Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 471
________________ ४२६ हितोपदेशः । गाथा-४५६ - चतुर्थं महाव्रतम् ।। सुराणां नराणां तिरश्चां च सम्बन्धिन्यो याः किल नार्यः प्रमदास्तासु आस्तां वाक्कायाभ्यामितरस्मरव्यापारप्रवर्त्तनं यावन्मनसा चेतसाऽपि विकारस्य सूक्ष्माक्षसङ्क्षोभलक्षणस्य यदिह वर्जनं परिहारः, स च नवब्रह्मगुप्तिगुप्तानां यतीनामेव भवति । कास्ता ब्रह्मगुप्तय इति चेदाह - दिव्यादिमैथुनस्य चेति, आदिशब्दान्मनुष्यादिपरिग्रहः, तथा चोक्तं - ‘से दिव्वं वा माणुसं वे'त्यादि, विवर्जनं सर्वेषां चतुर्थस्तु मूलगुणः । चतुर्थमाह - दिव्यौदारिककामाणां कृता-ऽनुमत-कारितैः । मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् ।। - यो. शा. १/२३ ।। दिवि भवा दिव्याः, ते च वैक्रियशरीरसम्भवाः, औदारिकाश्च औदारिकतिर्यग्मनुष्यदेहप्रभवाः, ते च ते काम्यन्त इति कामाश्च, तेषां त्यागोऽब्रह्मनिषेधात्मकं ब्रह्मचर्यव्रतम् । तञ्चाष्टादशधा - मनसा अब्रह्म न करोमि, न कारयामि, कुर्वन्तमपि परं नानुमन्ये, एवं वचसा कायेन चेति दिव्ये ब्रह्मणि नव भेदाः । एवमौदारिकेऽपीत्यष्टादश । यदाह - "दिव्यात् कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा, यद् ब्रह्माष्टादशविकल्पम् ।।" - (प्रशम० १७७) इति । कृता-ऽनुमत-कारितैरिति मनोवाक्कायत इति च मध्ये कृतत्वात् पूर्वोत्तरेष्वपि महाव्रतेषु सम्बन्धनीयम् ।। - यो. शा. १/२३ वृत्तौ ।। 2. अथ ब्रह्मगुप्तीराह - 'वसही'त्यादि, ब्रह्मचारिणा स्त्री-पशु-पण्डकविवर्जिता वसतिरासेवनीया, तत्र स्त्रियो देवमानुषभेदात् द्विविधाः, एताश्च सचित्ताः, अचित्तास्तु पुस्तक-लेप्य-चित्रकर्मादिनिर्मिताः, पशवः-तिर्यग्योनिजाः, तत्र गोमहिषी-वडवा-वालेयादयः सम्भाव्यमानमैथुनाः, पण्डका:-तृतीयवेदोदयवर्तिनो महामोहकर्माणः स्त्री-पुंसेवनाभिरताः, तत्संसक्तौ हि तत्कृतविकारदर्शनान्मनोविकारसद्भावेन ब्रह्मचर्यबाधासम्भवात् १ । तथा स्त्रीणां केवलानामेकाकिना कथा-धर्मदेशनादिलक्षणवाक्यप्रबन्धरूपा न कथनीया, यदि वा स्त्रीणां सम्बन्धिनी कथा, यथा - 'कर्णाटी सुरतोपचारचतुरा, लाटी विदग्धप्रिया' इत्यादिरूपा न कर्तव्या, रागानुबन्धिनी हि देश-जाति-कुल-नेपथ्य-भाषा-गतिविभ्रम-गीत-हास्य-लीला-कटाक्ष-प्रणय-कलह-शृङ्गाररसानुविद्धा कामिनीनां कथा अवश्यमिह मुनीनामपि मनो विक्रियां नयतीति २ । तथा निषद्या-आसनम्, कोऽर्थः ? - स्त्रीभिः सहैकासने नोपविशेत्, उत्थितास्वपि तासु मुहूर्त तत्र नोपविशेत्, तदुपभुक्तासनस्य चित्तविकारकारणत्वात्, यदाह - __ “इत्थीए मलियसयणासणंमि तप्फासदोसओ जइणो । दूसेइ मणं मयणो कुटुं जह फासदोसेणं ।।१।।३। तथा अविवेकिजनापेक्षया स्पृहणीयानि स्त्रीणामिन्द्रियाणि-नयन-नासिका-मुख-कर्ण-देहादीनि उपलक्षणत्वादङ्गानि च स्तनजघनादीनि अपूर्वविस्मयरसनिर्भरतया विस्फारितलोचनो न विलोकयेत्, न च विलोकनानन्तरमहो सलवणत्वं लोचनयोः, सरलत्वं नाशावंशस्य, स्पृहणीयत्वं पयोधरयोरित्यादि तदेकाग्रचित्तश्चिन्तयेत्, तदवलोकनतञ्चिन्तनयोर्मोहोदयहेतुत्वात् ४ । तथा कुड्यान्तरं यत्रान्तरस्थेऽपि कुड्यादौ दम्पत्योः सुरतादिशब्दः श्रूयते ब्रह्मचर्यभङ्गभयाञ्च तत्परित्यागः ४ । तथा पूर्व-गृहस्थावस्थायां क्रीडितं-स्त्रीसम्भोगानुभवलक्षणं द्यूतादिरमणलक्षणं वा नानुस्मरेत्, तत्स्मरणेन्धनक्षेपात्स्मराग्निः संधुक्ष्यते ६ । तथा प्रणीतम् - अतिस्निग्धमधुरादिरसं भक्तं न भुञ्जीत, निरन्तरं Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534