Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 33
________________ (२२) त्रयोविंशतिरेवाऽन्तराणि भवन्ति, यथा चतसृणामङ्गुलीनां त्रीण्येवाऽन्तराणि, तत्र पूर्वेषु ऋषभादीनां सुविधिपर्यतानां नवानां तीर्थकृतां सम्बन्धिष्वष्टसु, अन्तिमेषु च शान्तिनाथादीनां महावीरान्तानां नवानां जिनानां सम्बन्धिष्वष्टस्वन्तरेषु — तीर्थस्य ' चतुर्वणस्य श्रमणसङ्घस्य नास्ति व्यवच्छेदः, ‘मन्झिल्लएसु ' त्ति, मध्यवर्तिषु पुनः सुविधिप्रभृतीनां शान्तिनाथपर्यन्तानां तीर्थकृतामन्तरेषु सप्तस्वेतावन्मात्रं वक्ष्यमाणकालं यावत्तीर्थस्य व्यवच्छेदः, तदेवाह-' चउभाग ' इत्यादि, सुविविशीतलयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्यैकश्चतुर्भागतावत्कालं तीर्थव्यवच्छेदः अर्हद्धर्मवार्ताऽपि तत्र नेष्टेत्यर्थः १, तया शीतलश्रेयांसयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य चतुर्भागस्तीर्थव्यवच्छेदः२, तथा श्रेयांसवासुपूज्ययोरन्तरे पल्योपमसंबन्धिनत्रयश्चतुर्भागास्तीर्थव्यवच्छेदः३, तथा वासुपूज्यविमलायोरन्तरे पल्योपमल्प चतुर्भागस्तीर्थव्युच्छेदः४,तथा विमलाऽनन्तजिनघोरन्तरे पल्योपमसम्बन्धिनस्त्रयश्चतुर्भागास्तीर्थव्यवच्छेदः५,तथाऽनन्तधर्मजिनयोरन्तरे पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः६, तथा धर्मशान्तिनाथयोरन्तरे पल्योपमचतुर्भागस्तीर्थव्यवच्छेदः ७ इति सर्वाग्रेणभागमीलने त्रीणि पल्योपमान्येकचतुर्भागहीनानि जातानि, केचिदेतान्येकादीनि पल्योपमानि ब्रुवंति, यदाह सप्ततिशतस्थानप्र

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80