Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३७८
दशवकालिकं-टीकात्रिकयुतम् तस्माद् विपरीत, आश्रव-इन्द्रिय-विजयादिरूपः परमार्थपेशलः काय-वाङ्-मनोव्यापारः, आश्रमो वा-व्रतग्रहणादिरूपः सुविहितानां-साधूनां, उभयलोके फलमाह-अनुश्रोतः संसारः शब्दादिविषयानुकूल्यं संसार एव, कारणे कार्योपचाराद्, यथा "विषं मृत्युः, दधि त्रपुषी प्रत्यक्षो ज्वरः," प्रतिश्रोत उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी" सुपां सुपो भवन्ति' [ ] इति वचनात्, तस्मात् संसारादुत्तारः उत्तरणमुत्तारो, हेतौ फलोपचारात्, यथा-"आयुर्घतं, तन्दुलान् वर्षति पर्जन्य" इति ।।चू.२.३।।
तम्हा आयारपरक्कमेणं, संवरसमाहिबहुलेणं । चरिया गुणा य नियमा, हवंति साहूण दट्ठव्वा ||चू.२.४।।
(ति.) तस्मादाचारपराक्रमेण-आचारे ज्ञानाचारादौ, पराक्रमः प्रवृत्तिर्यस्य स तथा तेन। संवरे-आश्रवनिरोधे । समाधिः-एकाग्रता, अनाकुलत्वं वा । बहुलम्-प्रचुरं यस्य स तथा तेन । चर्या-अनियतवासादिका । गुणा:-मूलगुणोत्तरगुणाः । नियमाःपिण्डशुद्ध्यादीनां स्वकुलासेवननियोगाः । भवन्ति । साहूण' इति तृतीयार्थे षष्ठी, साधुना द्रष्टव्याः । कोऽर्थ चर्यादयः ? सम्यगासेव्याः प्ररूपणीयाश्च ।।चू.२.४ ।।
(स.) तम्हा...इति-यस्मादेतदेवं पूर्वोक्तं तस्मात् साधुनैवंविधेनाप्रतिपाताय विशुद्धये च साधूनां चर्या भिक्षुभावसाधना बाह्याऽनियतवासादिरूपा, गुणाश्च मूलगुणोत्तरगुणाः, नियमाश्चोत्तरगुणादीनामेव पिण्डविशुद्ध्यादीनां स्वकालासेवननियोगा द्रष्टव्या भवन्ति, एते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेण, किम्भूतेन साधुना ? आचारपराक्रमेण, आचारे ज्ञानादौ पराक्रमः प्रवृत्तिर्बलं यस्य स तेन, पुनः किम्भूतेन साधुना ? संवरसमाधिबहुलेन, संवर इन्द्रियादिविषये, समाधिरनाकुलत्वं बहुलं प्रभूतं यस्य स संवर-समाधिबहुलस्तेन. ।।चू.२.४।।
(सु.) तम्हा...इति, यस्मादेतदेवमनन्तरोदितं तस्मादाचारपराक्रमेणेत्याचारे-ज्ञानादौ पराक्रमः-प्रवृत्तिबलं यस्य स तथाविध इति, गमकत्वाद् बहुव्रीहिः, तेनैवंभूतेन साधुना संवरसमाधिबहुलेनेति-संवरे-इन्द्रियादिविषये समाधिः-अनाकुलत्वं बहुलं-प्रभूतं यस्य स तथाविध इति, समासः पूर्ववत्, तेनैवंविधेन सताऽप्रतिपाताय विशुद्धये च, किम्?इतित्याह-चर्या-भिक्षुभावसाधनी बाह्याऽनियतवासादिरूपा गुणाश्च-मूलोत्तरगुणरूपाः, नियमाश्च-उत्तरगुणानामेव पिण्डविशुद्ध्यादीनां स्वकालासेवननियोगा भवन्ति, साधूनां

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416