Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 335
________________ हीरविजयसूरिकूतपट्टः श्री विजयदानसूरिगुरुभ्यो नमः संवत १६४० वर्षे पौषासित १० गुरौ श्रीहीरविजयसूरिभिर्लिख्यते । अद्यप्रभृति विबुधपदविज्ञप्तिरेतद्विषये कर्तव्या, यो श्री दशवैकालिकश्री आवश्यकनियुक्तिभाष्य-पिंडविशुद्धी-कर्मग्रंथ-योगशास्त्र-क्षेत्रविचारसंग्रहणी-उपदेशमाला-षड्दर्शनसमुच्चय-प्रवचनसारोद्धारादि ५००० ग्रन्थकण्ठपाठी जघन्यतोऽपि तथा हैमद्वादशपादप्राकृतवृत्तिसहिताथवा प्राकृतवृत्तिसहितप्रक्रिया-सारस्वतं वा तथा साहित्ये वाग्भट्टालङ्कारकाव्यकल्पलताछन्दोऽनुशसान - वीतरागस्तव - शोभनस्तुति - जिनशत - कषड्दर्शनसमुच्चयटीका-नाममाला-लिङ्गानुशासन-धातुपाठ-तीर्थकृच्चरित्रादि तथा सिद्धान्ते आवश्यक-दशवैकालिक-उत्तराध्ययन-ओघनियुक्तिनंदीअनुयोगद्वारादि तथा विचारग्रन्थे सङ्ग्रहणी-क्षेत्रविचार-कर्मग्रन्थ-भाष्यपिण्डविशुद्धि-सामाचारीप्रभृत्ति तथा ज्योति:शास्त्रं नारचन्द्रादि अर्थतः पाठयति, तथा तपः मासमध्ये षडुपवासकारी-चातुर्मासक-सांवत्सरिकषष्ठाष्टमकारी, तथा मार्गातीत-कालातीतत्यागी, तथा रोगादिकारणं विना दिवा त्रियामाद्ययामे स्वापत्यागी, त्रिविधाहारैकभक्तकारी, तथा आच्छादितास्यजल्पन-प्रमार्जनोपेतचलनविहाराहारावश्यकप्रतिलेखनादिषु जल्पनप्रतिषेध-समिति-गुप्ति-प्रभृतिसंविज्ञसामाचारीप्रवर्तकश्चेति, स्वसंघाटकमध्ये विशेषतः । तथा प्राक्तनविबुधैरेतद्विषये यतितव्यमन्यथा तपस्यादेशविषये विचारः ॥ . श्रीकल्याणमस्तु श्रमणसङ्घस्य ॥ श्रीमल्लिपीकृताः पं. कनकविजयसविधौ पट्टोऽस्ति ॥ . M २९३

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356