Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Sarasvativilasa Series No. iv.
e
THE
CHAMPU-JIVANDHARA
OF
HARICHANDRA
EDITED BY
T. S. KUPPUSWAMI SASTRI, TANJORE.
TANJORE:
PRINTED AT THE SRI KRISHNA VILASA PRESS
1905,
All Rights Reserved.)
[Copy Right Registered.
PRICE ONE RUPEE,
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Dedicated
WITH KIND PERMISSION
TO
EUGEN HULTZSCH Esquire, Ph.D., Government Epigraphist; Fellow of the University of Mauiras; Corr. Member of the Bataria Society of Arts and Sciences;
and of the Royal Society of Sciences at Gottingen.
AS A TOKEN OF HIGH REGARD AND ESTEEM FOR HIS INDEFATIGABLE RESEARCHES IN THE FIELD
OF SANSKRIT LITERATURE.
BY T.S, KUPPUSWAMI SASTRI,
The Editor,
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11 T: 11
महाकविहरिचन्द्रविरचिता
जीवंधरचम्पूः ।
यस्य श्रीनखकान्तिनाकसरितः कूर्मायतेऽङ्ग्रिद्वयं सेवानम्र सुरेन्द्रवज्ञमकुटीमाला मरालायते । पश्यन्निर्जरयोषिदम्बकततिर्मीनप्रपञ्चायते
क्षोणीशाञ्जलयः पयोजमुकुलन्त्यव्यात्स वोऽग्यो जिनः ॥ १ ॥ श्रीपादाक्रान्तलोकः परमहिमकरोऽनन्तसौख्यप्रबोध
स्तापध्वान्तापनोदप्रथितनिजरुचिः सत्समूहाधिनाथः । श्रीमान्दिव्यध्वनिप्रोल्लसदखिलकलाबल्लभो मन्मनीषा
नीलाब्जन्या विकासं वितरतु जिनपो धीरचन्द्रप्रभेशः ॥२॥ हरीशपूज्योऽप्यहरीश पूज्यः सुरेशवन्द्योऽप्यसुरेशवन्द्यः । अनङ्गरम्योsपि शुभाङ्गरम्यः श्रीशान्तिनाथः शुभमातनोतु || ३ || आयतदिव्यशरीरं शिवसौख्यकरं सुदृग्भिराशास्यम् । रतिरागहीनमीडेऽपूर्वं श्रीवर्धमानकंदर्पम् ॥ ४ ॥
लोकोर्ध्व भागविजने मुक्तिकान्ताविराजितान् । नष्टकर्माष्टकासिद्धान्विशुद्धान्हृदि भावये ॥ ५ ॥ भजे रत्नत्रयं प्रत्नं भव्यलोकैकभूषणम् । तोपणं मुक्तिकान्तायाः पृपणं ध्वान्तसन्ततेः ॥ ६ ॥ वाणी कर्मरूपाणी द्रोणी संसारजलधिसंतरणे । वेणीजितवनमाला जिनबदनाम्भोजभासुरा जीयात् ॥ ७ ॥
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये अरन्ध्रसवृत्तमणीमनन्तगुणगुम्फिताम् ।
अपूर्वमालां मन्येऽहं पूर्वाचार्यपरंपराम् ॥ ८ ।। गद्यावलिः पद्यपरंपरा च प्रत्येकमध्यावहति प्रमोदम् । हर्षप्रकर्ष तनुते मिलित्वा द्राग्वाल्यतारुण्यवतीव, कान्ता ॥ ९ ॥
या कथा भूतधात्रीशं श्रेणिकं प्रति वर्णिता । सुधर्मगणनाथेन तां वक्तुं प्रयतामहे ॥ १० ॥ मदीयवाणीरमणी चरितार्था चिरादभूत् । ववे जीवधरं देवं या भावर्जिननायकम् ॥ ११ ॥ जीवंधरस्य चरितं दुरितस्य हन्तृ
प्राप्ता मलीमसतमापि मदीयवाणी । धीरान्धिनोति नियतं मलिनाञ्जनश्री
बिम्बाधरीनयनपङ्कजसंगतेव ॥ १२ ॥ अथ लवणरत्नाकरनिर्लोलकल्लोलशयकुशेशयप्रक्षिप्तमुक्ताविद्रुमराजीविराजितवेलालंकृते, सकलद्वीपमध्यमध्यासीनेऽपि शोभातिशयेन तेषामुपरि वर्तमाने, स्वमहिमनिराकतसुराधिपलोकं गगनतलचुम्बिजम्बृविटपिकपटेन मस्तकमुद्धृत्य प्रतिक्षणमीक्षमाण इव, अपारसंसारमंतममान्धीकृतजीवलोकस्य पुरुषार्थचतुष्टयप्रकाशनायेव दिवाकर. युगलनिशाकरयुगलव्याजेन प्रदीपचतुष्टयमाबिभ्राणे, मूर्तीतलावण्य इव महीमहिलायाः, रङ्गस्थल इव श्रीलासिकालास्यस्य, प्रतिच्छन्द इत्र नाकलोकस्य, सकललेखलोचनमीनानामालम्बनकूपे जम्बूद्वीपे, भरतखण्डमण्डनायमानकमलवनमधुलुब्धभृङ्गमालाव्यान सकललोकलोचनबन्धनार्थमायसश्रृङ्खलामिव बिभ्राणम्, परिपाकपिशङ्गकलममञ्जरीपुअपिञ्जरीभूततया पत्रिकुलपातभयात्कृषीवलस्थगितपीताम्बरमिव बिभ्रापाम, तत्र तत्र समर्पितैरभ्रंलिहीजावाप प्रभृति तपनकलितसंतापजनित.
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः । वैरतया तदीयपदवीमुपरुन्धद्भिरिब निजसौन्दर्यसंदर्शनार्थमागतः कुलाचलैरिव उदयास्ताचलमध्यसञ्चारखिन्नस्य सरोजबन्धोर्विश्रमाय वेधसा विरचितैरिव धराधरैर्धान्यराशिभिरुद्भासितम्, अतिदूरप्रवृद्वशाखावलयविलसितकिसलयकैतवेन हस्तमुदस्य विचित्रपतत्रिविरुतैः कल्पपादपा तुमिवाद्वयमानर्जन्मप्रभृति जलसेकाद्युपकारेण वर्धकेभ्यो वलाहकेभ्यः फलपुष्पादीनि समर्पयितुमिव मेघमण्डलमवलम्बमानरुपवनतरुपण्डैमण्डितम्, विकचनीलोत्पलनयनाभिः पद्ममुखीभिर्भूङ्गजालनोलालकाभिर्मुदितमानलाञ्छनमकरीशोभितचारुचक्रप. योधराभिर्घनपुलिननधनाभिस्तटिनीवधूटीभिः परिवृतमस्ति निस्तुलं हेमाङ्गदं नाम मण्डलम् ।
तत्रास्ति राजनगरी जगति प्रसिद्धा
यत्सालनीलमणिदीधितिरुद्धमार्गः । राहुभ्रमेण विवशस्तरणिः सहस्त्रैः
पादैर्युतोऽपि न हि लवयति स्म सालम् ॥ १३ ॥ अम्भोमुक्चुम्बिसौधध्वजपटपवनोद्धृतसप्ताश्वरथ्य__ श्रान्तेः सौदामिनीश्रीतुलिततनुलतामानिनीमानितायाः । यस्या माणिक्यगेहप्रसृतरुचिझरीकल्पितोद्यहिताने नियन्त्रीलाश्मसालद्युतिरमरपुरे वन्दनस्त्रग्बभूव ॥ १४ ॥
यस्या हरिन्मणिमयालयकान्तिजालै___ याप्ते वलाहककुलेऽपि सहस्वरश्मिः । दूर्वाम्बुबुद्धिपतदात्मरथाश्वरोध
केशासहः किमकरोद्गमनेऽयने द्वे ॥ १५ ॥ यत्सुन्दरीवदनचन्द्रविलीनचन्द्र
कान्ताश्मसौधगलितं सलिलं पिपामुः ।
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये
एणाङ्करकुरतिवेगवशात्समेत्य .. भीतो रयेन निरयात्कृतसौधसिंहात् ।। १६ ॥ यस्यामनय॑नृपमन्दिरदेहलीषु
गारुन्मतैर्मृगगणा बहु वञ्चिताः प्राक । दृष्ट्वापि कोमलतृणानि न संस्टशन्ति
स्त्रीमन्दहासधवलानि चरान्त तानि ।। १७ ॥ उदग्रहावलिमाश्रितानां यत्राङ्गनानां नयनोत्पलश्रीः । गङ्गां सखी स्वामवलोकितुं द्राक्स्वर्ग गता सूर्यसुतेव भाति ॥१८॥ यत्त्रासादपरंपराप्रतिफलद्देवाङ्गनास्वाङ्गना
भेदं दृष्टिनिमेषकौशलवशाजानाति यूनां ततिः । यद्वैडूयशिरोगृहस्थसुदतीक्वेन्दुविम्यं विधो
विम्बं चैव समीक्ष्य संशयमगात्स्वभीनुरभाजिरे ॥ १९ ॥ यत्सौधानवलोक्य निर्जरपतिार्निनिमेषोऽभव
द्यस्या वीक्ष्य सरोजशोभिपरिखां गङ्गा विषादं गता । यत्रत्यानि जिनालयानि कलयन्मेरुः स्वकार्तस्वरं
स्वीचक्रे च वलद्धिषं सुरपुरी यां वीक्ष्य शोकाकुला ॥२०॥ शास्ति स्म शस्तमहिमा महनीयवृत्ति
स्तां भूपमोलिमणिरञ्जितपादपीठः । सत्यंधरक्षितिपतिभुवि यस्य कीर्तिः
प्रत्यर्थिभिः सह दिगन्तमवाप शुभ्रा ॥ २१ ॥ यश्च किल संक्रन्दन इवानन्दितसुमनोगणः, अन्तक इव महिपीसमधिष्ठितः, वरुण इवाशान्तरक्षणः, पवन इव पद्मामोदरुचिरः, हर इव महासेनानुयातः, नारायण इव वराहवपुष्कलोदयोद्धृतधर
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्मः ।
णीवलयः, सरोजसंभव इव सकलसारस्वतामरसभानुभलिः, भद्रगुणोऽप्यनागो, विबुधपतिरपि कुलीनः , सुवर्णधरोऽप्यनादित्यागः, सरसार्थपोषकवचनोऽपि नरसार्थपोषकवचनः, आगमाल्याश्रितोऽपि नागमाल्याश्रितः । कीर्तियेस्य दिगङ्गनाकुचतटीपाटीरसंवादिनी .
तेनःश्रीः किल तत्र कुङ्कमळतालंकारशङ्कावहा । आज्ञा यस्य महामहीशमकुटीप्वाकल्पमालायते
यत्सेवा सहदर्थिनां परिचिता स्वर्गद्रुवर्गायते ॥ २२ ॥ यस्मिन्छासति महीमण्डलं मदमालिन्यादियोगो मतदन्तावलेपु, परागः कुसुमनिकरेषु, नीचसेवना निम्नगासु, आर्तवत्वं फलितव नराजिषु, करपीडनं नितम्बिनीकुचकुम्भेपु, विविधार्थचिन्ता व्याख्यानकलासु, नास्तिवादो नारीमध्यप्रदेशेषु, गुणभङ्गो युद्धेषु, खल. सङ्गः कलमकुलेषु, अपाङ्गता कुरङ्गाक्षीलोचनतरङ्गेषु, मलिनमुखता मानिनीस्तनमुकुलेषु, आगमकुटिलता भुजङ्गेषु, अजिनानुरागः शूलपाणी, सोपसर्गता धातुषु, दरिद्रभावः शातोदरीणामुदरेषु, द्विजिद्वता फणिपु, पलाशिता विपिनतरुपण्डेषु, अधररागः सुदतीमुखकम लेगु, तीक्ष्णता कोविदबुद्धिषु, कठिनता कान्ताकुचेषु, नीचता नाभिगहरेषु, विरोधः पञ्जरेपु. अपवादिता नीरोप्ठ्यकाव्येषु, धनयोगभङ्गो वर्षावसानेषु, कलिकोपचारः कामसंतापेषु, कलहंसकुलं क्रीडासर. सीषु परमेवं व्यवस्थितम् । वकं चन्द्रप्रभं यद्भुजयुगमजितं यस्य गात्रं सुपार्श्व
कृत्यं स्वाधीनधयं वदि पुरुचरितं शीतलं सुव्रताट्यम् । राज्यं श्रीवर्धमानं कुलमतिविमलं कीर्तिवृन्दं त्वनन्तं
सोऽयं प्रत्यक्षतीर्थेश इव विजयते विश्वविद्याविनोदः ॥२३॥
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये यत्पाणिपल्लवघृतासिजलान्निमन्ज
च्छत्रुव्रजात्समुदितां जलबिन्दुराजिन् । तारावलीति तु वदन्ति जना मृषेत
त्तत्रान्यथा मकरमीनकुलीरकाः के ॥ २४ ।। यस्य च वदनतटे कोपकुटिलित कुटिघटितेऽशरणतया वनं प्रति वावमानानां प्रतिपक्षपार्थिवानां वृक्षरानिरपि वातान्दोलितशाखाहस्तन पतत्रिविरुतेन च राजविरोधिनोऽत्र न प्रवेष्टव्या इति निषेधं कुर्वाणा तामतिकामत्सु तेषु राजापराधभयेनेव प्रवातकम्पमाना विशङ्कटकण्टकेन केशेषु कर्षतीति शङ्कामङ्करयामास । यस्य प्रतिपक्षलोलाक्षीणां काननवीथिकादम्बिनीशम्पायमानतनुसंपदां वदनेषु वारिजभ्रान्त्या पपात हंसमाला, तां कराङ्गुलीभिर्निवारयन्तीनां तासां करपल्लवानि चकपुः कीरशाबकाः, हा हेति प्रलपन्तीनां कोकिलभ्रान्तिभाविताः शिरस्सु कुट्टायितं कुर्वन्ति स्म करटाः, ततश्चलितवेणीनामेणाक्षीणां नागभ्रान्त्या कर्षन्ति स्म वेणी मयूराः, ततो दीर्घ निःश्वासमातन्वतीनां तद्गन्धलुब्धमुग्धमधुकरा मदान्धाः समापतन्तः पश्यन्तोऽपि नासाचम्पकं न निवृत्ता बभूवुः, गुरुतरनितम्बकुचकुम्भभारानतानां वेवसा स्तनकलशसृष्टं काठिन्यं पादपद्मेषु वाञ्छन्तीनां धावनोद्युक्तमनसां चलितपादयुगलप्रसृतनखचन्द्रचन्द्रिकासु संमिलिताश्चकोरा उपरुन्धन्ति स्म मार्गम्, ततो भुवि निपत्य लुठन्तीनां सुवर्ण सवर्णमुरोजयुगलं पक्कतालफलभ्रान्त्या कदर्थयन्ति वानराः इति राजविरोधिनामरण्यमपि न शरण्यम् । किंच ।
यस्य प्रतापतपनेन चतुर्पु दिक्षु
निःशेषिताः किल पयोनिधयःक्षणेन ।
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः ।
प्रत्यर्थिभूपसुदतीनयनाम्बुपूरैः
संपृरिताः पुनरतीत्य तटं ववल्गुः ॥ २५ ॥ यस्य च रिपुमहिला वनमध्यमध्यासीना वनमोहनसंजातमञ्जुल. मालतीलतानुकारिण्यः स्वशिशुभ्यः पूर्ववासनावशेन क्रीडाराजहंसमानयेति निभर्खयद्यो बाप्पाम्बुपूरपूरितवदनकमलनयनमीनप्रतिबिम्बपरिप्कृतस्तनान्तरसरोवरप्रतिफलितचन्द्रमसं निर्दिश्यायं ते हंसो ममापि विरहाग्निव्यालीढवपुषस्तथेति परिसान्त्वयामासुः, कदाचिन्मामकीनक्रीडामयूरं दर्शयति रोदनपरवशेभ्यः स्वार्भ केभ्यो मयूरीपुरतो नृत्यकलाविलासिनं कलापिनं निर्दिश्य तवायं शिखी ममापि तथेति सगद्गदमालपन्तिस्म ।
तस्य सत्यंधरस्यासीत्कान्ता कान्त्यधिदेवता । वेला लावण्यपाधेिर्विश्रुता विजयाख्यया ॥ २६ ॥ सौदामिनीव जलदं नवमञ्जरीव
चूतद्रुमं कुसुमसंपदिवाद्यमासम् । ज्योत्स्नेव चन्द्रमसमच्छविभेव सूर्य
तं भूमिपालकमभूषयदायताक्षी ॥ २७ ॥ अस्याः पादयुगं गलश्च वदनं किंचान्नसाम्यं दधुः
कान्तिः पाणियुगं दृशौ च विदधुः पद्माधिकोल्लासताम् । वणी मन्दगतिः कुचौ च बत हा सन्नागसंकाशतां स्वीचक्रुः सुदृशोऽङ्गसौष्ठवकला दुरे गिरां राजते ॥ २८ ।। अमूर्तेरप्यनङ्गस्य सत्सु सञ्जीवनेष्विव । अन्येष्वन्तःपुरेप्वेषा राज्ञः प्राणा इवाभवत् ॥ २९ ॥ शृङ्गारसागरतरङ्गपरंपरां तां
देवीं सुखेन रमयन्नधिपो नराणाम् ।
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये आनन्दसिन्धुजठरे विलुठन्सदायं
गीवाणराजपदवीं च तृणाय मेने ॥३०॥ अर्थकदा भूपालमणिरयमग्रगण्योऽपि प्राज्ञपरिपदामधिपतिरपि राजनयविदामधिकोऽपि परावरतत्वयाथात्म्यवेदिनामुदाहरणमपि सकलममुचिताचाराणाम् , कामपरतन्त्रितचित्ततया कृत्याकृत्यमजानानः, कर्मसारथिचोदित इव सज्जनवनविलसदङ्गाराय काष्ठाङ्गाराय काश्यपी दातुमियेष । ततो विदितवृतान्ता मूर्तिमन्त इव राजतन्त्रमन्त्रा विवर्ता इव प्रजाभागधेयानां प्रकारा इव कुलप्रतिष्ठायाः परिणामा इव समानुरागाणां पारदृश्वानः शास्त्रपाथोनिधीनाममात्यमुख्याः स्वयं संमन्त्र्य नरपतिमभ्येत्य समुचितं विज्ञापयामासुः ।
देव त्वयि प्रथितनीतिपयोधिचन्द्रे
विज्ञापनं न घटते ध्रुवमस्मदीयम् । विश्वप्रसिद्धसुरभौ मृगनाभिपुञ्जे ___ मल्लीसुमेन सुरभीकरणं यह ॥ ३१ ॥ अथापि रसनाकडूखण्डनाय विनिर्मिता । विज्ञप्तिः श्रोतुमधुना श्रीमन्तं संप्रतीक्षते ॥ ३२ ॥ देव श्रीमदीयभुनपरिवालालिता भूमिभामिनी भुनान्तरारोपणम्, नन्दनवनोल्लासिता हरिचन्दनलतेव वनान्तरम्, चूतवनकलिता मल्लीवल्लीव स्नुहिवनम्, कमलवनालया लक्ष्मीरिवार्कवनम्, अरविन्दस्यन्दिमकरन्दमुदिता चञ्चरीकपतिरिव गोक्षुरकवनम्, सज्जनसंदोहसमभ्यस्यमाना विद्येव कुदृष्टिननं नाहति । अयं किल राजधर्मः श्रीमद्भिरवश्यं ज्ञातव्यो, यन्निजहृदयमपि सर्वथा न विश्वसनीयं किमुत जनान्तरम् , किंतु सर्वेषामपि स्वीयत्वेन विश्वसनीयत्वेन च ज्ञातव्यो यथा चन्द्रसूर्यो ।
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः । धर्मार्थयुग्मं किल काममूलमिति प्रसिद्ध नृप नीतिशास्त्रे । मूले गते कामकथा कथं स्यात्केकायितं वा शिखिनि प्रणष्टे ॥३३॥ ऊर्वश्यामनुरागतः कमलभूरासावकीर्णी क्षणा
त्पार्वत्याः प्रणयेन चन्द्रमकुटोऽप्यर्धाङ्गनोऽजायत । विष्णुः स्त्रीषु विलोलमानसतया निन्दास्पदं सोऽप्यभू
बुद्धोऽप्येवमिति प्रतीतमखिलं देवस्य पृथ्वीपते ॥ ३४ ॥ इत्यादिनीतिप्रचुरा वाणी राज्ञो न संस्थिता ।
कामजर्जरिते चित्ते क्षीरं छिद्रघटे यथा ॥ ३५ ॥ तदनन्तरमयं क्षितिपतिरिक्षुचापशरलक्ष्यतया मोहाक्रान्तचेतनः काष्ठान्तरविदितदुराचारं काष्ठाङ्गारमाहूयानीय च विजनं देशमेनमुवाच ।
कामसाम्राज्यमस्माभिः पाल्यते यन्निरन्तरम् । तत्पाल्यतामिदं राज्यं भवतावहितात्मना ॥ ३६ ॥ इति नरपतिवाणीमाहरन्नेष तोषा___ प्रतिवचनमुवाच श्रीमता न्यस्तभारम् । नृप न हि परिशक्नोम्यद्य वोढुं समस्तं
वृषभ इव करीन्द्रेणार्पितं तुङ्गभारम् ॥ ३७॥ तुरगस्य खरो यथा विलासं गरुडस्येव गतानि कुक्कुटः ।
चटकः कलहंसकस्य यद्वत्तव मार्ग न हि गन्तुमुत्सहे ॥३८॥ इति सप्रश्रयमालपन्तं कुतुककोरकितस्वान्तं भूपतिर्वचनान्तरमत्र न वक्तव्यमिति नियम्य, धन्योऽस्मीति तन्निदेशं शिरसि निदधानं राज्यभारे नियोज्य, प्रतिदिनमेधमानरागलतालवालायितहृदयो विषयसुग्वविवशः कानिचिद्दिनानि निनाय ।
अथ कदाचिदवमन्नायां निशायां वारुणीसुवासिनीकज्जलकलि
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाव्ये तराजतकरण्डक इव ग्रहराजदर्शनभयेन सत्वरं निर्गच्छन्त्या निशास्वैरिण्या निपतितताटङ्क इव नभोवारणकुम्भस्थलकलितमौक्तिकपत्र इव अपरसिन्धुपयःपूरणार्थ यामिनीकामिनीकरकलितस्फाटिकघट इव वरुणदिशावशावल्लभशुण्डादण्डच्युतसपङ्कबिस इव मदनसायकशाणोपल इव पश्चिमदिशाविशालाक्षीपुष्पकन्दुक इव घरमधराधरदन्तावलकुम्भस्थलसंभाव्यमानशम्बरारिवजखेट इव निशाकरे, वीरजिनपतिकोपाग्निदग्धाङ्गमनङ्गं कलङ्कच्छलेन निजाङ्कमारोप्य संजिजीविषयेव संजीवनौषधानि गगनकाननेषु मार्गयित्वा तत्परिमार्गणायेव चरमशिखरिशिखरमधिरूढे, तत्र विरलतया वर्तमानैः संध्यारुणतमःकालेयपदैरङ्कितगगनपर्यङ्कतले निशाचन्द्रयोः क्रीडासंमर्दविलुलितकुसुमनिकरेष्विव म्लानतामुपगतेषु तारकानिकरेषु, निजकान्तं निःश्रीकमालोक्येव नैजतेनोविरहितेष्वौषधिनिचयेषु, अनेन कुमुदवन्धुना निनवसतिः कमलावलिर्विध्वस्तेति कोपादिव निशाकान्तानिष्कान्तायां कमलायाम्, निजनायकविरहानलघूमरेखां निर्गच्छदृङ्गमालाव्याजेनोहमन्तीषु कुमुदिनीषु, संभोगस्वेदसलिलैः प्रशान्तं मनसिजाग्निं विकचकमलरजःकणैरुद्दीपयितुमिव वहति प्राभातिके मारुते, निद्रावती सा नरपालकान्ता स्वप्नं ददर्श स्वशुभाशुभान्तम् । अस्वमगम्यं किल भावि तस्याः स्वप्नेन गम्यं बत संबभूव ।।३९॥ ततः पुरंदराशायां सन्ध्याबन्धूकसच्छविः ।
रुरुचे गगनाम्भोधिविद्रुमोद्यानराजिवत् ॥ ४० ॥ अथाविरासीदिवसाधिनाथः प्राचीवधूटीगृहरत्नदीपः । व्योमश्रियःसन्मणिकन्दुको वा सन्ध्याङ्गनाया मुखकुङ्कुमं वा ॥४१॥
पूर्वपयोराशितैलोपान्तविराजमाने पतङ्गपातभयेनेवोपरिविन्यस्तगगनमरकतपात्रविशोभिते प्रदीप इव, पूर्ववारिधिविद्रुमच्छटाकान्ति
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्यः । झरीभिरिव प्राच्यपयोनिधिसकाशाद्गगनजलधिशोषणायोद्गताभिरिव बाडवाग्निज्वालाभिः प्रभारानिभिरनुरक्तमण्डले चण्डकरे उदयधराधर. शिखरमधिरूढे,
तावन्महीपालकमन्दिरान्तः पिकप्रतिस्पर्धिमनोज्ञकर्णाः । प्राबोधिकाः पेठुरुपेत्य देव्याः प्रबोधनार्थ ध्वनिभिर्गभीरैः ॥४२॥
देवि प्रभातसमयोऽयमिहाञ्जलिं ते
पनैः करैर्विरचयन्दरफुल्लरूपैः । भृङ्गालिमञ्जुलरवैस्तनुते प्रवोध__ गीति नृपालमणिमानसहंसकान्ते ॥ ४३ ॥ देवि त्वदीयमुखपङ्कजनिर्जितश्री
श्चन्द्रो विलोचनजितं दधदेणमङ्के । अस्ताद्रिदुर्गसरणिः किल मन्दतेजा
द्राग्वारुणीभजनतश्च पतिप्यतीव ॥ ४४ ॥ बलरिपुहरिदेषा रक्तसन्ध्याम्बर श्री
रविमयमणिदीपं रथ्यदुर्वासमेतम् । गगनमहितपाले कुर्वती भाक्षताव्ये
प्रगुणयति निकामं देवि ते मङ्गलानि ।। ४५ ॥ देवि त्वदीयकचडम्बरचौर्यतुङ्गा
भृङ्गावली सपदि पङ्कनबन्धनेषु । राज्ञा निशासु रचिताद्य विसृष्टहृष्टा
___ त्वां स्तौति मञ्जुलरवैरुररीकुरुष्व ॥४६ ॥ पयोजधूलीपरिवूसराङ्गः पक्षी विधूयाद्य वियोगखिन्नः । कोकः स्वकान्तां परिरभ्य तस्या वक्ने स्वचचुं कलयन्विभाति ॥ ४ ॥
हंमतलमयीं शय्यां हंसीव सिकताततिम् ।
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाव्ये
चान्द्री कलेव शुभ्राभ्रपाई देवि जहीहि भो ।। ४८ । इत्यादिप्राबोधिकपद्यालापैर्मङ्गलवाद्यनिनादैश्च कादम्बिनीकलकलैः केकिकान्तेव स्वप्नेन प्रबुद्धपूर्वापि सा प्रबुद्धा विधाय च प्रत्यूषकत्य मभ्यग्रमभ्येत्य कृतवैभातिकविधये महासुधिये गुणमन्धराय सत्यंधराय निजकान्ताय महीकान्ताय स्वप्नोदन्तमिमं निवेदयामास ।
आर्यपुत्र जितामित्र दृष्टाः स्वप्मास्त्रयो भृशम् । वाचालयन्ति मां चूतकोरकाः कोकिलामिव ॥ ४९ ॥ आर्यपुत्र सुत्रामविभव विभावर्याः पश्चिमे यामे कश्चन तरुरशोकोऽपि केनचित्कुठारपाणिना छेदनशोकं प्रापितो जातश्च हाटकमकुटवटितो बालाशोकविटपी तत्परिसरेऽष्टापि माला दृष्टा इति ।
तमिमं स्वप्नोदन्तमाकर्ण्य, विचिन्त्य च शुभाशुभोदर्कफलम्, आत्मापायशङ्काशङ्कनिचितचेतनो हर्षशोकरसोन्मन इव चन्दनविषरसाभ्यां मनस्यालिप्त इव कमलिनीकण्टककमलदलकलितपक्षः सित पक्ष इव स्थितोऽपि, अहार्यधैर्यचातुर्यावगाढमतिरयमम्भोनिधिगम्भीरः कुम्भिनीपतिरशुभफलमाद्यस्वप्नं मनसिरुत्य शुभफलं स्वप्नद्वयमन्तःकृतक्षुद्रदन्तो दन्तावल इव दन्तयुगलमुदश्चयामास ।
पुत्रं नृपालतिलकं कुलरत्नदीपं __ प्रामोषि देवि सुररानदिशेव सूर्यम् । दृष्टो यतः समकुटो नवबालवृक्षः
___ कान्ता भवन्ति खलु तस्य तदष्टमालाः ॥ ५० ॥ श्रुत्वा च देवी श्रवणायताक्षी पत्युर्वचः सा पुनरावभावे। जिज्ञासते मे हृदयं प्रियाद्यस्वप्नस्य साध्यं प्रतिपादयाद्य ॥९१!
