Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | तोऽसौ से मुकदिजः पुत्रैहादपि निष्कासितः सन शून्यैकगृहे स्थितस्तत्र काष्टभाजनमध्ये तिरस्का
| रपूर्वकं तस्मै पुरैर्नोजनं दीयते, एवं वातुलकुक्कुर श्व तिरस्कृतोऽसौ चिंतयति ममैते पुत्रा मयो.
पार्जितां लदमी जति मां च तिरस्कुर्वति, ततोऽहं तान सर्वानपि कुष्टिनः करिष्यामीति विचिंत्य ३५१
तेन पुत्रेन्यः कथितं हे पुता यूयमस्मत्कुलाचारं शृणुत ? अजमेकमानीय मंत्रैश्च तं पूतीकृत्य कुलदेवतायै च प्रकटप्य तन्मांसं सर्वकटुंबिनिर्भदणीयं, येन कुलदेव्याः संतोषो भवेत. तत् श्रुत्वा तैरेक अजो मूल्येन समानीय मंत्रपूतीकरणाय सेमुकाय समर्पितः, सेमुकः प्रजनं तम निजकु. टरुधिरादिमिश्रितभोजनं सर्वदा जोजयामास. एवं कतिचिदिवसानंतरं नियमितदिवसे कुटुंबिभिस्तमज व्यापाद्य तन्मांसं भदितं. ततः सेमुकस्तीर्थयात्राकृते ततो निर्गतः, पश्चादनुक्रमेण तस्य सर्वमपि कुटुंबं कुष्टरोगानितं जातं. अथ स सेमुको मन् संस्तृषातुरः क्रमेणैकमहाटव्यां संप्राप्तस्तत्र गिरिनिर्धारपानीयभृतैकावटस्तेन दृष्टस्तत्र विविधौषधीमूलरसमिश्रितं जलं मिलितमभृत्. तृषातुरेण सेमुकेन तत्पीतं, औषधीरसमाहात्म्याच तस्य कुष्टरोगो गतो जातं च मनोहरं शरीरं, तदा स हृष्टः । सन् निजगृहप्रति चचाल. क्रमेण कौशांब्यामागतस्तदा लोकास्तं पृचंति हे सेमुक तव शरीरं कथं ।
For Private and Personal Use Only

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370