Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध.
भव:
॥१८॥
प्रहारजर्जरशरीरो भूतले लुठन् क्षणादेव मरणं प्राप्तः । हे राजन् ! येन यत् कर्म कृतं तस्यैव तत् कर्म उपतिष्ठते, न हि अन्येन भुक्तेऽपरस्य तृप्तिर्जायते । यस्मात् प्राग्भवे मयूररूपं मां प्रहरन् श्वानो नृपेण हतः, तस्मात् सर्परूपिणं तं प्रहरन् अहम् अकाले एव जरक्षेण नाशं नीतोऽस्मि । भोराजेन्द्र! हिंसाप्रसादेन प्रासम् आवयोरिदं नकुलोरगीयं द्वितीयं भवान्तरं जानीहि । इति श्रीयशोधरनरेन्द्रस्य तन्मातुश्च तृतीयो भवः॥३॥
***
अथ चतुर्थभवः॥४॥
************* *AHMAGA
***
भो भूपाल! मम चतुर्थे भवं शृणु-तत्र हि दुष्कर्मभिरहं स्थलचरेभ्यो बलाद् उद्धृत्य जलचरेषु प्रापितः। तथाहि-उज्जयिन्या नगाः पार्थे सिप्रा नाम सरसा महानदी विद्यते। या हि चञ्चलतरङ्गहस्तैनृत्यतीव, उज्ज्वलफेनपटलप्रकरैः ईषद् हसतीव, समन्ताद् मत्स्यस्फुरितैः परिपश्यतीव, सलिलध्वनिमिर्जल्पतीव । पुनर्यस्या वर्णनमेवम्
कलहंससारसविराववती शुचिशीतलोदकनिर्वतजना।
घनपत्रवेतसवनस्थगिता शुचिवालुका निचयतल्पतला ॥१॥ १ नकुल-सर्पसम्बन्धि । २ सजला । ३ मातृ-पुत्रयोः ।
॥१८॥
RSS

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124