इति निजवल्लभाप्रश्नमौदासीन्येनोत्ररयति महीवलभे. तदितिज्ञा सा कुरङ्गलोचना, तरङ्गितदुःखपूरपरिमिलितान्तरङ्गा करिनितम्बिनीब
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः ।
गिरिनितम्बान्निजासनान्निपत्य भुवि लुठन्ती, स्वात्मनि दुष्पूरतया बाष्पव्याजेन प्रवहता दुःखपूरेण बहिःप्लावितयेव चेतनया विमुमुचे । तावन्निजकान्ताचेतना परिमार्गणायेव गतया संज्ञया विनिर्मुक्तो नरनाथोऽपि कथंचिल्लब्धसंज्ञः प्राज्ञाग्रेसरः कथंकथमपि राज्ञीमुत्थाप्य तीरातीतशोकपारावारमध्ये लवविप्लवविवशायास्तस्याः पोतायितं वचनजातमुत्तरङ्गयामास ।
स्त्रमेन दृष्टेन सरोजनेत्रे किं मां विनष्टासुमितस्तनोषि । संत्रातुकामाः खलु साधुवृक्षं नराः कदाचिन्न हि निर्दहन्ति ||१२|| किं कल्पते कुरङ्गयाक्ष शोचनं दुःखशान्तये । आतपक्लेशनाशाय पावकस्य प्रवेशवत् ॥ १३ ॥
ततो विशालाक्षि निशाकरास्ये धर्मो विपन्नाशनमातनोति । सूरो यथा स्फारहिमप्रणाशं चन्द्रो यथा संतमसस्य नाशम् ||१४|| इत्यादिसान्त्ववचनैः कान्तां परिसान्त्वयन्लब्धाश्वासया तया समं यथापुरं नरपतिर्विषयसुखपारवश्येन रममाणः कानिचिदहान्यतिवाहयाञ्चके |
ततश्च विषयसुखपरवशस्य विशांपतेः स्वमवृत्तान्तप्रबोधनायेव सा नरपालसती, महाकविभारतीय गभीरार्थम्, शारदाब्जसरसीव राज. हंसम्, रत्नाकरवेलेव मणिम्, पुरन्दरहरिदिवेन्दुमण्डलम्, गिरिगुहेव सिंहकिशोरम्, हेमकरण्डिकेव रत्नम्, सिन्धुशुक्तिकेव मुक्ताफलम्, गर्भ बमार ।
तदा हि तस्या वदनाम्बुजातं गर्भार्भकस्येव यशोविलासैः । अल्पैरहोभिः परिपाण्डरत्वमवाप चन्द्रेण च सर्वसाम्यम् ||१५|| यथा यथासीदुदरं विवृद्धं तथा तथास्याः कुचकुम्भयुग्मम् ॥ श्यामाननत्वं सममाप राज्ञा स्वमस्य पाकादनुतापकर्त्रा ॥ १६ ॥
For Private And Personal Use Only
१३
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये संवृद्धमुदरं वीक्ष्य तत्स्तनौ मलिनाननौ । न सहन्ते हि कठिना मध्यस्थस्यापि संपदम् ॥ ५७ । श्यामाननं कुचयुगं दधती वधूः सा
पाथोजिनीव मधुपाञ्चितकोशयुग्मा । पङ्कास्यसमिथुना सरसीव रेजे
लोलम्बचुम्बितगुलुच्छयुगी लतेव ॥ १८ ॥ अन्तःस्थशिशुगाम्भीर्यं दृष्ट्वास्या नाभिमण्डलम् । लज्जयवाद्य तत्यान गाम्भीर्य भूभुजा समम् ॥ ५९ ॥ मध्यदेशश्चकोराक्ष्याः शिशुना बलिना तदा । भक्त्वा वलित्रयं राज्ञस्तापेनाभूत्समं गुरुः ॥ ६ ॥ नीलाब्नानि जितान्यासञ्जय्यमद्य सिताम्बुजम् । इतीव देव्या नयनयुगलं धवलं बभौ ॥ ६१ ॥ तावत्सदोहलां महिलामिमां दृष्ट्वा स्मृत्वा च दुःस्वप्नफलं पश्चात्तापपराहतस्वान्तो महीकान्तोऽयमात्मरक्षणपरायणश्चिन्तामेवमकरोत्। दुष्कर्मपरिपाकपराभूततया मया विषयानुरागापथ्यसेवनेनातिलचितानिसचिववचनसंञ्जीवनौषधानि । अथवा स्तमनयास्थानपतितयां गत. जलसेतुबन्धनसकाशया वाञ्छया। किंतु फलकालिककलिकापचयवाञ्छेदोपहास्यतां प्राप्नोति ।
एवं विचिन्त्य धरणीरमणस्तदानीं
वंशस्य रक्षणविधौ परिक्लप्तचित्तः । आस्थां यशस्युपरतिं च शरीरवृत्ती
कुर्वन्नचीकरदसाविह केकियन्त्रम् ॥६२॥ मेवावलिः सुखकरी स्वसमाननाम्नां
वर्षासु मतशिखिनां शिखिनाशहेतुः ।
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः ।
इत्थं विचिन्त्य किल कल्पितकेकियन्त्रं
राज्ञा विनुन्नमचरदनसनेिधाने ॥ ६३ ॥ राजा च राजवदनां महिषी विधाय __ यन्त्रे तदीयवनकेशविनिर्जिताभ्रम् । संद्रष्टुकाम इव दौहृदकाललीलां
संभोक्तुमभ्रसरणौ विनहार धीरः ॥ ६४ ॥ तावत्स दुराचारः काष्ठागारः, काष्ठान्तरेषु शान्ताङ्गारसकाशभासं राजघः कृतन इत्याद्ययशोविलासं समाजयन्, संमार्नयंश्च सकलहितवृत्तिम्, राजद्रोहनियन्त्रितचित्तो निनान्तःकरणे चिन्तयामास । लोके पराधीनं जीवितं परमोत्कृष्टपदवीमवाप्तमपि सरसमोचाफलनीचेतरमधुरक्षीराद्युपचारपरिलालितपञ्जरबद्धशुकशाबकजीवनमिव विनिन्दितम्, निजबलविभवसमानितमगेन्द्रपदसंभावितस्य कुम्भीन्द्रकुम्भस्थलपाटनपटुतरखरनखरस्य मृगेन्द्रस्येव स्वतन्त्रजीवनमविनिन्दितमभिनन्दितमनवद्यमतिहृद्यम्, इति ।
इत्यं मनसि संचिन्त्य कृतघ्रः सचिवैः सह ।
संमन्त्रयितुमारेभे राजद्रोहपरायणः ॥६५॥ भवतां वचसां पदं प्रदातुं मम वाणी पुर एव संनिधत्ते । नवनाटकवस्तुसंकथानां पुरतो रङ्गभुवं गता नटीव ॥ ६६ ॥ राजद्रोहसमुद्यतं प्रतिदिनं दैवं हि मां बाधते
द्रोहं राज्ञि समाचरेति तदिदं किं वा सुखान्तं भवेत् । यहा दुःखफलं ममेति हृदयं डोलायते मन्त्रिण
स्ततर्कप्रतितर्कणैर्नियमितैनिश्चयमन्यादृशैः ।। ६७॥ वक्तुं निवर्तमानाऽपि हियैतत्परिनिन्दितम् । देवतस्य भयादेव प्रहा जिह्वा प्रवर्तते ॥१८॥
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधाचम्पुकाव्ये
इत्थं कृतावहित्थात्काष्ठाङ्गारवचनबन्धात्सत्कुलप्रसूता इव वननीयात्, यमिजना इव प्राणिगणपरिपीडनात्, हरिणशाबका इव दावानलज्वालात, राजहंसा इव बनाघनघनगर्जितात्, दरिद्रा इव दुर्भिक्षयोगात्, सभास्तारास्तत्र तत्रसुः । तत्र राजनयराजितचितो धर्मदत्तसचिवस्तभूचिवान् । स्वामिभक्तिपरिवर्धितवाणीमात्मजीवितविनाशरूपाणीम् ।। ६९ ॥ प्राणा नृपालाः सकलप्रजानां यतेषु सत्स्वेव च जीवनानि । भूपेषु या दोहविधानचिन्ता सर्वप्रजास्वेव कृता भवित्री ॥ ७० ॥
समस्तपातकानां हि सामानाधिकरण्यभूः । राजद्रुगेव भविता सर्वद्रोहित्वसंभवात् ।। ७१ ।। राज्ञो विरोधो वंशस्य विनाशाय भविष्यति ।
ध्वान्तं राजविरोधेन सर्वत्र हि निरस्यते ॥ ७२ ॥ हर्षाय लोकस्य धराधिनाथः क्लिश्नाति नित्यं परिपालनेन । छायाश्रितानां परिपालनाय तरुर्यथानोति रविप्रतापम् ॥ ७३ ॥
इति नीतिविदां वरिष्ठस्य सचिवप्रेष्ठस्य वचनं पित्तोपहत इव मधुरतरक्षीरं राजद्रोहगुरुद्रोहादिषु बद्धान्तरङ्गः काष्ठागारः स्वहितं मनमि न चकार, चकार च विकारजनितविद्वेषम् ।।
स्यालस्तदीयो मथनाभिधानो वाणी कृतनस्य हिताममंस्त । काकः स्फुरनिम्मफलप्रसूतिमास्वादनीयां बहुमन्यते हि ।। ७४ ॥
अथ सोऽपि काठाङ्गारस्तत्काल एव नरपालनिघांसानिधः कृतनः करटतटविलुठन्मदधाराव्याजेन बह्वीः कल्लोलिनीरुद्वमद्भिरिव धराधरैगन्धसिन्धुरैः सैन्यसागरतरङ्गैरिव रङ्गत्तुरङ्गै रयविजितरविरथैरमितरथ नचन्दनतरुकोटरान्निर्गच्छन्ती नगीरिव रूपाणीलताः समुद्वद्भिः पादानः परिशोभमानां सेनां नरेन्द्रमन्दिररोधनाय समादिदेश ।
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः ।
समुन्ज नृम्भे संभूतस्तदा दुन्दुभिनिस्वनः ।।
धुन्वन्निव धरामदींचालयन्दलयन्नभः ॥ ७५ ।। ततो नटटाटोपघटितभुजास्फोटचटुलरवनिष्टुरेण मदवारणकण्टरवघण्टाघोषभैरवेण कण्ठीरवरवकुण्ठनपटुपोषितहयहेषितभीषणखरतरखुरपुटबटनकुहिमजनितकठोरध्वनिनिर्भरेण पदातिततिपादाहतिप्रोद्भूतभूरिभरवभीकरण सन्ततपरिस्पन्दन्मदमन्दवेगस्यन्दनचक्र चीत्कारमेदुरेण धानुष्ककरकलितधनुष्टंकारकर्कशेन प्रतिध्वानितकुलाचलकन्दरकुलेन कोलाहलेन भरितं तस्य बलं भूपतिभवनमुपररोष।
दौवारिकस्य वचनादुपरोधकृत्य
माकर्ण्य कर्णपरुषं पुरुषाधिराजः । रोषेण चूषितशुचा स हि धीरधीरः
पञ्चाननासनतलादुदतिष्ठतायम् ॥ ७६ ।। तावत्प्रतिष्ठमानं प्राणकान्तमनुसृत्य कृतप्रयाणान्प्राणान्परिमार्गितुमिव भूमों निपतितां तां निर्भरगर्भभरतान्तामालोक्य पुनन्यवार्तष्ट नरवरिष्ठः ।
प्राबोधयञ्च पृथ्वीशः कथंचिल्लब्धचेतनाम् ।
देवी ज्ञानं हि दुःखाब्धितरणे तरणीयते ॥ ७७ ॥ शम्पानिभा संपदिदं शरीरं चलं प्रभुत्वं जलबुद्दाभम् । तारुण्यमारण्यसरित्सकाशं क्षयिष्णुनाशो हि न शोचनीयः।।८।।
संयुक्तयोर्वियोगो हि संध्याचन्द्रमसोरिव । रक्तयोरपि दंपत्योर्भविता नियतेर्वशात् ॥ ७९ ॥ वन्धुत्वं शत्रुभूयं च कल्पनाशिल्पिनिर्मितम् । अनादौ मति संसारे तवयं कस्य केन न ॥ ८ ॥
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पूकाव्ये
इति नरनाथवचनपरिपाटी निष्टतलोहपतितवारिधारेव शोकानलज्वालालीढे देव्या मनसि किंचिदप्यार्द्रतामनापादयन्ती निर्दग्धभृम्युप्तबीजराजिरिव विफला बभूव ।
राजा समारोप्य शिखण्डियन्त्रमापन्नसत्वां सरसीरुहाक्षीम् । संभ्रामयामास च मेघमार्गे हा हा बत क्रूरविधेर्विपाकः ॥ ८१ ॥ अथ कलापियन्त्रे वलाहकमार्गमधिरूढे, मृगेन्द्र इव मिरिक - न्दरान्मन्दिरान्निर्गत्य, निखिल परिवारविकलो वसुधापतिरसहाय एव रणाङ्गणमवतीर्य, धैर्यावगाढहृदयस्तत्राभ्यमित्रीणं शात्रवमन्त्रिणं संगरसंनद्धं निध्याय, क्रोध परतन्त्रितचित्तो योहुमुपचक्राम ! चण्डवात इवाम्भोदान्मण्डलाधिपतिर्भटान् । निनाय कान्दिशीकत्वं पञ्चाननपराक्रमः ॥ ८२ ॥ जिगाय मन्त्रिणं वीरो जनानामधिपस्ततः । जन्या जिराभ्रतिग्मांशुर्जय श्रीप्राणवल्लभः ॥ ८३ ॥ अथ काष्टाङ्गारोऽपि संगरे निजामात्यभङ्गं निशम्य, तरङ्गितक्रोधकुटिलितभ्रुकुटीविटङ्कः सामजसमाजवाजिपादातशबलेन बलेन सनाथो नरनाथमभिगम्य, बहुधा युद्ध्वा वैराग्यायत्तचित्ततया प्राणिगणवधविरतं तं वयस्य इव स्वःस्थतां निनाय । स्वर्गं भूपो राजहा राज्यलक्ष्मीं मेरीशब्दः श्रोत्रदेशं च देव्याः । पौराः शोकं पण्डिताः स्त्रीविरक्ति जन्यं शान्ति यौगपद्यात्प्रपेदे ॥ ८४ ॥
-
ततश्च कुणपकलनार्थं मिलितनिःशङ्ककङ्ककाकसङ्कुलमभ्यर्णसंज्वलच्चिताच कज्वाला संतप्ततया निजाग्रभागसमारोपितपाटच्चरगलनिरर्गलनिर्गललोहितधारासंसर्गसंजात चुका रिधूम्य सञ्छादितैः शूलैः समाकी
सामिदग्धं शवं चिताहुतवहादाकृष्य खण्डशो विच्छिद्य खादन्तीनां डाकिनीनां कोलाहलेन कटाग्रिदह्यमाननुकरोटिपटुचटात्कारेण च
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः ।
भीकरं तत्पुरप्रेतागारमवलोकमाना सा नरदेवमहिषी मूर्छापहृतचेतना बभूव । .
अनानती कश्मलपारवश्यात्प्रसूतिपीडां नरपालनाया । मासे तदा वैजनने दिनेऽस्मिन्प्रासूत सूनुं तपनं यथा द्यौः ।।८।।
तदा जनकराज्यश्रीर्दष्टुं मूर्तिमिवास्थिता । सुतस्य भाग्यसंपदा देवता काचिदागता ॥ ८६ ।। दिशि दिशि विसरद्भिः पुत्रतेजोविलास.
बहलतिमिरजाले नाशिते तत्क्षणेन । विलसितमणिरूपा देवताक्लप्तरूपाः
सुतरुचिपरिभूता मङ्गलार्था बभूवुः ॥ ७ ॥ तस्या मुखेन्दोरवलोकनेन शोकाम्बुधिवृद्धिमवाप देव्याः । अभ्यग्रभावः किल बान्धवानां सुखस्य दुःखस्य च वृद्धिहेतुः ॥८॥ __ हा मनोजाकाररूप हा महागुणमणिहीप हा मानसविहारराजहंसस्वरूप हा मदनकेलिचतुरभूप मम प्राणैकरूप क्वासि क्कासीति विलपन्ती शोकविषमोहिताङ्गी लताङ्गी तां देवतापि लोकोत्तरतोकोतममहिमवर्णनपीयूषपरिषेचनेन समुन्जीवयन्ती सुवर्णसवर्णेषु तदीयाङ्गेषु लसदूर्णाप्रमुखविलक्षणलक्षणप्रदर्शनेन प्रत्याययन्ती तनुजवर्धनोपायचिन्तासंतमसदूरीकरणधीरतरमित्थं गिरमुत्थापयामास ।
पुत्रस्य वर्धनविधौ विजहाहि चिन्तां ___ संवर्धयिष्यति सुतं तव कश्चिदेनम् । चन्द्रश्चकोरमिव चूततर्यथा वा
बालं पिकं कमलिनीविसरो मरालम् ॥ ८९ ॥ तदात्व एवात्र मृतं तनूनं विमृज्य गन्धोत्कटवैश्यनाथः ॥ योगीन्द्रवाक्यस्मरणेन सूनुं गवेषयन्लोचनगोचरोऽभूत् ।। ९० ॥
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाध्ये
तं दृष्ट्वा देवतावाक्यं प्रमाणं निश्चिकाय सा ।।
संवादेन हि सर्वेषां प्रामाण्यमवगम्यते ॥९१ ॥ ततो महीकान्तकान्ता, निजान्तरङ्गरविकान्तजाज्वल्यमानप्रियविप्रयोगशोकानलकीलाकलापं तनयसुन्दरवदनचन्दिरालोकेन शमयिध्यन्ती, सरोजलोद्धृतशफरीव विना शिशुना स्थातुं क्षणमपारयन्त्यपि देवतावचनजनितविस्त्रम्भभावेन गत्यन्तराभावेन च गन्धोत्कटश्रेष्ठिसमर्पणाय कथं कथमप्यनुमतिमापाद्यमाना, स्वभावत एव समु. द्रमपि निर्निद्राणतेजसां पुत्रं पित्रीयमुद्रया समुद्र विधाय, विधाय । पुरतो, देवतया सह सहसान्तरधात् । पितृवनवनमध्ये बालसूर्यप्रकाशं
सुतमतिवितताभ्यां लोचनाभ्यां पिबन्सः । तृषित इव सरोऽम्भश्चातको यद्वदभ्र. . प्रमृतनलकणालिं नातृपद्वैश्यनाथः ॥ ९२ ।।
अयं च, एघोऽन्वेषिजन इव महानिधि महीशसुतमासाद्य, सद्य एवाङ्कुरितपुलकापदेशेन हृदयालवालसंजातमञ्जुलमोदलताकोरकानिव बिभ्राणः, प्रीतेः परां कोटिमात्मजं चादधानः, तदङ्गस्पर्शसुखपारवश्येन प्रमदजलनिधिमन्न इव, हृदयान्तरे मलयजरसलिप्त इव, हिमवालुकादीर्घिकानिमज्जन्मूर्तिरिव, मोहाक्रान्त इव, निद्राण इव, मत इव, परिमूढेन्द्रियगण इव, निमीलितचैतन्य इव, आनन्दपरंपरायाः परां काष्ठामातिष्ठमानो, जीवेत्याद्याशीर्वचनमाकर्ण्य, तमनङ्गरूपधेयं महाभागधेयमङ्गजं तन्नामधेयेनालंचकार ।
ततः स्वकीयावसथं समेत्य वणिक्पतिः कुद्ध इवाबभाषे । जीवन्तमप्यात्मजमद्य मत्ते विना परीक्षां मृतकं किमात्थ ।।९३।।
यहा संभ्रान्तचित्तानां वनितानां स्वभावतः ।
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः ।
युक्तं न किं कुमारस्य मारान्तत्वप्रकल्पनम् ॥९४ ॥ इत्यादिवचनसायकेन निजनायकेन समर्पितं नयनानन्दनं नन्दनं सुनन्दापि समाददाना तदङ्गसौष्ठवकलावलोकनजनितदृष्टिदोषपरिहारायेव तरलतरकटाक्षनीलोत्पलदाममेचकरुचिवीचिकाविचितमातेने । पायंपायं नयनचषकै रूपलावण्यलक्ष्मी
सौधों धारां प्रकृतिमधुरां वैश्यनायापती तौ । स्पर्शस्पर्श कसममृदुलं विग्रहं तस्य सूनो
स्तृप्ति प्राप्यानितरसुलभां प्रापतुर्विस्मयाब्धिम् ॥ ९५ ॥ देवता च महिषीतनुवल्लयाः साम्यमाश्रमलतास्विव द्रष्टुम् । बान्धवालयपराङ्मखीमिमां दण्डकावननिवासमनैषीत् ॥ ९६ ॥
अथ समीहितार्थसिद्धिजनिततोषकलितायां देवतायां सव्याजमन्तहितायामियं च राजपत्नी नैजमानससरोवरे सन्ततविकचजिनपादपयोनविशोभिते नन्दनराजहंसं संक्रीडयामास ।
या हंससतूलशयनस्थलतान्तवृन्त.
छेशासहा पुरि पुराजनि काननान्ते । दर्भेषु हन्त शयनं बहुमन्यते स्म
सा मालतीकुसुमकोमलगात्रवल्ली ॥९७ ॥ पुरेऽपि मानिनीवारतोषितायाः सतीमणेः ।
काननेऽजनि नीवारोऽप्याहारोऽस्याः किमद्भुतम् ॥ ९८ ॥ सावन्नन्दनसमागमसंजातमोदबन्धोत्कटेन तंतन्यमानं महोत्सव. सार्थमात्मार्थ गणयता सकलसद्धर्मपरमकाष्टाङ्गारेण काष्ठाङ्गारेण दापितमर्थजातं तत्क्षणजातैस्तदाज्ञासमानांतरितरैरपत्यैः सह लब्ध्वायमूरुजपतिरितरात्मजैः समं निजात्मजमविशेषेण वर्धयामास ।
यथा यथा जीवकयामिनीशो विवृद्धिमागाद्विलसत्कलापः ।
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये तथा तथावर्धत मोदवाधिरुद्वेलमूरव्यनिकायभर्तुः ॥ ९९ ॥
उत्तानशयने विभ्रन्मुष्टिं तुष्टिकरः सुतः । उद्यत्कुड्मलयुग्मश्रीपद्माकरतुलां दधौ ॥ १० ॥ मुग्धस्मितं मुखसरोजगलन्मरन्द.
धारानुकारि मुखचन्दिरचन्द्रकाभम् । पित्रोः प्रमोदकरमेष बभार सूनुः
कीर्तेर्विकासमिव हासमिवास्यलक्ष्म्याः ॥१०१ ॥ पयोधरं धयन्सूनुः पयो गण्डूषितं मुहुः । उद्गिरन्कीर्तिकल्लोलं किरन्निव विदिद्युते ॥ १०२॥ सञ्चरन्स हि जानुभ्याममले मणिकुटिमे ।
प्रतिबिम्ब परापत्य बुद्धया संताडयन्बभौ ॥ १०३ ॥ क्रमेण सोऽयं मणिकुटिमाङ्गणे नखस्फुरत्काञ्चिझरीभिरश्चिते । स्खलत्पदं कोमलपादपङ्कजक्रमं ततान प्रसवास्तुते यथा ॥१०४॥ तावत्सुनन्दापि जलगर्भेव कादम्बिनी रत्नगर्भेव वसुमती फलगर्भेव वल्लरी तेजोगर्भेव शुनासीरकाष्ठा श्रेष्ठिसती शनैरन्तर्वत्नीधुरामाविभ्राणा क्रमेण नवमासेष्वतीतेषु नन्दान्यं नाम नन्दनं जनयामास ।
तत्सौभ्रात्रेण विभ्राजन्मन्मनालापलालितः ।
जीवकस्तनयैरन्यैर्मुदा चिक्रोड पांसुषु ॥ १०५ ॥ अथ पञ्चमे वयसि सञ्चरन्प्रत्यक्षपञ्चशरः समुदञ्चितव्यक्तवचनप्रपञ्चः स्वयमागतस्य सकलकलाकल्लोलिनीशैलस्यार्यनन्दिनामधेयस्याचार्यवर्यस्योपकण्ठे कण्ठीरवकिशोराकृतिरयं प्रत्यूहव्यूहपरिहाराय परिकलितसिद्धनमस्यः सिद्धमातृकाप्रसिद्धां सरस्वती परिशीलयामास ।
लेभे जीवंधरो वाणी क्रमनिर्जितसिन्धुरः ।
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयो लम्बः ।
नमस्यत गुरुं सोऽयं मनस्यामितभक्तितः ॥ १०६ ॥ इति महाकवि हरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे सरस्वतीलम्भो नाम प्रथमो लम्बः ।
द्वितीयो लम्बः ।
Acharya Shri Kailassagarsuri Gyanmandir
*
अथ हृद्यतमं किंचन विद्यासदनमासाद्य वयस्य संसदवतंसितं, जीवंधरः सकलकलाकलापैरपरकला विलुब्धैरिव स्वयं निवासगृहतया परिगृहीतादखिलपण्डिताखण्डलादस्मादाचार्यवर्यादखिलाः कलाः, वसन्तादिव वनप्रियः कलरवलीला : घनसमयादिव के कतरुणः केका, अध्यगीष्ट ।
M
तच्चित्ताम्बुजमापेदे सूर्योलोकाद्विनिद्रताम् ।
प्रासूत च कलाजालमकरन्दझरी ततः ॥ १ ॥ समस्त विद्यावनितासमागमे निरस्तविद्या गुरुभक्तिरेव । विलोभनीयस्य वधूभिरन्ततः सुतस्य तस्य प्रबभूव दूती ॥ २ ॥ पराभूते जीवंधरशशभृता पर्वशशिनि कलाचातुर्गुण्याद्विलसदमृतं वाचमगमत् ।
मुखं कान्तिः प्राप्ता सकलजगदानन्दकरता
तदीयाङ्गं प्रापत्पदनखमभूत्सोऽपि शशभृत् ॥ ३॥ इति निजविद्याललितलतामस्य हृदयालवालपल्लवितामवलोक्य, प्रीतेः परां काष्ठामधितिष्ठमानः प्रसन्नचित्तवृत्तिरयं सूरिः, एकदाविजने निजप्रान्तमावसन्तमन्तेवासिनमित्थमचीकथत् ।
"
श्रुताम्बुधः पारगत शृणु त्वं प्रवीण कस्यापि चरित्रभावम् । अवाप्य यः श्रोत्रपथेन चित्तं दयानटीनर्तनसूत्रधारः ॥ ४ ॥
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पकाव्ये
विद्याधराणां विनिवासलोके कालं नृपः कश्चिदजीगमद्यः । कृत्येन नाम्नापि च लोकपालो विद्याधरोऽभूद्विबुधेश्वरोप || ५ || एकदा महीपतिरयमुदयशिखरिशेखरं हरिदश्व इव हर्यसनम लङ्कुर्वन् गगनजलधिजलनीलीपटलमिव वियद्वनविहरमाणस्तम्बेरममिव सुरलोकसमारोहणार्थमाकलित सोपाननीलोपलमिव कंचन जलधरं नीलमपि नयनेन पतिमातन्वन्, क्षीवाणां क्षितिपानामैश्वर्यं क्षणक्षीणमिति बोवयन्तमिव तत्क्षणमन्तर्हितमवलोक्य निजनन्दनक्षिप्तराज्य: भारो विजृम्भितवैराग्य साम्राज्य प्रतिष्ठामधितिष्ठन्, सकलसांसारिकदुःखशमनदीक्षां जैनी दीक्षामाससाद |
तपांसि भूपः स हि तप्यमानस्तपस्यया प्रापितरुग्विलासः । विपाकतः सञ्चितकर्मणां तद्रुगन्तरं भस्मकमाटिटीके ॥ ६ ॥ तदनु दिने दिने प्रवर्धमानं भस्मकरोगमल्पेन तपसा विस्फुलिङ्गेनवार्द्रेन्धनं खद्योतेनेव संतमसं नखरञ्जिकयेव महारण्यं शमयितुमशक्नु बानः पूर्वं राज्यमित्र तपःसाम्राज्यमपि परित्यजन्, पाषण्डितपसा समाच्छादितः, स्वैराहारान्नाफल इव गुल्मान्तर्हितो विष्किरान्समाददानो यथेष्टमवर्तिष्ट ।
तदनु नगरारामं सोऽयं जगाम दृढक्षुधा क्वचिदविरलै रक्ताशोकोल्लसन्नवपल्लवैः । विशदवियतः सन्ध्यारागाश्चितस्य सुलक्षणं
क्वचन कुसुमैरन्यारामान्हसन्तमिवस्थितम् ॥ ७ ॥ यस्मिन्पिके पञ्चममञ्जगानं समाश्रिते मन्दमरुद्धकुंसः । आनाटयत्याततभृङ्गनादकलारवां लोललतावधूटीम् ॥ ८ ॥ यच किल कुत्रचिन्निरन्तरनिष्पतत्पुष्पपरिष्कृततया वनदेवतासमारावनाय विस्तृतदुकूलसंस्तरणामिव विभ्राणः क्वचन कुसुमासत्रपान
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो लम्बः ।
मतमधुपान्धीलततया समुदञ्चिताञ्जनपुञ्जमिव संदधानः, क्वचिदतिविततकथेलीपल्लतल्लनरुचिझरीविराजिततया निनानुरागं प्रकटय निव, वचन विकचकोकनदकान्तिसंक्रान्तसरोवरशेभिततया कुङ्कुमसोदझरमित्र समाकलयन, कुत्रचन डोलार्थमिव लताप्रतानमातन्वन्नदृश्यत ।
सुनान्तरैस्तत्र समाचरन्तं क्रीडां भवन्तं स हि संददर्श । नक्षत्रवृन्दैः परिशोभमानं यथा सुराणां पथि बालचन्द्रम् ॥१॥ कियद्विदूरं पुरमित्यनेन प्रष्टो गिरं वं मधुरामुवक्थ । मुखे उम्बुनभ्रान्तिपतविरेफांस्तन्वन्सितान्दन्तमणिप्रभाभिः ॥१०॥
नगरोपवने बालक्रीडासमवलोकनात् । पुरमासन्नवृत्तीति वृद्धो नानुमिनोति कः ॥ ११ ॥ धूम दर्शनतो वह्नि नावगच्छति कः पुमान् ।
शीते वाते समायाते कः समीपे जलस्थितिम् ॥ १२ ॥ इत्यादिवचनपीयूषधारासंसेकेन त्वदीयरूपलक्षणसंपदवलोकनजनितसुखबीजेन च हृदयालवालजनितप्रीतिप्रतानिनी तावकान्वयनिश्चयेन पुष्पितां चिकीर्षु दुर्धर्षजाठरदहनवाधां शिशमयिषुमाहारयाजापरतन्त्रितमानसमेनं कुहनातापसं भवान्भवनमानीय तदीयभोजनको पारोगवमादिदेश । ..
