Book Title: Dwatrinshad Dwatrinshika Prakaranam Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 17
________________ છે? (અર્થાતુ કોઈ નથી.) કારણ કે પ્રમાણના નિશ્ચય વિના જો પ્રમાણલક્ષણનો વિનિશ્ચય થાય છે તો પ્રમાણલક્ષણના વિનિશ્ચય વિના પણ વિષય(ધર્મસાધનાદિ)નો વિનિશ્ચય થઈ જ જશે. તેથી પ્રમાણનો નિર્ણય કર્યા વિના પ્રમાણના લક્ષણનું નિર્વચન કરવું તે બુદ્ધિનું આંધળાપણું છે. આ રીતે અષ્ટકપ્રકરણમાં પ્રમાણલક્ષણાદિનો ઉપયોગ નથી' – આ વાતનું સમર્થન કરાયું छ. मा वातनी ४ दृढतानुं संपाइन ४२१. सोभा 'यतः' मा पर्नु उपाहान छ. तनो अर्थ એ છે કે ઉપર જણાવ્યા મુજબ ધર્મસાધનભૂત અહિંસાદિની વિચારણા માટે પ્રમાણલક્ષણાદિનો કોઈ ઉપયોગ ન હોવાથી શ્રી સિદ્ધસેન દિવાકરસૂરિજીએ પણ આ પ્રમાણે કહ્યું છે. (જે આગળના सोथी ४९॥वाय छे.) ॥८-११॥ શ્રી સિદ્ધસેન દિવાકરસૂરિજીએ જે જણાવ્યું છે તે જણાવાય છે प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥८-१२॥ प्रसिद्धानीति-प्रसिद्धानि लोके स्वत एव रूढानि, न तु प्रमाणलक्षणप्रणेतृवचनप्रसाधनीयानि । प्रमाणानि प्रत्यक्षादीनि । तथा व्यवहरणं व्यवहारः नानपानदहनपचनादिका क्रिया । चशब्दः प्रसिद्धत्वसमुच्चयार्थः । तत्कृतः प्रमाणप्रसाध्यः प्रमाणलक्षणाप्रवीणानामपि गोपालबालाबलादीनां तथाव्यवहारदर्शनात् । ततश्च प्रमाणलक्षणस्याविसंवादिज्ञानं प्रमाणमित्यादेरुक्तौ प्रतिपादने । ज्ञायते उपलभ्यते न नैव प्रयोजनं फलं । 'वर्तते नेति' वक्तव्ये 'ज्ञायते नेति' यदुक्तमाचार्येण तदतिवचनपारुष्यपरिहारार्थं । यस्त्वत्रायमुदयनस्योपालम्भः'-ये तु प्रमाणमेव सर्वस्य व्यवस्थापकं, न तु लक्षणं, तदपेक्षायामनवस्थेत्याहुस्तेषां “निन्दामि च पिबामि चेति” न्यायापातः । यतोऽव्याप्त्यतिव्याप्तिपरिहारेण तत्तदर्थव्यवस्थापकं तत्तद्व्यवहारव्यवस्थापकं च प्रमाणमुपाददते तदेव तु लक्षणम् । 'अनुवादः स' इति चेदस्माकमप्यनुवाद एव, न ह्यलौकिकमिह किञ्चिदुच्यते । न चानवस्था वैद्यके रोगादिलक्षणवढ्याकरणादौ शब्दादिवच्च व्यवस्थोपपत्तेः, तत्रापि संमुग्धव्यवहारमाश्रित्य लक्षणैरेव व्युत्पादनादिति” । स त्वत्र न शोभते, यतो वयं प्रमाणस्यार्थव्यवस्थापकत्वे व्यवहारव्यवस्थापकत्वे वा लक्षणं न प्रयोजकमिति बूमो न तु सर्वत्रैव तदप्रयोजकमिति । समानासमानजातीयव्यवच्छेदस्य तदर्थस्य तत्र तत्र व्यवस्थितत्वात् । सामान्यतो व्युत्पन्नस्य तच्छास्त्रादधिकृतविशेषप्रतीत्यपर्यवसानेनानवस्थाभावात् केवलं केवलव्यतिरेक्येव लक्षणमिति नादरः, प्रमेयत्वादेरपि पदार्थलक्षणत्वव्यवस्थितरित्यन्यत्र विस्तरः । वस्तुतो धर्मवादे लक्षणस्य नोपयोगः, स्वतन्त्रसिद्धाहिंसादीनां तादृशधर्मान्तरसंशयजिज्ञासाविचारद्वारकतत्त्वज्ञानेनासद्ग्रहनिवत्तेः । अन्यथैवोपपत्तेरितरभिन्नत्वेन ज्ञानस्य तत्साध्यस्यात्रानुपयोगात्संमुग्धज्ञानेनैव कार्यसिद्धिरित्यत्र तात्पर्यम् ।।८-१२।। “પ્રત્યક્ષ વગેરે પ્રમાણો પ્રસિદ્ધ છે. તેમ જ પ્રમાણાદિથી કરાતો સ્નાન - પાનાદિ વ્યવહાર (प्रवृत्ति) ५५। प्रसिद्ध छे. प्रभासन निर्वयनkो प्रयो४ तुं नथी." - मा प्रभारी વાદ બત્રીશી

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 310