Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 199
________________ १७६ गुरुतत्त्वसिद्धिः - आलोइत्तए, जाव पडिवज्जित्तए वा ।" इति । यत्र सम्यग्भावितानि सम्यग्दृष्टिभिर्भावितानि यथागमाज्ञं कारितानि प्रतिष्ठितानि च विधिचैत्यानि पश्येत् तेषां पुरः आलोच्यम्, न तु सर्वपार्श्वस्थादिनिश्रितानां अविधिचैत्यानाम्, आज्ञातिक्रमादिदोषसम्भवात्, अनायतनत्वाच्च । यदुक्तम् हरिभद्रसूरिकृतसम्यक्त्वकुलके“अहिगारिणो असड्ढो वावण्णकुमग्गकुमइरहिओ वा । ते कारइयव्वं जिणभवणं, वंदणिज्जमिणं ।।१४।। णिफाविऊणं एवं जिणभुवणं, सुंदरं तहिं बिम्बम् । विहिकारिअं च विहिआ सुपइट्ठा साहुणो मण्णा ।। १५ ।। व्यवहारभाष्येऽपि " आगमविहिणा कारिय सुगुरुवएसे सुसावगेहिं च । णायज्जियवित्तेणं, तं आययणं जिणा बिंति ।। १९ ।। सण्णाणचरणदंसणपमुक्कसाहूहिं जा परिग्गहिया । ताओ जिrपडिमाओ अणाययणं हुंति जुत्तीए ।। २० ।। जिणबिम्बमणाययणं कुसाहुपरतंततया समुद्दिट्ठ । दिट्ठतो जिणपडिमा बोडियलिंगाइयाण इह ।। २१ ।। अणाययणं पुण णाणदंसणचरणगुणघायणं ठाणं । मुक्खत्थिसुधम्मिजणवज्जणिज्जं विसुद्धभावेण ।। २२ ।। पुष्टालम्बने तु तदपि वन्दनीयमेव । यदुक्तम् बृहद्भाष्येअसइ विहिचेइयम्मि, सद्धभंगाइकारणं णाऊं । वच्चति तत्थ मुणिणो णो मुणिणो जे अगीयत्था || अत एव “भो ! भो पियंवर, जइऽवि जिणालए, तहऽवि साऽवज्जमिणं” इत्यादि महानिशीथ - पञ्चमाध्ययनवचनात्, (शिला २.२८७ पत्रे पङ्क्ति ३) सुविहिताऽग्रणी कुवलयप्रभसूरिणा चैत्योद्धारविधानोपदेशः न दत्तः, अविधिरूपमिथ्यात्व - वृद्ध्यापत्तेः, इति । साम्प्रतं तु - "जीतेन अन्यतीर्थीयज्योतिष्काध्ययनवत्, सम्यक्त्वप्रकरण- दर्शनशुद्धिप्रकरणाद्यनुसारेण देशतो विधिचैत्यमपि उत्सर्गत: वन्दनीयतादितया अशठगीतार्थैः प्रतिपन्नम्, जीतस्य च पर्युषणाचतुर्थ्यादिवत् यावत् जिनाज्ञाविच्छेदनिरासार्थम् श्रुताऽनुसारेण न्यूनाधिकतया गीतार्थकृतमर्यादारूपत्वात् । अत्र विशेष:षट्त्रिंशज्जल्पतो बोध्यः ।" इति दिक् । किं च, अत्र पार्श्वस्थादीनामपि गीतार्थानामेव पुरः आलोच्यम्, न तु संविग्नस्याऽपि अगीतार्थस्य पुरः । यतः "अगीओ णवि जाणइ सोहिं च णरस्स देइ ऊणहियं । तो अप्पाणं आलोअगं च पाडेइ संसारे । अत एव, गीतार्थस्य दुर्लभत्वे कालतः - द्वादशवर्षाणि, क्षेत्रतः - सप्तयोजनशतानि तद्गवेषणा आगमे

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260