तदनु त्वयि भोगनायं यत्नं कृतवत्यारभतान्नमेष भोक्तुम् । तव वाङ्मयगोस्तनीविमिश्रं मुखशोभामृतपानकं पिपासुः ॥१॥
तावदर्भकस्वभावेन सर्वमुष्णमिदं कथं भुओ हमिति रोदनवशेन नयनकायुगसञ्जातमकरन्दपूरकानुकारिणीभिर श्रुधाराभिनयन. केमलवास्तव्यलक्ष्मीवक्षःस्थलस्थपुटितमालामुक्ता इक किरन्तं भवन्तं समीक्ष्य, भिक्षुरयं विश्वातिशायिमतिमहिममहितस्य भृशमपरोदन
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्प्रकाव्ये
निदानस्यापि तव रोदनं कथमिति चित्रभित्तीयते चित्तमित्याबभाषे ।
श्रुत्वा वाणीं तस्य मन्दस्मितेन तन्वन्निर्यत्क्षीरधारेति शङ्काम् । इत्थं वाचामाचच भवान्वै मोचामाध्वीमाधुरीमादधानाम् ॥ १४ ॥ श्लेष्मच्छेदो नयनयुगलीनिर्मलत्वं च नासा
शिङ्खाणानां भुवि निपतनं कोष्णता भोज्यवर्गे । शीर्षाबद्ध भ्रमकरपयो दोषबाधानिवृत्ति
रन्येऽप्यस्मिन्परिचित गुणा रोदने संभवन्ति ॥ १९ ॥ इति वचनमयसुधां श्रवणपुढे सिञ्चता भिक्षोरपारबुभुक्षासमीक्षणजनितवैलक्ष्यप्रापितजोषभावेन करुणावरुणालयेन भवता वितीर्णम्, शय कुशेशयकररुहरुचिसुरसरिड्डिण्डीर खण्डायमानम् करकरूपतरु स्तवकशङ्कावहं नखचन्द्रैः सह परिचयाय समागतचन्द्रविम्वसंभावनासंपादकम्, आशातरङ्गिणीशोषणशारदसमयखण्डायितं करकवलमास्वाद्य, सद्य एव तृप्तिमापन्नः कर्मन्दी, संदीपितजठरदहनशमनेन महोपकारं मन्यमानः परमनन्यसामान्य सौजन्यतया परमोत्कृष्टफलां कलां तुभ्यं प्रतिपादयामास ।
विद्यावल्ली प्रात्रसुक्षेत्रदत्ता प्रज्ञासिता सूक्तिभिः पुष्पिता च । आशायोषित्कर्णभूषायमाणां कीर्तिप्रोद्यन्मञ्जरीमादधाति ||१६|| विद्याकल्पतरुः समुन्नतिमितः प्राप्तोऽपि गम्यो नतैः
पुष्पाण्यत्र समेत्य मञ्जुलमहोमुत्र प्रसूते फलम् । किंचायं खलु मूलमाश्रितवतां संतापमन्तस्तनोत्यूर्ध्व संचरतां नृणां पुनरसौ तापं धुनी तमाम् ॥ १७॥ इति गुरोरुदन्तमाकर्ण्य कर्णरसायनम्, मौनमेवोत्तरमादधानो, वदनवनजे मानससरसि च प्रश्रयमृणालीमधिमुखमादधतीं शैष्योपाध्याविकामराली खेलयन्, गुरुशुद्धिविज्ञानेन लब्धमणिपरिशुद्धिज्ञाने
-
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो लम्यः । नेव मोदजलधेः परं पारं गतोऽपि, गुरूपदिष्टे सागारधर्मसागरे ममज्ज सज्जनहृदयचन्दनो नन्दनः ।
रानु विजनं देशं नीत्वा गुरुः सुतपुङ्गवं
व्यवृणुत गिरा राजोदन्तं दुरन्तमिदंतया । विदितजनकोदन्तः सत्यंधरस्य सुतस्तदा
सुलभजनुषा रोषेणासीज्जगन्ति दहन्निव ॥ १८ ॥ : एवं गुरुवचनेन स्वस्थ राजपुत्रत्वं काष्टाङ्गारस्य राजहन्तृत्वं च निश्चित्य, समेधमानक्रोधधनञ्जयस्येव संदीपितशरानेरपि तमेनमिन्धनं चिकीर्षुः, क्रोधान्धगन्धसिन्धुर इव गुरुणा दुर्निवारसरभससन्नाहः सात्यंधरिः, बन्धुरयुद्धारम्भसंरम्भान्न विरराम । गुरुरपि तदीयदुर्धर्षामर्षविस्तारितसमरसंरम्भमवलोक्य, न पुनरयमन्यथा विरमतीति निश्चयमणि हृदयपुटपेटके निधाय, वत्स वत्सरमेकं क्षमैव मां गुरुदक्षिणा विधेयेति, कथंकथमपि सात्यंधेरेरायोधनसन्नाहसंधानं निवारयामास ।
न कार्यः क्रोधोऽयं श्रुतजलधिमनकहृदय
न चेयर्था शास्त्रे परिचयकलाचारविधुरा । निने पाणी दीपे लसति भुवि कूपे निपततां
फलं किं तेन स्यादिति गुरुरथोऽशिक्षयदमुम् ।। १९ ॥ इत्यादिनीतिपदवीमाशास्य, तमाश्वस्य, विश्वातिशायिनं पन्थानमास्कन्दितुममन्दादरमेदुरे तस्मिन्गुरुवरे गतवति तपोवनम्, पश्चिमपयोधिवेलावनमिव भास्वति, जीवंधरस्तत्स्मरणसंधुक्षितगुरुविरहशोकाशुशुक्षणि तत्वज्ञानपयःपूरेण निर्वापयामास । तावत्तारुण्यलक्ष्मीनृपतनयतनुं प्राप वल्ली यथा वा
पुष्पश्रीः पारिजातस्थितिमिव विबुधाशास्यवासन्तलक्ष्मीः ।
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
२
जीवधरचम्पुकाव्ये गङ्गेवाम्भोधिवेलां शरदिव शशिनो मण्डलीमब्धिपाली __ प्रातः सूर्यप्रभेवामलकुमुदवनी शारदी कौमुदीव ।। २० ॥
सौन्दर्यस्य परा काष्ठा शृङ्गारस्य परा गतिः ।
खनिः कलानां यस्यासीन्मूर्तिरानन्ददायिनी ॥ २१ ॥ यस्य च रूपमादिमोदाहरणं रूपसंपन्नदेहानाम, अधिदैवतं कान्तिसंपदाम्, संजीवनौषधं सौन्दर्यस्य, सङ्केतसदनं शृङ्गारस्य, जीवितरसः सारस्यसारस्य, केलीभवनं कलानाम्, शिक्षास्थानं नमविलासानाम, शृङ्गाटक संगीतविद्यानाम्, आकर्षणौषधमायताक्षीनयनानाम्, बन्धनगृहं युवतिजनमानसानाम्, सेचनकं सकलजनलोचनानाम्, अगोचरपदं कविवचनानाम्, अङ्कुरक्षेत्रं कीर्तिस्फूर्तीनाम्, आवासस्थलं जयलक्ष्मीविलासानाम्, आस्थामन्दिरं लक्ष्मीसरस्वत्योः, सञ्चरदिव सकलनयनसुखम्, सचेतनमिव' महीमहिलाभाग्यम्, साकारमिव प्रतापपटलम्, सजीवमिव गाम्भीर्यम्, सङ्घीभूतमिव शौर्यम्, सरूपयमिव कुरुवंशभागधेयम्, वेधसः सकलशिल्पनैपुण्यप्रदर्शनमुदजृम्भत । अथैकदा व्याष ननाधिराजो मारूति प्राप्त इवान्धकारः । रुत्येन नानापि च कालकूटः सेनायुतो गाः सकला जहार !! २२ ॥ ___ तड्नु गोपाकोशवशविदितवृतान्तः काष्ठाङ्गारोऽपि, असमानस्तामषज्ञां मृगाधिप इव शृगालकृतामसहमानः, अन्तर्दीप्यमानक्रोधा नलज्वालाभिरिव पाटलरुचिभिराक्रान्तवदनः, शात्रवनितम्बिनीगर्भसमाविर्भूतार्भकनिर्भेदनपटुतरभैरीभोकारैस्तिरोहितपारावाररवम्, काल. कूटापदेशेन पुञ्जीभूतस्य तिमिरस्य संहरणाय विधात्रा विरचितैरनेकविवस्वन्मण्डलमण्डितैरुदयाचलैरित कनकखेटककलितकुम्भस्थलेईन्तावलैः, संदानितलोहावलीनवदनविलनिर्गलल्लालानलफेनिलानन
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो लम्बः ।
"
-
..
नया जन्यानिरकरिष्यमाणसपत्नयशःपानमनुकुर्वद्भिरिवादिः, स्थकड्यया, पादातेन च, समधिकमनीकम्, कालकूटवलपाटनाय प्राहिणात्।
वरूथिनी वीक्ष्य स कालकूटः स्वकं पुरोधाय बलं चचाल | प्रत्ययिसैन्यं परितो दिधक्षुः कोपाग्निना मृत्युरिव क्षणेन ॥२३॥ तदनु मिलितं सैन्यद्वन्द्वं बलादुपचक्रमे
रूपरमतुलं पत्रिवातैर्विदीर्णपरस्परम् । चलदसिलतावाभिने भकुम्भविनिर्गल
माणगणविभापूरे रजोन्धितमप्यलम् ॥ २४ ॥ तदानीम्, अमित्रकरकलितमण्डलामखण्डितगण्डतलनिःसरदसृग्धाराराजितगनतायां गैरिकधातुनिःमृतनिझरशोभितोभयभागधराधरानुकारिण्याम्, घनकीलालपङ्किलसमराजिरे निजखुरनिमज्जनशङ्कयेव गगनगमनतुङ्गेषु निषादिननविषादभङ्गेषु तुरङ्गेषु नान्नेव कृत्येन च मदोत्कटकरटिघटायां हरिरिति विख्याति प्रख्यापयत्सु, करलाघववशेनालक्ष्यशरसन्धानमोक्षणकालेषु सदा समारोपितशरासनतयालेख्यलिखितेप्विव धानुप्केपु पदगगनतल चराचरकरालकरवालखण्डितमस्तनिकोप्वतिदूरमुत्पत्य गगनजलधिशतपत्रशङ्काकरेषु, पुरुषद्वयसप्रवहलोहितवाहिनीसेतुशङ्कासंपादकभिन्नमतङ्गजगात्रपरंपरावन्धुरायामायो - धनधरायाम, व्याधयोधनिरन्तरनिर्मुक्तनाराचधारापूरिताङ्गेषु दिशि दिशि कान्दिशीकता प्रापितेषु काष्ठाङ्गारिकसैनिकेषु, व्याधसेना व्याने छेति घोषो घोषान्तरमुत्तरङ्गयामास ।
तदोरुजानामधिभूः स्वमित्रैरालोच्य निश्चित्य च नन्दगोपः । विवक्षितं तस्य नृपस्य कर्णपथप्रवृत्तं चतुरश्चकार ॥ २५ ॥
तदनु पुलिन्दसंदोहतो गोविमोक्षणं विधास्यते दास्यते गोपेन्द्रनन्दगोपनन्दिनी सप्तचामीकरपुत्रिकाभिः साकमिति पटुतरं पुटभेदन
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीनधाचम्पुकाव्ये चत्वरे काष्टाङ्गारेण कारिता घोषणां निशम्य विशालतरकुतुकः सात्यं. धरिस्तदोष निवारयामास ।
सहायताधिष्ठितपार्श्वभागो जीवंधरो मन्दिरतः प्रतस्थे । द्विपेरनेकैः परिवार्यमाणो हिमाद्रिरन्ध्रादिव यूथनाथः ॥ २६ ॥ ततो निजयशःकलशार्णवतरङ्गैरिव चामरयुगलपरिशोभितपार्श्वतया नभःसरणिसञ्चरणयोग्यौ पक्षाविव बिभ्राणः लपनबिलतलविगलितफेनशकलदन्तुरितपुरोभागतया रयविनितपवनसमानीतमुक्तोप.हारानिवाङ्गीकुर्वाणैः स्यदनिरीक्षणक्षणहीणान्हरिदश्वहरिताश्वान्गगनकाननदुर्गेपु धावमानानन्वेष्टुमिव गगनसरणिमुत्पतद्भिर्जयोदः कः परिष्कृतात्रयानलकुर्वन्तः, शताङ्गचक्रक्षुण्णक्षितितलोतधूलिकापालि. का सकलनगदन्धंकरणधुरीणां पताकापटपवनेन धून्वन्तः, देहबद्धा इव वीररसाः, मूर्ता इवोत्साहाः, जयलक्ष्मीनिवासमन्दिरकनकप्राकारायिताङ्गदविभ्रानितभुजदण्डाः, लक्ष्मीविहारलीलाडोलायितमुक्तादामविरानितवक्षःस्थलाः, ते जीवंधरप्रमुखाः, कार्मुकटङ्कारवेलारवमुखरितदिशावकाशाः संयदङ्गणं समाजग्मुः ।
प्रविदारणमाविरास तत्र प्रथमं बाणगणैः परस्परम् । अरुषा च रुषा क्षणं विहीनं विशिखादप्यभवच्छिखी यतः ॥२७॥ नखांशुमयमञ्जरीसुरभिलां धनुर्वल्लरी
समागतशिलीमुखां दधदयं हि जीवंधरः । अनोकह इवाबभौ भुनविशालशाखाञ्चितो
निरन्तरजयेन्दिराविहरणैकसंवासभूः ॥ २८ ॥ कुण्डलीकृतशरासनान्तरे जीवकाननममर्षपाटलम् । स्पर्धते परिधिमध्यमास्थितं चन्द्रबिम्बमिह सन्ध्ययारुणम् ॥२९॥
जीवंधरेण निर्मुक्ताः शरा दीपा विरेनिरे ।
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो लम्वः विलीनान्समिति व्याधान्द्रष्टुं दीपा इवागताः ॥ ३० ॥ तदनु निष्णुचापचुम्बिनीवंधराम्बुधरनिरवग्रहनिर्मुक्तशरधाराभिः कालकूटवल प्रतापानले शान्तता नीते, निशितशस्त्रनिकत्तकुञ्जरपदकच्छपाः, भलावलूनहयमल्लाननपयोजपरिष्कृताः मदवारणकर्णभ्रष्टचामरहंसावतंसिताः, कीलालवाहिन्यः समीकधरायां परःसहस्त्रमनायन्त । नित्वा किरातबलमेष यशःप्रसूनै
राशाविशालनयनाः सुरभीचकार । क्षीराम्बुदानिव सदा प्रवहत्पयोभिः
सिक्तान्तिकान्पशुगणानहरच्च धीरः ॥ ३१ ॥ पुरा खलु यः शम्बरारातिश्चापलालिनीवंधरश्च जगति विश्रुतो बभूव, सोऽयमधुना शबरारातिश्चापलालिजीवंधरश्च संवृत्त इति, न बिन्दुमात्रेणापि विशेषः । पूर्व सारसशरोऽयमधुना सरसशर इत्याकारतो विशेपेऽप्याकारसाम्यमखण्डितमुल्लसत्येवास्येति विचित्रमेतत् । अथ पौराणां हर्षातिरेक एतावानिति गगनतलप्रसारितंवैजयन्तीभुनाभिबोधयदिव मोदोत्तरमेतत्पुरं प्रविश्य स्वयं विशिखाधारस्यापि विशिखाधेयतामास्कन्दतः सकलवयस्यमण्डलमध्यमध्यासीनस्य जीवंधरस्य देहसहकारे शौर्यस्थैर्यधैर्यमञ्जरीमञ्जले कीर्तिसौरभ्याकर्षिता: पौरजानपदनयनपुप्पंधया निरन्तरमापेतुः ।
नन्दगोप इति विश्रुतमेघः संमदाम्बुनिधिमाशु निपीय ।
वारिपातमकरोत्करपझे जीवकस्य शुभलक्षणजुष्टे ॥ ३२ ।। जीवंधरोऽपि नन्दगोपेन पातितामच्छवारिधारां तत्सहचरी मन्दस्मितप्रकाशितकुन्दकुद्मलसचिवीचिस्नापितामिव ‘पद्मास्यो योग्यः' इति शुद्धवर्णा वचोधारां पातयन्नेवोरीकुर्वन्, दूरीस्तस्टहः 'मम
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये पद्मास्यस्य च भावभेदो न तु जीवभेदः' इति मैत्रीविभवं विभावयन,तत्परिणयमहोत्सवारम्भं सत्रा भित्रामित्रजनानन्ददोषाभ्यां कन्दलयामास ।
शुभे मुहूर्ते स हि नन्दगोपसुताकराब्जग्रहणं चकार । वह्नि पुरस्कृत्य विधि विधाय पद्मास्यनामा परिणीतियोग्यः ॥३३
गोविन्दायास्तनुतनुलतां चञ्चलाप्रत्यनीकां __कान्त्या पुष्यत्कनककदलीकन्दलीगर्भगोरीम् । हेलोन्मीलत्कुचयुगलसन्मौक्तिकस्रक्प्रभाभिः
स्पष्टाभ्यां स हि बहुमुदा चक्षुषा पश्यति स्म (३३४| यस्याः पादौ मृदुलकमलस्पर्धिशोभाविलासों
जवे मारत्रिभुवननये काहलीवयभाताम् । नाभिः पञ्चायुधरसझरीकूपिकेवाविरासी
हकं राकासितरुचितुलासंगमङ्गीचकार ॥ ३५ ॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे
गोविन्दालम्भो नाम द्वितीयो लम्बः ॥
तृतीयो लम्बः ।
अथ दिने दिने प्रवधर्मानानुरागः पद्मास्यनामा राजहंसतरुणस्त्रिवलीलहरीविराजिते नाभिमहावर्तशोभिते गोविन्दानामतरङ्गिण्या उदरहूदे कंचन कालं रममाणः, काञ्चीविहङ्गविरुतमुखरिते घननितम्बविम्बपुलिने कतिपयसमयं स्थितिमापन्नः, करेण मेचकचूचुकलोलम्बचुम्बितवक्षोरुहकमलकुमलं स्टशन् , आनन्दलहरीभिरभ्युक्षितः, कुचचक्रवाकमञ्जुले सुरभिल श्रीखण्डद्वपङ्किले कञ्चलीकोमलशैवलपेशले वक्षःस्थलकमलाकरे विहरमाणश्चिरमिन्द्रियग्रामं तर्पयामास ।
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयो लम्यः । जीवंधरोऽपि कमनीयकलावधूटीः
कीर्त्यङ्गनां जयरमां च समानवृत्त्या । उल्लासयन्सकललोचनभागधेय. .
माबिभ्रदारूतिप्पमन्दमुदारतस्थे ॥ १ ॥ तस्मिन्पुरे वैश्यजनस्य नेता श्रीदत्तनामा वसति स्म कश्चित् । चस्यस्टहोहौ धनलाभहेतू प्रासाददेशे रमतां चिराय ॥ २ ॥ कदाचिदसौ रत्नवाणिज्यपरायणो रनद्वीपं गन्तुकामः प्रस्थानमाचरन्क्रमेण लवितानेकजनपदनगरग्रामः, स्फुटितशुक्तिमौक्तिकवितान. तारकितं मकरमीनकुलीरराशिसमाश्रितमपरमिव गगनतलं निशि निपीतनिशाकरकरनिकरंडिण्डीरखण्डकपटेनोहमन्तमिव, क्वचिञ्चलाचलकुलाचलैरिव कल्लोलघटनमनुभवद्भिस्तिमितिमिङ्गिलैः पुलैरिवोपास्यमानम्, कचन माणिक्यराशिरश्मिझरीपरीतनलमामिषशङ्कयाभिधावद्भिः पुनः पावकभिया धावमानैर्मीनराकुलीनम्, कुत्रचिद्देदीप्यमानफणामाणिभिस्तरङ्गसंगतैर्भुजङ्गैर्निबिडिततया परिणाहादिगुणेन विनितं विलीनमाकाशमूर्मिहस्तविकृतदीपिकाभिरन्वेषमाणमिव, कुत्रचन वितत. विद्रुमवनरानिविराजिततया प्रत्यक्षीकृतौर्वानलमिव, कचन गङ्गासिन्धुप्रमुखनदीकान्ताः समागताः प्रसारितलहरीबाहाभिराश्लिष्यन्तमिव, पुरःप्रकाशन्तमुदन्वन्तं ददर्श ।।
यत्राम्भोमनुजास्तटोत्थपवनप्रोढ़ततालीवन
ध्वान्त तहदः प्रमर्दितमिलच्छवालमाला वभुः । कुम्भीन्द्राश्च महाझाननबिलं भूमीधरोद्यद्धरि• भ्रान्या विश्वपुनर्निवृत्तिमगमस्तज्ज्वालमालासहाः ॥३॥ तं वारांनिधिमापीय नयनेन वणिक्पतिः । विस्मयाम्बुधिमापेदे क्षारत्वमसहन्निव ॥ ४ ॥
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाध्ये तदनु पोतमारुह्य हीपान्तरं गत्वा तत्र विचित्रैरुपायैर्वहूनि द्रविणानि संपाद्य संपदा शम्पायुधमन्तरिक्षाकूपारसञ्चरणक्षमैरावणस्कन्धाधिरूढमनुकुर्वन्निव महायानपात्रमारुह्य सांयात्रिकपतिरसाववारान्तमाडुके ।
ततो घनघनारवस्फुटितसर्वदिग्भित्तिकः
पपात तरणौ तदा बहलवर्षबिन्दूत्करः । निजप्रतिभटस्फुटप्रचुरमौक्तिकाडम्बरा.
सहिष्णुरिव गोचरो न हि विपत्क्षणः प्राणिनाम् ॥५॥ सांयात्रिकोऽसौ सकलास्तरिस्थान्पुरैव शोकाम्बुधिमनदेहान् । संतारयामास स तत्वबोधपोतप्रदानेन परावरज्ञः ॥ ६ ॥
शनैः शनैर्नावि नष्टायां दिष्टेनेव संनिधापितं दृष्टं कूपखण्डमारु. ह्यात्मानं लब्धप्राणं मन्यमानो नष्टशेवधिरपि संतुष्टहृदयः किंचन होपमासाद्य तत्र यादृच्छिकमिव गतं कंचन विद्याधरं प्रति चापलवशेन निजोदन्तं प्रतिपादयामास ।
श्रुत्वाथ तेन च मिषेण स नीयमानो
रूप्याचलं स्मितनिभं धरणीरमण्याः । शृङ्गै भोनिकषणोपललीढतुङ्ग
लेखाचलं परिहसन्तमिमं ददर्श ॥ ७ ॥ यत्सानुनीलमणिदीप्तिपरंपराभिः
पञ्चाननस्य शिशवो बहु विप्रलब्धाः । सत्येऽपि कन्दरमुखे परिशङ्कमाना
निश्चित्य गर्जनकृतध्वनिभिर्विशन्ति ॥ ८ ॥ स्वं वीक्ष्य वन्यहिरदो नितम्बे यस्य बिम्बितम् । समेत्य दन्तैस्तं हन्ति मदिनां का विवेकिता ॥ ९ ॥
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयो लम्यः ।
मृगाधिपा यत्र गजभ्रमेण घनावलि गर्ननसंभ्रमेण | उत्पत्य वेगान्नखरप्रहारैर्विदार्य कोपेन समुत्सृजन्ति ॥ १० ॥
यश्च किल, क्वचित्खगाङ्गनासङ्घदुकूलभ्रमनिषेवितसितजीमूतपरिवृतः, वचन हरिन्मणिमयतटनिःमृतविभाविभाविततिग्मरुचिबिम्बे गगनसरसि सरोजिनीहरितपलाशशङ्कां तटचरनभश्चराणामुपज. नयन्, कुत्रचिन्महीरुहपरंपरासु कादम्बिनीशङ्कया कलधौततलस्फुटनटनपटुबर्हिप्रतिबिम्बकपटेन स्थलसमुत्फुल्लनीलाब्जमालासंदेह दधानः, वचन सरसि समुद्भूतसारसराजहंसकूजितै ताविलसितान्तमक. रन्दपानमत्तेन्दिन्दिरमनोहरझंकारैरुपवनतलालङ्कारसहकारप्रवालचर्वण गर्वितकलकण्ठकण्ठरवैश्च हृदिशयं निर्निद्राणं कुर्वाणः, कुत्रचन मञ्जुलवझुलनिकुअविहरमाणखगकञ्जनयनाजनरत्यन्तश्रमहारिसमीरकि शोरमनोरमः समदृश्यत ।
दुर्वर्णभूधरे तत्र सर्व स्वागतिकारणम् ।।
अभाणीखेचरः सोऽयं स्पष्टमेव वणिक्पतेः ॥ ११ ॥ श्रेण्यां धरस्यास्य हि दक्षिणस्यां गान्धारदेशस्य ललामभूता । पुरी निरालम्बतयान्तरिक्षाच्च्युता सुराणां नगरीव भाति ॥१२॥ यामन्वर्थाभिधेयेन नित्यालोकति खेचराः ।
वदन्ति नीरदा यस्या गवाक्षद्वारचारिणः ।। १३ ॥ यत्सालमाला स्फुरदंशुजाला पयोधरप्रोल्लसदम्बरश्रीः । वक्षःस्थलीव प्रमदाजनानां मनो जरीहर्ति च निर्जराणाम् ।।१४।।
यद्गोपुराग्रसुत्राममणिपुत्रिविराजिते ।
धृतसूक्ष्मदुकूलेव शारदाम्बुजमालया ॥ १५ ॥ गरुडवेग इति क्षितिपालकः सकलखेचरसेवितवैभवः । इह पुरीमनुशास्ति यथा दिवं सुरपतिः कमनीययशोधनः ॥१६॥
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंघरधम्पुकाव्ये शरीरिणी कान्तिपरंपरेव सदेहबन्धा शशिनः कलेव । अचञ्चला विद्युदिवापरेव श्रीधारिणी तस्य चकास्ति पत्नी ॥१७॥ गन्धर्वदत्ता तस्यास्ति तनया विनयोज्ज्वला । या मन्मथमहाहर्म्यवलभीमणिदीपिका ॥ १८ ॥ अम्या बाल्ये कुवलयदृशो विग्रहं त्यक्तुकामे __ तारुण्ये चागमनरसिके मन्मथद्वारचारे । माध्ये याते चतुरिमरसेऽप्यागते तत्कशाङ्गया ___ मध्यं सूक्ष्मं जघनवलयं भूधराभं विभाति ॥ १९ ॥ मुखेन्दुलोलाक्ष्याः सितरुचिरुचि निन्दतितरां
भुवो चापाटोपं सपदि अषकेतोः कलयतः । कुचौ मन्दं मन्दं लिकुचतुलना कन्दलयतः
शनैः पादन्यासो मदकरमराली विजयते ॥ २० !! सा राजपुरे साराकारा स्वयमद्वितीयापि वल्लकोविजयिनो यूना द्वितीया भविष्यतीति दैवज्ञोपज्ञवचनविरूम्भविजृम्भितचिन्तो महीकान्तः कान्तया सह संमन्त्र्य राजपुरोपवनालङ्कारस्य सागरमेन. नाम्रो निनराजस्याधिपरिसरं संजातां युवयोः प्रीतिलता शनैः पल्लवि. तामद्य फलितां निकीर्घस्वदागमनाय मां प्राहिणोत् । नाना धरोऽहं तब नौविनाशविभ्रान्तिमापाद्य महीध्रमेनम् । आनीतवानित्यभिधाय रोऽयं खगोऽधरोप्ठं घटयाञ्चकार ॥२१॥ श्रीदत्तोऽपि तदाकर्ण्य बहुधा मुमुदेतराम् । . नष्टस्यार्थस्य संप्राप्तिः कामदोग्त्री भुदां न किम् ।। २२ ॥ विद्याधरीकरसरोरुहरानहंस
युग्मायमानचलचामरवीज्यमानम् ।
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयो लम्बः ।
राज्यश्रियो नयनयुग्मगलत्कटाक्ष
धारापरीतमिव खेचरभूमिपालम् ॥ २३ ॥ मदनद्रुममञ्जमञ्जरीभिः स्फुटलावण्यपयोधिवीचिकाभिः । महितं वरवारकामिनीभिर्बहुसौन्दर्यतरङ्गिणीझरीभिः ॥ २४ ॥ खेचरेन्द्रमकुटीतटीलसन्मौक्तिकप्रतिफलत्पदाम्वुनम् । हारयष्टिपरिमण्डितोरसं निर्झराञ्चितहिमाद्रिसच्छविम् ॥ २५ ॥
तं ददर्श स्वगाधीशमकुटारूदशासनम् ।
मोदवाधैः परं पारमपि सांयात्रिकाधिपः ॥ २६ ॥ ___ तमेन सभाजिरविरानितमणिमयासनमलङ्कुर्वन्तं मूर्तीकृतमिव सौहार्द सांयात्रिकं स्मितसंभाषितादिभिः संतर्पयन्, निजनन्दिनीस्वयंवरवृतान्तं कर्णामृतं मनसो रसायनं च कारयन्, चकार तद्वशां निजतनयां विदितनयां ध्वजिनीं च कलितादरो विद्या. धरपतिः । विद्याधरेशस्य निदेशमेत्य सेनां पुरोधाय परीतमानम् । सांयात्रिकोऽसौ मुदमाप पूर्व पश्चात्तयामा निजराजधानीम् ॥२७॥
तदनु विविधरत्नचयविनिर्मितम्, राजपुरलक्ष्मीमुखावलोकनार्थ परिकल्पितमणिमुकुरायमाणम्, गगनविमृत्वरैर्मरकतपद्मरागालोकैर्घनाघनवनरहितेऽपि नभःस्थले सुरचापशङ्कामादधानम्, कुङ्कुमरसप्रचुरपयःसंसेकशीतलम्, तत्र तत्र विकीर्णकुसुमकुलमुरभिलम्, वीणाविजयिनो जनिष्यमाणकीर्तिलताबीजराजिमिव मुक्तामयरङ्गवल्लीमाबिभ्राणम्, स्वयंवरमण्डपं परिकल्प्य, राजानुमतिपूर्वक तदुदन्तं कटकेषु घोषयामास । तदेतदाकर्ण्य महीक्षितस्ते स्ववाहिनीभिस्ततदिकप्रदेशाः ।। पुरीं पताकाभिरिवाहयन्ती नरा इवाब्धि शतशः समापुः ॥२८॥
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाव्ये
मञ्चेपु तत्र घनवज्ञमयेषु भूपाः
क्षीरोदवीचिनिकरेप्विव चन्द्रबिम्बाः । रूप्याद्रितुङ्गशिखरेप्विव पञ्चवक्त्रा
भान्ति स्म पञ्चशरवञ्चनचारुरूपाः ।। २९ ।। ततः सकलनेत्रकुरङ्गाणां वागुरायमाणतनुलता, मूर्तव मदनसाम्रा ज्यपदवी, राजधानीव शृङ्गारमहीपालस्य, वेला लावण्यमुधापयोनिधिवीचीनाम्, सनस्वमिव नवयौवनस्य, सञ्जीवनमिव सौभाग्यस्य, मुर्त्यन्तरमिव लक्ष्म्याः , अमृतवर्तिरिव भूपतिदृशाम्, विशालनयनविलासविजितनीलोत्पला गन्धर्वदत्ता याप्ययानमारुह्य रदयंवरमण्डपमततार ।
ततः करसरोरुहप्रमृतकान्तिपारंपरी
प्रक्लप्तनवपल्लवभ्रमसमागतालिस्वरैः । परीतवरवल्लकीमृदुलतानगीतादिभि
य॑जेष्ट खगसुन्दरी मकलदेशष्टथ्वीपतीन ॥३०॥ खगेशतनयाकराश्चितविपञ्चिकामाधुरी
रसं श्रवणभाजनैः सकलगीतविद्याविदः । निपीय वनितारदच्छदमिहाधरं मेनिरे ... सुधामपि सुरोवृतां मधुपपानयोग्यं मधु ॥ ३१ ॥
तदनु प्रत्यक्षपञ्चशरः पञ्चशतमित्रजनपरिवृतो जीवंधरः, स्वयंबरसभाजिरं समागत्य, वीणाकलाकशलान्प्राज्ञाग्रेसरान्गुणदीपपरीक्षायां विधाय, अभिधाय च नियोगिजनानीतासु त्रिचतुरासु वीणासु केशरोमलवादिकं दोषम्, अतिसंतोषपरवाया कन्यया समर्पिता निजकरालङ्कारभृतां सुबोषां नाम वीणां परिजग्राह ।
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयो लम्बः । आदाय तामयमथो करकौशलानि
तन्त्र्यां खगेशतनया निजचित्तमस्मिन् । संगीतधीरपरिषञ्च शिरःप्रकम्प
तेने उतनमुखराजगणोऽपि लजाम् ॥ ३२ ॥ कुमारवरवल्लकीगुणरवेण सर्वे मृगा
विहाय मृदु शाहलं विदधिरे क्षणात्स्तब्धताम् । स्वरश्च जिनशारदाश्रवसि शीर्षकम्पापत
द्वदान्यतरुपल्लवे पदमहो विधत्ते स्म सः ॥ ३३ ॥ नावत्मा गन्धर्वदत्ता पराजयमेव जयं मन्यमाना व्रीलातरलनयनप्रमृतकटाक्षदुग्धधारां दिशि दिशि किरन्ती वेत्रवतीकरकलितां मालिकामादाय जीवकस्य वक्षस्यामुमोच ।
सौभाग्याम्बुधिवीचिकेव विलसदृक्षःस्थलीसैकते __ शंसन्ती सुकतेन्दुनन्ददुदयं जीवंधरस्वामिनः । मालासावचकादुरःस्थलवसल्लक्ष्मीकटाक्षावली
प्रक्षिप्ता विजयाय भाविसमरे मालेव वीरश्रिया ॥ ३४ ।। वीणा गन्धर्वदत्ताया मधुरा चित्तहारिणी । कुलोचिता बभूवेयं कुमारप्राप्तिदूतिका ॥ ३५ ॥ अथ जलदजलध्योनादशङ्कां वितन्व
न्मुखरितसकलाशाचक्रवालान्तरालः । निखिलपुरवधूटीचित्तहारी विशेषा. ___ समभवदिह मन्द्रस्तूर्यमूर्च्छद्विरावः ॥ ३६ ॥ तदा दिनदीपायितेन काष्ठाङ्गारेण कुप्यक्रयविक्रययोग्यो वैश्यसुतः कथं स्त्रीरत्नयोग्य इति संधुक्षिताः सितिपतयो गतमतयः सर्वाभिसारेण चमू पुरोधाय विमूढमनसः संयुगमारभन्त ।
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाव्ये इह खलु कुमारोऽयं विद्याधरैः स्वबलात
जयगिरिरिति ख्याते मत्तहिपे विनिविष्टवान् । प्रतिभटघटाटोपं भिन्दन्नुदारपराक्रमो
दिशि दिशि सपत्नांस्तांस्तांल्लीनांश्चकार निकारतः ॥३७ रत्नस्तम्भविजृम्भितामलरुचा व्याप्ताखिलाशान्तरा.
