं द्विधा स्वार्थ, परार्थ चादिम विदम् । हेतुग्रहणसम्बन्ध-स्मृतिहेतुकसाध्यवित् ॥ ५४ ॥ हेतुश्च निश्चितान्यथा-नुपपत्येकलक्षणः । अन्यथानुपपत्तिश्च साध्यधर्मेण गृह्यते ॥ ५५ ॥ अप्रतोतं च साध्यं स्या-दनिराकृतमीप्सितम् । विषयभागात् साध्यत्वं भिन्न भिन्नमुदाहृतम्॥५६।। पक्षहेतुवचो रूपं, परार्थमुपचारतः । दृष्टान्तायत्र नैवाङ्गं, वस्तुतो हेतुरेव च ॥ ५७॥ क्वचित्प्रयुज्यते नाम, दृष्टान्तादिरिहापि च । स्याद् दृष्टान्तोऽविनाभाव-प्रतिपत्तेः किलास्पदम् ५८ उधोक्तोऽथ स साधर्म्य- वैधाभ्यां सुधीमुखैः। अन्तर्व्याप्तिर्बहियाप्तिश्चेति व्याप्तिर्दिधा मता।।५९॥ उपनयो निगमनं, यथासङ्ख्यमथोच्यते। साध्यधर्मिणि यद्धेतोः, साध्यधर्मस्य वा पुनः ॥६०॥ Page #15 -------------------------------------------------------------------------- ________________ (१२) उपसंहरणं चैवं, तान्यवयवसंज्ञया । पञ्चाप्यत्र प्रसिद्धानि, पण्डितानां प्रयोजने ॥ ६१ ॥ उपलब्ध्यनुपलब्धि-भेदाद्धेतुर्दिधा मतः । विधिनिषेधयोरेती, क्रमासिद्धिनिबन्धने।। ६२ ॥ सदंशोऽत्र विधिज्ञेयः, प्रतिषेधोऽसदंशकः । चतुर्विधः सविज्ञाना--मुत्तमैः परिकीर्तितः ॥ ६३ ॥ पूर्वप्रध्वंसकान्योन्या-ऽत्यन्ताभावप्रकारतः । ज्ञेयः सोऽथोपलब्धिं च, प्रभेदेन प्रदश्यते ॥ ६४ ॥ अविरुद्धा विरुद्धा च तत्राद्याः षडविधा मता। सा साध्येनाविरुद्धानां व्याप्यादीनां विभाविता ६५ सप्तधाऽन्यो समाख्याता, स्वभावादिविरोधिनी । तथैवानुपलब्धिः स्याद- द्विधाऽपि नवरं त्विदम् ६६ विरुद्धानुपलब्धिश्च, पञ्चभेदा विभाविता । इतरा सप्तधा ज्ञेया, क्रमाद्विधिनिषेधकृत् ॥६७॥ Page #16 -------------------------------------------------------------------------- ________________ ( १३ ) अभिधेयानि वस्तूनि, यो जानीते यथास्थिति । अभिधत्ते यथाज्ञानं, स आप्तोयं द्विधा मतः ॥ ६८ ॥ लौकिको जनकादिः स्या- लोकोत्तरश्च तीर्थकृत । तेषां ह्येव वचः शून्यं, विसंवादेन दृश्यते ॥ ६९ ॥ आविर्भूता च तद्वाचोऽथ संविन्मत आगमः । उपचाराद् भवेदाप्त-वचनं वक्ष्यतेऽथ तत् ॥ ७० ॥ आदिः पैौद्गलिको वर्णे, वर्णानां निरपेक्षिका । अन्योऽन्यापेक्षकाणां च, पदं संहतिरुच्यते ॥ ७१ ॥ वाक्यं स्याच्च पदानां तु वचनं तत्रयात्मकम् । सामर्थ्य मर्थशक्तिः स्यात्, सङ्केतः समयो मतः ७२ ताभ्यां स्वाभाविकाभ्यां स्याच्छन्दोऽर्थस्य विबोधकृत् अयं विधिनिषेधाभ्यां लभते भङ्गसप्तकम् ॥७३ ॥ " अनन्तत्वेऽपि धर्माणां सप्तभङ्ग्येव यन्मता । तद्धि पर्यनुयोगानां सप्तानामेव सम्भवात् ॥७४॥ " Page #17 -------------------------------------------------------------------------- ________________ (१४) सकलादेशरूपान्य-रूपाभ्यामुदिता द्विधा । कथ्यते विषयश्चाथ, परिच्छेद्यं च गोचरः ॥७५॥ अनेकान्तात्मक वस्तु, सामान्येतरमुख्यकम् । तद्गोचरश्च तवेधा, तिर्यगूर्ववभेदतः ॥ ७६ ।। विशेषोऽपि द्विधा प्रोक्तो गुणपयायभेदतः । सहभावी गुणो धर्मः, क्रमभावी तथाऽपरः ॥७७|| फलं चाथ प्रमाणस्य, द्विविधं परिकीर्तितम् । अनन्तरफल वाद्य, परम्परफलं परम् ॥ ७८ ॥ फलमज्ञाननिवृत्तिः, सर्वेषामादिमं मतम् । आदानत्यजनोपेक्षा-बुद्धयश्चापरं फलम् ॥ ७९ ॥ केवलस्य तु विज्ञेय-मोदासीन्यं फलं परम् ॥ तत्स्याद्भिन्नमभिन्नं च, प्रमाणाच प्रमातृतः ॥८॥ क्रिया क्रियावतो यस्माद्-भेदाभेदविभूषिता । कती हि साधकः प्रोक्त-स्तन्निवत्या भवेत् क्रिया ८१ Page #18 -------------------------------------------------------------------------- ________________ (१५) प्रमाणादिव्यवहृति- रियं स्यात्पारमार्थिको। संवृत्या तदुरीकार्ये, स्वेष्टसिद्धिविरोधिता ॥ ८२ ॥ एवं प्रमाणमाख्यातं, स्वरूपादिचतुष्टयात् । विपरोतस्तदाभासो, विशेषस्तु प्रदर्श्यते ॥ ८३ ॥ पक्षाभासास्त्रयस्तत्र मध्यमोऽनेकभेदभृत् । प्रत्यक्षप्रमुखैर्यस्मात्, साध्यधर्मनिराकृतिः ॥४॥ हेत्वाभासः परिज्ञेयो, भाषितो मुनिपुङ्गवैः । असिद्धश्च विरुद्धश्चा- नैकान्तिक इति त्रिधा॥८५॥ अप्रतीतस्वरुपः स्या- दसिद्धा द्विविधः स च । उभयासिद्ध आद्यश्चा- न्यतरासिद्धकोऽपरः ॥८६॥ साध्यविपर्ययव्याप्तो- विरुद्धः प्रथितो भुवि। . अन्यथानुपपत्तेश्च, संदेहात्स्यात्तृतीयकः ॥ ८७ ॥ विपक्षवृत्तिसंदेह- निर्णयाभ्यां द्विधास्त्ययम् । चतुर्धा पञ्चधा चैव, हेत्वाभासो मतोऽपरैः।। ८८ ॥ Page #19 -------------------------------------------------------------------------- ________________ (१६) यकिञ्चित्करयोगेन, चतुर्धा यन्मतोऽपरैः । तन्नाप्रयोजकात्मा हि पक्षाभासः स कीत्यते ८९ एवं सत्प्रतिपक्षश्च बाधश्च नातिरिच्यते । असिद्धानतिरिक्तत्वा दिति जैनमतं मतम् ॥ ९० ॥ दृष्टान्ताभास आख्यातो- द्विविधो धौतकल्मषैः । एकैको नवधा चैव माभासान्तरमूह्यताम् ॥ ९१ ॥ स्पात्प्रमाणकदेशत्वाद्- भिन्नः प्रमाणतो नयः । द्रव्यार्थिको मतः पूर्वे ऽन्यः पर्यायार्थिको बुधैः ९२ नैगमश्च संग्रहश्च, व्यवहार इति त्रिधा । आद्येोऽपरश्चतुर्धा स्यात्, प्रथम ऋजुसूत्रकः ॥ ९३॥ शब्दसमभिरूढ स्या- देवम्भूतश्चतुर्थकः । एतेष्वर्थनयाः केचित् केचित् शब्दप्रधानकाः ॥ ९४ विपरीतो नयाभासः, फलादिकं च पूर्ववत् । शब्दार्थरचनारूपो निक्षेपश्चाथ भाव्यते ॥ ९५ ॥ Page #20 -------------------------------------------------------------------------- ________________ (१७) स नामस्थनाद्रव्य- भावभेदाच्च विधः । द्रव्यार्थकनयस्य स्या-दिष्टं नामादिकत्रयम् ॥१६॥ पर्यायार्थिकयोगस्तु, भावस्यैव विभावितः। शुद्रत्वाद्भावमिच्छन्ति, शब्दादिका नयानयः॥९७ चत्वारः सर्वनिक्षेपा-निच्छन्तीति मतं वरम् । एतैजीवादिका भावा, निरूप्यन्ते यथागमम् ९८ अथात्मा विविधः प्रोक्तो-मुक्तामुक्तविभागतः। मुक्तिः कमक्षयो ज्ञेयः, परमानन्द इत्युत ॥१९॥ मुक्ताः सिद्धो गताः पार, परम्परगताश्च ते । प्राक्प्रयोगादिना गत्वा, लोकाग्रस्थनसंस्थिताः१०० पूर्वदेहत्रिभागेन, मिताकाशावगाहनाः। तीथातीर्थप्रकारेण, द्विविधाः परिकीर्तिताः ॥१०१॥ सर्वकर्मविनिमुक्तः, कमाष्टप्रभिदं मतम् । ज्ञानावरणमायं स्या- दर्शनावरणे परम् ॥ १०२॥ Page #21 -------------------------------------------------------------------------- ________________ ( १८ ) वेद्यं च मोहनीयं चा- युष्क च नाम गोत्रकम् | विघ्नं चाष्टममाख्यातं शुभाशुभमिति द्विधा ॥ १०३ कार्मणवर्गणाजात - मिदं पौगलिकं मतम् । औदादिकारिभेदेन, वर्गणाष्टविधा मता ॥ १०४ ॥ प्रकृत्यादिविधाभिश्च चतुर्धा कर्म कीर्तितम् | मिथ्यात्वाविरतियांग- कषायाश्चेति बन्धकाः १०५ , प्रकृत्यां च प्रदेशे च कारणं योग आहितः । अनुभागे स्थिता च स्यात्, कषायाः कारणं किल यथासम्भवमेतेषा मष्टधा करणं मतम् । एतेषामुदयादिः स्याद्, द्रव्यक्षेत्रादिभेदतः ॥ १०७ - ज्ञानदर्शनचारित्र प्रभृतिः स्याद् यथायथम् । क्षयोपशान्तिभावेन, चैतेषामेव कर्मणाम् ॥ १०८ ॥ चतुर्विधा अमुक्ताः स्यु- नीरकादिप्रभेदतः । रत्नप्रभादिभेदेन, नारकाः सप्तधा मताः ॥ १०९ ॥ Page #22 -------------------------------------------------------------------------- ________________ ( १९) पञ्चाक्षा एव विज्ञेया मुक्त्वा तिर्यकशरीरिणः । एकन्द्रियादिभेदेन, तिर्यञ्चः पञ्चधा मताः॥११०॥ आद्याः पृथ्वीपयःतेजो- वरेण्युवनभेदतः । सूक्ष्माश्च बादराश्चैते, होन्द्रयाद्या अनेकधा।।