Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 353
________________ ३३८ दशवैकालिकं-टीकात्रिकयुतम् वहणं तस-थावराण होइ, पुढवि-दग-कट्ठनिसियाणं । तम्हा उद्देसियं न भुंजे, नो वि पए न पयावए, स भिक्खू ।।१०.४।। (ति.) औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाह- वधनम्-हननम् । त्रसस्थावराणाम्-द्वीन्द्रियादिपृथ्व्यादीनां भवति । तथा पृथिवी-दक-काष्ठनिसृतानाम्आश्रितानाम् । द्वादशविधौद्देशिकारम्भे सति तस्मादौदेशिकं न भुङ्क्ते । तथा न पचति । न पाचयति । पचन्तमपि नान्यमनुजानाति । अनेन न हन्ति, न घातयति, नान्यं घ्नन्तमनुजानाति । न क्रीणाति, न क्रापयति, न क्रीणन्तमनुजानाति । एता नवकोट्यः । एतद् विशुद्ध पिण्डादि गृह्णाति यः, स भिक्षुः ।।१०.४।। (स.) अथौद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाह-वहणं 'इति-यस्मात् कृतौद्देशिकादौ त्रस-स्थावराणां, त्रसानां द्वीन्द्रियादीनां, स्थावराणां च पृथिव्यादीनां जीवानां, वधनं हननं भवति, किंविशिष्टानां त्रस-स्थावराणां? पृथिवी-तृणकाष्ठनिःसृतानां, तथा समारम्भात्, यस्मादेवं तस्मात् कारणादौद्देशकं कृतादि, अन्यच्च सावधं यो न भुङ्क्ते, न केवलमेत् किन्तु यः स्वयं न पचति, नाप्यन्यैः पाचयति, नाप्यन्यं पाचयन्तं समनुजानाति, स भिक्षुः ।।१०.४।।। (सु.) औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाह-वहणं 'इति, वधनं-हननं त्रस-स्थावराणां-द्वीन्द्रियादि-पृथिव्यादीनां भवति कृतौद्देशिके, किंविशिष्टानां ?पृथिवी-तृण-काष्ठनिश्रितानां तथासमारम्भात्, यस्मादेवं तस्मादौदेशिकं कृतादि, अन्यच्च सावधं न भुङ्क्ते, न केवलं एतत्, किन्तु नापि पचति स्वयं, न पाचयत्यन्यैः, न पचन्तमनुजानाति यः, स भिक्षुरिति ।।१०.४।। रोइय नायपुत्तवयणे 'अप्पसमे मन्निज्ज छप्पि काए । पंच य फासे महव्वयाई, पंचासवसंवरए य जे, स भिक्खू ।।१०.५।। (ति.) किञ्च-रोचयित्वा-रुचिं नीत्वा । ज्ञातपुत्रवचनम-श्रीमहावीरवचः । आत्मसमान्। षडपि कायान्-जीवनिकायान्, पृथिव्यादीन् । मन्यते । पंच च स्पृशति महाव्रतानि | पंचाश्रवसंवृतश्च-कृतपञ्चेन्द्रियसंवरणः यः, स भिक्षुः ||१०.५।। (स.) रोइय इति-यः साधुः षडपि पृथिव्यादिजीवनिकायान्, आत्मसमान् मन्यते, किं कृत्वा ? ज्ञातपुत्रवचनं रोचयित्वा, ज्ञातपुत्रो महावीरदेवः, तस्य वचनं 1. अन्यत्र' अत्तसमे' इति मुद्रितम् ।

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416