मेकत्रोदितकोटिसूर्यपटलीसंदीप्तिशङ्कावहाम् । शालां तत्र च पद्मरागखचितां वेदी व्यधात्तत्क्षणं
सर्वेषां हृदयस्थरागलहरी मामिवासौ वणिक् ॥ ३८ ॥ तदनन्तरं विद्याधराधिपतिर्गरुडवेगनामा समागत्य वधूवरस्य सुरदम्पतीसन्निभस्य स्फटिकमणिपट्टके विनिवेशितस्य करनखरकान्तिद्विगुणितधावल्याभिर्भुजवंशविगलन्मुक्ताझरीसंभावनासंपादिकाभिर्वा - हुभुजगफणामाणिक्यायितमणिमयकुम्भविगलत्पयोधराभिरभिषेकमङ्गलं निवर्तयामास ।
क्षीराब्धिडिण्डीरचयायमानं श्लक्षणं दुकूलं वसनं वसानौ । तौ प्राङ्मुखं भूषणगेहमध्ये निवेशितौ वज्रविकीर्णपट्टे ॥ ३९ ॥
अनयोः कान्तवपुषि भूषणानां च भूषणे । आकल्पकल्पना नूनं मङ्गलैकफला भवेत् ॥ ४० ॥ यद्वा भूषणबृन्दस्य शोभासंपादकाङ्गके । तयोर्नैपथ्यक्लप्तिस्तु दृष्टिदोषस्य हानये ॥ ४१ ॥ सीमन्तं परिकल्प्य खञ्जनदृशो वक्रप्रभानिनगा___ मार्गाभं सुममालिकां च विदधे तत्फेनपुञ्जायिताम् । आस्ये नीलललाटिकां सहचरीववेन्दुलक्ष्म्यायिता
मक्षणोरञ्जनमाननाक्रमकतोः सीमन्तरेखामिव ॥ ४२ ॥ सैरन्ध्रीजनकरकल्पिता तस्याः कपोलतलमकरी, मकरकेतोः
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयो लम्यः ।
पताकेयमिति समागता साक्षान्मन्मथवेजयन्तीमकरीव, गण्डमण्डललावण्यसरोवरे निपततां युवनेत्रपततां बन्धनाय वेधसा विरचितः पाश इव, व्यराजत ।
तस्याः कपोलललिती मृगनाभिक्लप्त
पत्रच्छलेन कचबृन्दतमःकिशोरी । द्राम्बाधितुं रवियुगं किल कर्णशोभि
ताटङ्कयुग्ममधिकं रुरुचे मृगाक्ष्याः ॥ ४३ ॥ जगत्रयजयायास्या वल्गतः पुष्पधन्वनः ।
सवाणतणवद्रेने पुष्पचारु कचव्रजम् ॥ ४४ ॥ तस्याः शरीरातनुचापयष्टेमौर्वीव रेजे फणितुल्यवेणी । सखीप्रक्लत्ता मुखपद्मगन्धलोभागता भृङ्गपरंपरेव ॥ ४५ ॥
एवमलङ्कताभ्यां ताभ्यां यथास्थानं जलेन विनिवेशिताभ्यां परिप्कृता मणिदीपमङ्गलद्रव्यशोभिता मणिवेदिका सुरदम्पतीसंगता रनसानुतटीव व्यरोचत ।
वधूवरमिदं तुल्यवयोरूपपरिप्कृतम् । सिद्धस्नानाम्भसा पतमलंचक्रे महासनम् ॥ ४६ ।। तावत्कोणताडितनिस्साणप्रमुखवादित्ररववाचालितदिक्तटे मारसतीपदनूपुररवानुकारिमधुरगानचतुरवाराङ्गनानर्तनविलसिते वन्दिन. नसन्दोहमुखारविन्दमकरन्दायितविरुदपदसंदानिते शुभंयुगुणगुम्फिते मुहूर्ते विद्याधरेश्वरः करेण शयकान्तिपल्लवैरिवाशोकपल्लवतल्लनैः परिष्कृतमुखभागं कनककरकं बभार ।
राज्ञा कराम्भोजविकासनाय संप्राप्तसूराभसुवर्णकुम्भतः । न्यपाति धारा कुरुवीरहस्ते दीर्घ भवन्ताविह जीवतामिति ॥४७|| जग्राह पाणी कुरुवंशदीपो जीवंधरः खेचरनन्दिनीं ताम् ।
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाव्ये निमोलिताक्षश्च बभूव सौख्यं स्पर्शाहितं द्रष्टुमिवान्तरङ्गे ॥ ४८ ।।
गन्धर्वदत्ता तत्पाणिस्पर्शन समजायत ।
वधरिन्दुकरत्पर्शाच्चन्द्रकान्तशिला यथा ॥ ४२ ॥ तवा वधूटीमवलोक्य सोऽयं ननन्द मन्देतरविस्मयन ।
निजप्रभापूरतरङ्गमध्ये वक्षोजतुम्बीफलतः प्लवन्तीम् ॥ ५० ॥ सरोजयुग्मं बहुधा तपःस्थितं बभूव तस्याश्चरणद्वयं ध्रुवम् । न चेत्कथं तत्र च हंसकाविमौ समेत्य हृद्यं तनुतां कलस्वनम् ।।११॥ विभान्ति तस्या नखराः पदांशुरक्ताननाः किंच विरिञ्चिक्लप्ताः । अन्याङ्गनावकविलोकनाय विनिर्मलाः सन्मणिदपणा वा ॥ ५२ ॥
आपाटलै खेरस्या जिग्ये कुरवकच्छविः ।
अशोकपल्लवो नूनमभिपङ्कजरोचिषा ॥ ५३ ॥ जङ्घायुगं खेचरकन्यकाया अवैमि पञ्चायुधतणयुग्मम् । यहा निशानाय च वज्रशाणोपलं शराणां कुसुमायुधस्य ॥५४॥
मनोजगेहस्य तदङ्गकस्य वक्षोनवप्रेण विराजितस्य । उरुद्वयं स्तम्भनिभं विरेने प्रतप्तचामीकरचारुरूपम् ॥५५॥ अस्याश्च नितन्वतलं दुकूलस्वच्छजलविलसितसैकतमिव कामाविनिमज्जत्तरुणतरणाय यौवनामिनिष्टप्तहैमकलशयुगलमिव कंदर्पवास्त्रचक्रयानमिव शृङ्गारमहीपतिक्रीडाशैलवलयमिव व्यराजत । एतस्याः किल रोमराजिः, चन्दनव्याप्तवक्षोरुहभूमिघरमारोहतो दर्पकस्य मरकतसोपानपङ्किरिव, सौन्दर्यतरङ्गिणीविततसेतुरिव, नाभिवापिकामजनोद्युक्तस्य शम्बररिपुद्विपस्य गण्डमण्डलादुद्गच्छन्ती चञ्जरीकमालेव, दुर्वहस्तनभारवहनचिन्तया तानवमुपगतेन मध्येन समाश्रितालम्बनयष्टिरिव, नाभीवल्मीकमुखोद्गता कालभुजगीव, रुरुचे ।
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयो लम्मः । गेमराजिलतागुच्छो कुचावत्या मृगीदृशः । चकर्षतुः कुमारस्य नयनच्छलपट्पदम् ॥ ९६ ।। पयोधरोन्नतिस्तत्याः पुपोषाङ्गजकेकिनम् ।
हारविद्युलतोपेता नीलाम्बरविजृम्भिता ॥ ५७ ।। स्तनौ सुमेपो रसपूर्णकुम्भौ विमुद्रितौ चूचुकसज्जतुभ्याम् । तस्या विधात्रा विनिपातभीत्या तौ कीलितावायसशङ्कुना किम् ।।५८॥ सुरापगाशोभितहेमपद्मिनीमृणालतुल्यो सुदृशो महाभुजौ । भुजङ्गबन्धार्थमजेन निर्मिती विशालपाशाविव तौ व्यरानताम् ।।१९।। सुतनुतनुलताया विस्तृते बाहुशाखे
मृदुलममृणशोभे स्वाङ्गुलि श्रीप्रवाले । नखरुचिरलतान्ते मञ्जुगुञ्चहिलोल
न्मरकतवलयालिव्याप्टते ते व्यभाताम् ॥ ६ ॥ शिरोधरे खञ्चनलोचनायाः कम्युप्रतीपे किल पञ्चबाणः । जगत्रयं निर्जितमेतयेति रेखात्रयं मङ्घ चकार वीरः ।। ६१ ॥ जगदुरधरं तस्याः केचित्तु वक्रमुधाकरा
न्तिकविलसितं संध्यारागं परे नवपल्लवम् । कतिचन मुखाभाम्भोराशिप्रवालममी वयं
रदततिमणीरक्षालाक्षातमञ्जुलमुद्रिकाम् ।। ६२ ।। वाणी तस्याः पिककुलकलारावनिन्दाधुरीणा __ पीयूषाणां वितरति हियं गोस्तनी न्यक्लरोति । पुण्ड्रेशूगां रसवनसितां खण्डितामातनोति
साध्वी मावीमधरयति च प्राज्यमाधुर्यपूरा ॥६३ ॥ नासा तदीया मुखचन्द्रबिम्बाद्विनिगलन्नव्यसुधोरुधारा । घनत्वमाप्तेव रदालिमुक्तामणीतुलायष्टिरिव व्यलासीत् ।।६४।।
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंचरचम्पुका
वदनसदने तस्यास्तिखञ्जगद्विजयी स्वरः
सपदि कुटिलवाणा से दशो विशिखो व्यवात् ।
सकलतरुणश्रेणीममच्छिदाहितरक्तता
मधिमुखमिते चैतेऽभातां पयोजल जनदृक्पक्षिवन्धाय पाशौ किं वेधसा कृतौ । तत्कर्णात्पलव्याजाज्जनदृक्पक्षिरक्षिणी ॥ ६६ ॥ तदाननवसुव्रजं निशि हरन्निशानायको
वियत्सरणिकानने विरचयन्गति वेगतः ।
|| ६९ ||
दिवा क्वचन लीनतामुपगतो ऽयमालक्ष्यते
न चेत्स वसुहारकः कथमयं कलङ्गोऽन्ततः ॥ ६७ ॥ मुखेन्दुरुचिवारिधेर्विततशैवलो वा घना
घनालिरिख चन्दिरं मुखमितस्ततः संगता |
मनोज दहनोद्भवन्निचिडधूमभारोऽथवा
मुखाब्जमधुपोत्करः किमथवा कृशाङ्गयाः कचः ॥६८॥ किंनरी किमसुरी किमु नारी मन्मथस्य किमु हेमलता किम् । चञ्चला किमुत तारकाथवा सा ध्रुवं नयनभाग्यरेखिका ॥ ६९ ॥
क्रमेण विवर्धितरागां संध्याललनामिव सुधासूतिरेष जीवंधरस्वामी गन्धर्वदत्तामाश्लिष्य मारवीरनिक्षिप्तनाराचनवमल्लिका कोरकायमाणरोमाञ्चप्रपञ्चकञ्चुकिताङ्गः, सुरतनाटकनान्दीपदानीव चाटुवचनानि प्रयुञ्जानः, उत्तरीयापनयनत्रपमाणायाः कोमलभुजस्वस्तिकापिहितकुचकुडुलतया वीक्षणमार्ग रुन्धत्यास्तस्या वक्षोरुहपूर्वाचलशृङ्गे कथंचिल्लब्धोदयेन निजलोचनचन्द्रेणाभिवर्धित कामार्णव सलिलपूरैः श्रोणिक्षोणीमण्डलं प्लावयन्, संलापपल्लवितकुतुकामप्यभिधातुमनीशाम्, प्रियवदनचन्द्रोपकण्ठे नयनचकोरविहरणाय स्पृहयालुमपि लज्जया
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थों लम्बः । संमुखीभवितुमपारयन्तीम्, कुसुममृदुलदयिताङ्गस्पर्शनलोलुपामपि कम्पमानामनाम्, भृकुटीकपोलचुबुकरदनवसननयनचूचुकादिपदे परिचुम्बन , स्वेदसलिलसञ्जातमार्दवैः कररुहैः कठिनतरकुचकलशतटे पदानि विदधानः, नखंपचोप्मलवक्षोरुहशिखरादपकर्ण्य पञ्चशाखपङ्कजं निम्ने नाभिसरसि निदधानः, मदनकदनारम्भसंसूचककाञ्चीकलापकलकलपटुपटहारवपरिशोभितं नीवीबन्धनभेदनं कुवार्णः, मदनमत्तदन्तावलालानस्तम्भायमानमूरुस्तम्भं मारमदेभमोचनायेव परिमृशन्, अधिकतरमरमत ।
जायापती ती जगतां स्तुत्यौ निस्तुलसंपदा |
आसामासतुरानन्दनिधेः पारे गिरामपि ॥ ७० ॥ इति महाकविहरिचन्द्रविरचिते चम्पुजीवंधरे गन्धर्वदत्तालम्भो
नाम तृतीयो लम्बः।
चतुर्थों लम्बः ।
माकन्दद्रुममञ्जरीमधुझरीसंसक्तमाध्वीलिहां
झंकारैः पिकमञ्जुगानकलितैर्मारोत्सवाशंसिनः । प्राप्ताः केचन वासराः कुरवकपोन्मीलितैः कोरकै.
दन्ताभैविहसन्मुखा विरहिणां मर्मच्छिदाकर्मठाः ॥ १ ॥ तदानीं जगन्जयोद्युक्तपञ्चबाणप्रयाणसूचकमाञ्जिष्ठदूप्यनिलयनिकाशपल्लविताशोकपेशलं सुवर्णशृङ्खलसंनद्धवनदेवताञ्चितपेटिकायमानरसालपल्लवसमासीनकोकिलकुलं तरुणजनहृदयविदारणदारुणकुसुमबाणनखरायमाणकिंशुककुसुमसंकुलं मदननरपालकनकदण्डायितकेसरकुसुमभासुरं विलीनशिलीमुखजराभीरुशरधिसरूपपाटलपटलं
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये वियोगिजनस्वान्तनितान्तचन्तनकुन्तायितकैतकदन्तुरितं वनमजायत । मार्गे मार्गे माधवीमानिनीभिः सूनार्चाभिर्मानितो वातपोतः । भृङ्गस्त्रीणां गीतसक्तं कुरङ्गमारुह्यासावाववो मन्दमन्दम् ॥ २ ॥ पुरान्निरीयुः प्रमदाजनेन पौराः समस्ता नरपालमुख्याः । क्रीडां विधातुं द्विविधे वनेऽपि मधौ दुरन्ते विरहिव्रजस्य ॥ ३ ॥
तुङ्गं शताङ्गमारूढः स्वामी सहचरैः सह ।
पौरस्त्रीनयनानन्दमातन्वन्निरगात्पुरात् ॥ ४ ॥ ततो जनकोलाहलोद्धान्तशकुन्तवृन्दतया माधवागमनकोतुकेनोत्क्षि. प्तवैजयन्तीमिव सञ्चरञ्चञ्चरीकधोरणीहरिन्मणिमयतोरणमालाविराजि. तां पल्लवकवलनतत्परपयोजबान्धवस्यन्दनगन्धर्ववदनविलनिपतितफेनशकलसंभाव्यकलिकाविलसितोन्नतमहीरुहराजितामभिसारिकामिवोच्चैः स्तनशिखरशोभितपत्रविचित्रामनेकविटपसंस्पृष्टपयोधरतटां चारामवीथीमासाद्य पौराः पुप्पापचयं कर्तुमारभन्त । तत्र निनकान्तां कोपक. लुषितस्वान्तामाध्याय कश्चिदाह ।
प्रसारय दृशं पुरः क्षणमिदं वनं विन्दतां
स्थलोत्पलकुलानि वै कलय तन्वि मन्दस्मितम् । पतन्तु कुसुमोच्चया दिशि दिशि प्रहृष्टालयः
स्फुटीकुरु गिरं पिकः सपदि मौनमाढौकताम् ॥ ५ ॥ परिफुल्लनवपल्लवतल्ल जाधरपुटां विकचकुसुममन्दहासां चञ्चरीकचूचुकमेचकितगुलुच्छस्तनयुगलां वासन्तीलतामन्यामिव लताङ्गी पश्यन्तमात्मानं प्रति कुपितां प्रेयसी परिसान्त्वयितुकामः कश्चिदेव. मब्रवीत् ।
सञ्चारिणी खलु लता त्वमनङ्गलक्ष्मीरम्लानपल्लवकरा प्रमदालिजुष्टा ।
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो लम्बः ।
यस्या गुलुच्छयुगलं कठिनं विशालशाखे
शिरीषसुकुमारतमे मृगाक्षि ॥ ६ ॥ उपरिजतरूजार्थ वामहस्तेन कात्रि
हितसुरभिशाखा सव्यहस्ताप्तकाञ्ची । अमलकनकौरी निगलन्नीविवन्धा
नयनसुखमनन्तं कस्य वा द्रान तेने ॥ ७ ॥ काचिद्वरागी कमितुः पुरस्तादुदस्तबाहोः कुसुमोद्यतस्य । मूलं नखाङ्काञ्चितमंशकेन तिरोदधे मङ्गकरान्तरेण ॥ ८ ॥
अन्तर्वणं करसरोरुहकान्तिभिन्नं
पत्रव्रजं सपदि पल्लवशङ्कयान्या । संस्पर्शमार्दवकलाविरहाद्विमृज्य ___ गुच्छभ्रमेण नखकान्तिमहो चकर्ष ॥ ९ ॥ वपुषि कनकंगोरे चम्पकानां गेषा
वितरति परभागं नेति कश्चित्प्रियायाः । उरसि वकुलमालामावबन्धाम्बुजाक्ष्याः
__ स्तनकलशसमीपे चालयन्पाणिपद्मम् ॥ १० ॥ वक्षःस्थलेप्वत्र चकोरचक्षुषां प्रियः प्रक्लुप्ताः सुममालिका वभुः । अन्तःप्रवेशोद्यतशम्बरहिषः सूनाततास्तोरणमालिका इव ॥ ११ ॥
एवं वनविहारपरेषु पौरेपु, तत्र सप्ततन्तुमारभमाणैर्दिनँहविःस्पर्शनजनितकोपनैर्हन्यमानमन्तरुत्कूलितदुःखाम्बुधिघोषमिव प्राणमहीपालस्य प्रयाणसंसूचकभेरीभावारमिवाक्रन्दनारावमातन्वानमन्तरुज्ज्वलितदुःस्वाग्निज्वालामिव शोणितधारामुगिरन्तं सारमेयमवलोक्य, अपारकरुणाकरो जीवधरो बहुप्रयत्नैरपि प्रत्युज्जीवयितुमशक्नुवानः परलोक समर्थापनपरतन्त्रं पञ्चमन्त्रमुपादिक्षत् ।
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीपंधरचम्पुकाव्ये
श्रवसा परमं मन्त्रं मनसा हन्त मा स्पृशन् । कुक्कुरो विनही प्राणान्दुःखलेशविवर्जितः ॥ १२ ॥ चन्द्रोदयाह्वयगिरौं विमलोपपाद___ शय्यातले रुचिरवैक्रियकाख्यदेशे । स्त्रग्वी सदंशुकघरो नवयौवनश्रीः
प्रादुर्बभूव स सुदर्शननामयक्षः ॥ १३ ॥ राकाचन्दिरदत्तदास्यममलं यस्यास्यपङ्केरुहं * नेत्रे वीतनिमेषकेऽकलयतां निष्कम्पमीनश्रियम् । पाणी कल्पकपल्लवप्रतिघृणी माणिक्यभीषोज्ज्वला ___ मूर्तिः पुष्पितकल्पपादपलतास्फूर्तिस्तदानृम्भत ॥ १४ ॥ ततः कल्पतरुषु प्रमोदबाप्पबिन्दूनिव प्रसूननिकरानवकिरत्सु, दुन्दुभिस्वनितेषु दिगन्तरालविजृम्भितेषु, मन्दारवनकुडुम्बिगन्धवहस्तनंधये मन्दसञ्जारमन्थरे, रविकोटिसदृक्षेषु यक्षेष समन्तात्प्रणामदक्षेषु, मञ्जमञ्जीररवमुखरितदिगन्तरासु सुराङ्गनासु मधुरगानकलाविलसितनर्तनकुशलासु, मुप्तोत्थित इवायं दिशि दिशि दृशं व्यापारयन्, विस्मयसंमदपूरयोः संगमे निमनः, तत्क्षणननितावधिज्ञानतरणिमवलम्ब्य प्रबुद्धजीवकोपदिष्टमन्त्रप्रभावविलसितदेवभूयः, तत्र जयेत्यादिशब्दमुखरमुखैनिलिम्पैः सप्रश्रयमेत्य किरीटमणिपूणिरानिनीराजितचरणनीरे विज्ञापितं मङ्गलमज्जनजिनेन्द्रपूजादिकं यथानियोगमातन्वन्, जीवंधरस्वामिवरिवस्यापरायणः परिवारैः सह तदुपकण्ठमाटिटीके । तवार्य मन्त्रप्रभवा ममेडशी विभूतिरित्यादिनुतिं समाचरन् । विधाय पूनामिह जीवकस्य वै प्रादान्मुदा दिव्यविभूषणान्यसौ ॥१६
अथ ललाटंतपतपनबिम्बे गगनकाननमध्यपुञ्जीभूतदवहुताशन
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो लम्बः । सकाशे, सशावकमृगपूगेन सह मूलतलमाश्रिते नमेरुतरुच्छाये, सरोराजहंसेषु नलिनमुत्सृज्य पत्रच्छायामाश्रितेपु, दीर्घिकाजलेषु शफरोद्वर्तनॆरार्कसंतापादिव क्वथत्सु, शिखण्डिषु नृत्तलीलाविरहेऽपि बहभारं छत्रीकृत्य केकिनीः सेवमानेषु, मधुकरेषु गजगण्डतलात्कर्णपालीमाश्रितेषु, कुसुमावचयश्रान्ताभिः कान्ताभिः सह व्यात्यक्षिकां कर्तुकामा भर्तारः शनैः शनैर्नवापगामाजग्मुः ।
नवापगेयं नलिनेक्षणानां द्विजारवैर्द्राक्कुशलानुयोगम् । विधाय डिण्डीरमनोज्ञहासा चलोमिहस्तैर्दिशति स्म पाद्यम् ॥१६
तावद्यौवनदिनमणिप्रकाशपरिवर्धितामोदवक्षोरुहचक्रवाकयुगलासु कान्तिकल्लोलनिर्लोलासु म गुञ्जकलहंसकास्वपराखिव तरङ्गिणीषु पुरतरुणीषु दयितैः समं सरितमवगाह्य जलक्रीडामातन्वतीषु
कश्चिदम्भसि विकूणितेक्षणं हेमयन्त्रविगलज्जलैर्मुहुः ।। कामिनीमुखमसिञ्चदञ्जसा चन्द्रबिम्बमिव द्रष्टुमागतम् ॥ १७ ॥
काचन चपल जडापहृतदुकूलपट्टे रुचिविजितस्फटिकपट्टे घनजघनफलके नखक्षतिव्याजेन मकरकेतनस्य जगन्जयप्रशस्तिवर्णावलिमिव बिभ्राणा, करनिपीडनोद्गीर्णरक्तिमधारामिव विद्रुमयन्त्रनिर्गलत्पयोधारां शयकान्तिसंक्रान्तरक्तवर्णतया कुङ्कुमरसानुकारिणीं प्रियलपन्तले सहर्ष ववर्ष ।
सुदतीकुचकुलाग्रमारात्तरुणः कश्चिदसिञ्चदम्बुभिः । हृदयस्थलनातरागकल्पद्रुमवृद्धयै किमु कामुकः परम् ॥ १८ ॥ अन्या काचिद्वल्लभं वञ्चयित्वा सख्या साकं वारिमना मुहूर्तम् । तस्या गात्रामोदलोभाद्रमद्भिङ्गैाता सामुनालिङ्गिता च ॥ १९॥ सरोजिनीमध्यविराजमाना काचिन्मृगाक्षी कमनीयरूपा । वक्षोनकोशा मृदुबाहुनाला नालक्षि वायतफुल्लपद्मा ॥ २० ॥
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये च्युतः प्रसूनैर्घनकेशबन्धान्मृगीदृशां तारकिते जलेऽस्मिन् ।। निरीक्ष्यमाणं तरुणैश्चकोरैः कस्याश्चिदास्यं शशभृद्धभूव ॥ २१ ।। एवं जलक्रीडापरायणेषु पुरतरुणेषु, तटिनीतटालङ्कारभूतयोः कुबेरमित्रकुबेरदत्तनामजलधिसंभूतयोर्गुणमालासुरमञ्जरीनामधेययोः कन्या - रत्नयोः, चन्द्रोदयसूर्योदयाभिधपरस्परपटवासचूर्णोत्कर्षस्पर्धया पराजिता नवापगाजलस्नाता मा भूदिति कृतसंगरयोः, कुट्टिन्यौ, चूर्णमादाय, तत्र तत्र विचार्य, क्रमेण जीवंधरनिकंटमागत्य, चन्द्रोदयसूर्योदययोर्मध्ये कः श्लाघ्य इति पृच्छाञ्चक्रतुः । स्वामी च चन्द्रोदयचूर्णमूचे श्लाव्यं तदन्यदनकालयोग्यम् । आद्य किरन्व्योनि समावृतालिं निर्दिश्य च प्रत्ययमाततान ॥२२॥ ततः कुमारं कुरुवंशवीरं नत्वा च नुत्वा विनिवृत्य चेट्यौं । स्वस्वामिनीसंनिधिमेत्य वेगाद्विज्ञापयामासतुरेवमेव ।। २३ ॥
उभयोश्चूर्णयोरात्तगन्धभावे समेऽपिच ।।
जीवकेन विनिर्दिष्टे शुशोच सुरमञ्जरी ॥ २४ ॥ उल्लासयामास मुखाम्बुनातं चन्द्रोदयोऽयं गुणमालिकायाः। मूर्योदयो द्राक्सुरमञ्जरीश्रीवकाब्जशोषं व्यतनोद्विचित्रम् ॥२५॥
ततः पराभवजनितदुरासदेाकलुषितचेतना मुरमञ्जरी सख्या गुणमालया बहुधा प्रार्थिताप्यकृतस्नानैव निवृत्य जीवकादपरं नरं न पश्यामीति निश्वस्य कृतसन्धाबन्धा रोषान्धा कन्यागारं प्रविवेश ।
वयस्याविप्रयोगेन गुणमाला शुशोच सा ।
चन्द्रिकाया वियोगेन प्रातस्त्पलिनी यथा ॥ २६ ॥ तावत्सक्थिनवप्रभुग्नपवनाटोपोत्कटोत्पाटितैः
शाखानां वलयनिरभ्रगगनेऽप्यभ्रभ्रमं भावयन् ।
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुथी लम्मः । हाहाकारपराञ्जनाधिरचयत्राज्ञो मदान्धो गजो
वेगान्जङ्गमशैलराजगरिमा पौरव्रज प्राविशत् ॥ २७ ॥ करटोद्यन्मदाम्भोभिः मृजन्कल्लोलिनीयुगम् ।
अधावन्मत्तकुम्भीन्द्रो गुणमालारथं प्रति ॥ २८ ॥ तदा परिजनेषु परिणतकरेणुराजभयेन दूरदूरमपसर्पत्सु, कस्मिविद्धात्रीजने समसुखदुःखतया मां हत्वा सा हन्यतामिति गुणमालायाः पुरतः स्थिते, हतेति शब्दमुखरेपु समीपवर्तिषु जनेषु, करुणापरिणाहितहृदयो जीवंधरः समुपेत्य, केसरीव सिंहनादप्रतिध्वनितदिक्तटो हेलयैव सिन्धुरं भीकरमपि सूकरं विधाय तदीयस्कन्धमलङ्कुवन, कुम्भस्थलसाम्यविलुलोकिषयेव कुम्भस्थले करं, तस्याः स्तनकलशे दृष्टिं, मनसि तत्प्रस्तावं च वितस्तार ।
मदकलकलभस्य यानतुल्या गतिरिह यूथपयूथिकामकेश्याः । मृदुकरनिभमूरुयुग्ममस्याः कुचयुगमातनुते च कुम्भसाम्यम् ।।२९।।
इति मनसि चिन्तयन्नेव पञ्चशरप्रहारपरवशो गजराजमालानमानीय, सहचरैः सह रथमलंकुर्वन्, गजविज्ञानप्रशंसापरैः पारें : स्तूयमानो निजमन्दिरान्तरं प्रविवेश ।
साक्षात्पञ्चशरं कुमारमतुलं निध्याय रूढान्तरा
कामार्ता गुणमालिका च सदनं गत्वा चिरं विद्वला । ध्यायन्ती मनसा तमेव सततं संतापशुप्यन्मुखी
पृष्टाप्यत्र सखीजनैर्बहुतरं नैवोत्तरं सा ददे ॥ ३० ॥ बलवदस्वस्था गुणमाला कंदर्पनिन्दामेवमकरोत्
कुसुमायुध पञ्च ते कलम्बा नियता लक्ष्यजनस्त्वनेकिकः । इति चेदहमेकिका कथं वा गमितानन्तशरैश्च पञ्चताम् ॥३१॥ इति बहुधा प्रलपन्ती, तीव्रतरमदनसंतापमसहमाना क्षणं घनसा
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये ग्दीर्घिकापरिसरे क्षणमुपवनतटमञ्जुलनिकुञ्ज क्षणमास्तृतकुसुमतल्पे क्षणं मृदुलप्रवालशय्यातले क्षणं सुकुमारहंसतृलशयने क्षणं नवकदलीकानने कालं क्षिपन्ती, क्रमेण पत्रिका विलिख्य, कंचन क्रीडाशुकं जीवंधराय प्राहषीत् ।
जीवंधरोऽपि बहुधा विरहाग्निलीढ
मङ्ग दधन्निजगृहोपवने निषण्णः । चित्र विलिख्य कमनीयतमं तदङ्गं
निःश्वस्य विश्वमहितः सुचिरं लुलोके ॥ ३२ ॥ तावदागत्य चाटुवचनचतुरेण कीरेण प्रसंगात्समर्पितं पत्रं फलितमनारथसुरतरुपत्रमिवादाय तत्क्षणमेव द्रष्टुकामोऽप्यानन्दबाप्पनिरुद्धनयनमार्गतया विनितो मोदपरीवाहं कथं कथमपि नियम्य जीवंधरो वाचयति स्म ।
मदीयहृदयाभिधं मदनकाण्डकाण्डोद्यतं __ नवं कुसुमकन्दुकं वनतटे त्वया चोरितम् । विमोहकलितोत्पलं रुचिररागसत्पल्लवं
तदद्य हि वितीर्यतां विजितकामरूपोज्ज्वल ॥ ३३ ॥ आनन्दबाप्पसंरुद्धकंघरो गद्गदं पठन् । तदेवं विलिलेखाशु पत्रं तां प्रति मोदतः ॥ १४ ॥ मम नयनमराली प्राप्य ते वक्रपञ
तदनु च कुचकोशप्रान्तमागत्य हृष्टा । विहरति रसपूर्णे नाभिकासारमध्ये
यदि भवति वितीर्णा सा त्वया तं ददामि ॥ ३५ ॥ तावदन्तरुज्ज्वलितमनसिजाग्निधूमनिकरेणेव निःश्वासेन नीलमणीकृतनासामौक्तिका, क्षामक्षामाङ्गतया बलयीकृतकनकोमिका,
