SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीयशोध. भव: ॥१८॥ प्रहारजर्जरशरीरो भूतले लुठन् क्षणादेव मरणं प्राप्तः । हे राजन् ! येन यत् कर्म कृतं तस्यैव तत् कर्म उपतिष्ठते, न हि अन्येन भुक्तेऽपरस्य तृप्तिर्जायते । यस्मात् प्राग्भवे मयूररूपं मां प्रहरन् श्वानो नृपेण हतः, तस्मात् सर्परूपिणं तं प्रहरन् अहम् अकाले एव जरक्षेण नाशं नीतोऽस्मि । भोराजेन्द्र! हिंसाप्रसादेन प्रासम् आवयोरिदं नकुलोरगीयं द्वितीयं भवान्तरं जानीहि । इति श्रीयशोधरनरेन्द्रस्य तन्मातुश्च तृतीयो भवः॥३॥ *** अथ चतुर्थभवः॥४॥ ************* *AHMAGA *** भो भूपाल! मम चतुर्थे भवं शृणु-तत्र हि दुष्कर्मभिरहं स्थलचरेभ्यो बलाद् उद्धृत्य जलचरेषु प्रापितः। तथाहि-उज्जयिन्या नगाः पार्थे सिप्रा नाम सरसा महानदी विद्यते। या हि चञ्चलतरङ्गहस्तैनृत्यतीव, उज्ज्वलफेनपटलप्रकरैः ईषद् हसतीव, समन्ताद् मत्स्यस्फुरितैः परिपश्यतीव, सलिलध्वनिमिर्जल्पतीव । पुनर्यस्या वर्णनमेवम् कलहंससारसविराववती शुचिशीतलोदकनिर्वतजना। घनपत्रवेतसवनस्थगिता शुचिवालुका निचयतल्पतला ॥१॥ १ नकुल-सर्पसम्बन्धि । २ सजला । ३ मातृ-पुत्रयोः । ॥१८॥ RSS
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy