Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 129
________________ १२२ तृतीयो गुच्छक कारणमिति । जीवस्य अजन्यत्वाद् असदिव स्थित कल्पितम् । इवेत्यनास्थायाम् । अतएव विचारोत्थ कारण तु अस्या प्रकृतौ प्रकृतिलक्षणे स्वभावे सदिव कार्यत्वेन जगद्रूप व्यक्ति प्रकाशताम् आगतम् । यद् वस्तु सृष्टे प्राक् सूक्ष्मता असदिव मध्ये प्रादुर्भावेन सदिव व्यवह्रियमाण पर्यन्ते प्रलयावस्थया पुन सूक्ष्मत्वदधत् तद् इत्थमेवोन्नेतु शक्यमिति परमार्थ । एव लक्षणकमेव वस्तु आदावन्ते च प्रतिपत्तिशून्य निर्दिश्य मध्येऽपि तथा विलक्षण निर्दिश्यते ॥ १४५ ॥ | स्वयमेव विचारस्तु स्वत उत्थ स्वक वपुः । घट्य घटयत्याशु प्रत्यक्ष परमं महत् ॥ १४६ ॥ स्वयमिति । आत्मनि तु स्वयमेव विचारो विमर्शलक्षण यथासकल्प स्वत उत्थ स्वक वपुविघट्य अन्त करणज्ञानकर्मेन्द्रियै सयुज्य परम महत् प्रत्यक्ष भोग्यभावम् आशु घटयति सपादयतीति तात्पर्यम् ॥१४६॥ विचारवान् विचारोsपि यदात्मान प्रबोधते । तदा राम ! निस्ल्लेखं परमेवाशिष्यते ॥ १४७॥ विचारवानिति । यदा विचारोऽपि विचारवान् सन् आत्मान प्रबोधते अभेदतया अवगच्छति । बुधिर् अवगमने । हे राम । तदा निरुल्लेखम् अविकल्पित पर वस्तु एववशिष्यते केवली भावेनावतिष्ठते ॥ १४७ ॥ इदानीं सिंहावलोकन्यायेन दैवनिराकरण स्मारयन् पौरुषस्य प्राधान्यम् उट्टङ्कयति स्वयत्नमात्रे रघुराजसूनो ! त वाच्यार्थमपास्य दूरे | श्रासाद्यतेऽन्तः परम पद तत् पौरुषेणेव नहीतरेण ॥ १४८ ॥ स्वयत्नेति । गीतोपनिषत्स्वपि अष्टादशे - 'दैव चैवात्र पञ्चमम्' इत्यनेन चतुर्भिश्चमस्य दुर्बलत्व व्यक्तमेवेति स्पष्टम् || १४८।।

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166