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो लम्यः । मुखसुधाकरकौमुदीलिप्ततयेव परिपाण्डरतनुवछी, भावनाप्रकर्षवशेन दिशि दिशि परिस्फुरन्तं जीवंधरमालोक्य प्रत्युत्भानाय कृतप्रयत्नापि मृणालकोमलैरङ्गैरपारयन्ती, प्रेषितशुकागमनविलम्बासहतया त्रस्तैकहायनकुरङ्गीवापाङ्गतरङ्गान्दिशि दिशि किरन्ती गुणमाला, समागतं जात्या कृत्येन च पत्रिण शुकमुद्रीक्ष्य, एोहि न सहे विलम्बमिति समालपन्ती, संनिहितं तं तत्समयजातप्रमोदोच्छूनाङ्गतया स्फुटितकझुकेन भुनयुगलेनादाय च पत्रं निरन्तरनिपतितैरपाङ्गैः सर्वत्र मषिलिप्त इव विचित्रे पत्रे रमणीयाक्षरमणीनपश्यन्ती, प्रीतिलतापुष्पायमाणमन्दहासधवलीस्ते तस्मिन्विलिखितं पद्यं वाचयन्ती वाचामगोचरमानन्दमभजत । तदिदं वृत्तमवेत्य कन्यकायाः पितराविङ्गितचेष्टितादिभिश्च । मुमुदाते स्म वरो हि योग्यभाग्यप्रथितो दुर्लभ एव भोभवीति ॥ ३६ ।। ___ तदनु गन्धोत्कटान्तिकं नीताभ्यां काभ्यांचिदामुप्यायणाभ्यामिमं वृत्तान्तं श्रवणपुटेनाधायाश्चर्यवृत्तिरयं मनस्यामोदमातन्वत्रसनयानुमतिवचनमकरन्दधारामुद्रिति स्म ।
शुभंयुगुणसंपन्ने मुहूर्ते गुणमालिकाम् । पुत्री कुबेरमित्रस्य परिणिन्येऽथ जीवकः ॥३७॥ तदा परिणयोचितभूपावेषोज्ज्वलः साक्षात्कन्दप इव संतर्पितसकलमनुजनयनः कुरुवंशवीरो जीवंधरः समदविस्तारितलोचनाभ्यां नयमालानन्दिनीमपि विनयमालानन्दिनी गुणमालां विलोकयामास । कुसुमातिशायि सुकुमारमङ्गकं दधती नभःस्थलनिकाशमध्यमम् । कुसुमेषुकार्मुकलतेव भाति या त्रिवली तदङ्गुलिसुसन्धिरेखिका ॥३८॥
यस्याः सुधासमरसाधरपल्लवाने
मन्दस्मितैः कुसुमितैः कुरुवंशकतोः ।
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधर चम्पुका
नेत्राम्बुजे तु फलिते हृदयं रसस्य
धारामसूत सपदीति विचित्रमेतत् ॥ ३९ ॥
तामेनामुपयम्यायं कुरुसन्तानकुञ्जरः । चिक्रीडाधित्यकाभागे चिरं मोदमहीभृतः ॥ ४० ॥
इति महाकवि हरिचन्द्रविरचिते श्रीमति चम्पुजीवंवरे गुणमालालम्भो नाम चतुर्थो लम्बः ।
पञ्चमो लम्बः |
शत्रुजीवलीकरणेषु दक्षजीवकवलं मनसैव । आलिहन्नथ करी तृणरूपं प्रागिव स्वकचलं विजही सः ॥ १ ॥ कुण्डलेन हतः सोऽयं कुण्डलीकृतदुर्मदः ।
रोष सोमिकमातेने कटकाश्रितकुञ्जरः || २ |
तदेतन्निशम्य विशांपतिर्विशालक्रोधानलं वनौकः सङ्घविजयेन सञ्जातं वल्लकीविजयेन पल्लवितमनङ्गमालासङ्गेन संदीपितं शुण्डालपतिशिरोमण्डलकुण्डलताडनेन जाज्वल्यमान कुमारनिकारेण शिशमयिषुः काष्टाङ्गारः, संगरे भङ्गुरं कुमारं हस्तग्राह गृहीध्वमिति मथनप्रमु खान्नियोज्य, संयोज्य च गजरथतुरगपादातशबलेन बलेन सह प्राहैषीत् ।
-
बलं पुरोधाय रथाधिरूढः प्रचण्डवृत्तिर्मथनश्चचाल | ज्ञात्वा कुमारोऽपि सहायजुष्टो रथी युयुत्सू रिपुमानशे तम् || ३ || गजा जगर्जुः प्रहाः प्रणेदुजिहेपुरश्वाश्च तदा रणाये । कुमारबाहासुखसुप्तिकायाः प्रबोधनायेव जयेन्दिरायाः ॥ ४ ॥
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमो लम्बः ।
कराचितशरासनादविरलं गलद्भिः शरैलुलाव कुरुकुअरो रिपुशिरांसि चापरमा । विभेद गजयूथपान्सुभटधैर्यवृच्या समं
ववर्ष शरसन्ततिं सममिभोगतैमैक्तिकैः ॥ ५ ॥ ततश्च हतशेषेषु सैनिकेषु तदीयप्रक्ष्वेडनाध्यापकादधीत वेगेषु तद भ्यासायेव दिशि दिशि पलायमानेषु विच्छिन्नशरासनरथादिपरि करतया कम्पमानमवलोक्य कुरुवीरो गभीरतरमेवमवादीत् । भवादृशे भुजोऽयं मे न बाणं मोक्तुमीहते ।
गच्छ गच्छ भयेनालं ब्रूहि राज्ञे कथामिमाम् ।। ६ ।। जेतुमस्मान्मृधारम्भे नेतुं कीर्ति दिगन्तरम् ।
भवान्तरे च चतुरं मन्यते यः स दुर्मतिः | ७ || तावदिदं वृत्तमाकर्ण्य कोपसंज्वलितनयनाङ्गारेण काष्ठाङ्गारेण पुनरपि सर्वाभिसारेण प्रेषितां चमूमवलोक्य करुणार्द्रमानसः कुरुकुलोत्तंसः क्षुद्रप्राणिवधेन किमिति युयुत्सामपास्य सकलापायापनयनदक्षस्य सुदर्शनयक्षस्य सस्मार |
यक्षाधिपः तनया सह तं समेत्य
शान्ति निनाय नरपालबलानि सद्यः ! जीवंधरं जयगिरिप्रथितं करीन्द्र
कौतूहलं च हृदयं कृतकृत्यतां स्वम् ॥ ८ ॥ दन्तावलोsयं कटदानधारासौरभ्यलोभागतभृङ्गसङ्घैः । जीवंधरश्रीपदपद्मसंगाद्रराज पापैरिव मुच्यमानः ॥ ९ ॥ तदनु सुरवारणमारूढः पार्श्वद्वयविधूयमानाभ्यां मुखकमलभ्रान्तिसमागतंहस मिथुनशङ्कावहाभ्यामनुरक्तयक्षाधिपराज्यलक्ष्मीमहितकटाक्षच्छटाभ्यामिवोर्ध्व नसृतदन्तावलदन्त युगलनिर्गलत्कान्तिकल्लोलाम्या
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
जीवंधरचम्युकाध्ये
मिव कमलशशाङ्कयोविनयेन मुखमभितः सेवमानाभ्यामिव की. र्तिशाबकाभ्यां भुनदण्डवास्तव्यनयलक्ष्मीमन्दहासरुचिपूराभ्यामिव क्षीराधिडिण्डीरचयाभ्यामिव चामराभ्यां विभ्रानितः, यशोविजि. ततया सेवार्थमागतेन परितोलम्बमानमुक्ताफलच्छलतारामण्डलम. ण्डितचन्द्रबिम्बेनेव कीर्तिक्षीरवाराशिफेनपुञ्जनेव मुखचन्द्रभ्रमसमा. गतपरिवेषेणेव सुरकराम्बुरुहविधृतकनकदण्डरुचिरधवलातपत्रेण वि. राजितः, सकलदिविनकुडलीकृताञ्जलिकापुञ्जमध्यराजहंसायमानः, शिखावलकुलनृत्यकलाविलाससंपादकैर्गभीरतरतूर्यनिनादैर्वाचालितद - शदिक्कटः, निरन्तरदन्दह्यमानकालागुरुधूमरेखया धवलातपत्रे शशिशङ्कासमागतविधुंतुदसंभाव्यमानया सुरभितसविधप्रदेशः, निरन्तरनिःसरत्पदनखकान्तिििनजाक्रमणभिन्नकुम्भस्थलविगलन्मौक्तिकनिचयशङ्कामङ्क्रयन्, एकदोदितकोटिसूर्यरिव विमानारूढैयक्षैः परितःस्तूयमानवैभवः, नटन्तीः सौदामिनीलता इव त्रिदशवनिता निःसरदपाङ्गसुधातरङ्गिणीमध्ये भुजोल्लासितलास्यलीलावशेन प्लव. न्तीरिव समाकलयन्, शनैः शनैर्वृन्दारकवन्दिसंदोहपापठ्यमानबिरुदावलिमुखरीकृतकन्दरतया प्रतिध्वानवशेन स्वयमपि स्तुति माचरन्तमिव चन्द्रोदयनामानं भूमिधरमेत्य, तत्र विचित्ररत्नमयमण्डपमध्ये सरभससंनाहैरमृतान्धःसमूहैः समानीतं मूर्तमिव सकलानुरागं पद्मरागमयं सिंहविष्टरमलंचकार ।
प्रणेदुः पटहास्तत्र प्रतिवानितकन्दराः । __ गायन्त्यो मञ्जु किंनर्यो ननूतुश्च समन्ततः ॥ १० ॥ ततः कलशवारिधि प्रति चचाल यक्षाधिपः
सुरैः करसरोरुहाञ्चितसुवर्णकुम्भैः सह ।
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पञ्चमा लम्बः
Acharya Shri Kailassagarsuri Gyanmandir
सतां पथि समावहन्वितत सान्ध्यमेवभ्रमं
किरीटमणिकान्तिभिः सुरपचाप संभावनाम् ॥ ११ ॥ एते देवाः पूर्वमागत्य लक्ष्मी धेनुं चिन्तारत्नमन्यांश्च हृत्वा । आशापाशादागतास्ते पुनश्चेत्येवं दुग्धाम्भोधिरातं ररास ॥ १२ ॥ ततश्च कुरुवीरं धैर्यगुणेन स्पर्धमानश्चन्द्रोदयगिरिस्तदीयपादस्पशेन कृतार्थतामाससाद, अहमपि गाम्भीर्ययशोम्यां स्पर्धमानस्तदीयसर्वाङ्गस्पर्शेन कृतकृत्यतामनुभवामि, इति चलाचलवीचिबाहुभिर्तृ त्यत इव फेनकूटेन, घोषकपटेन चाट्टहासमातन्वानस्येव, दुग्धसागरस्य पयोभिः पूरितान्कनककलशान्विभ्राणास्ते यक्षाध्यक्षमुखाः, सत्वरमागत्याभिषेकमङ्गलं कर्तुमारभन्त ।
यक्षेशमुख्यकर लम्भित हेमकुम्भ
पतेः पपात कुरुकुञ्जरमूर्ध्नि तोयम् ।
संन्ध्याभ्रसङ्घविगलडिमलाम्बुवर्षं
प्रालेयशैलशिखराग्र इवातिसान्द्रम् ॥ १३ ॥
-
समापिते साध्यभिषेकमङ्गले निलिम्पकान्तानयनान्तवारिभिः । परीतमूर्तिः पुनराबभावसौ पयोऽधिपूरैरिव सिच्यमानः ॥ १४ ॥ ततो दिव्याम्बरधरो मणिभूषणमण्डितः ।
रजे जीवंधरस्वामी सचापशरदभ्रवत् ॥ १५ ॥ यक्षाधिपार्पितं कल्पवृक्षाञ्चितफलादिकम् । जग्राह जीवकस्वामी निग्राहचतुरो द्विषाम् ॥ १६ ॥ ततः क्रमेण यक्षाध्यक्षेणोपदिष्टं कामरूपविधानगानविषहानशक्तियुक्तं चिरनं मन्त्ररत्नं बहुमन्यमानः, 'एकहायनमात्रेण राज्यलक्ष्मीकटाक्षान्प्रवेक्ष्यसि' इति तद्वचनेन संतुष्टः सन्ततं प्रश्रयवशंवदैर्यक्षैः संभाव्यमानः कुरुवीरः कदाचिद्देशान्तरदिदृक्षामिङ्गितै
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्य यक्षाध्यक्ष ज्ञापयामास ।
मनीषितं तस्य कुरुत्तमस्य ज्ञात्वा मनीषी स हि यक्षराजः । मार्गस्य भङ्गी स्फुटतोऽभिधाय संप्रापयामास तदद्रिसीमाम् ॥१७
तदनु कुरुवंशकेसरी केसरीव तत्र तत्र निर्भय एव विहरन, कचिदतिविततानोकहकुलविलसितमसूर्यपश्यं तरक्षुमृगाधिष्ठानम्, क्व. चन तरुषण्डे कादम्बिनीभ्रान्त्या दूरोन्नमितकेकागर्भकण्ठं प्रबल. पुरोवातसंताडितशिखण्डं नीलकण्ठम्, कुत्रचिन्महागुल्मान्तरकुडुम्बि शबरकदम्बकम्, कुत्र च नीपपादपस्कन्धनिषण्णशुण्डादण्डं करिणीसहायं शुण्डालमण्डलम्, कुत्रचित्स्तनधयशिशुसंरुहां हरिणी भुनप्रीवमवलोकयन्तं धावमानहरिणम्, कुलचन दशनान्तरस्थिततृणकबलच्छेदशब्दं नियम्य व्याजिह्माङ्गैः कुरङ्गैः श्रूयमाणगानकलाप्र. वीणं किरातस्त्रैणम्, कचन गर्ननतर्नितस्तम्बेरमनिचयं मृगेन्द्रचयम्, कुत्रचिद्धराकारमजगरनिकरं पश्यन्, क्रमेणातिलवितविपिनपथः, क्वचिदरण्ये समुद्गतधूमपरीता_कषभूमिरुहतया सजलजलधरश्यामलं तरुनिकरमिव कुर्वन्तं प्लोषचटचटात्कारेणाट्टहासमिवातन्वानमतिवेगसमाक्रान्तकाननं दवदहनं ददर्श ।
असूर्यपश्येषु प्रचुरतरुपण्डान्तरतल.
प्रदेशेष्वत्यन्तं यदुषितमभृदन्धतमसा । तदनित्रासेनोद्यतमिव तदा धूमपटलं
तमालस्तोमाभं गगनतलमालिङ्गय ववृधे ।। १८ ।। दवानलोद्गता धूम्या महती गगनश्रिया ।
धृतनीलपटीवासौ वभौ व्याप्तदिगन्तरा ॥ १९ ॥ तदानी दवहुताशनपरीतं विपिनम्, अनलवृद्धिलिङ्गः विस्फुलिङ्गैरुडुनिकरमिव, देदीप्यमानकीलाकलापैः संध्यारागरञ्जितमिव, धूम
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
1
www.kobatirth.org
पञ्चमो लम्बः ।
स्तोमेन ध्वान्तदन्तुरितमिव, ज्वलज्ज्वलनेन संध्यारक्तचन्द्रबिम्ब चुम्बितं नमस्तुलमिव व्यराजत ।
तदा हरिणमण्डलं हुतवहाक्रमत्रासतो विलोलनयनाञ्चलैर्विजितबालनीलोत्पलैः ।
Acharya Shri Kailassagarsuri Gyanmandir
काननमराजत ।
दवानलविनाशनप्रथितवेगकूलंकषां
कलिन्दगिरिनन्दिनीं कलयति स्म कल्लोलिनीम् ॥ २० ॥
तदनु धूमस्तोमचुङ्कारेण ज्वालाकलापफटफटात्कारेण शबरजनहाहाकारेण तन्मव्यनिरुद्धसत्व यूथार्तविरावेण च बधिरीकृतदिशावशावल्लभे हुताशसंत्रासधावमानवनदेवता शिथिलकबरीनिकरपरिशीलितसाम्यया धूम्ययान्धीकृतसकललोके वैश्वानरे विजृम्भिते, भाविमेघपटलशम्पागर्जितानि धूमस्तोमज्वालादहनचटचटात्कारैः परिहसदिव
अनेकपकुलं तत्र दह्यमानं दवाग्निना ।
त्रातुमैच्छद्दयापूर जलधिः कुरुकुञ्जरः ॥ २१ ॥ तस्याकृतमवेत्य यक्षपतिना वेगेन संकल्पिता
जीमूता वियदङ्गणे परिणता धूमप्रकारा इव । उद्यद्गर्जितपाटिताखिलमहादिग्भित्तयस्तत्क्षणं
वर्षं हर्षितजीवका विदधिरे कल्पान्तमेवायिताः ।। २२ ।। यक्षेन्द्रकल्पितवनावनमण्डलं त
चक्रेऽभिषेचनमरण्यगजव्रजस्य ।
वारांनिधेर्विमलशीतपयः प्रवाहै
यक्षाधिराज इव कौरवकुञ्जरस्य ॥ २३ ॥ तथा हि । सौदामिनी सुभगनर्तकरीवितानमभ्रं शिखावलकुलं पटुवन्दिवर्गः ।
-
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये मेघारवः सकलवाद्यरवस्तरूणां
गुच्छाः समीरचलिताः किल चामराणि ॥ २४॥ तदनु परिरक्षितानि शुण्डालमण्डलानि तरुषण्डानि च विटपसंसक्तबिन्दूत्करनिपतनव्याजेनानन्दबाप्पमुकुलान्युत्सृनन्ति विलोकमानः, संतोषेण तस्माइनान्निर्गत्य, तत्र तत्र मानुषरूपिण्या धर्मरक्षिण्या यक्षिण्या परिचर्यमाणः, तीर्थस्थानानि पूजयन्, क्रमेण कुरुमल्लः पल्लवदेशमानशे ।
सञ्चरंस्तत्र संतोषात्पञ्चबाणः कुरूत्तमः ।
धावमानानभिमुखं ददर्श पथि कांश्चन ॥ २५ ॥ तेऽपि तं कुरुवरं प्रभोज्ज्वलं वीक्ष्य विस्मयनिमनमानसाः । प्राप्य तस्य सविधं प्रमोदतः प्रश्रयेण मधुरां गिरमाहुः ॥२६ ।।
कुवलयाहादसंदायकोऽपि निखिलमहीभृन्महितपादोऽपि भवानदोषाकरतया न सुधाकरः, पद्मोल्लासनपटुरपि सन्मार्गाश्रितोऽषि सद्विरोधाभावेन न प्रभाकरः, सुमनोवृन्दवदितोऽपि क्षमाभृदनुकूलत. या न पुरंदरः, कुशाग्रनिकाशमतिरपि मौट्यविरहेण न सुरगुरुः ।
इत्यादिस्तुतिविस्तारान्परिपप्रच्छ ताञ्जनान् । क्वत्याः के यूयमित्येवं कुरुवीरः कुतूहलात् ॥ २७ ॥ इति जीवंधरेण पृष्टास्तेऽप्येवमवोचन्तअत्रास्ति चन्द्राभपुरी प्रसिद्धा यथार्थनाम्नी घनवन्नौधैः । अभ्रंलिहेरम्बुजसंभवस्य निर्माणनैपुण्यविलाससीमा ॥ २८॥ यस्यां निशायां मदिरेक्षणानां कपोलदेशे प्रतिबिम्बदम्भात् । मुग्वाजकान्तेरपहारसक्तः समागतश्चन्द्र इवाबभासे || २९ ।।
यत्सालरत्नकान्तीनां पटलेनेव तर्जितः । भानुप्रजपटच्छन्नो भाति प्रविरलातपः ॥ ३० ॥
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमो लम्बः ।
तां पालयत्यमरराजसमानकीर्तिः
शौर्याकरो धनपतिप्रथितो महीशः । श्रीमानहीनवपुरप्यभुजङ्गलीलो
मित्रानुरागसहितोऽपि कलाधरेच्छः ॥ ३१ ॥ श्रीराजकशिरोरत्नकान्तिबालातपाञ्चितम् । यस्य पादाम्बुजं भाति नखचन्द्रिकयोज्ज्वलम् ॥ ३२ ॥ तिलोत्तमेति विख्याता तस्य कान्ता मनोरमा । विरामभूमिः कान्तीनामनूनगुणभूषणा ॥ ३३ ॥ कान्त्या विजितपद्मास्ति तयोः पद्मति नन्दिनी । शिरीषसुकुमाराङ्गी कठिनस्तनकुलला ॥ ३४ ॥ कदाचिदेषा त्रिभुवनललामवल्ली विहाराय वनमागता तत्र तत्र सखीभिः सह विहरन्ती रोमराजिलतया वेण्या च मामियं निराकरोतीति कृतविद्वेषेणेवाशीविषेण दष्टा विदितवृत्तान्तेन महाचिन्तेन भूकान्तेन कारितामिमां निर्विषीकुर्वते दास्यते सार्धराज्या कन्यकेति घोषणां निशम्य समागतैर्विषवैद्यैश्चिकित्सितापि नोल्लाघतामाससाद । पद्मापि गौरी नरपालपुत्री मध्येन हीनापि सुमध्यमा सा । भुनङ्गदष्टा बत कन्यकापि विभाति सौख्यादिव मीलिताक्षी ॥३५॥
भवतां विषविज्ञानमस्ति चेन्निस्तुलप्रभम् ।
निर्विषीक्रियतामद्य कन्यारत्नं धरापतेः ॥ ३६ ॥ इति तेषां वचनमाकर्ण्य किंचिदस्तीति प्रत्युत्तरेण तान्कलकलेन केकिन इव जलधरो जीवंधरः संमोदयन्, तैरनुगम्यमानो राजभवनमासाद्य नगरमोहनाङ्गी सगरमोहनाङ्गी वयसा विषेण च श्यामागतया मालतीलतासर्वसाम्यमनुभवन्ती म्लानाम्बुजसंनिभभालां निप्पिष्टबालमृणालसंमितभुजयुगलां श्वसितकम्पितघनस्तनकुट्सलां नरपालबालामव
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये लोक्य पञ्चशरप्रहारवञ्चितेन मनसा यक्षराजस्य स्मरन्नभिमन्त्रयामाम |
तावन्मोहेन मुक्ता नरपतिदुहिता चन्द्रिकेव ग्रहेण धूमेनाग्नेः शिखवाचलवनतमसा मुच्यमानेव राका । आकाशस्येव लक्ष्मीरसितजलमुचा शैवलेनेव गङ्गा सेयं विद्युन्निकाशा सविधगतजनानन्दिनी द्रागुदस्थात् ॥३७॥ पिलोरानन्दिनी सेऽयं चन्द्रिकेव चकोरयोः ।
जीवधरस्य नयने सुखयामास सादरम् ।। ३८ ॥ तावदानन्दमकरन्दोद्गारिमनःसरोजेन क्षोणीपालकेन सविधमानीय कृतनुतिवचनेन मणिमयासनमधिरोपितः स्वामी जीवंधरः सप्रश्रयं संभावितस्तत्क्षणमेव रूपलक्षणादिना राजवंश्योऽयमित्ति संजज्ञे ।
आहूय कार्तान्तिकमुख्यबृन्दं क्षोणीपतिः संसदि निश्चिकाय । शुभ मुहूर्त स समादिशच्च विवाहसन्नाहविजृम्भणाय ।। ३९ ।।
तदनु मणितोरणपताकाकलशदर्पणादिभिरलंकृतासु नगररथ्यासु परिकल्पिते विविधरत्नस्तम्भचकचकितपरिणयमण्डपे तत्र विचित्रतया विरचितायां मङ्गलद्रव्यसंगतायां मणिवेदिकायां क्षितिपतिरुपयममङ्गलं विधातुमारेभे ।
नरपालसुतां स्नातां प्रसाधनगृहाङ्गणे । प्रसाधयितुमारेभे प्रहर्षेण सखीजनः ॥ ४० ॥ कलशजलधिवेलालोलडिण्डीरखण्डा
यितमृदुवसनेनावेष्टिता राजपुत्री । शरदमलघनालीशोभितेवेन्दुरेखा
सुरतरुनववल्ली पुप्पितेवावभासे ॥ ४१ ।। पादाम्बुजोल्लसितहीरकनूपुरश्री
राविबभूव नखचन्दिरसेवनाय ।
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमो लम्चः ।
तारावलिः पदसमीपगतेव तस्या
स्तारुण्यवीरुध इवापतिता सुमालिः ॥ ४२ ॥ तस्या गुरूजवनशोभितरशना मदनराजधानी कनकप्राकारावलिरिव मारमहानिधिनिधानवेष्टितभुजगीव मीनकेतनोपवनवृतिसुर तरुवल्लीव व्यराजत ।
हार: किं वा सकलनयनाहार एवाम्बुजाक्ष्या __ यहा वक्षोरुहगिरिपतन्निर्झरस्यैष पूरः । किं वा तस्याः स्तनमुकुलयोः कोमलश्रीमृणालो
भाति स्मैवं विशयवशतः स्त्रीजनैः प्रेक्ष्यमाणः ॥ ४३ ॥ नासामणिवक्रपयोजमध्यविभासुरोऽयं जलबिन्दुरेव । आहोस्विदस्या नवमौक्तिकं किं नासाख्यवंशाद्गलितं गरिष्ठम् ।।४४ कि काममन्त्रबीजालिः किं वा तद्विरुदावलिः । किंचित्कुचाब्जभृङ्गालिमकरी संशयं व्यधात् ॥ ४५ ॥ एवमलंकृतां मदनमोहनमन्त्रदेवतामिव साक्षादागतां विषमवाणकेलीमिव तरुणी रमणीजनचूडामणिं सखीजनः कामदेवस्य वेदिकामध्यविलसितमणिपट्टिकामध्यासीनस्य परिसरं शनैः शनैः प्रापयामास । तदनु सकलतूर्यस्वनितेषु मुखरितदिगन्तरेषु, मन्त्रविदां वचनेषु व्याजृम्भमाणेषु, वेदिकामभितो मङ्गलमणिदीपेषु देदीप्यमानेषु, पूज्यमानेषु हव्यवाहेषु जाज्वल्यमानेषु, परिणयमङ्गलदर्शनकुतूहलविवृतनयनेषु पुरंध्रीजनेषु, जनितसंमर्दनेषु परिपत्परिकरेषु, पार्थिवेषु निजभुजाङ्गदपरस्परसङ्घर्षविगलत्कनकशकल. व्याजेन बाहुप्रतापकणानिव किरत्सु, प्राप्ते च शुभे मुहूर्ते, जीवंधरस्वामी धनपतिनरपतिना वारिधारापुरःसरं प्रतिपादितां तिलोत्तमासुतां पद्मां पाणी परिजग्राह ।
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
६४
जीबंधरचम्पुकाव्ये प्राप्यार्धराज्यं कुरुवंशकेतुः कन्दर्पसाम्राज्यरमां च पद्माम् । प्रमोदकल्लोलपरंपराणामाघ्रातहृष्यहृदयाम्बुनोऽभूत् ॥ ४६ ॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुनीवंधरे
पद्मालम्भो नाम पञ्चमो लम्बः ।
. षष्ठो लम्बः । पद्मां पयोधरभरानतगालवल्ली __ पद्माननां कुरुवरो रमयंश्चिराय । तद्भातृभिगुणमणीकुलरोहणैस्तै
त्रिंशता प्रतिदिनं परिपूज्यते स्म ॥ १ ॥ कदाचित्कुरुवीरस्य सकलभूतसंतापनाशनं निखिललोकदेदीप्यमानं भुजप्रतापमाभिवीक्ष्य लन्जयेव संहृतनिजप्रतापे, स्वराभिसारनिरोधननितक्रोधानां बन्धकीनामारक्तकटाक्षच्छटाभिरिव संहृतनिजकरे समानी तपद्मिनीहृदयानुरागपरंपराभिरिव कुङ्कुमसच्छायमण्डले दिनकरे चरमशिखरिशेखरकनककलशशङ्काकरे, सायन्तनसुगन्धिशीतलमन्दपवनलोलिसललितलताङ्गुलितयाह्वयद्च इव वनविटपिभ्यो व्याकुलारावव्याजेन प्रत्युतरमभिधाय धावनव्यासङ्गेषु विहङ्गेषु, सहस्त्रपत्रेषु सह स्वकरकिरणान्क्रमेण निमीलदकैकदलंगणयत्स्विव मुकुलीभवत्सु, सिन्दूरच्छविबन्धुरे संध्यारागे वरुणदिशि विजृम्भिते, आविर्भवत्तिमिरनिकरबीजेप्विव बम्भरेषु पद्माकरं विहाय कुमुदाकरमाक्रमत्सु, ध्वान्तकदम्बमुद नृम्भत ।
लोकदीपे रवी लोकगृहमाभास्य निवृते । तत्कजलमिवानीलं तमोबृन्दमनायत ॥ २ ॥ संदष्टं बिसमुत्सृज्य चक्रहन्टेन मूर्च्छता ।
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो लम्बः । परिवृत्तमुखाब्जेन तूर्ण विजघटे तदा ॥ ३ ॥ दिनमणिविरहेण व्याकुलाङ्गी नभःश्री
स्तिमिरनिकरदम्भात्तूर्णमाकीर्णकेशा । उडुमणिगणलक्ष्यादश्रुबिन्दून्दधाना
रमणविपदि रेने रोदनं तन्वतीव ॥ ४ ॥ तमःशवरसंरुद्धां यामिनी निजवल्लभाम् ।
वीक्ष्य कोपादिवाताम्रः शशीः पूर्वाद्रिमानशे ॥ ५ ॥ तदनु निशाकरं पुरंदरदिशाविशालनयनामुखचुम्बनचतुरमालोक्येव पुरतरुणेषु कान्तामुखचुम्बनपरेषु, शशधरकरस्पर्शनविद्रुत. शशिकान्ततलमालक्ष्येव युक्तीषु दयितकरस्पर्शमात्रेण द्रवन्तीषु, तत्क्षणामुढेलजलनिधिमुट्ठीक्ष्येव समुल्लसदुल्लोलकल्लोले कामार्णवे, सरसीसमुइतसरोजेप्विव कुलटाजनलपनतटेषु मुकुलितेषु, क्रमेण नृपमन्दिरे निद्राणे निखिलजने, केनाप्यनुपलक्षितः कुरुवीरः पुरान्निश्चक्राम ।
गव्यूतिकाः काश्चिदतीत्य दूरं गतस्य सत्यंधरभूपसूनोः । शङ्कावधूटया हृदयाद्तायाः सहायता प्राप निशा किलैषा ॥६॥
पद्मापि कान्तविरहाम्बुधिमध्यभागे ___ संतापवाडवहुताशनकीललीढे । कंदर्पनक्रकलिते कलकण्ठगान
कोलाहले खलु ममज चिरादपारे ॥ ७ ॥ लोकपालननाः केचिच्चतुर्दिा गवेषिणः ।
प्राज्ञा अपि कुमारस्य नाज्ञासिषुरिहागतिम् ॥ ८ ॥ तत्र तत्र तीर्थस्थानानि यानंयानं सत्वरं गत्वरः कुरुवीरः, क्वचन वासःसमासक्ततापसकुलकप्यमाणतरुत्वड्भमरारावमुखरम्, क्वचि
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये त्पाण्डिषण्डकरमण्डितकमण्डलुमुखनैरिजलपुरणजनितकलकलशब्द शोभितम्, कुत्रचिट्ठालककुलत्रुटितोज्झितमञ्जिीमेखलाविकीर्णम्. कुत्र चन कुमारिकापूर्यमाणबालवृक्षालवालम्, कचन काषायवसनसेचनलोहितायमानसरोजलम्, वचन संसिक्तवल्कलशिखानिर्गलत्पयोधारा रेखाञ्चितम्, वचन चमूरुचर्मनिर्मितासनासीनजपपरजनसंकुलम्, कुत्र चित्स्नानकालसंसक्तशैवालच्छटायमाननटापटलधारितया परितो दे दीप्यमानपावकप्रसृतधूमरेखालिङ्गितैरिवोर्ध्वप्रसारितभुजदण्डैः पञ्चाग्निमध्यतपःप्रचण्डैस्तापसैर्मण्डितम्, वचन तत्पत्नीजनक्रियमाणनी वारपाकम्, क्वचित्तत्पुत्रच्छिद्यमानार्द्रसमित्समाकुलम्, तपोवनं ददर्श ।