१११॥ गभजेतरभेदेन, विधा च मनुजा मताः । भुवनपत्यादिभेदेन, देवताश्च चतुर्विधाः ॥११२॥ पर्याप्तेतरभेदेना-ऽमी सर्वे द्विविधा मताः। पर्याप्तिरात्मनः शक्ति- विशेषः सा चषड्विधा ११३ सर्वेऽमी ससमुद्घाताः, सलेश्याश्च सयोगिनः । यथार्हस्थानिनः प्रोक्ताः, सर्वभावप्रदर्शिभिः॥११४ वेदनादिसमुद्घाताः, सप्त शास्त्रे प्रकीर्तिताः । लेश्याःकृष्णा च नीला च, कापोता तैजसी तथा११५ पद्मा शुक्ला च योगास्तु, त्रय एव प्रकीर्तिता। मनोयोगो वचोयोगः, सत्यादिकश्चतुर्विधः ॥११६।। Page #23 -------------------------------------------------------------------------- ________________ (२०) सप्तधा काययोगः स्यात्, काय श्रादारिकस्तथा । वैक्रियश्चाहारकश्च, तजसः कामणस्तथा ॥११७ ॥ तिर्यश्चश्च मनुष्याश्च, ज्ञेया औदारिकाङ्गिनः। नारकाश्च सुरा लब्धि- मन्तो वैक्रियकायिनः ११८ वपुश्चाहारकं शुद्धं, स्याच्चतुर्दशपूर्विणाम् ।। तैजसं कामण च स्या- दाभवं सर्वदेहिनाम् ११९ रत्नप्रभादिपृथ्व्यः स्यात्, स्थानं नारकदेहिनाम् । विमानाद्यासिनो देवास्तियश्चः सर्वलोकगाः १२० आपुष्करार्द्धमास्थानं मनुष्याणां मतं जिनैः। जम्बूद्वीपादयो द्वीपाः, समुद्रा लवणादयः ॥१२१ ॥ एवं च पुद्गला ज्ञेया- रूपिणः परिणामिनः । दशधा परिणामश्च, बन्धनादिप्रकारतः ॥ १२२ ॥ स्निग्धरुक्षप्रभेदेन, सावितं बन्धनं द्विधा । स्पृशन्तो चास्पृशन्तो च, गतिरेवं विभेदिनो।।१२३ Page #24 -------------------------------------------------------------------------- ________________ (२१) संस्थानं पञ्चधा तत्र, परिमण्डलमादिमम् । वृत्तं व्यस्त्रं चतुरस्र- मायतं चैव कीर्तितम् ॥१२४॥ पञ्चधैवं च भेदः स्यात् . खण्डश्च प्रतरस्तथा। चूर्णतोऽनुतटिका चा- करिका तत्र पञ्चमः १२५ वर्णाऽप्येवं स चैव स्यात्, कृष्णा नीलश्चरोहितः। पोतःशुक्लश्च गन्धश्च,सुरभिश्चासुरभिर्दिधा ॥१२६॥ तिक्तश्च कटुकश्चैव, कषायश्चाम्लकस्तथा । मधुरश्चेति विज्ञेयो, रसः पञ्चविधः खलु ॥१२७॥ स्पशा अष्ट ते चैवं, कर्कशश्च मृदुर्गुरुः । लघुरेवं च शीतोष्णा, स्निग्धरूक्षा तथैव च॥१२८॥ श्रगुरुलघुराख्यात- एकाकारो बुधेश्वरैः । शब्दाख्यः परिणामस्तु, भाव्यतेऽथ विपश्चिमः१२९ स द्विधा वा चतुधी च, द्विधा तत्र विभज्यते । शुभाशुभतया यहा, वैनसिकः प्रयोगजः १३०॥ Page #25 -------------------------------------------------------------------------- ________________ ततश्च विततश्चैव, घनश्च शुषिरस्तथा । सङ्घर्षश्चाथ भाषा च स्यात् षोढेति प्रयोगजः १३१ चतुर्भदाश्च तत्र स्यु- विमुच्यान्तिमयुग्मकम् । पुद्गलानां परिणामः, सङ्क्षेपादित्युदाहृताः १३२ एवं छायातपोद्योता. दयोऽप्यागमवेदिभिः । पुद्गलानां परिणाम- विशेषाः परिकीर्तिताः ॥१३३ अथ निरूप्यते कालो, वर्तनालक्षणः स च । परिणामा नव प्राणा-वत्तंना त्वभिधीयते ॥१३॥ सार्बुद्वीपहयाम्भोधि- द्वैतमानः स कीर्तितः । एक एवास्त्ययं कालो. वर्तमानः स वास्तवः १३५ कल्प्यन्ते व्यवहारार्थ, पुनरावलिकादयः । समयानामसख्याना- मेका साऽभिहिता बुधैः१३६ समयस्त्वविभाज्योऽति- सूक्ष्मः कालः समीरितः। द्रव्यपीयरूपे। वा, सेऽभिरूपैः प्रकीर्तितः ॥ ३७॥ Page #26 -------------------------------------------------------------------------- ________________ (२३) ताः संख्यया भवेदेक- उच्छवासश्च बलीयसः । ताभ्यां दाभ्यां भवेत्प्राणः, स्तोकः स्यात्तैश्च सप्तभिः तावद्भिस्तैलवः प्रोक्तः, साधीष्टात्रिंशता च तैः । नालिकैका भवेद् द्वाभ्यां, ताभ्यां मुहूर्त ईरितः१३९ त्रिंशता तैरहोरात्र- एवमग्रेऽपि विस्तरः । एवं निरूपितं द्रव्यं, पयायोऽथो निरुच्यते॥१४०॥ स वेधा सहभाव्याद्यः, क्रमभावी द्वितीयकः । संज्ञाविशेषतश्चेमा, गुणः पयर्याय इति क्रमात् १४१ तत्रास्तित्वं च वस्तुत्वं, द्रव्यत्वं च प्रमेयता । तथागुरुलघुत्वं च, प्रदेशत्वं तथैव च ॥१४२॥ ज्ञानं च दर्शनं सौख्यं, वीर्यस्पर्शी रसस्तथा। गन्धवा तथा ज्ञेयो, गतिहेतुत्वकं तथा ॥१४३॥ स्थित्यवगाहहेतुत्वं, वर्तनाहेतुतो तथा । चेतनत्वाचेतनत्वे, मूत्तत्वामूर्त्तते इति ॥ १४४ ॥ Page #27 -------------------------------------------------------------------------- ________________ (२४) विज्ञेयाः षट् च सामान्या-स्तत्रास्तित्वादयो गुणाः विशेषा द्वादश प्रोक्ता- बुधैज्ञानादिका गुणाः १४५ सामान्याश्च विशेषाश्च, चेतनस्वादयो मताः । पर्यायश्च द्विधा द्रव्य- गुणपयायभेदतः ॥ १४६ ॥ मनुष्यत्वादिरायः स्याद्- नीलादिदितीयो मतः एवमन्यप्रकोसञ्च, पर्यायानां भिदंमता ॥१४७।। जयति श्रीजिनवीरो- यच्छिष्येण सुधर्मणा । प्रत्यष्ठापि प्रभावाढ्यो- गच्छो निग्रन्थनामकः१४८ विबुधैर्विहितावासो- मध्यस्थभावभावितः । अनुत्तरस्तपोगच्छो- महामेरूपमस्तमोऽस्ति यः निर्ग्रन्थगच्छ एवायं; जगच्चन्द्रप्रभोरनु । सपोगच्छाख्या लोके, क्भूव सुप्रसिदिभाकु १५० आचाया नेमिसूरीश-स्तद्गच्छाम्भोधिचन्द्रमाः सर्वशास्त्रस्य यो वेत्ता, जेता यो सर्ववादिनाम्१५१ Page #28 -------------------------------------------------------------------------- ________________ ( २५ ) यत्पादाम्भोजभक्त्यैव, चरणस्थैर्यमाप्नवम् ॥ दर्शनज्ञानदाता मे, जयत्ययमनुत्तरः ॥ १५२ ॥ तत्पादाब्जप्रभावेण, प्राज्ञवाचोऽनुसृत्य च । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा ॥१५३॥ पदार्थकथनं किञ्चित् कृतं बालसुबोधकृत् । परमार्थपरैः प्राज्ञैः शेोध्यं तच्च सुचेतसा ॥ १५४ ॥ संवत्सरे शरहयाङ्क विधुप्रमाणआषाढमास सितपक्षदिने द्वितीये । श्रीभाजि राजनगरे, नगरप्रधाने मुक्तावलेविरचनग्रथनं प्रपूर्णम् ॥ १५५ ॥ जैनमुक्तावाल कृत्वा, सुकृतं यन्मयार्जितम् । सुखीभवतु लोकोऽयं तेन पुण्येन हेतुना ॥ १५६ x XXXXXXxxxxxx-xxxxx ॥ इति श्री जैनमुक्तावलिः ।। ******* ××××××xx XXXX x Page #29 -------------------------------------------------------------------------- ________________ इति श्रीचरमतीर्थकरभगवन्महावीरप्रभुपट्टधरश्रीसुधर्मस्वामिप्रतिष्ठापितनिर्ग्रन्थगच्छापराभिधानश्रीतपोगच्छापूर्वोदयाचलसहस्रकिरणभीमदर्हदुपदिष्टनितिमार्गादर्शसविधिश्रीभगवत्यादिमहायोगोदहनपूर्वकश्रीगोतमस्वामिप्रमुखमहापुरुषसमाराधितसू. रिमन्त्र समाराधनविद्यापीगदिप्रस्थानपञ्चकसमाराधनसमवाप्तसूरिपदश्रीशत्रुभयप्रभृतिमहातीर्थसंरक्षणस मुद्धारणप्रवणसंविमशाखीयभट्टारकाचार्यश्री. विजयनेमिसूरिचरणाम्भुजमधुकरसिद्धान्तवाचस्पतिन्यायविशारदमहोपाध्यायोदयविजयगणिशिष्यमुनिनन्दनवि. जयविरचिता जैनमुक्तापलिः। Page #30 -------------------------------------------------------------------------- ________________ । अहंम्। ॥ श्रीगौतमस्वामिने नमः ॥ विशुद्धचारित्रचूडामणि प्रौढप्रभावशालि तपोमच्छाचार्यभट्टारकसद्गुरुश्रीमद्विजय नेमिसूरिभगवद्भ्यो नमः ॥ श्रीसरिस्तवशतकम् ॥ प्रणेता॥ मुनि नन्दनविजयः ॥ श्री जैनएडवोकेट' प्री प्रेसमां शा: चिमनलाल गोकलदासे छापो, घीकांटावाडी अमदावाद. वीर सं, २४४९ विक्रम सं १९७९ आवृत्ति १ ली अमूल्यम् प्रत ५०० SEASESYAma Page #31 -------------------------------------------------------------------------- ________________ राजनगर(अमदावाद) वास्तव्य प्राग्वाटवणिग्वंशावतंसधर्मकर्मकर्मठश्रेष्ठिप्रवर मनसुखभाइ मुत माणेकलालभाइ श्रेष्ठिप्रवरेण ग्रन्थोऽय राजनगर (अमदावाद घीकांटा शेठ जेशंगभाइनी वाडी अन्तर्गत) जैनएडवोकेट प्रीन्टींग प्रेस इत्याख्ये मुद्रणालये शा चीमनलाल गोकलदासद्वारा सम्मय प्रकाशितः, Page #32 -------------------------------------------------------------------------- ________________ ॥ अहम् ।। ॥ श्रीपरमात्मने नमः॥ ॥ श्रीगौतमस्वामिने नमः ॥ ॥ आचार्यश्रीविजयनेमिसरिभगवद्भ्यो नमः ॥ ॥ श्रीसूरिस्तवशतकम् ॥ प्रणम्य स्तम्भनाधीशं, स्तम्भतीर्थावतंसकम् । श्रीपाच सर्वसिद्धीनां, समागत्येकसाधनम् ॥ १ ॥ प्रणम्य श्रीमहावीरं, गणभृगौतमं प्रभुम् । त्रैलोक्यवन्दनीयांश्च, लोकेषु सर्वयोगिनः ॥ २ ॥ धन्यानां भव्यजीवाना-मवतंसन्त्यहर्निशम् । जगदुद्धारणैकस्य, यस्य पादनखाचिषः ॥ ३ ॥ जातिर्यस्योत्तमा लोके, कुलं सर्वजनाधिकम् । जगविभूषणं रूपं, बीर्य भुवनविश्रुतम् ॥ ४ ॥ Page #33 -------------------------------------------------------------------------- ________________ (४) ॥ श्रुतं पूर्वभवाभ्यस्तं, विस्फुरत्यधिकं सदा । यस्यैश्वर्य समैश्वर्य, सौभाग्यं जगदद्भुतम् ॥ ५ ॥ तं सर्वोत्कृष्टमवीर्य, सद्गुरुं शिवदायकम् । दर्शन ज्ञानचारित्र-समृध्ध्युत्कर्षशालिनम् ॥ ६ ॥ संयमश्रेणिमध्यस्थं योगसाम्राज्यशोभिनम् । आचार्य नेमिसूरीशं, भत्तया म्तवीम्युदारया ॥७॥ जल्पन गुणानसद्भूता-नन्यं स्तौति जनं जनः । सतोऽपि तांस्तु ते ववतु-मक्षमोऽहं कथं स्तुवे ॥८॥ बुधैरप्यपरिज्ञेय-गुणं त्वां स्तोतुमीश्वरः । कास्यात्तथाप्यहं स्तौमि, व्युल्लसद्बालचापलः॥ ९॥ किश्चाज्ञतामवज्ञाय, निजस्य त्वां स्तवीम्यहम् । यन्मां वाचालयत्येषा, त्वयि भक्तिरवारणा॥१०॥ नायुक्तत्वं गमिष्यामि, स्तुवंस्त्वामल्पधीरपि । अव्यक्ता अपि बालानां, युक्ता एव गुरौ गिरः११॥ तवानुभाव एवायं, समस्तोऽपि सुनिश्चितम् । तव प्रसादविख्याताः, के वयं परमार्थतः ॥ १२ ॥ Page #34 -------------------------------------------------------------------------- ________________ ( ५ ) 9 दृष्टमात्रैश्च त्वत्पाद - जन्मान्तरकुनान्यपि । म्लायन्त्येनासि पद्मानि तरसेन्दुकरैरिव ॥ १३ ॥ ज्ञानध्यानतपोदग्धां - हसामेव भवान्तरे । उदेति भव्यलोकानां, भक्तिस्त्वय्यत्र योगिनि ॥ १४॥ हीनसत्त्वसमाक्रान्ताः पापकर्मोदयाश्च ये । त एव पादसेवां ते, न जानन्ति प्रमादिनः ॥ १५ ॥ गाम्भीर्येण महाम्भोधि, सहस्रांशुं तेजसा । धैर्येण मन्दरशृङ्ग, त्वं जयस्यतिविक्रमः । १६ ॥ ये सर्वेऽपि तपोब्रह्म- सत्य सच्चादयो गुणाः । त्वय्येव ते वसन्त्युच्चै - विमुच्य विष्टपत्रयम् ॥ १७॥ इदं च नाद्भुतं नाथ, विश्वकल्याणकारक | समुद्रमेव गच्छन्ति, मणयः सरितो न हि ॥ १७ ॥ महाघोरभवादव्या - मटतां भव्यदेहिनाम् । त्वमेवातिप्रयत्नेन शुद्धमार्गोपदेशकः शुद्धमार्गोपदेशकः ॥ १९ ॥ त्वं चाविरतिजम्बाल - जालसंक्षालनमः । बहूनां भव्य सत्त्वानां संसारोद्वेगशालिनाम्, ॥२०॥ Page #35 -------------------------------------------------------------------------- ________________ पापपुञ्जोत्पादितश्च, तावत्तापोऽत्र देहिनाम् । यावत्तषां न नाथ त्वं, सदानन्दो हृदि स्थितः ॥२१॥ प्रहताशेषसंसार-विस्तारो मुनिशेखर । घोरसंसारकान्तार-सार्थवाहस्त्वमेव च ॥ २२ ।। नाथ त्वां चोररीकृत्य शङ्कारहितचेतसः । लभन्ते भूरि कल्याणं, निर्विकारत्वमागताः ॥२३॥ त्वं हि दीक्षां समादाय, निर्मलीकृतमानसः । सन्तोषसेवितो धन्यो-जातो धन्यावतंसकः ॥२४॥ सर्वशास्त्रेषु नैपुण्य-मादधत्वं महोदयः। गुरूणां पूज्यपादानां, भक्तिप्रवणतान्वितः ।। २५ ॥ त्वमेव चाधुना नाथ, संसारे सुख कामिभिः । आदेयोऽसि प्रयत्नेना-शेषसम्पद्विधायकः ॥