Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला।
महाकविश्रीवीरनन्दिप्रणीतं चन्द्रप्रभचरितम् ।
प्रथमः सर्गः । श्रियं क्रियाद्यस्य सुरागमे नटत्सुरेन्द्रनेत्रप्रतिबिम्बलाञ्छिता। सभा बभौ रत्नमयी महोत्पलैः कृतोपहारेव स वोप्रजो जिनः ॥१॥ स पातु यस्य स्फटिकोपलप्रभे प्रभाविताने विनिमममूर्तिभिः । विदिद्युते दुग्धपयोधिमध्यगैरिवामरैर्वः शैशिलाञ्छनो जिनः ॥२॥ अनन्तविज्ञानमनन्तवीर्यतामनन्तसौख्यत्वमनन्तदर्शनम् । बिभात योऽनन्तचतुष्टयं विभुः स नोऽस्तु शान्तिर्भवदुःखशान्तये ॥ ३॥ . जराजरत्याः स्मरणीयमीश्वरं खयंवरीभूतमनश्वरश्रियः । - निरामयं वीतभयं भवच्छिदं नमामि वीरं नृसुरासुरैः स्तुतम् ॥ ४ ॥ हितं विसंवादविवर्जितस्थिति परैरभेद्यं प्रवितीर्णनिर्वृतिम् । शरण्यभूतं शरणं जिनागमं गतोऽस्म्यहं भव्यजनैकबान्धवम् ॥ ५ ॥ गुणान्विता निर्मलवृत्तमौक्तिका नरोत्तमैः कण्ठविभूषणीकृता । न हारयष्टिः परमेय दुर्लभा समन्तभद्रादिभवा च भारती ॥ ६ ॥ गुणानगृहन्सुजनो न निर्वृतिं प्रयाति दोषानवंदन दुर्जनः। चिरंतनाभ्यासनिबन्धनेरिता गुणेषु दोषेषु च जायते मतिः ॥ ७ ॥
१. अग्रजः प्रथमजिनः श्रीऋषभदेवः. २. अष्टमस्तीर्थकरः श्रीचन्द्रप्रभो योऽस्मिन्काव्ये वर्णितः. ३. षोडशस्तीर्थकरः. ४. जरैव जरती वृद्धस्त्री तस्याः स्मरणीयमपरोक्षम्. सर्वदा जरारहितसिति भावः. ५. मोक्षलक्ष्म्याः खयंवरपतिम्. ६. अन्तिमं तीर्थकरम्. ७. निवृतिर्मोक्षः. ८. परं केवलं हारयष्टिहारलतैव दुर्लभा दुष्प्रापा न, किं तु समन्तभद्रादिभवा भारती च दुर्लभा. ९. अखीकुर्वन्. १०. अकथयन्.

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 190