असत्तपो वीक्ष्य कुरूजवीरः रुपानटीताण्डवरङ्गचित्तः । अबोधयत्ताञ्जिनधर्मसारमुपेक्षते कः पततो निकूपे ॥९॥ तण्डुलस्य विरहे जलानलाद्यागमेऽपि सफलो न हि पाकः । तत्त्वबोधविगमे तथा तनोर्दण्डनेन सफला न तपस्या ॥१०॥ मुधा जटाजूटयुता हि यूयं निटालदेशे तपनेन तप्ताः । बुधास्तपो हिंसनजुष्टमेतत्कर्तु सदा नाहथ निष्फलत्वात् ।। ११ ।। जटालानां जलान्ते वो जटालग्ना हि जन्तवः । पश्यताग्नौ च्युताः पश्चान्नश्यन्ति बहवः क्षणात् ॥१२॥ तस्मादिदं क्लिष्टतपो विहाय नैर्ग्रन्थ्यरूपं परमं भनेत । यस्मिन्सदा संनिहिता जिनाशिभक्त्यान्विते शाश्वतमुक्तिलक्ष्मीः ॥१३॥
इत्यादिप्रकारेण मुक्त्यङ्गनासंगमचाटुवचनायमानेन संसारवि शङ्कटकवाटविघटितपटुकुञ्चिकाभूतेन धर्मघण्टापथप्रतीहारप्रवेशप्र. तीहारायितेन निजगम्भीरवचनगुग्मेन संभावितानसन्मार्गलचनजङ्घा लान्सन्मार्गाक्रमणप्रवणान्कतिपयतापसानवलोक्य स्तोकेतरसंतोषसं वलितमानसः कुरुकुलोत्तंसः, तद्वनान्निगत्य, निसर्गरुचिरं नगर
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो लम्बः। प्रमुख रोचितमपि नरोचित सर्वोत्तरमपि नाम्ना दक्षिणं देशमा माद्य, क्षेमपुरोपवनमव्यवाभास्यमानं वनमण्डलमध्यशोशुभ्यमानरविबिम्बसमानमत्गुन्नतप्रमाणमपि भगवतो विमानमवालोकत ।
अभ्रंलिहाने रविदीप्रकूटैः सहस्त्रसंख्यैर्नवरत्ननद्वैः । मलक्ष्यते यः फणिराडिवोद्यन्पाताललोकात्कणरत्नजुष्ठः ॥१४ यत्कृटलना स्फुटतारकालिः सुमावलिश्यामरलोकवृष्टया । विभिद्यते घट्चरणैर्विलोलैर्गन्धान्वितैझरुतम गानैः ॥ १५ ॥ मन्दमारुतविधूतकेतनो यः सुरासुरगणं समन्ततः ।
आवयन्निव विभाति सन्ततं वन्दनाय विततेन बाहुना ॥१६॥ तादृक्षः सकललोकलोचनासेचनकं वटितकवाटकं श्रीविमानमालोक्यातिसंतोषविस्मयाभ्यां परवशो दिनेश इव सुराचलं प्रदक्षिणीकृत्य कृत्यविदामग्रणीः कुरुवंशमणिरेवं स्तोतुमारेभे ।
भवभरभयदूरं भावितानन्दसारं
धृतविमलशरीरं दिव्यवाणीविचारम् । मदनमदविकारं मञ्जुकारुण्यपूरं
अयत जिनपधीरं शान्तिनाथं गभीरम् ॥ १७ ॥ यस्याशोकतरुविभाति शिशिरच्छायः श्रितानां शुत्रं
धुन्वन्सार्थकनामधेयगरिमा माहात्म्यसंवादकः । यं देवाः परितो ववपुरमितेः फुल्लैः प्रसूनोच्चयः कल्याणाचलमन्ततः कुसुमिता मन्दारवृक्षा यथा ॥ १८ ॥ सकलवचनभेदाकारिणी दिव्यभाषा
शमयति भवतापं प्राणिनां मत यस्य । अमरकरविधूतश्चामराणां समूहो विलसति खलु मुक्तिश्रीकटाक्षानुकारी ।। १९ ।।
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवघरचम्पुकाव्ये
कनकशिखरिशृङ्गं स्पधेते यस्य सिंहा
सनमिदमखिलेशं द्वेष्टि धैर्यादितीव । वलयमपि च भासां पद्मबन्धु विरूढे
मम पतिरिति सोऽयं ख्यातिमापेति रोषात् ॥२०॥ त्रिभुवनगतिभावं घोषयन्यस्य तारो
मुखरयति दशाशा दुन्दुभिध्वानपूरः । शमयितुमिह रागद्वेषमोहान्धकार
त्रितयमिव विधूनां भाति च्छत्रत्रयं तत् ॥२१॥ अक्षयाय नमस्तस्मै यक्षाधीशनतातये ।।
दक्षाय शान्तिनाथाय सहस्राक्षनुतश्रिये ॥ २२ ॥ इत्यादिस्तुतिरवमुखरे कुरुवीरे, श्रीविमानाभ्यप्रविलसिता_कष चम्पकद्रुमे प्रकटितनिजानुरागपल्लवेनेव तत्क्षणसातमञ्जुलमञ्जरीभरेणावनतमौलितया तदीयदेहकान्तिविलोकनकन्दलितमन्दाक्षमेदुरतयेवावनने, पुरा मौनव्रतमाचरत्विव मूकीमूतेषु कलकण्ठेषु कुमारगम्भीरमधुरस्तुतिशैलीस्वरमभ्यस्यमानेप्विव मधुरस्वरमुद्रित्सु, तत्रत्यसरोवरे स्फटिकद्रवपूर्ण इव कौरववदनशशाङ्ककान्तिविद्रुततटघटितनिशाकान्तकान्तशिलाविगलिापयोधारापरिपूर्ण इव तदीयनुति विततिनिशमनविजृम्भितानन्दनिष्यन्दपूरित इव क्षणादवदातवारिभर. पूरिते, तत्र च विचित्रशतपत्रेषु सत्वरविसृत्वरगन्धावकर्षितलोलम्बकदम्बकरम्बितेषु, जीवंधरसुरुतततिकुश्चिकयेव तादृक्षमपि निनभ. वनमचिरेणोद्घाटितवजकवाटमजायत ।
आरामोऽयं वदति मधुरैः स्वागतं भृङ्गशब्दैः पुप्पानविटपिविटपैरानति द्राक्तनोति ।
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो लम्बः । पाद्यार्थ्यादीन्दिशति धवलैस्तत्सरस्याः पयोभि
रित्येवं श्रीकुरुकुलपतेरादधे भूरिशङ्काम् ॥ २३ ॥ विमानस्योत्सङ्गे विमलवपुषं शान्तिजिनपं
विलोक्यान्तर्भक्त्या कुरुकुलमणेस्तुष्टमनसः । दृशौ राकाचन्द्रद्रुतमणिदशां द्रागभजतां
युगं पाण्योः प्रापन्मुकुलितपयोजाततुलनाम् ॥२४॥ तदनु, समीपमासाद्य सद्य एवोद्गतपुलकापदेशेन वाञ्छितवदान्यतरो/नावापमारचय्य प्रमदननितनयनप्रसृतबाष्पपयोभिः सेकमिवा. दधानः, कश्चन नागरिकपुरुषः, प्रश्रयभरकलितार्धसाहाय्यकेन प्रणामेन दुरितं धुनानः, करुणाकरेण कुरुवीरेण 'कस्त्वमार्य' इति पृष्टः, तुष्टहृदयः शुभोत्तरमुत्तरं वक्तुमुपादत्त ।
प्रथिता विभाति नगरी गरीयसी
धुरि यत्र रम्यमुदतीमुखाम्बुजम् । कुरुविन्दकुण्डलविभाविभावितं
प्रविलोक्य कोपमिव मन्यते जनः ॥ २५ ॥ या क्षेमनगरीत्येवमभिख्यामावहन्त्यपि । पाकवैरिपुराभिख्यां दधाति मणिमन्दिरैः ॥ २६ ॥ तत्रास्ति देवान्त इति प्रतीतो नृपः कृपाचित्रितचित्तगेहः । क्षोणीशकोटीरसुमावलीनां धूलिव्र जैः पिञ्जरिताङ्गिपीठः॥२७॥ यस्मिञ्छासति मेदिनी नरपतौ सद्वृत्तमुक्तात्मता ___ हारेप्वेव गुणाकरेपु समभूच्छिद्राणि चैवान्ततः । लोल्यादन्यकलत्रसंगमरुचिः काञ्चीकलापे परं
संप्राप्तः श्रवणेषु खञ्जनदृशां नेत्रेषु पारिप्लवः ॥ २८ ॥ तस्य श्रेष्ठिपदप्राप्तः सुभद्रो वणिजां पतिः ।
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये
स्वयं निवृतिरस्यासीद्या कान्ता निवृतेः पदम् ॥ २९ ॥ तयारभूत्सुतारत्नं क्षेमश्रीरिति विश्रुतम् । प्रत्यादेशः सरस्वत्याः पर्यायः कमलाकतेः ॥ ३० ॥ या कान्तीनां परा संपद्विनयाम्बुधिचन्द्रिका । लजाया जननस्थानं जयकेतुमनोजनेः ॥ ३१ ॥ विधाय पूर्णशीतांशुं विधाता यन्मुखाह्वयम् । निजासनाब्ननिद्रातो नूनं दुःस्थितिरञ्जसा ॥ ३२॥ एतस्या वदनं दन्तकान्तिभिः क्लप्तकेसरम् । पद्मं ध्रुवं मधुलिहा भवितव्यं भवादशा ॥ ३३ ॥
अत्रत्यजिनालयवजकवाटविघटनकुञ्जिकायमानस्तुतिवचनरचनः पुरुषपञ्चवदनस्तत्पतिर्भविष्यतीति जननलग्नफलनिश्चयचतुरकार्तान्तिकवातां निशम्य तदवसरप्रतिपालनविनिद्रेण सुभद्रेण, प्रेषितो गुणभद्रसमायोऽहं, भवन्तं समीक्ष्य कृतार्थतामनुभवामीति व्याहृत्य, मुभद्राय वृक्षान्तमिमं कथयितुं निर्जगाम ।
तदनु सरसीपुष्पाण्यादाय भक्तिभरानतो
जिनपभवनं विन्दन्वन्दारुकल्पकशाखिनः । जिनवरपतेः पूनां कर्तुं समारभत स्वयं
कुरुकुलवरः सोऽयं पारीणपुण्यगुणाकरः ।। ३४ ॥ गुणभद्रोऽपि संप्राप्य सुभद्रं भवमन्दिरे । चिन्ताानेद्रां बिभेदाशु वचःपीयूषसेचनैः ॥ ३५ ॥ कश्चित्पूरुषचन्द्रमाः कुवलयायाह्लादसंदायकः
संतोषाम्बुधिवर्धकः स्तुतिमयीं पीयूषधारां किरन । वाह्योद्याननभःस्थलीमवतरन्वाभाति यद्दर्शना
दारामः सरसीजलच्छलवशादानन्दबाप्पं दधे ॥ ३६ ॥
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो लम्बः ।
७१ सोऽयं न चन्द्रो न च पञ्चवाणो न वासवः किंतु वसन्त एव । कुतोऽन्यथा चम्पकपादपस्य प्रसनभारस्ततगन्धपुरः ।। ३७ ॥
तस्मिन्स्तुतिरवमुखरे पुरुषकुञ्जरे वनस्थली भास्वतीव प्राची दिशमधिगच्छति जिनभवनं कमलवनं च क्षणादुद्वाटितकवाटमजायतेति ।
श्रुत्वा तदीयामतोर्मिलां गां तस्मै ददावुच्छ्रितपारितोषिकम् । मनोरथस्फूर्तिलताप्ररोहोपदानमौल्यं किल तद्वणिक्पतिः ॥ ३८ ॥
तदनु निजसहायतासहितो वणिजां पतिस्तुङ्गतमशताङ्गमा रूदः, पुरतोरणमतीत्य, पुरतो विराजमानं श्रीविमानमासाद्य, तत्र वन्दारुजनसन्दोहमन्दारस्य शान्तिनाथस्य पादारविन्दसेवा हेवाकभावकलितान्तरङ्गम्, अगण्यपुण्यपुञ्ज इव विस्तीर्णस्फटि कोपलविष्टरे तस्थिवांसं जीवंधरमद्राक्षीत् |
पश्यता वैश्यनाथेन परमोत्कृष्टलक्षणम् ।। निर्निमीलननेत्रेण निरणाय्यस्य वैभवम् ॥ ३९ ॥ कान्त्या परीतं कुरुवंशकेतुमुवाच मोदन विशामधीशः । मप्रश्रयं सत्कृतशान्तिनाथमुपागतः स्वागतमारचय्य ॥४०॥ फलं दृष्टयोः प्राप्तं परिणतमयं मे मुदिवस
स्तदस्मद्वंश्यानां स्तसुरुतवल्ली च फलिता । मदीयेष्टार्थोऽपि स्फुटतरमदूरे विजयते
यतः श्रीमान्प्राप्तो नयनपथपान्थत्वमधुना || ४१ ॥ पद्माप्ततां कुवलयोल्लसनं च तन्व
मद्य प्रकाशति पुरस्त्वाय राजहंसे । मर्यो भयाकलितवृत्तिरभूच्छशाको
दीपाकरो धृतकलङ्कभरः क्षयिष्णुः ॥ ४२ ॥
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये युप्मत्पादपयोजधूलिनिचयैरत्रालयो मामकः
शुद्धः कार्य इति प्रमोदकलिका चित्ते जरीजृम्भते । सेयं संप्रति धीमता विकसिता कार्या न चेदेष वै
द्रागाकारखिलीभवत्तदभिधावाच्यार्थमाटीकते ॥ ४३ ॥ सकलभवनवृन्दं सत्पदाम्भोजधूली
परिचयपरिहीनं नैजनानोऽन्यथार्थम् । भजत इति ह लोके सुप्रतीतं सुधीनां
निखिलगुणपयोधे महचोऽङ्गीकुरुष्व ॥ ४४ ॥ तदनन्तरमनुकम्पितचेताः कुरुकुलशशाङ्कस्तद्वचनं बहुमन्यमानः, नपनरथजवनिन्दनेन स्यन्दनेन गोपुरद्वारं प्रविश्य, प्रासादपालिकावातायनप्रसृतपुरन्ध्रिकापाङ्गतरङ्गितनीलोत्पलश्यामलतोरणदामावलीषु प्रतोलीषु रक्तनयननालीको नालीकसायकस्तालीफलस्तनीनां व्यालीनिभवेणीनां रमणीमणीनामसिभ्यः पुष्कलसमदाश्रुलहरीम् , कटितटेभ्यो नीवीबन्धपदवीम् , हृदयेभ्यो धैर्यपरिपाटीम्, युगपदलितामादधानो, मन्दमन्दं तन्मन्दिरमविन्दत ।
तत्रालये कनकपीठमलंकरिष्णु
जिष्णुप्रतीपविभवः कुरुवंशकेतुः । संप्रार्थितो बहुतरं वणिनां वरेण
__ कन्याकराम्बुरुहपीडनमन्वमस्त ॥ ४५ ॥ हुताशने साक्षिणि भद्रलग्ने सुभद्रदत्तां कुरुसिंह एषः । क्षेमाश्रियं कोमलगालवल्ली जग्राह पाणौ जगदेकवीरः ॥४६॥ पाणिपनं गृहीत्वास्याः स्विन्नाङ्गलिदलोज्ज्वलम् ।
मृदुलं सुकुमाराङ्गयाः संदिग्धे कुरुकुञ्जरः ॥ ४७ ।। तथाहि---
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सप्तमो लम्बः ।
अवश्यायाकीर्णः किमु कमलकोशो न हि न हि प्रभेक्तस्यास्ते किमु नखसुधासूतिमिहिका । न चास्याः सौगन्ध्यं सपदि करनी रेजविगलन्मधुस्यन्दः किं वा न हि न हि सुधैव प्रसरति ॥४७॥ तौ दम्पती महाकान्ती मणिभूषणमण्डितौ । चकासामासतुर्वेद्यां रतिपञ्चशराविव ॥ ४८ ॥ क्षेमश्रीः कुरुकुञ्चरस्य सविधे पाथोजधिक्कारिणी
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो लम्बः ।
पट्ट्यामूरुयुगेन सारकदलीकाण्डश्रियं विभ्रती । पाणिभ्यां नवपल्लवप्रतिमतां संसूचयन्ती स्वयं
वक्षोजद्वितयेन कोकयुगलीन्यक्कारधीरा बभौ ||४९ ॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे क्षेम श्रीलम्भो नाम षष्ठो लम्बः ।
*
७३
तदनु कुरुवरिष्टः क्षेमलक्ष्म्या कशाङ्गया निरवधिसुखतातिं नित्यसंयोग हेतुम् । अविरतमनुभूय प्रागिवासौ कदाचि
निशि निरगमदेकः काननान्तं क्रमेण ॥ १ ॥ तदनु, प्राणकान्तावियोगेन तान्तां दग्धरज्जुसमकान्तिसंक्रान्ताम्, नयनयुगलं निःश्वासं च दीर्घमादधानाम्, पयोधरभरं संतापं च गुरुं विभ्राणाम् कचनिचयं चित्तं च तमः समूह सहायमातन्वतीम्, तनुवहीं मध्यस्थलं चातितनुमाकलयन्तीम्, दुःखसागरनिमनां पुत्री विलोक्य, सुभद्रोऽपि संतप्तस्वान्तः कान्तारमागत्य तत्र तत्र
7
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
जीवंधाचम्पुकाव्ये विचित्य, तदीयमार्गमलभमानो न्यवर्तिष्ट ।
स्वामी च काननतले गगने शशीव
सञ्चारकेलिचतुरो मणिभूषणानि । कस्मै चिदर्पयितुमैहत दानशीण्डो
धर्माध्वनीनमनसे वनसेवकाय ॥ २ ।। करधृतऋजुतोत्रः कम्बलच्छन्नदेहः
कटितटगतदात्रः स्कन्धसंबहसीरः । वनभुवि पथि कश्चिन्नागमत्तस्य पार्श्व
नियतिनियतरूपा प्राणिनां हि. प्रवृत्तिः ॥ ३ ॥ ततः कपासंक्रान्तस्त्रान्तः कुरूनिशाकान्तः, पार्श्वगतं नीलकम्बलावगुण्ठितकलेबरतयान्तरमेयत्वेन बहिरपि प्रसरताज्ञानपटलेने वावृतम्, मलीमसोप्णीषपरिष्कृतोतमाङ्गतया कुरुवीरदर्शननिर्गमिप्यत्पापमिव प्रतीयमानम्, कान्त्या जात्या च जयन्यवर्णम्, तमेनमालोक्य, 'अपि कुशलम्' इति पप्रच्छ ।
सौलभ्यं हि महत्ताया भूषणाय प्रकल्पते ।
प्रभुत्वस्येव गाम्भीर्यमौदार्यस्येव सौम्यता ॥ ४ ॥ महत्त्वमात्रं कनकाचलेऽपि लोष्टेऽपि सौलभ्यमिह प्रतीतम् । एतद्वयं कुत्रचिदप्रतीतं कुरुप्रवीरे न्यवसत्प्रकाशम् ॥ ५ ॥
वृषलोऽपि विनीतः सन्नुवाच कुरुकुञ्जरम् ।।
कुशलं साम्प्रतं युप्मदर्शनेन विशेषतः ॥ ६ ॥ तदिदमार्कण्याव्याजबन्धु वंधरः, जीवादितत्त्रयाथात्म्यविवेचनचतुरः तत्तादृशागण्यपुण्यकलभ्यां मोक्षपदवीं विवरीतुमारभत । कुशलं न हि कर्मषट् नातं विविधाशाव्रततिप्ररोहकन्दम् । भगवर्गजमात्मसाध्यमाहुः कुशलं सौख्यमनन्तमात्मरूपम् ।। ७ ।।
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो लम्बः ।
तच्च रत्नत्रये पूर्णे परमं प्राप्यमात्मनः । तच्च सदृष्टिसंज्ञानचारित्राणि प्रकीर्तितम् ॥ ८ ॥ आप्तागमपदार्थानां श्रद्धानं दर्शनं विदुः । तन्मूले ज्ञानचारित्रे भव्यलोकैकभूषणे ॥ ९ ॥ उत्तमाङ्गमिवाङ्गेषु नयनं करणेष्विव । मुक्त्यङ्गेषु प्रधानाङ्गं सम्यग्दर्शनमिष्यते ॥ १० ॥ आत्मा हि ज्ञानदृक्सौख्यलक्षणो विमलः परः । सर्वाशुचिनिदानेभ्यो देहादिभ्य इतीरितः ॥ ११ ॥ इत्यादि स्वार्थविज्ञानं सम्यक्ज्ञानमसंशयम् । सम्यक ज्ञानवता कार्यः परित्यागः परस्यवै ॥ १२॥ परित्यागवतो जीवा द्विविधाः परिकीर्तिताः । अनगाराश्च सागाराः पूर्वे सावद्यवर्जिताः ॥ १३ ॥ यतीनां सुधर्म न शक्नोषि वोढुं महोक्षेण वाह्यं यथा तत्किशोरः । अतस्त्वं गृहाण गृहस्थस्य धर्मं यतो मुक्तिलक्ष्मीरदूरे भवित्री ॥ १४ ॥ पञ्चाणुव्रत संपन्ना गुणशिक्षाव्रतोद्यताः । सम्यग्दर्शनविज्ञानाः सावद्या गृहमेधिनः ॥ १९ ॥ हिंसानृतस्तेयवधूव्यवायपरिग्रहेभ्यो विरतिः कथंचित् । मद्यस्य मांसस्य च माक्षिकस्य त्यागस्तथा मूलगुणा इमेऽष्टौ ॥ १६ दिग्देशानर्थदण्डेभ्यो विरतिस्तु गुणव्रतम् । भोगोपभोगसंख्यानं केचिदाहुर्गुणव्रतम् ॥ १ सामायिकः प्रोषधकोपवासस्तथातिथीनामपि संग्रहश्र । सल्लेखना चेति चतुःप्रकारं शिक्षाव्रतं शिक्षितमागमज्ञैः ॥ १८ ॥ इत्युक्तव्रत संपन्नः कचिदेशे क्वचित्क्षणे | महाव्रती भवेत्तस्माद्वाह्यं धर्ममगारिणाम् ॥ १९ ॥
For Private And Personal Use Only
|| 6
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाव्ये इति प्रतिपादितं धर्म शिरसा मनसा च प्रतिगृहानमन्तर्गतप्रतापकोरकपुञ्जमिव मणिभूषणगणमात्मना वितीर्णमत्यादरमेदुरेण करेण पचेलिमभाग्यवृन्दमिवादाय संमदपयःपूरैः क्षालयन्तमिवातिसंतोषकोरकितान्तरङ्गं तं धार्मिक मुत्सृज्य तस्य स्मरन्नेव कुरुकुञ्जर - स्तस्मादनान्निर्जगाम ।
गभस्तिमाली गगनस्य मध्यं द्रुमालवालं जलमध्यमेणः । . जिह्वा च शोषं सममाप नृणां शरीरमुद्यवनधर्मतोयम् ॥२०॥
तदानीं, पचेलिमहेलिसंतापार्ततया वृष्टचन्दनरसपाण्डुगण्डमण्डलेषु वनशुण्डालेषु चलाचलनिजकर्णतालपवनसंवीज्यमानाननेषु हस्तोज्झितशीकरनिकरसंसिक्तहृदयेषु मन्दमन्दमागत्य सरोवरप्रवेशनपरेषु, कर्णिकारमुकुलानि निर्भिद्यान्तीयमानेषु षट्चरणेषु, संतप्तनलं विहाय शीतलनलिनीदलं सेवमानेषु कारण्डवेषु, पञ्जरबद्धक्रीडाशुकेषु जलं याचमानेषु, विजगदेकातपत्रायितकीर्तिमण्डलेन सकलजनतासंतापनाशनोऽपि कुरुवंशपावनः प्रान्तो विश्रान्तिकते नमेरुतरुमूलमाससाद ।
निषण्णस्तत्र मधुरं रवं शृण्वन्कुरूतमः ।
संदिग्धे सिन्धुगम्भीरः कल्याणाद्रिरिव स्थिरः ॥ २१ ॥ दङ्कारः किं मारवाणासनस्य झङ्कारोऽयं मत्तमाध्वीलिहां किम् । हंसानां कि मञ्जुलः कण्ठनादः किंवा लीलाकोकिलालाप एषः ॥२२॥
इति संदेहं पराङ्गनानूपुररवविनिश्चयेन निवर्तयन्परपरिग्रहविरक्तमानसः कुरुकुलोत्तंसः पराङ्मुखो बभूव ।
संचरन्ती वने तत्र भर्ता काचन खेचरी ।
प्रतार्य तं मिषेणाशु पुरस्तादस्य संन्यधात् ॥ २३ !! यस्या मुखं पर्वविधु विनित्य भ्रूचापदम्भान्जयकेतुनहम् ।
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो लम्बः ।
७७
कर्णद्वये तज्जयकीर्तिपत्रं बभार ताटङ्कमणिच्छलेन ॥ २४ ॥
वृषस्यन्ती वरारोहा वृषस्कन्धं कुरूद्वहम् । वीक्ष्य तस्याङ्गसौन्दर्य नातृपत्सा त्रपाकुला ॥ २५ ॥ सस्यांसाविह रेजतुर्जयरमाक्रीडामहीध्राविव
श्रीदेवीस्थितिवजपट्टमिव यद्वक्षःस्थलं व्यावभौ । नाभिौवतग्विशालगनतारोधार्थवारीनिभा
जो पूगगुलुच्छनिन्दनकरे पादौ निताम्भोरुही ॥२६॥ यहकं विततान वाग्वरसतीक्रीडास्थलीविभ्रमं
यनासा च कलावतारविलसन्निःश्रेणिकासंशयम् । यन्नेत्रे ददतुर्विशालकमलाक्रीडातटाकभ्रमं
यद्ध्युग्ममपात्रकार नियतं निम्बच्छदाडम्बरम् ॥२७॥ अश्वस्यन्ती विशालाक्षी विश्वाधिकविभोज्ज्वलम् । करुवीरमुवाचेदं कुसुमायुधवञ्चिता ॥ २८ ॥ श्रीमन् तवाङ्गकान्त्या मे नयने सफलेऽधुना । कर्णौ वचनमाधुर्याइदयं गुणमालया ॥ २९ ॥ ममार्य विरहानलं शमय शीतलापाङ्गतो
मुखेन्दुरुचिसंपदा सपदि छिन्धि कामान्धताम् । सुधासमगिराधरामृतरसप्रदानेन च ।
प्रणाशय वृणानिधे बहलकामतृष्णामिमाम् ॥ ३० ॥ इत्यादितद्वचनपरिपाटीमाकर्ण्य शम्बरारिविकारसंतमसवासरायमाणमानसः कृत्यविदामग्रगण्यः कुरुवरेण्यः परीतवैराग्यप्रावण्यस्तदरण्यान्निर्गन्तुमारभत । तदनु पञ्चशरनाराचवञ्चितविवेका सा विद्याधरचञ्चलाक्षी किंचिदन्तरमुपसृत्य मदनहुतभुगरणिनिकाशतनुलता तदिङ्गितं विज्ञाय तन्मनोवशीकारकोरकितकुतूहला
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
जीपंधरचम्पुकाध्ये निजोदन्तमित्थं प्रकटयामास ।
अनङ्गतिलकाहया खचरकन्यकाहं विभो __वनान्तमिदमापिता गगनचारिणा केनचित् । अनेन निजनायिकाभयवशेन निःसारिता
दयाविसरवारिधे महित रक्षणीया त्वया ॥ ३१ ॥ अशरण्यशरण्यत्वं परोपकृतिशीलता ।
दयापरत्वं दाक्षिण्यं श्रीमतः सहना गुणाः ॥ ३२ ॥ "तवता, हा प्रिये हा प्राणकान्ते क्कासि क्कासि, वियोगवेदना विषमिव विसर्पति, पावक इवाङ्गानि निर्दहति, मृत्युरिव प्राणान्निःसारयति, मोह इव विद्यां विलुम्पति, रुकच इव मर्माणि कन्तति" इत्यादि कस्यचिदातखरं निशम्य विद्याधरविशालनयनायां मिषेणान्तहितायां, विस्मयविस्तृताक्षं कुरुहर्यक्षं सोऽपि विद्याधरः समीपमागत्य सगद्गदमेवमुवाच ।
सतीमुदन्याकुलितान्तरङ्गामत्रैव संस्थाप्य जलाशयाय । गतोऽहमागत्य सरोरुहाक्षी नाद्राक्षमद्य प्रतिकूलदिष्टात् ॥३३॥ नरोत्तम तया सार्धं विद्यापि मम निर्गता । मनोवृत्तिश्च तत्कर्तु चिन्तापि न हि शक्यते ॥ ३४ ॥ इति कर्तव्यतामूढं मामुद्दिश्य नरोत्तम ।
प्रज्ञानामग्रगण्यस्त्वं ब्रूहि कर्तव्यमत्र वै ॥ ३५ ॥ इत्यादिविद्याधरदैन्यदन्तुरितवचनरचनामाकर्ण्य पारावारगभीरः कुरुवीरो मन्दस्मितरुचिलहरीकपटेन सुधाधारां किरन्निव गम्भीरवचनगुम्भं विजृम्भयामास ।
धैर्योदार्यविवर्जितः क्षितिपतिः प्रज्ञाविहीनो गुरुः
कृत्याकृत्यविचारशून्यसचिवः संग्रामभीरुभटः ।
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो लम्बः ।
सर्वज्ञस्तवही नकल्पनकविवाग्मित्वहीनो बुधः स्त्रीवैराग्यकथानभिज्ञपुरुषः सर्वे हि साधारणाः ॥ ३६ ॥
वज्रात्कठोरतरमेणदशां हि चिनं
पुष्पादतीव मृदुलो वचनप्रचारः ।
७९
कृत्यं निजालककुलादपि वक्ररूपं
तस्माद्बुधाः सुनयनां न हि विश्वसन्ति ॥ ३७ ॥ वक्रं श्लेष्मनिकेतनं मलमयं नेत्रद्वयं तत्कुचौ मांसाकारaat नितम्बफलकं रक्तास्थिपुञ्जततम् । शीतांशुर्विकत्रोत्पलं करिपतेः कुम्भौ महासैकतं
भातीत्येवमुशन्ति मुग्धकवयस्तद्रागविस्फूर्जितम् ||३८|| इत्यादिनिजवचोविलासं विद्याधरजडहृदये सारमेयोदरे सर्पिरिवा संलग्नमालोक्य विस्तारितकरुणः कुरुवारणः, तस्माद्विपिनान्निर्गत्य, निसर्गरुचिरां नितम्बिनीमिव मुखभागकलिततिलकशोभमानां ष्टथुलकुचविराजितामक्षतरूपशोभितां मदनाधिष्ठितां चारामस्थलीमाससाद ।
यत्र हि.
