Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 309
________________ चन्द्रराजचरित्रम् - अष्टाविंशः परिच्छेदः चन्द्रनृपदीक्षाग्रहणम् अथ श्रीचन्द्रराजसंस्कृतचरित्रस्याष्टाविंशति तमपरिच्छेदे चन्द्रनृपदीक्षाग्रहणम् त्रिजगज्जीवोद्धरणशक्तिशालिनो मुनिसुव्रतस्वामिन उपदेशात् प्रागभववृत्तान्तश्रवणाच्च वैराग्यवासितस्वान्तेन राज्ञा चन्द्रेण स्वावासे गुणावली प्रेमलालच्छी चाऽऽकार्य स्पष्टतरमुक्तम्- प्रिये! मया मुनिसुव्रतस्वामिनः पार्थे चारित्रग्रहणं स्थिरीकृतमस्ति, यतस्तदुपदेशामृतेन तृप्तं मे मनो राज्यभोगादीनपि नेहते । अथ मे तत्रानन्दलवोऽपि न दृश्यते, मम मनोवृत्तिश्चापि संसारतो म्लायति स्म । अस्माकमायुरञ्जलिस्थं जलमिव प्रतिक्षणं प्रक्षीयते, प्रान्ते च तदवस्था पयोबुबुदवद् भवति, अर्थात्तन्नाशे विलम्बो न लगति। उक्तं चआयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीराः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूराः । कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं, सद्धर्मासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥२९॥ इत्थं कैश्चिदस्य कायस्य कुलटास्त्रीभिरुपमा दीयते, यतोऽवसाने -परीक्षावसरेऽयं कायः प्रेमनिर्वाहं न करोति, तत्त्वतोऽयं विश्वासपात्रं न वर्तते । अस्य परितः मांसाऽसृक्कर्दमेनेयमस्थिमित्तिः स्थापिताऽस्ति । अत्र नखगवाक्षा जटिताः सन्ति, कचतृणैश्वाऽऽच्छादितोऽस्ति । अस्मिन् कायनिकाये निरन्तरं भोजनमारो भ्रियते, तथापि स रिक्तस्य रिक्त एवाऽवशिष्यते । वासोच्छवास || २६७ ||

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338