२६॥ निपतन्तो महाघोरे, सत्त्वा नरककूपके । अहिंसाहस्तदानेन, त्वया नाथ समुध्धृताः ॥ २७ ।। मैत्र्यादिभिश्चतुर्भेद, यचाज्ञादिचतुर्विधम् ।। ध्यान तत्सर्वदा नाथा-वस्थितं चेतसि तव ।।२८ ॥ Page #36 -------------------------------------------------------------------------- ________________ अष्टाङ्गयोगकौशल्य-मष्टसिद्धिप्रवीणता। अष्टाङ्गयोगदृष्टेश्व, नैपुण्यं ते महाद्भुतम् ॥ २९ ॥ एकादशाङ्गविज्ञत्वं, बादशोपाङ्गवेदनम् । छेदसूत्रेषु दक्षत्वं, कस्य दृष्टं त्वया विना ॥ ३० ॥ पूर्वाचार्यक्रमायात-शुद्धाचारनिषेवकः । सामाचारीसमायुक्तः, समाधिस्थानसंस्थितः ॥३१॥ द्वादशभावनोद्युक्तः, सक्लेशदशकोज्झितः । अकल्प्यषकटनिर्मुक्तो-रतः संवेगसागरे ॥ ३२ ॥ बाह्याभ्यन्तरग्रन्थ--त्यागी निग्रन्थपुङ्गवः । प्रभावकश्वनिस्तन्द्रः, षट्सु कायेषु यत्नवान् ॥ ३३ ॥ प्रज्ञप्त्यादिमहायोगो-बहनं प्रविधाय वै। समाराधा महामन्त्र, सूरिमन्त्रमनुत्तरम् ॥ ३४ ॥ सुघनपामिनः पट्ट-पारम्पयसमागतम् । प्राप्तवांस्त्वं पदं सूरेः, सावंसंघशिरोमणिः ॥ ३५ ॥ तथाभूः सर्वविद्वद्भिः, सेवितस्य सदा मुदा । निग्रन्थप्रथमाख्यस्य, तपोगच्छस्य नायकः ॥३६॥ Page #37 -------------------------------------------------------------------------- ________________ (८) . न्यायशास्त्रंषु सम्पूर्णाः, केचित्सिद्धान्तसागराः। केचिद्व्याकरणाभिज्ञाः, केचित् शास्त्रार्थकोविदाः।। केचिद् ग्लानादिसाधूनां, वयावृत्त्यादितत्पराः।। योगोदाहिनः शुद्धा-चारशीलसमन्विताः ।। ३८ ॥ जिनाज्ञां पालयन्तश्व, त्वदाज्ञानिरताः खलु । तवं शिष्यसङ्काताः, प्रसिद्धा एव भृतले ।। ३९ ॥ भगवन् करुगासिन्धो शुभलेश्य सुयोगभृत् । विगतस्पृह ते नाथ, कथं पुण्यं प्रवर्णये ।। ४० ॥ दुर्भिक्षसमये नाथ, भूरिधर्मोपदेशतः । अनेकद्रव्यलक्षाणां, श्रीमता त्याजनेन वै ॥ ४२ ॥ पशूनां मनुजानां च, बहूनामभयापणम् । कारयामासिषे यत्त्वं, तज्ज्ञातं कस्य नो भवेत् । ४३॥ ज्ञानार्थिनां तदर्थाय, ज्ञानशाला व्यधापयः। भर्मक्रियापराणां च, श्रावकाणां कृते पुनः ।। ४३ ।। उपदेशामृताच्चैत्य-पौषधालयकान्यपि । बहूनि श्रेष्ठिसबेभ्यो-नाथत्वं निरमीमपः॥ ४४ ॥ Page #38 -------------------------------------------------------------------------- ________________ ( ९ ) शत्रुञ्जय महातीर्थ - संरक्षणतत्परः । चैत्योद्धाराण्यनेकानि चारूणि त्वं व्यधापयः ॥ ४५ ॥ मरुदेशे च ग्रामे तु, कर्पटटकाभिधे । स्वयम्भूपार्श्वप्रासादे, दर्शना डर्षकारिणि ॥ ४६ ॥ समस्ताशातना घोरा - दूरीकृत्य प्रयत्नतः । महासंकटकालेऽपि जीवितमप्युपेक्ष्य च ॥ ४७ ॥ स्वयम्भूपार्श्वनाथस्य, शान्तिनाथस्य च प्रभोः । अन्येषामपि तीर्थेशां, बिम्बानां जन्मनाशिनाम् ॥ ४८ ॥ समागते शुभे घत्रे, महोत्सवविभूषिते । प्रतिष्ठाप्य महामन्त्र -- स्तदुद्धारस्त्वया कृतः ॥ ४९ ॥ मेदपाटे महादेशे, ये नरा निर्मलाशयाः । शौर्यवन्तोऽतिभद्राश्व, राजशासनतत्पराः ॥ ५० ॥ परन्तु भद्रकत्वात्ते, कुगुरुपाशपाशिताः । सद्गुरोश्च वियोगेन, धर्मयोगवियोजिताः ॥ ५१ ॥ तेषां सर्वाङ्गिनां नाथ, धर्मबोधनहेतवे । अनेक विद्वत्साधूनां मण्डलालंकृतः प्रभुः ॥ ५२ ॥ , Page #39 -------------------------------------------------------------------------- ________________ . (१०) पवित्रीकृत्य पादाभ्यां, मेदपाटस्य मेदिनीम् । केवलधर्मवुध्ध्यैव, गहना विकटामपि ॥ ५३ ॥ हितया प्रियया चैवा-म्भोदगम्भीरया गिरा। शुद्धधर्मावभासिन्या, व्यस्तदोषसमाजया ॥ ५४॥ तान् सर्वानपि सद्धर्म, वीतरागप्रकाशिते । अस्थापयस्त्वमानन्द-श्रडानिर्मलमानसान् ॥ ५५ ॥ परुदेशे महाराज, त्वयानेके जनवजाः । धर्मे स्थिरत्वमानीता-मूर्तिमन्तव्यताविते ५६ ॥ अन्येष्वपि च देशेषु, विहारक्रमतः खलु। घोधिता बोधदानेन, त्वया मांसाशिनोऽप्यति ॥ ५७॥ विदुषोऽपि प्रभूतांस्त्वं, पर्मकर्मपराङ्मुखान् । योग्यसदुपदेशेन, धर्मकर्मस्वयोजयः ।। ५८ ॥ एवं सत्यस्वरूपं ते, न जानन्त्यल्पबुद्धयः । मातङ्गा इव शार्दूल-विक्रमं लेशमात्रकम् ॥ ५९॥ जिनेशाज्ञाबहिर्भूता, सर्वसचबहिष्कृताः । चाण्डाला इवास्मृश्या-येकेचिन् मागदूषकाः ॥ ६०॥ Page #40 -------------------------------------------------------------------------- ________________ ( ११ ) " ते तु त्वन्नाममात्रस्य श्रुत्यैव ज्वरपीडिताः । किं श्रुत्वा गर्जनां सैंहीं, शृगालाः स्वास्थ्यमासते ६१ ॥ अदृष्टव्यानना ये च देवद्रव्यादिनाशकाः । ते सर्वे त्वत्प्रतापेन, ग्लायन्ति पेचका इव ॥ ६२ ॥ जिनेशाज्ञां समुलङ्घय, योगोद्वहनमन्तरा । सन्ति ये पण्डितम्मन्याः, सूरित्वाडम्बरान्विताः ६३|| ते वराकास्त्वधोवीर्या - धैर्यसत्त्वविवर्जिताः । निस्तेजांसि निजास्यानि त्वदग्रेऽधः प्रकुर्वते ॥ ६४ ॥ तथाप्यत्र किमाश्चर्य, लोकसिद्धमिदं हि यत् । प्रदीप्ते भुवि मार्तण्डे, खद्योता इततेजसः ॥ ६५ ॥ त्रिकालाबाधितामाज्ञां, सर्वज्ञस्य जिनेशितुः । सम्यक् प्रपालयन्नाथ, त्वमेवास्यधुना भुवि ॥ ६५ ॥ ये श्रेष्ठिकुल सञ्जाता - द्रव्यकोटीविभूषिताः । तेऽपि त्वां नाथ नाथेति, ब्रुवाणाः पर्युपासते ॥ ६६ ॥ देशाधीश्वरमान्या ये, देशसाम्राज्यशालिनः । तेऽपि त्वन्मीलनानन्दं, वाञ्छन्ति त्वरयान्वहम् ॥६७॥ Page #41 -------------------------------------------------------------------------- ________________ ( १२ ) कल | कलापविज्ञा ये, सर्वशास्त्रविशारदाः । ते सर्वेऽप्यात्मभक्त्या ते, किङ्करत्वमुपागताः ॥ ६८ ॥ मेदपाटनरेशोऽपि यत्त्वां स्तवीत्यहर्निशम् । तत्त्वत्पुण्यस्य साम्राज्यं, के न जानन्ति सद्धियः ॥ ६९ ॥ सहस्रांशुरिव स्वाभ, चन्द्रमाश्चन्द्रिका इव । क्षणमप्यात्मनस्त्वं नु न मुञ्चस्यप्रमत्तताम् ॥ ७० ॥ त एव कृतिनो लोके, त एवाभ्युदयान्विताः । त एव भवकान्तारो - लङ्घने सन्ति पण्डिताः ॥ ७१ ॥ तव पञ्चविधाचार - व्यवहारनतशालिनः । नाथ ये पादपद्मस्य सेवनां कुर्वतेतराम् ॥ ७१ ॥ समस्तमुत्तमं नाथ, : वर्त्तते तव सुन्दरम् | सद्बुद्धिलेश हीनोऽहं तत्र किंवर्णनक्षमः ॥ ७३ ॥ " तथापि भक्तिरोगेण, पूज्ययोस्तव पादयोः । प्रेरितेन स्तुतं किञ्चि - द्विक्षुणा बालबुडिना ॥ ७४ ॥ धन्यः सौराष्ट्रदेशः स - धन्या मधुपुरी पुरी । या वया जन्मना नाथ--बन्धुरा पावनीकृता ॥ ७५ ॥ Page #42 -------------------------------------------------------------------------- ________________ (१३) लक्ष्मीचन्द्रः पिता धन्यः, धर्मकार्येषु कोविदः । येन त्वं बाल्यतो धर्म-संस्कारैः संस्कृतोऽन्वहम्॥७॥ धन्या माता च दोपाली, सुशीला रत्नकुक्षिणी । या हि सौभाग्यसाम्राज्य-निधिं पुत्रमजीजनत्॥७७॥ धन्यस्त्वं नाथ नापानां, तत्कुलाम्बुनिधौ विधुः । यस्त्वं विज्ञाततत्वोऽभूः, प्राप्य सर्वज्ञशासनम् ॥ ७॥ अधन्योऽप्यधुना धन्यो-जातोऽहं त्वा स्तुवन् प्रभो। धन्या एव हि नाथ त्वां, स्तुवन्ति विमलाशयाः।।७। आजन्मान्यो न नाथो मे, श्रीमन्तं त्वां विना यतः । अहं सद्दर्शनज्ञान-चारित्रस्थैर्यमापितः ॥ ८० ॥ चिन्तारत्नं न वाञ्छामि, नैव च चक्रवर्तिताम् । नैव राज्यं न चेन्द्रत्वं, नैवान्यचास्त्यतिप्रियम् ॥ ८१ किन्त्वेका नाथ ते पादा-भोजयोः सेवनानघा । सदास्त्वित्यभिलाषा मे, वर्धते सुतरां सदा ॥ ८२ ॥ भवादृशेषु नाथेषु, यतः प्राप्तेषु मादृशाम् । मजतां भवपाथोधौ, क्रियाज्ञानप्रमादिनाम् ॥ ८३ ॥ Page #43 -------------------------------------------------------------------------- ________________ (१४) अनन्तानन्दपूर्णस्य, मोक्षस्य कारणं परम् । जैनेन्द्रशासने सम्यकू-श्रद्धान जायते भृशम् ॥८४॥ ततः प्रपञ्चं विज्ञाय, संसारस्य सुदुस्तरम् । . महामोहस्य विस्तारं, सर्वव्यसनकारणम् ॥ ८५॥ ज्ञाततत्त्वा नरा भूत्वा, श्रद्धाक्षालितचेतसः। जिनाज्ञां पालयित्वा च, पारम्पर्येण मोक्षगाः ।। ८६ ॥ सेवा तिष्ठतु ते नाथ, दर्शनं पुण्यकारकम् । केषां सम्पत्तये न स्या-दीक्षणं चाषपक्षिणः ।। ८७ ॥ सद्भत्त्या भजताजस्रं, यूयं भव्याः कृतादराः। आचार्य नेमिसूरीशं, यदि भाग्यभरालसाः ।। ८८ ॥ ज्ञानप्रकाशसूर्या या-ज्ञानध्वांतविनाशिने । करुणानां निधानाय, नमः श्रीनेमिसूरये ॥ ८९ ॥ विबुधैः कृतसेवाय, महामेरूपमाय च। माध्यस्थ्यशालिने तस्मै, नमः श्रीनेमिसूरये ॥ ९० ॥ निर्मलीमसचित्ताय, रागसन्तापहारिणे । विश्वोपकारदक्षाय, नमः श्रीनेमिसूरये ॥ ९१ ॥ Page #44 -------------------------------------------------------------------------- ________________ (१५) शौचसन्तोषपूर्णाय, भुवनालादकारिणे । गाम्भीर्येण समुद्राय, नमः श्रीनेमिसूरये ।। ९२ ॥ त्रैलोक्यवन्दनीयाय, भोगतृष्णाविघातिने । महानन्दनिवासाय, नमः श्रीनेमिसरये ॥ ९३ ॥ कल्पद्रमाय काम्यार्थे, स्तुत्याय तत्त्ववेदिभिः । रम्याय शुद्धयोगेन, विख्याताय सदा भुवि ॥ ९४ ।। जन्मव्यसननाशाय, यमिभिः सेविताछये । स्यत्सुधातुलवाचाय, शिवाय शिवदायिने ॥ ९५ ॥ वर्याराधनमाप्ताय. मानां मुकुटाय च । स्तुत्यपादाब्जयुग्माय, नमः श्रीनेमिसूरये ॥ ९६ ॥ स्तम्भतीर्थे महातीर्थे, बम्बावत्यपराभिधे । श्रीपार्श्वेशप्रसादेन, भूरिसौभाग्यपूरणे ॥ ९७ ॥ नवपकनिशानाथै-मिते संवत्सरे शुभे । मृगशीर्षे सिते पक्षे, सम्प्राप्ते दशमीदिने ॥ ९८ ॥ राजनगरमुख्येभ्यः पुरेभ्यो भक्तिशालिषु। . श्रेष्ठिवर्गष्वनेकेडु, मीलितेषु समुत्सवम् ॥ ९९ ॥ Page #45 -------------------------------------------------------------------------- ________________ ( १६ ) साधुसाध्यादिसङ्घाते, प्राप्ते संधे चतुर्विधे । महामहोत्सवे जाते - sनेकद्रव्यव्ययेन वै ॥ १०० ॥ महानिशीथमुख्येषु सूत्रेषूक्तविधानतः । योगोपधानमालायाः परिधापनवासरे ॥ १०१ ॥ " मालायाश्व महामन्त्रं विदधतो महौजसः । पूर्वयुगप्रधानानां स्मृतिं कारयतो विभोः ॥ १०२ ॥ नेमिसूरेः क्रमाम्भोज - शुद्ध भक्त्यनुभावतः । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा ॥ १०३ ॥ विहितं स्तवनं शुद्ध — स्वात्मकल्याणहेतवे । आमेरु बोधिलाभार्थ, पठन्तु भव्यदेहिनः ॥ १०४ ॥ सद्गुरोः स्तवनं कृत्वा, नेमिसूरेर्वि मोर्मया । समर्जितं सुपुण्यं यत्, तेन लोकोऽस्तु बोधिभाक् १०५ Page #46 -------------------------------------------------------------------------- ________________ * * * * * * * *HINRHMkartek*- । श्रीतीर्थंकर श्रीमहावीरमभुशासनोडरणधुरीणशुद्धसम्य * त्वविभूषित सकलजगदुडतुकामितादिपरमगुणसमू इसमन्वित शत्रुअयरैवतादिमहातीर्थसंरक्षणसमु. उरणप्रवणश्रीभगवत्यादिसकलयोगोदहन. सूरिमन्त्रसमाराधनपूर्वकप्राप्तसरिपदसंविग्नशाखीयतपोगच्छाचार्यभट्टारक श्रीमद्विजयनेमिसूरिभगवरणेन्दीवरमिलिन्दायमान सिद्धान्तवाचस्पतिन्यायविशारदानुयोगाचार्यमहोपाध्यायोदयविजयगणिशिष्य मनिनन्दनविजयविरचितं "मूरिस्तवशतकं" सम्पूर्णम् ॥ * - * * X X * * * * Page #47 --------------------------------------------------------------------------  Page #48 -------------------------------------------------------------------------- _