श्रोत्रं भृङ्गकुलारवः सुखयति प्रत्यग्रपुष्पस्तरुनैत्रं फुल्छसरोजगन्धलहरी घाणं मनो दीर्घिका | वायुः स्पर्शनमन्ततो रसझरीपूर्णः फलानां चयः पक्कोऽयं रसनां तदिन्द्रियगणः सर्वः सुखं गाहते ॥ ३९ ॥ निर्मला सरसी यत्र निर्मिमीते मुदं पराम् । विशाला पद्मरुचिरा वीक्षिकेव घनश्रियः ॥ ४० ॥ तत्र चाभ्रंलिहस्य शकुन्तसन्तानदन्तुरित नीलच्छदस्य मधुलुब्धमधुकरकुलान्धीकृतस्य कस्य च रसालरंसारुहस्य शाखाग्रभाग
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८.
जीपंधरचम्पुकाव्ये विराजितं वनदेवतारसपूर्णहेमकरण्डकायमानं परिपाकपाटलफलं पातयितुं प्रयतमानानपराद्धानेकशरनिकरानरपतिकुमारानवलोक्य, लोकोत्तरकोदण्डविद्यापाण्डित्यमण्डिता जीवंधरः करकलितकार्मुकलताविस्फारपूरितदिगन्तरः, सरभसप्रक्षिप्तप्रक्ष्वेडनलक्षीकृतं तत्फलं सशिलीमुखं करेणोपादत्त ।
उदारः सहकारोऽयं मार्गणाय फलं दिशन् ।। भेने कल्पकतां नो चेत्सुमनस्सेव्यता कथम् ॥ ४१ ॥ - दृष्ट्वा फलं सशरमापतितं कराब्जे
जीवंधरस्य शरकौशलपारगस्थ । व्यस्मेष्ट मक्षु नरपालतनूजवर्गः
___ श्लाघावशेन विगलन्निजकर्णपरम् ॥ ४२ ॥ - ततस्तत्समीपमभ्येत्य कलितविनयो राजतनयः, ससाध्वसं, भो भो महाभाग कार्मुकविद्याकोविद, मामज्ञातभवादशसजन'समुचितसल्लापप्रकारमपि मुखरयति श्रीमदीयचापविद्यावैदग्ध्यनिरीक्षणक्षणमनितविस्मयः काञ्चनगौरतावकशरीरसौन्दर्यावलोकनजातानन्दकन्दलश्च ।
अतस्त्वां प्रार्थये श्रीमन्युक्तं वायुक्तमेव वा । मामकीनं वचो नूनं कर्णदेशे विधीयताम् ॥ ४३ ॥ अत्रास्ति हेमाभपुरी गरीयसी यहजसौधेवधिरात्रि संपतन् । सुधामयूखः कलशार्णवान्तरे पुनर्निवासं कलयन्निवेक्ष्यते ॥४४॥
कुरुविन्दमन्दिरकुलानि संगता
न्यरुणस्य बालकिरणैः सहैकताम् । तमसीव हस्तपरिमर्शतः प्रगे।
परिनिश्चिनोति पुरि यत्र सजनः ॥ ४५ ॥
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्तसमो लम्बः ।
मित्र इति प्रतीतभूपः पुरमेनां परिपालयत्यजत्रम् |
नलिना नलिना मलायताक्षी महिषी तस्य महीललामवल्ली ॥ ४६ ॥ तयोः सुताः सुमित्राद्यास्तेष्वप्यन्यतमोऽस्म्यहम् । विद्याहीना वयं सर्वे नद्या हीना इवाद्रयः ॥ ४७ ॥ अतः कोदण्डविद्याकुशलं नरशार्दूलमन्वेषमाणोऽस्मत्तातपादः,
८१
पराक्रमापहृतसामन्तसीमन्तिनीनयनकज्जलकालिकाशङ्कावदान्य मौर्वीकिणश्यामिकालंकृतभुजदण्डस्य श्रीमतः संदर्शनेन, कलापीव वलाहकदर्शनेन, नदीपतिरिव निशाकरदर्शनेन, वनोत्कर इव वसन्तदर्शनेन, कमलाकर इव कमलबन्धुदर्शनेन, प्रमोद सर्वस्वमनुभविष्यति ।
तस्मादस्मत्पितुर्वाञ्छावलीं संप्रति पुष्पिताम् । सभास्तारदृशश्चापि सफलीकुरु कोविद ॥ ४८ ॥ स तस्य विनयोज्ज्वलां वचनबन्धशैलीं श्रुतौ मनस्यनुमति धरापतिनिरीक्षणाय क्षणात् । रथे च चरणाम्बुजं नृपसुतैः पुरः स्थापिते
कार युगपद्दयाजलनिधिः कुरूणां पतिः ॥ ४९ ॥ तदनु प्रत्येकमधिष्ठितस्यन्दनैर्नृपनन्दनैः परिवृतशताङ्गः कुरुकुलशशाङ्कः पुरद्वारं प्रविश्य प्रासादवातायनदत्तनयनैर्विलासिनीजनैः सम्टहमालोक्यमानः क्रमेण नरपतिभवनद्वारि रथादवतीर्य तैः पुरस्कृतो दौवारिकजनदीयमानमार्गः क्षितिपतिसंसदमाससाद । भूपोऽपि नन्दनगिरा वपुषा च तस्य माहात्म्य संपदमवेत्य चकार वीरम् । तं रत्नपीठशिखरे तदुपान्तभूमौ पुत्रांस्तदाननविधौ निजककोरम् ॥ ५० ॥
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८२
जीवधरचम्काव्ये
अनामयोक्तेरनुजाथ वाणी नृपाननाब्जाद द्रुतमाविरास । फुल्छात्सरोजान्मकरन्दझर्याः पश्चात्प्रभूतेव सुगन्धलक्ष्मीः ॥५१॥ क्वत्यास्त्वदीयविरहकातरीकृतमानसाः ।
कत्यानां नयनानन्दः संभविष्यति दर्शनात् ॥ ५२ ॥ को वा देशः पचेलिमभाग्यः श्रीमदीयप्रवालको पमपदयुगलस्पर्शसुखमनुभविष्यति । कीदृशपुरप्रासादाङ्गणालंकरणरमणीनां नयनकुवलयेषु श्रीमदीयसंदर्शन कन्दलितानन्दवाप्प निष्यन्दो मकरन्दशङ्कामङ्कुरयिष्यति । कस्यां वा वंशवल्लयां विमुक्तोपमानोऽपि भवान्मुक्ताफलायते । कः पुनः श्रीमता पुत्रवतां मौलिमाणिक्यतामारोपितो भाग्यवतां माहात्म्यवतां कीर्तिमतां च । इत्यादिप्रश्नपदवीं यथायोग्योत्तराक्षरैः ।
लक्ष्यामास जङ्घालः स्वामी वचनवर्त्मनि ॥ ५३ ॥
विनयकन्दलितैर्विमलोत्तरैर्नरपतिर्द्विगुणीकृतकौतुकः । चिरमयाचत नन्दनसंसदा वरशरासकलाप्रतिपादनम् ॥ ५४ ॥ विज्ञाय तदभिप्रायं प्रज्ञाशाली नराधिपः ।
कौरवस्य वशे चक्रे कुमारानखिलानपि ॥ ५५ ॥ तदनु कोदण्डभिण्डिपालपरिचमुद्गरपरश्वथादिपरिष्कृताम्, क्षोणमिव शरविभिरलंकृताम्, त्रिदशनगरीमिव सर्वतोऽमरसेविताम्, जलधिवेलामिव प्रचुरतरवारिविराजिताम्, वनसीमामिव पत्रिकुलपरिवृताम्, आयुधकान्तिसन्तानद्विगुणीकृतारुण्यरक्तमृत्तिकापरीतभूमिभागतया मूर्तमिव चापविद्याविशारदप्रतापमादधानाम् मध्ये निखातवज्ज्रमयस्तम्भशोभिततया प्रहरणगणैर्विजित्य बन्दीकृतमिव कुलिशायुधकुलिशं बिभ्राणामायुधशालां शुभे मुहर्ते प्रविश्य जीवधरः क्षितिपतितनयानुद्दिश्य कार्मुककौशलं विवरीतुमारेभे ।
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३
अष्टमो लम्बः । नृपात्मजानां निचयस्ततो नु कोदण्डविद्याकुशलत्वमाप । तत्कीर्तिकल्लोलपरंपरा च जगत्रयं मोदरसं महीशः ॥ ५६ ॥ विद्यावैदग्ध्यपीठीमधिवसति निजे नन्दनानां समाजे
दृष्टिं हेमासनस्थे कुरुकुलतपने प्रीतिमन्तश्च चिन्ताम् । किं कुर्यामस्य वीरव्रजमहितकलादानमान्योपकार
श्लाध्यस्येति क्षितीशश्चिरतरमतनोडीमतामग्रगण्यः ॥ १७ ॥ तदनु कन्याविश्राणनं करणीयं गणयता नरपालमणिना प्रार्थितं परिणयं वरुणालयगभीरः करुणाकरो जीवंधरः क्रमेणाङ्गीचकार ।
नरपतिपरिदत्तां यौवनारम्भमत्तां
सपदि कनकमालां वक्षसि श्लिष्टमालाम् । सकलगुणवरिष्ठां सन्मुहूर्ते वरिष्ठे
कुरुपतिरुपयेमे मण्डपे तत्र हैमे ॥ १८ ॥ ... इति श्रीमहाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे
कनकमालालम्भो नाम सप्तमो लम्बः ।
अष्टमो लम्बः ।
नीलालकां तामुपयम्य रामां कुरूद्वहः सौख्यपयोधिमनः । स्यालेषु वात्सल्यवशेन तत्र चिरं न्यवात्सीद्रमयन्मृगाक्षीम् ॥ १ ॥
अथ कदाचिन्मन्दस्मितमकरन्दोद्गारिवदनारविन्दा विस्मयवशप्रमुषितनिमेषनयननीलोत्पलतया सालकाननाच्छोणाधरपल्लवसौरभ्यसमाकृष्टौ नासाचम्पकदर्शनेन तत्रैव निश्चलतामुपगतौ भृङ्गाविति संभावनां संपादयन्तीम्, मरकतवलयप्रभाबहलीकृतरोमराजिलताका
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
जीवंधरचम्पुकाव्ये न्तिम्, वल्गत्कुचनितमरालगमनकेलीपरवशतया मन्दानिलान्दोलितगुलुच्छयुगली जङ्गमकनकलतां तुलयन्तीम्, संमुखासीनमप्यात्मानं सकलमनुजनयनसरोजकुदलीकरणचणेन तेनःप्रसरणेन परीतं द्रष्टुमक्षमतया नलिनान्तिकोल्लासितपल्लवतल्लजभ्रमकारिणा नयनोपरिभागचारुणा पाणिना मुखं व्यवधाय पश्यन्तीम्, प्रान्तमावसन्ती जीवंधरः कांचिदायताक्षीमप्राक्षीत् ।
किं वक्तुकामासि कुरङ्गनेत्रि किमागता कोमलबन्धगात्रि । स्मितावदाता तव वक्रलक्ष्मीः संसूचयत्यादरतो विवक्षाम् ॥ २ ॥ इति दृष्टा चकोराक्षी मधुरां गिरमाददे ।
अब्जिनी भृङ्गमुखरा मकरन्दझरीमिव ॥ ३ ॥ अत्र चायुधगृहेऽपि चैकदा त्वां निरीक्ष्य परिमण्डितं श्रिया । चित्रिते रमति चित्तमन्दिरे संमदो मम विवक्षया सह ॥ ४ ॥
इत्यादिवचनरचनां चन्द्रकलामिव कान्ताजनकटासलीलामिवेक्षु चापकोदण्डयष्टिमिव च वक्रमधुरामाकर्ण्य विस्मितान्तरङ्गः कुरुशशाङ्कः, किमिदमश्रुतदृष्टपूर्वमिति चिन्तयन् क्रमेण नन्दाव्यः समागतः किमित्यूहाञ्चक्रे ।
वपुषा पथमं विवेश शालां मनसा चैव ततः कुरूद्वहः । कुतुकप्रसरे हि निनिरोधे क्रमभावो न च तत्र लक्ष्यते ॥ ५ ॥
अवलोक्याग्रजन्मानं नन्दाढ्यो मन्दविस्मयः ।
प्रमोदभारगुरुणा वपुषा प्रणनाम सः ॥ ६ ॥ विकसत्कुसुमाञ्चितेन मूर्धा क्षितिभागं स न यावदस्टशत् । रभसेन कुरूद्धहेन तावन्जगृहे कोमलबाहुयष्टिना ॥ ७ ॥ कुरुवीरवक्षसि कवाटविस्तृते न ममौ वपुः प्रमदभारमांसलम् । अनुजस्य तत्तदपि बाहुवल्लरीयुगलेन दैर्घ्यगुरुणाभिषस्वजे ॥ ८॥
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो लम्बः ।
विनयेन वामनमयं सहोदरं शिरसि स्म जिघ्रति कुरुत्तमो मुहुः ।
अनुजाङ्गसङ्गमसुखस्य सूचकैर्धनरोमकूपनिचयनिरन्तरः ॥ ९॥ आनन्दवाप्पैरभिषिक्तगात्रं सहोदर हर्षविकासिनेत्रम् । आपच्छच सौख्यं कुरुवंशकेतुः कथं समागा इति सोऽन्वयुक्त ॥१०॥
इति भ्रातुरनुयोगशैली श्रवसा परिगृह्य मनसा ध्यातप्राक्तनवृत्तान्तः, पुनः प्रत्यावृत्ताग्रजविप्रयोगदुःखतान्त इव सरभसमुद्भतनिःश्वसितसदीपितस्मृतिपथसंगतवियोगवह्निसंगादिव कोष्णान् तत्पूर्वतनानानन्दाश्रुबिन्दूनेव दुःखबाप्पासारतया परिणतान् स्फुटितमुक्तासरमणीनिव परितः किरन्, अमन्दतराक्रन्दनवेगं कथं कथमपि नियम्य नन्दाव्यः स्वहृदयलगद्गद्गदः सगद्गदमुत्तरमादातुमुपचक्रमे । भवति राजपुरात्सति निर्गते सपदि पापविपाकवशेन नः । सकलवन्गणस्य तदोत्थितो मनसि दुःसहशोकहुताशनः ॥ ११ ॥
वाचामगोचरे शोकपारावारे निपातिताम् । निरीक्ष्य बन्युतां दीनां मर्तुं व्यवसिता वयम् ।। १२ ॥ तदानीं दुरन्तदुःखनितान्ततान्तस्वान्तौ सन्ततमुद्दान्तबाप्पधारया प्रथमामीतिबाधामिवावहन्तौ मातापितरावेवं प्रलापमातेनतुः ।
अहह बत तनूज क्वासि दैवं दुरन्तं
तनयविपदि सत्यामप्यहो दुःसहायाम् । परुषविजितवजं जीवितं निश्चलं नौ
कथमियमतिदीर्घा दुर्दशा हा विलवया ॥ १३ ॥ इत्यादिनिरङ्कुशपरिदेवनरवविजृम्भिते पित्रोर्मुनिवाक्यस्मरणेन कथं कथमपि शान्ततां नीते, देदीप्यमानशोकज्वालाविह्वलेषु बन्धुकुलेषु, काष्टाङ्गारनिन्दापरेषु पौरेषु, दुप्पूरदुःखपूरेषु युप्मत्सहचरेषु, मरणोद्योगविस्मारितेतरवृतान्तानामस्माकं दैववशेन विद्याविदितवृत्तान्ता
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाध्ये
प्रजावती कथंवृत्तेति स्थाने बोधः समजायत ।
एवं भवदर्शनभाविसौख्यसंप्रापकादृष्टवशेन सद्यः । प्रजावतीमन्दिरमेत्य सोऽहं विषाददीनाक्षरमेवमूचे ॥ १४ ॥ प्रजावति विजानती सकलपद्धति त्वं कथं ।
बिर्षि नवमालिकां कचकुले हरिद्रां तनौ । न युक्तमिदमास्थितं विगतभर्तृवामभ्रुवां
वृथा खलु सुखासिका सकललोकगर्दास्पदम् ॥१५॥ इत्युक्ता सा विशालाक्षी मन्दहासाननाम्बुजा । पिकीव मधुरालापा मधुरां वाचमाददे ॥ १६ ॥ अङ्ग तावकसहोदरवर्यस्तुङ्गपुण्यविभवेन मण्डितः ।
क्षेमवाअयति सौख्यपरीतः पापतो वयमिहाततदुःखाः ॥१७|| देशे देशे सुन्दरीश्चन्द्रवत्रः पाणौलत्य प्राप्तहर्षप्रकर्षः । हमाभाख्ये पत्तने सोऽयमद्य प्रीतां राज्ञो नन्दिनीं संदधाति ॥१॥
एवमगण्यपुण्यवशेन विपदमपि संपदात्मना परिणतामनुभवन्तं सुखमावसन्तं निरन्तरनिपतद्राजतनूनमकुटराजिनीराजितचरणनीरेज भवदीयाग्रज द्रष्टुमिच्छसि चेद्गम्यतेति प्रतिपाद्य, विद्यावैशयेन स्मरतरङ्गिणीनाम्नि शयनतले शाययित्वा, सपत्रं मामत्रभवति प्राहिणोत् ।
इति करुणमयैर्गिरां प्रवाहैरनुजमुखादुदितैः कुरूद्वहोऽसौ । भृशमतनुत तापभारमन्तर्वदनतले न विकारलेशलेशम् ॥ १९ ।।
अवाचयदसौ पत्रं सगर्भेण समर्पितम् ।
गन्धर्वदत्तालिखितं विचित्राक्षरलक्षितम् ॥ २० ॥ आर्यपुत्र गुणमाला विज्ञापयत्येवम्कंदर्पो विषमस्तनोति तनुतां तन्वां ज्वरे गौरवं
मृत्युश्चापि दयाकथाविरहितो मां नैव संभाषते ।
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अटमो लम्बः ।
आयं त्वं च नवाङ्गनासुखवशाहिस्मृत्य मां मोदसे ___ जातीपल्लवकोमला कथमियं जीवेत्तव प्रेयसी ॥२१॥ स्वामिन्नङ्कुरिती ममोरसि कुचौ वृद्धि गौ तावके
वाचस्तावकवाग्रसैः परिचिता मौग्ध्येन संत्याजिताः । बाहू मातृगलस्थलादपसृती त्वत्कण्ठदेशेऽर्पिता
वार्य प्रेमपयोनिधे स्थितमिदं विज्ञापितं किं पुनः ॥२२॥ इति प्रियाया अन्यापदेशलिखनपरिपाटी मनसा चिन्तयन्प्रियाशोकविदीर्णशरीरः कुरुकुमारो, मुहुर्मुहुर्जननीजनवयस्यसतीजनकुशलानुयोगमत्यादरेण विस्तार्य, सगर्भसंगमतुङ्गतमतोषेण सुखमासामास ।
समया कुरुकुअरं निविष्टं कनकादि निकषेव शीतरश्मिम् । अनुनं मनुनाधिपात्मनास्ते कुशलप्रभपुरःसरं परीयुः ॥ २३ ॥
एवं सोदरसमागमसंतुष्टस्वान्तं कुरुकुमुदिनीकान्तमुपतिष्ठमानेषु राजतनूजेषु, कदाचित्सरभसधावनजनितोनिश्वासनिरन्तरनिःसरणदत्तार्धसाहाय्यकभरकम्पिततनुदण्डाः प्रचण्डवातचलितबालपादपसरूपाः, अन्तरमेयतया बहिःप्रसृतैरिव भयानकरसपूरैः खेदसलिलैदैन्यसाम्राज्येऽभिषिक्ता इव गोपाः, रानमन्दिराजिरे आर्ततरमेवं चुक्रुशुः । हेलानाटकघोटकव्रजखुरप्राघुटनोद्यद्रनो
राज्या रासभधूम्रया कबलिताकाशावकाशैः परैः । राजस्तावकगोधनं निखिलमप्याहृत्य नीतं स्वतां किंचोदश्चितशिञ्जिनीपटुरवैर्दोषोऽपि संक्षोभितः ॥२४॥ उद्यत्प्रतापपटलेन सहस्त्ररश्मे
\मण्डलं तव च भूमिपतेर्निरुद्दच ।
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवघरचम्पुकाव्य प्रत्यर्थिसैनिककुलं प्रचुराट्टहास
लोकस्थिति शिथिलयत्यरिधीरतां च ॥ २५ ॥ इत्याक्रोशं समाकर्ण्य भूपतिर्बलमादिशत् ।
स्वामी श्वशुररुद्धोऽपि प्रस्थितः परवीरहा ।। २६ ॥ तदनु रयविनितविहगपतितुरगगणविविधगतिविदलितवसुधातल. निर्गललिकापालिकाविशेषशोषितनाकमहीसिन्धून्सुदूरमूर्ध्वप्रसारित. शुण्डादण्डसत्वरपूत्कारशीकरपरंपराभिर्गण्डतलयुगलविगलदानधारा. भिश्च संपूर्य सार्थकनामधेयधरैः सिन्धुरैर्मन्धरगमनपयोनिधिफेनकू. टायमानपटपरिष्कृतपताकादण्डमण्डितरथकड्यासंघटितं धृतमेचककभुकसंपतिभिः पत्तिभिः संकुलं बलं पुरोधाय प्रतिष्ठमानाः, कुरुविन्दकुण्डलरुचिवीचीकवचितभुजविराजिततया बहिरपि साक्षात्प्रसृतमिव प्रप्तापं बिभ्राणाः, एते ह्यनतान्मण्डलीकान्निराकरिप्यन्तीति भयेन सेवार्थमागताभ्यामिव शीतोष्णरश्मिभ्यामङ्गदाभ्यां संगताः, तुङ्गतममुक्ताहारमनोरमविशालवक्षःस्थलतया नक्षत्रमालालंकृतशार. दाम्बरं तुलयन्तः, ते जीवंधरनन्दाढ्यपुरःसरसुमित्रप्रमुखराजपुत्राः क्रमेण रणाङ्गणमवतेरुः । भेरीरवः सकलदिक्पतिौंधशृङ्ग
वातायनाररकुलानि विभिद्य तूर्णम् । अन्तः प्रविश्य बहुदरकदध्वखेद
विश्रान्तिमाप रणकलिमुखप्रभूतः ॥ २७ ।। तदानीमुभयेषां सैनिकानां परस्परमेवं वीरवादा बभूवुः ।
अस्माकं त्रिजगत्प्रसिद्धयशसामेषा कपाणीलता
शत्रुस्त्रीनयनान्तकजलजलैः श्यामा निपीतैः पुरा ।
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अटमो लम्बः।
संप्रत्याहवसीनि युप्मदमृनां पानेन शोणीकृता
वीरश्रीस्मितपाण्डरा चरिततश्चित्रा भविष्यत्यहो ॥२८॥ गोवृन्दसक्तान्भवतोऽस्मदीयमुना वयस्या इव संयुगेन । नेप्यन्ति गामद्य निमेषमात्रान तिष्ठतास्मत्पुरतो हठेन ॥ २९ ॥ पशून्वा प्राणान्वा जहत झटिति क्षीबपुरुषाः
स्वमूनश्चापान्वा नमयत नरेन्द्रस्य पुरतः । मुखे वा हस्ते वा कुरुत शरवृन्दं नरपति
रुतान्तागारं वा शरणयत तूर्ण प्रतिभटाः ॥ ३० ॥ अन्येऽप्येवमाहुः । किं वाचाविसरेण मुग्धपुरुषाः किं वा वृथाडम्बर
रात्मश्लाघनयानया किमु भटाः सैषा हि नीचोचिता । संक्रीउद्रथचक्रष्टधरणौ भिन्नेभमुक्ताफलै
श्वापाभ्राच्छरवर्वतो विजयिनः शुभ्रं यशोऽङ्करति ।। ३१ ।। इत्यादि वदतामेषामधरोष्ठपुटाक्वि ।
सैनिकानां समूहौ हौ संगतौ समरोहतौ ॥ ३२ ॥ तदनु कुरुकुञ्जरपद्मास्याभ्यां तुङ्गतमशताङ्गसंगताभ्यां तिलकित. मुखभागाः. प्रत्यर्थिसार्थग्रसनाय प्रमृताभिरिव मृत्युरसनाभिः पट्टम. वल्लरीभिः परिवृताः, शात्रवजनप्राणानिलसंजिघृक्षया समागताभिरिव भुनगीभिरसिलताभिर्विलसिताः, समीकविलोकनार्थं संनिहितसूर्यचन्द्रशङ्कावहसौवर्णवजखेटकमण्डलमण्डिताः, विरोधिराजमण्डल. कबलनायागताभिरिव विधुतुदपरंपराभिः शक्तिभिर्भयानकाः, उभये. ऽपि सैनिकाः संग्रामशिल्पमनल्पं कल्पयितुमारभन्त ।
शरासनगुणारवैः कुरुपतेः शराणां चयैः परस्परविमर्दिभिर्गगनमण्डले पूरिते ।
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
९
www.kobatirth.org
जीवंधरच पुकाव्ये
गभीरहय हेषितैर्मदगजावली बृंहितै
Acharya Shri Kailassagarsuri Gyanmandir
जगत्रितयमन्वभूत्परमतोक्तशब्दात्मताम् ॥ ३३ ॥ शब्देकार्णवमनमेतमखिलं लोकं समीक्ष्य क्षणा
देवा व्योनि समिद्विलोकनकलाबडादरा मेदुराः ।
युद्धारम्भनिरस्ततन्द्रकुरुराड्बाणासनादुद्गतानाराचान्निविडप्रभान्नभसि ते सान्ध्याम्बुदान्मेनिरे ॥ ३४ ॥ पद्मास्य मुख्यकर कोमलरक्तकान्तिकल्लोलपल्लवितकार्मुकवल्लरीभ्यः । नामाङ्किता प्रचलिता च शिलीमुखालिजीवंधरस्य पदपद्मसमीपमाप ॥ ३५ ॥
द्विरेफः शरवारोऽयं तस्य पादाम्बुजान्तिके । भ्रमंकार तद्युक्तं मित्रसांनिध्यसूचनम् || ३६ | तदनु नामाङ्किततदीयबाणगणवीक्षणेन समुन्नतध्वजचिह्नसंदर्शनेन च, एते वयस्या इति निश्चित्य, नरपतिना साकं तदभ्याशमागतः संमदविकसितरोमकूप कोरकिततनुलतः कुरुपतिः, सबहुमानं तानेकै कशः संभाव्य, निजानुज्ञया रथारूढैः सहचरनिकरैः पुरस्कृतः, पार्श्वगतस्यन्दनकन्दलितस्थितिना महीपतिना संभाषमाणः, सिन्धुर गन्धर्वशताङ्गपदगशबलं बलं पुरतो विधाय पुरतोरणमतीत्य चलितः, चिरतरविलोकने कुतूहलसंमिलित पौरजननिरन्तरे रथ्यान्तरे स्तम्बेरमकदम्बकं कादम्बिनीति मत्वा समागताभिरिव सौदामि - नोभिः कनकवेत्रलताभिर्वितीणविकाशे विगाहमानः पटुपटहकाह लीडिण्डिमजर्जर झल्लरीमुरजशङ्खप्रमुखवाद्यरवविहितो पहूतिभिः काभिश्चित्सामिकृतमण्डनकलाभिः करकमलसंरुद्धनीविबन्धनकनक चेलाभिरवलाभिः काभिश्वित्सरभसका ची पददत्तमुक्ताहारवडरीभिः कङ्कण
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो लम्बः । पदसमर्पिततुलाकोटिभिर्वधूटीभिरत्युनतहाङ्गणवातायनदत्तदृष्टिभि. निर्निमेषं विलोक्यमानः क्रमेण राजभवनमाससाद । कुशलानुयोगमथ कौरवः सखी
न्वहुधा विधाय मुदितान्तरः परम् । समशेत सोऽयमयथापुरोदिता
दुपचारकौशलवशाद्विशेषतः ॥३७॥ कदाचिदेकान्ते भृशमपूर्वसंमानसमाहितसंशयडोलायमानमनस्सरोजेन कुरुरानेन चोदिततन्निदानानां सहचराणां तिलकायमानः पद्मवदनः प्रत्युत्तरशैलीमेवमुपादत्त ।
खामिस्त्वदीयविरहानलदग्धदेहाः
श्रीमद्भविष्यदवलोकनपुण्यपाकैः । आश्वासिताश्च दयया द्रुतदत्तहस्ता
देव्या बभूविम वयं हयपाणिवेषाः ॥ ३८ ॥ तदनु निखिलमाश्वीयं पुरोधाय पुरान्निर्याय पर्यायेणा'तिलवितबहुदूरावानः पत्रिकुलनिध्वाननिरुद्धदिशावकाशामरण्यानी प्रविश्याघ्रंलिहतरुपण्डमण्डितदण्डकारण्यभागपरिकल्पितपटसदननिकटतटेषु घोटपटलं विधाय विश्रान्तिसुखमनुभवामः स्म । तत्र च ।
सौधावलीमतिशयालुभिरुन्नतैस्तैः
शुभैः पटायतगृहैः कलितं निवासम् । नूनं भवद्विरहकातरतत्पुरश्री
रस्माभिरागतवतीति वयं स्म विद्मः ॥ ३९ ॥ तदन्वत्यद्भुतसंनिवेशं दण्डकारण्यप्रदेशमवलोकितुकामा वयम्, तत्र तत्र विहृत्य, क्वचन विजृम्भितकुम्भीन्द्रकुम्भस्थलमुक्तमुक्ताकुलसिकतिलं वनविहरणश्रान्तनिमज्जत्पुलिन्दसुन्दरीवदनाम्भोजपरिष्कृतं
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधर चम्पुकाव्ये गभौरमहाहूदम्, कुत्रचिवलीमुखकरकम्पितमहीरुहशाखानिपतित . पर्णीघसमाघातकुपितसुप्तसमुत्थितशार्दूलधाव्यमानशबरजनसरभसारू ढाभ्रंलिहानोकहचयम् , क्वचित्तरुमूलसुखसुप्तानि तमालस्तोमनिभानि भल्लूककुलानि, क्वचित्तपनकिरणसंतप्तवशां पद्माकरसमीपमानीय निजकरनिर्मूलितबालमृलाणवलयं तदङ्गे निक्षिप्य पयोजरजःसुगन्धिशीतलजलशीकरनिकरांस्तन्मुखे संसिच्य शुण्डादण्डविधृतविशालपद्मपत्रमातपत्रीकुर्वन्तं वशावल्लभम् , कुत्रचित्सावज्ञं लोचनयुगलं क्षणमुन्मील्य पुनः सुषुप्सुं पञ्चवदनसञ्चयम्, सविस्मयमवलोकमानाः, कचन तापसजनसंकुले प्रदेशे प्रविशमानाः, क्रमेण किंचित्तरुमूलमावसन्ती पुण्यमातरं पश्यामः स्म ।
