Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 489
________________ प्रतिष्ठाविधिः-श्लो०६८॥] [४४९ प्रसिद्धम् , उचितेन गन्धोदकादिना सद्गन्धमिश्रजलप्रभृतिना, आदिशब्दात् कषायमृत्तिकादिपरिग्रहः, अत्र प्रतिष्ठायामिति गाथार्थः ॥४।। "चत्तारि पुण्णकलसा, पहाणमुद्दाविचित्तकुसुमजुआ। सुहपुण्णचत्तचउतंतुगोत्थया होति पासेसुं" ॥५॥ [ पञ्चा.८/२२ ] तथा चत्वारो जलपूर्णघटाः, प्रधानमुद्रया स्वर्णरूप्यादिमय्या विचित्रपुष्पैश्च युक्ताः, तथा शुभपूर्णचत्रचतुस्तन्तुकावस्तृताः, पूर्ण सूत्रकुर्कुटिकापूरितं यच्चत्रं-तर्कुस्तस्य सम्बन्धि यच्चतुस्तन्तुकं-तन्तुचतुष्टयं तत्तथा, शुभं च तत् पूर्णचत्रचतुस्तन्तुकं चेति समासस्तेनावस्तृता -आच्छादिताः कण्ठदेशा येषु ते तथा, विधेया इति शेषः, पार्वेषु चतसृषु दिक्षु प्रतिष्ठाप्यप्रतिमाया इति ॥५॥ "मंगलदीवा य तहा, घयगुलपुण्णा सुभिक्खुभक्खा य । जवयारयवण्णसत्थिगादि सव्वं महारम्भं" ॥६॥ [ पञ्चा.८/२३] तथा घृतगुडपूर्णा मङ्गलदीपाः, कीदृशास्ते ?-शुभा इक्षवः -इक्षुखण्डानि, भक्ष्याणि च खण्डकानि येषु ते, अथवा स्वतन्त्राण्येव शुभेक्षुभक्ष्याणि भवन्ति, तत्र शुभा इक्षवो, वृक्षाश्च कदल्यादयः, तथा यवारकाः शरावादिरोपितयवाङ्कराः, वर्णकश्चन्दनश्रीखण्डादिः, स्वस्तिक: प्रसिद्ध एव, आदिशब्दान्नन्दावर्त्तादि सर्वं यथा रम्यं-रमणीयं विधेयमित्यन्वयः ॥६॥ "मंगलपडिसरणाइं, चित्ताई रिद्धिविद्धिजुत्ताई। पढमदिअहमि चंदणविलेवणं देवगंध8" ॥७॥ [पञ्चा.८/२४] मङ्गलप्रतिसरणानि कङ्कणानि, चित्राणि विचित्राणि, ऋद्धिवृद्ध्यभिधानौषधीसनाथानि, प्रथमदिवसे अधिवासनादिने चन्दनविलेपनमेव गन्धाढ्यं कर्पूरकस्तूरिकादिभिः पूर्ण विधेयमिति ॥७॥ "चउणारीओमिणणं, णिअमा अहिगासु णत्थि उ विरोहो । ___णेवत्थं च इमासिं, जं पवरं तं इहं सेअं" ॥८॥[ पञ्चा.८/२५] चतुःसङ्ख्या नार्य:-स्त्रियस्ताभिर्मङ्गल्याभिः, 'ओमिणणं'ति अवमानं प्रोडणकं लोकशास्त्रसिद्धं, तच्चातुर्णार्यवमानम् , तत्र नियमात् कर्त्तव्यम् , चतसृभ्योऽधिकासु नास्त्येव विरोधः-शास्त्रबाधा, नेपथ्यं च वेषः, आसामवमानकारिनारीणाम् , यत्प्रवरं श्रेष्ठं तत् , इह प्रस्तावे, श्रेयः कल्याणभूतमिति ॥८॥ १. जववार' इति पञ्चाशके ॥ २. यववारकाः इतिपञ्चाशकवृत्तौ ॥ ३. दि-मु० C. ॥ ४. प्रोङ्कनकं-पञ्चाशकवृत्तौ ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500