Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 139
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये शृङ्खलावटितचरणमारमदपट्टकरिणीनामिवापरासाम्, आर्द्रलाक्षारसारुगचरणसरोजानां कमलपरिपीतवालातपानामिव कमलिनीनामन्यासाम्, मरकतमणिखचितवातायनदत्तवदनारविन्दानां सुन्दरीमणीनां विकसितैकशतपत्रशोभितां गगनतलविलसितां कमलिनी तुलयन्तीनाम्, करारविन्दगलितमरन्दविन्दुशङ्कासंपादकैनवसुधाकरपरिगल तपारशीकरसंदेहसंदायकैः सकुसुमैलानाञ्जलिभिरवकीर्यमाणः, पुरःसरविविधवाद्यरवविमिश्रितेन पुरोयायिनां मङ्गलपाठकानां 'जय जय' इति मधुरवचनरचनानुयातेन संक्षोभसमुत्पतत्पुष्पलीनघुप्पंधय. झंकारगेदुरेण प्रासादपुञ्जसञ्जातप्रतिध्वानेन दीर्वतरतामुपगतेन कोलाहलेन मुखरितदिगन्तरः, तां पुरी प्रदक्षिणीकृत्य द्वारदेशमवतीर्णः. प्रज्ज्वलद्दीपशोभितकनकपात्रं वहन्तीनां वारवनितानां निचयेन विरचितनीराजनमङ्गलः, सत्यधरात्मनो, विततवितानविलम्बिमुक्तादामविस्तारिते दन्दह्यमानधूपसुरभिले मणिमण्डपे प्रविश्य, कुलक्रयागतं सिंहासनमलंचकार । मोदाम्बुराशिय॑लसत्प्रजानां कुरुप्रवीरेन्दुमहोदयेन । पौरागनानां नयनोत्पलेषु मरन्दधारानुजलच्छलेन ॥ १३३ ॥ क्षुद्रक्षितीशेन कृतं प्रजानां संक्षोभमालक्ष्य दयालुरेषः । राजा समा हादश नैनकीर्तिगौरां धरित्रीमकरां चकार ॥१३४॥ वृद्धक्षत्रपदे निषण्णमकरोद्गन्धोत्कटं भूपति नन्दाध्याय च यौवराज्यपदवी प्रादात्करूणां पतिः । तत्तयोग्यपदे चकार निखिलान्पद्मास्यमुख्यान्सखीनन्यांश्चापि धराधिपान्करुणया स्वे स्वे पदेऽस्थापयत् ॥१३॥ विद्याधरविशालाक्ष्या भाले चन्द्रार्धकोमले । पबन्धनमातेने सोऽयं वसुमतीपतिः ॥ १३६ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162