यस्या मूर्तिमलिनवसनावेष्टिता क्षामभूता __ चन्द्रस्यका कशतमकला ध्वान्तरुद्धेव भाति । वकं शुप्यत्सरसिजनिभं शोकदीना च वाणी ... चिन्तादीर्घ श्वसितमनिशं मूर्ध्नि बद्धा जटा च ॥४०॥
तया मात्रा दृष्ठमात्रेण कुत्रत्या इति पृष्टा एवमुत्तरं वक्तुमुपक्रम्य,
" कश्चिन्जीवकविख्यातो विपश्चिद्वन्दशेखरः । ___ अभाद्राजपुरे सोऽयमस्माकं जीवनौषधम् ॥ ४१ ।। __अहं खलु राजश्रेष्ठिनः सुभद्रायां जातः पद्मास्यः, अयं सत्यधरमहाराजसचिवात्सागरदत्तायां जातः श्रीदत्तः, अयं पुनरचलात्तिलोत्तमायां जातो बुद्धिषेणः, एष किल विजयदत्तात्पृथ्वीमत्यां जातो देवदत्तः, इमौ पुनर्जीवन्धरानुजस्य नन्दाव्यस्यानुनी नपुलविपुलौ, इत्यादिक्रमेण सर्वेषां नामधेयान्यभिधाय,
तदुत्पत्तिदिने जाता वयं सर्वे महात्मना ।
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो लम्बः।
तेन सार्धं विशांपत्या पोषिताश्च निजालये ॥ ४२ ॥ तदनु सकलविद्याः शीलयन्व्याधयूथं
पशुगणविनिवृत्त्यै चापपाणिव्यंजेष्ट । तदनु खचरकन्यां प्राप्य गन्धर्वदत्तां
परिषदवरवीणाविद्यया कीर्तिमाप ॥ ४३ ॥ ततश्च वासन्तिकेषु वासरेषु वनविहारान्निवर्तमानेषु पारेषु, दुरन्तमददुरासदस्य काष्ठाझारपट्टदन्तावलस्य मदभङ्ग विधाय गुणमालां परिपालयन्नचिरेणैव तां परिणिन्ये ।
तमेनं कोपवशतः काष्ठाङ्गारः खलाग्रणीः ।।
हन्तुं,
इत्योक्ते, 'तत्क्षणं हा दावपावकदग्धायां वनवल्लयां कुठारमर्पयन्ति भवन्तः,' इति दम्भोलिनिहता भुजगीव मूर्होन्मीलितचेतना भुवि पेतुषी सा माता क्रमेण कथंचिल्लब्धसंज्ञा,
__ व्यवसितः सोऽयं निजभूनैव रक्षितः ॥ ४४ ॥ इति निरवशेषमुक्तापि, शोकरणरणिकाक्रान्तचित्ता प्रलापमेवमातेने ।
हा हा हा बत हा हतास्मि किमिदं दुःश्राव्यमत्याहितं ___ हा पुत्र व गतोऽसि हा हतविधे क्रूरोऽसि मत्पुत्रके । हा नाथ त्वमुदारपुण्यचरितो यस्मादिमां दुर्दशा
मज्ञात्वा सुरलोकसौख्यलहरीं विन्दंश्चिरं मोदसे ॥ ४५ ॥ हा पुत्र, हा कुरुवंशमित्र, सुलक्षणगात्र, हा पयोनविशालनेत्र, एतावन्तं कालं तव मुखचन्द्रदर्शनमपि दुर्लभमभून्मम मन्दभाग्यायाः । अपि च ।
पत्युर्वियोगमधिकं दववह्निकल्पं
वासं च काननतले स्वपुरं विसृज्य ।
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाध्ये
यस्योदयादनुभवाम्यथ जीवितं च
सोऽयं यदीदशकथः कथमद्य वर्ते ॥ ४६ ॥ सत्यंधरस्तव पिता खलशेखरेण | ___ व्यापादितो युधि कृतघ्नवरेण येन । तेनैव पुत्र गमितस्त्रिदिवं यदि त्वं ___हा हन्त सैष कुरुवंशलताकुठारः ॥ ४७ ।। पत्युवियोगो विपिने निवासो राज्यं च नष्टं तनयस्य शोकः । तदद्य दौर्भाग्यहुताशनो मे विनिर्दहेदेव करालवह्निम् ॥ ४८ ॥
स्वप्नो निष्फलतां गतस्त्वयि सुत व्यर्थ वपुलक्षणं __ सत्यार्थ न बभूव पुण्यवपुषस्तदेवताया वचः । हा मर्तृव्यसनाम्बुधिहि सुतरो नैव त्वया पुत्रक • त्वं यद्येवमवेहि मामपि भवल्लोकं प्रति प्रस्थिताम् ॥४९॥ इत्यादिप्रलापवशेन शोकलहरी देवोदन्तं चाम्भोदावलिमिव दम्भोलिममृतं च मुञ्चन्ती पुण्यमातरं बहुधा समाश्वास्य, तन्मुखादुत्पन्नां देवोन्नति नभसो निपतितां रनवृष्टिमिव बहुमन्यमाना वयं, पुनः पुनस्तामाश्वास्याप्टच्छच च श्रीमत्संनिधिमुपागताः, इति" ।
जीवन्मृतां तां जननीं विदित्वा जीवंधरोऽखिद्यत रक्तचित्तः । मातुर्गुरुस्नेहवशेन सोऽयं द्रष्टुं क्षणात्तामिह तत्वरे च ॥५०॥ तदनु कुरुकुमुदिनीकान्तस्तत्क्षणमेव सकलबन्धून्विशेषतो भार्यामाप्च्छ यानुनीय च, अनुगमनकलितकुतुकनृपतनयनिचयं क्रमेण विसृज्य, सहचरमण्डलमण्डितो दण्डकारण्यमाजगाम |
क्षामक्षामतनुं विवर्णवदनां निःश्वासधूमोत्करैश्चिन्तादन्तुरितान्तरामविरलैपिर्मिललोचनाम् ।
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो लम्बः । ताम्बूलादिविहीनविस्तृतमलप्रोतद्विजालिं जटा
वल्लीवेल्लितमस्तकां कुरुपतिर्देवी लुलोके धुरि ॥ ५१ ।। सा पुत्रमालाक्य पयःप्रवाहिघनस्तनी बाप्पनिरुद्धनेत्रा । शुशोच तं चेतसि रुग्मणीव प्रसूनबाणं चिरकालदृष्टम् ॥ १२ ॥ पदाम्बुनाते प्रगतं कुमारमाशीभिराकीर्य तदा भुजाभ्याम् । आश्लिष्टवत्याः प्रबभूव तस्या आदेशवच्छोकपदे प्रमोदः ॥५३॥ तावद्यक्षाध्यक्षोऽपि, तयोः समक्षमागत्य, स्नानसुगन्धिलेपन प्रसूनमालिकामणिभूषणदुकूलवसनादिभिः संपूज्य, प्राज्यतमस्नेहेन कुमारप्रमुखान्देवी च तैस्तैर्मधुरालापैः समाश्वास्य, भाभास्यमानेन विमानेन क्रमेण निनास्पदमाससाद ।
अगण्यपुण्यं तनयं वरेण्यमुवाच मातानघशीलपूता । पितुः पदं ते किमु वत्सरान्ते भवेन्निपातेन रिपोः कृतेन ॥५४॥
प्रमूगिरमिमां श्रुत्वा प्रसूतष्टथुकौतुकः । एवमुतरमादत भावं तस्या विदन्नसौ ॥ ५५ ॥ कुम्भीन्द्रशैलविगलद्वनदानधारा
सन्निझराणि चलखड्गसमावृतानि । कूजद्रथाङ्गकलितानि शराञ्चितानि
सेनावनानि मम बाणदवा दहन्ति ॥ ५६ ॥ मदीयकरकुण्डली कृतशरासनादुद्गता
प्पट भुजगावली रिपुमहीशवामझुवाम् । दरस्मितपयोझरी सुरभिलां निपीय क्षणा
द्ददाति हृदयान्तरे पृथुलशोकहालाहलम् ॥ ५७ ॥ अथवा । रजोऽन्धकारप्रथिते रिपणां वकाजकोशीकरणप्रवीणे ।
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९६
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पूकाव्ये
संयनिशीथे सति मे कृपाणी शत्रुश्रियं नेतुमुदारदूती ॥ ९८ ॥ गुणाकरे रणाजिरे मयि स्वनच्छरासने पलायितो वलाधिपो निराकृतो धरापतिः । स गूर्जरोऽपि जर्जरो भयाकरश्च खेचरो
धृतव्रणश्च कोङ्कणः क्षणे क्षणे भविष्यति ॥ ५९ ॥ इत्यादितनयवचनेन हस्तस्थमिव राज्यं मन्यमानाया जनन्या रक्षणाय कंचन परिवारं तद्योग्यवस्तुसंचयं च तत्संनिधाववस्थाप्य, कंचन कालं वीतशोकया भवत्यान स्थीयताम्, कतिपयैरेव दिवसेस्त्वामानेतुं नन्दाढ्यं महेष्यामि, इति प्रसवित्रीमाश्वास्याष्टच्छच म वयस्यमण्डलैः सह प्रस्थाय राजपुरोपवनभाजगाम । मित्राणि तत्र विनिवेश्य स वैश्यवेष
मादाय राजनगरी प्रविवेश धीरः ।
रथ्यासु तत्र विचरन्नवरत्नराशि
संपूरितां प्रविततां विपाणि जगाहे ॥ ६० ॥ तत्र हयङ्गणे सखीभिः सह कन्दुकविहारमनुभवन्त्याः कस्या चिल्लोलाक्ष्या हेलावशेन भुवि पातितं कन्दुकमा लक्ष्याश्चर्यविलक्ष: कुरुहर्यक्षः प्रासादाग्रावलम्बिनीं नितम्बिनीमुन्नमितवदनो विलोक यामास ।
तां कोमलाङ्गी कुतुकेन पश्यन्कुरङ्गनेत्रीं कुरुवंशकेतुः । उन्मीलदाभां नवयौवनेन पुन्नागसङ्काशकुचाममुह्यत् ॥ ६१ ॥ एवं तस्याः सौन्दर्यलहरीनिमग्रमानसः कुरुवतंसः कन्दुक मालोक्यैवमुवाच ।
भाले क्रीडति नीलकुन्तलचये गण्डस्थले कुण्डले वेण्यां पृष्ठतले स्तनद्वयमुखे हारे चकोरीदृशः ।
For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो लम्बः ।
हस्ताब्जे मृदुले च कन्दुक भवांश्चिक्रीड वल्गन्मणी
चञ्चत्कडू-गशमशोभिनि निजस्पर्शारुणश्रीपुषि ॥ ६२ ॥ एपा विम्बाधरी कन्तोः सन्ततं शरवर्षिणः । नामभाक्त्वभितीवाङ्ग कन्तुक त्वामताडयत् ॥ ६३ ॥ वदनकमलोन्मीलत्स्वेदाम्बुशीकरकोरका
सुरभिलगलच्छासा नासाग्रचञ्चलमौक्तिका । स्फुरदुरुकुचा रामा वामालकाकुलितानना
सरसमतनोत्पाण्याघातं यतस्त्वयि तत्कृती ॥ ६४ ॥ एवं वदन्मुदा स्वामी तत्सौधाग्रवितर्दिकाम् ।
अलंचकार पण्य श्री कूलंकषगुणाकरः ॥ ६५ ॥ तदानी कोऽपि वैश्येशः संमुखमागत्य संमदपूरविस्तारितनयनः प्रसन्नवदनः कुशलप्रश्नकोरकितवचनः क्रमेण निजप्रस्तावं वितस्तार । श्रीमन्सागरदत्त इत्यभिहितः सोऽहं ममेदं गृहं
पत्नी मे कमला सुता च विमला सूत्या किलैपाभवत् । विक्रीयेत यदागमे मणिगणः पूर्वस्थितोऽभ्यन्तरं
तं तस्याः पतिमभ्यधुर्जननसल्लने हि कार्तान्तिकाः ॥ ६६ ।। इह खलु भवति प्रविष्टमात्रे पूर्व कदाप्यविक्रीतं बहलरत्नजालं विक्रीतम् । अतो भवतैव प्रपञ्चातिशायिगुणगुम्भितेन पञ्चशरवञ्चनचक्षुरूपेण काञ्चनसच्छायज्ञान्तिकोमलेन मदयिनन्दिनीकन्दलित भाग्यकतावतारेण तस्याः परिणययोग्येन भवितव्यम् । इति तन्निर्ब न्येन, कौरवः कथं कथंचिदनुमेने ।
शुभे मुहूर्ते विमलां कुमारी जीवंधरः सागरदत्तदत्ताम् । सौदामिनीसंनिभगालपछी जग्राह पाणौ सति हव्यवाहे ॥६७ ।।
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाध्ये मूर्ती चमत्कृतिमिव स्फुटदिव्यरूपां ___ जायामिवाम्बुजशरस्य चकोरनेत्रीम् । उन्मीलदुज्ज्वलघनस्तनशोभिताङ्गी __रागादिमामनुबभूव कुरुप्रबीरः ॥ ६८ ॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे
विमलालम्भो नामाष्टमो लम्बः ।।
नवमो लम्बः।
ततो लताङ्गीमनुनीय रामां हित्वा स मित्रैः समगच्छतायम् । शशीव पाकारिदिशावधूटी नक्षत्रबृन्दैः कमनीयरूपः ॥ १ ॥ वरचिबमेनमवलोक्य बान्धवा मणिभूषणाञ्चिततर्नु कुरूद्वहम् । बहुमेनिरे मधुमिवाडरस्फुरस्फुटचूतपल्लवकुलं वनप्रियाः ॥ २ ॥ तत्र कोऽपि सहसाब्रवीदिदं बुद्धिवेणविदितो विदूषकः । सप्रहासमतिविस्तृतेक्षणं फुल्लगण्डयुगलं कुरूद्वहम् ।। ३ ।।
अन्यैरुपेक्षितां कन्यां पाणो कृत्य प्रमोदतः । सखे निर्लज्जमात्मानं कृतार्थमिव मन्यसे ॥ ४ ॥ भवाञ्छलाव्यस्तद मित्र व्यूढा चेत्सुरमञ्जरी ।
नरविद्वेषगम्भीरी नवतारुण्यमञ्जरी ॥ ५ ॥ इति तद्वचनभङ्गी निशम्य मन्दस्मितकोरकितवदनः कुरुपञ्चवदनः, श्वएव तामत्रत्यकामकोष्ठमानयिष्यामीति प्रतिज्ञाय, प्रज्ञाग्रेसरस्तत्परिणयोपायं मनसा चिन्तयन्, क्रमेण यक्षमन्त्रमेव तत्ममर्थापनतन्त्रं निश्चिकाय ।
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो लम्बः। निर्याय तस्मादारामान्मर्यादातीतकौशलः । वार्धकं रूपमास्थाय विवेश पुरि कौरवः ॥ ६ ॥ विरलदशनपङ्क्तिः कम्पमानाङ्गयष्टिः
प्रतिकलनिमिषेणास्पष्टदृष्टिः स वृद्धः । गलविकसितकासः श्लेप्मखण्डं वमन्स
पलितविरलकेशो दण्डचारी चचार ॥ ७ ॥ तत्र रथ्यासु प्रविशन्तम्, भुजगनिर्मुक्तनिर्मोकनिकाशचर्मविचित्रितम्, पुरो हस्तावलम्बितदण्डेन पश्चादतिकुब्जतनुदण्डेन समौर्विकं कार्मुकं तुलयन्तम्, शुक्तिकाभस्मधवलपलितकेशपाशेन तिरोवेपथुकलितेन मस्तकेन पूर्वतनरूपस्मरणाधुनातनरूपनिरीक्षणजनिताद्भुतवशेन मनुमाहात्म्यं शिरसा श्लाघमानमिव विराजमानम्, गलरन्ध्रनिरुद्धश्लेप्मखण्डान्यतिप्रयत्नेन कुहकुहारावेण सहानवरतमुहमन्तम्, स्थाविरं रूपमादधानमपि शनैः शनैर्गच्छन्तम्, सुरमञ्जरीप्राप्तिदूतीभूतायां जरायामभीकमपि जराभीरुम्, इमं स्थविरमवलोक्य, पौरेषु केचिद्वैराग्यपरायणाः, इतरे विलसत्करुणाः, संबभूवुः ।
क्रमेण सोऽयं कपटद्विजातिवृद्धो गृहद्वारभुवं प्रपेदे । यस्यान्तराले सुरमञ्जरी सा चकास्ति चञ्चन्मणिदीपिकेव ॥ ८ ॥
तत्र दौवारिकाभिः किमत्रागमनफलमिति पृष्टः कुमारीतीर्थमागमनफलमिति प्रत्युत्तरेणाट्टहासमेदुरवदनान्प्रतिहारिकाजनान्विदधानः कृपया ताभिरनिरुद्धोऽपि कामदेवस्तन्मन्दिरान्तरमगाहिष्ट ।
अन्तः कासांचन स्त्रीणां मा मेति प्रतिषेधनम् ।
अशृण्वन्निव बाधिर्यादाविवेश शनैः शनैः ॥ ९॥ तदनु भयाकुलाः काश्चन कमललोचनाः झणझणात्कारि
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०.
जीवंधरचम्पुकाव्ये नूपुररवमुखरितदिगन्तराः सत्वरगमनवशेन वल्गत्कुचकलशसंताय - मानव्यालोलमुक्ताहाररुचिवीचिप्रकाशितसदनभागाः परिचलितकचनिचयरुचिरसुममालिकानिषण्णोड्डीनमिलिन्दम झङ्कारवाचालाः कूजकाञ्चीकलापाः सुरमञ्जरीसमक्षमेत्य सगद्गदमेवमादिपुः । वृद्धद्विजः कश्चिदपूर्वदृष्टो रुद्धोऽपि गेहान्तरमाविवेश । इतीयमालीवचनं निशम्य तं द्रष्टुमागात्कुतुकेन नुन्ना ॥ १० ॥ द्विजातिवृद्धं पुरतो निषणणं बुभुक्षितं वीक्ष्य सरोरुहाक्षी । समादिदेशाथ सखीसमाजं तदोजनाय प्रचुरादरेण ॥ ११ ॥
तदनु यथाविधि सहर्ष भुक्तवन्तं सखीजनैरन्तिकमानीतं तमेनमग्रासनमधिरोप्य, 'कुतो भवानागतः पुनः कुत्र गमिप्यसि' इति, सा सुरमञ्जरी मञ्जुलवचनचातुरीविनितपिकस्वरमाधुरी सकौतुकं पप्रच्छ । इति गिरं समवेत्य कथंचन स्थविर एवमुवाच शनैः शनैः । सुरुचिराधरि पृष्ठत आगतः पुरत एप गमिष्यति मानिनि ॥१२॥
इति वचनं निशम्य, विशालतरहासविशदवदनान्पार्श्ववर्तिननानवलोक्य, द्विमातिवृद्धः 'किमिति मामकीनवार्धक्यजनितविपरीततां हसन्ति भवत्यः, क्रमेण भवतीनामप्येषा भविष्यति' इत्यवादीत् ।
पुनः पप्रच्छ मादेन व गन्तव्यं त्वयेति सा । यत्र कन्यापरिप्राप्तिस्ततेत्ययमभापत ॥ १३ ॥ वयसा वपुपा च वृद्धि एषो मनसा नेति गिरापि मेदुरा । खयमभ्यवहृत्य मा कुमारी पुनरागत्य बभाण सादरम् ॥१४॥ इदानीं भवतो यत्र वाञ्छावल्लयधिरोहति ।
तत्राशु गम्यतां भद्र द्विजवर्य महामते ॥ १५ ॥ इति तस्या मन्दस्मितचन्द्रिकामदुरवदनचन्दिरसुधासारायमाणवनोधारां 'साधु साधु, सुटूक्तम्” इति प्रशंसमानः, करेण यष्टि.
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो लम्बः ।
मालम्व्य कृच्छादुत्थाय प्रस्खलन् , तदीयविकचविचकिलकुसुमकुलसुराभिलहंसतूलशयनाधिरोहाय प्रयतमानः, तत्र हस्तावलम्बनवशेन नन्निवारणपरं चेटीनिकरं निवारयन्त्या सुरमञ्जर्या सहर्षमनुमतः, स द्विजवृद्धः क्रमेण मुष्वाप ।
वृहं तं तरुणीविलासरसिकं वीक्ष्येव भासां पति
वृद्धः सन्चरमक्षमाधरगुहाकेलीगृहं प्राविशत् । वारुण्याः किलसंगमाय रसिकः स्फाराङ्गरागाञ्चितः
कंदपोऽपि शरासनं करतले चक्रे टपत्कैः सह ॥१६॥ तदनु सकलजनतादृष्टिरोधकरे तिमिरनिकरे विजृम्भिते, तमालन्ति सकलतरवः, पिकजालन्ति विहंगमाः, नीलाचलन्ति भूमिधराः, भल्लूकन्ति निखिलवनमृगाः, कालिन्दीमनुकुर्वन्ति निम्नगाः, इति लोकस्य विभ्रमो बभूव ।
ततः पूर्वाचलप्रान्ते बभी कुमुदवान्धवः । वान्तसिन्धुरसंक्षोभमृगेन्द्रः कुन्दंनिर्मलः ॥ १७ ॥ ततो वृद्धः सोऽयं भुवनमहितां गानपदवी
मतानीत्सानन्दं मधुररसनिष्यन्दभरिताम् । खगेशः (?) कन्यायाः परिणयकलाकालकलितां
निशम्यायं जीवंधर इति शशङ्के सुनयना ॥ १८ ॥ तदनु सा सुरमञ्जरी सहर्षमुत्थाय, अकूजत्काञ्चीकलापमगुञ्जन्मीरमचलितकरवलयं सखीजनान्पुरोधाय मन्दं मन्दं तदीयशयनोपकण्ठमासाद्य, प्रवयसः पुरतो वयस्याजनं विधाय, खयमपि पश्चाद्भागमलकुर्वन्ती, मालतीलतानां पृष्ठतो रत्नवल्लीव विराजमाना, चकोरनयना भुवनमोहनं गानं शुश्राव ।
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये
तावत्समाप्य चतुरः कलगानलीलां
द्राक्सामगीतमुदयुत स मञ्जु गातुम् । श्रुत्वा कुरङ्गनयनाः कुतुकेन पूर्व
गीतं पठेति परितः परिवQरेनम् ॥ १९ ॥ कुमारी मम तोषाय भवत्यः कल्पयन्ति चेत् ।
गायते मधुरं गानमिति वाचमुवाच सः ॥ २० ॥ तदनन्तरं तद्वचनं निशम्य हसन्तीपु सकलासु वामनयनासु यथायथं निवृत्य निद्रामुद्रां दधानासु, सा सुरमञ्जरी जीवंधरस्मरमाजनितसंतापेनाक्रान्ततनुलता क्रमेण पल्लवशयनमधिशिश्ये ।
तदनु पूषणि पूर्वधराधरे विलसति प्रचुरारुणमण्डले । द्विजवरस्य समीपमुपागता मधुरवागवदत्सुरमञ्जरी ॥ २१ ॥ शास्त्रेषु केषु भवतः कुशलत्वमार्य
संगीतशास्त्रवदमन्दगुणाम्बराशे । गाने मनोज्ञमधुरे भवतः समानो
लोकत्रये न हि विना खलु जीवकेन ॥ २२ ॥ इति तस्या अनुयोगं द्विजवृद्धोऽध्येवमुत्तरयामासप्रज्ञासिमम सर्वशास्त्रनिकषप्रोल्लीढधाराधरो
दृप्यहादिमदाङ्कुरं न सहते नैर्मल्यनर्मालयः । किंचास्माभिरदृष्टपूर्वमिह यच्छास्त्रं तदेतज्जग.
त्याकाशाम्बुजतुल्यमब्जवदने विम्बानुविम्बाधरि ॥२३॥ इति तद्वाणी निशम्य कौतुककोरकितान्तरङ्गा सा सुरम. मञ्जरी, 'निखिलनयनोत्पलानन्दसन्दायकमुखचन्दिरो जीवंधरः पूर्व धर्येण सह मदीयमानसमपहृत्य निर्गतः क्वापि न जायते, तत्प्राप्तिमम कथं भविष्यति' इति पृच्छाञ्चक्रे ।
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो लम्बः।
इति वाचमसौ श्रुत्वा क्षणं तूष्णीमवस्थितः । द्विजातिवृद्धो मधुरमुवाच वदतां वरः ॥ २४ ॥ आये पयोजनयने, बाह्योद्यानविराजमानस्य कामदेवस्य पूजया प्रसन्नस्य कृपाकटाक्षः साक्षात्कृतो जीवंधरस्तव मनोरथलतामङ्कुरयिष्यति ।
विचिकित्सा विशालाक्षि नात्र कार्या निरङ्कुशा । कामकोष्ठस्य गमने त्वरैव तनुमध्यमे ॥ २५ ॥ तदनु हृदि विदित्वा कामितार्थ करस्थं
कमलविमलनेत्री संगता सा सखीभिः । सपदि मधुराशिञ्जन्म मञ्जीरपादा
मणिमयमधिरूढा याप्ययानं प्रतस्थे ॥ २६ ॥ ततश्च चकितसारङ्गविलोचना सा सुरमञ्जरी द्विनवृद्धं पुरोधाय कामालयमेत्य वामालकाभिरालीभिः समानीतसुरभिकुसुमादिभिस्तत्पूनां निर्वतयामास । रहसि कुसुमबाणं प्रार्थयामास तन्वी
मुकुलितकरपद्मा त्वं तथा कल्पयेति । मलयजरसलिप्ते मौक्तिकस्फारहारे
___ मदुरसि कुचभागे जीवकोऽसौ यथा स्यात् ॥२७॥ इति प्रार्थनामनुसरन्तीं क्वचिदन्तर्हितस्य बुद्धिषेणस्य ‘लब्धो वरः' इति वाणीमेणाक्षी कामदेवस्य कृपासारविलसितवचोधारां मत्वा, प्रमोदमेदुरमानसा, किंचित्कंधरां विनिवृत्य, पुरतो विराजमानम्, बहिरागतमिव साक्षात्कामदेवम्, जङ्गममिव कनकगिरिशृङ्गम्, सञ्चरन्तमिव नयनानन्दम्, साङ्गमिव शृङ्गाररसम्, साकारमिवाद्भुतरसप्रकारम्, सरूपधेयमिव निजभागधेयम्, लक्ष्मीविश्रा
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
जीवंधरचम्पुकाव्ये न्त्यर्थमाकलितहैमशिलातलायमानललाटफलकम्, विशालविवृद्धिरोधाय बदसेतुवदायतनासावंशम्, श्रुताङ्गालीलाडोलायमानमणिकुण्डलमण्डितश्रवणयुगलं लक्ष्मीविहारधारागृहशङ्कावदान्यमुक्ताहार कान्तिस्वच्छजलशोभितवक्षःस्थलं रम्भातरुसंभावनासंपादकसुवृत्तोरु. युगलं कोकनदमदहरपदपल्लवं कुरुवीरं विलोकयामास ।
तन्वां रोमाञ्चकम्पौ नयनकमलयोः समदाश्रुप्रवाह - वक्वेन्दौ मन्दहासं घनजवनतटे घामतोयप्रनारम् । चित्ते हीभीतिमोदाद्भुतरसमयतां मारसंतापमने
सेयं सारङ्गनेत्री कुरुकलभमिमं वीक्ष्य तूर्ण बभार ।।२।। तदनु पार्श्वतो वृद्धमसमीक्ष्य निरर्गलबीलतरलनयनां नमित. वदनां जीवंधरस्तत्क्षगमालिङ्गय, कपोले परिचुम्व्य, निजाङ्कमारोप्य, चाटुवचनपरिपाटीभिश्चूर्णवासादिकथाभिश्च प्रीतेः परां काष्टां प्रापयामास । विकचकुसुमतल्पे वृद्धरूपः शयानः
कुरु पदयुगलीसंवाहमित्यव्रवीत्ताम् । हृदि विलासितरागां तां तथा कुर्वती द्वा
___ क्सहचरकुलमेतं वीक्ष्य तुष्टाव हृष्टम् ॥ २९ ॥ ततश्चतुरन्तयानमारुह्य सखीभिः सह निजमन्दिरान्तरं प्रविष्टायां सुरमञ्जर्या वयस्याजनमुखविदितवृत्तान्तौ मातापितरौ सुमतिकुबेरदत्तनामधेयौ तत्क्षणकन्दलितानन्दमन्धरौ विवाहमङ्गलं विस्तारयितुमारभेताम् ।
ततः कुबेरदत्तेन मुहूर्ते शुभसंगते । विश्राणितां वरश्रोणी करे जग्राह कौरवः ॥ ३० ॥
For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
बालां शम्बरशत्रुशास्त्रपदवीशाला रसाम्भोनिधे
र्वेला लाध्यतमोल्लसद्गणमणीशीलां मरालीगतिम् । नीलाम्भोरुहलोचनां शशिलसत्कालां सुमुक्तावली.
मालां तां रमयन्नयं स्मितसुधालीलापदं प्राप सः ॥३१॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे
सुरमञ्जरीलम्भो नाम नवमो लम्बः ।
दशमो लम्बः ।
ततः कुरुकुमारः सुरमञ्जरीवदनात्कथंचिदुदश्चितानुमतिः, तत्स. दनानिर्गत्य सकलसहचरनिकरपरिमेदुरपार्श्वभागः, स्वकीयनिकाय्यमासाद्य, पित्रोर्नेत्राणि पीयूषाञ्जनैरिव रञ्जयामास ।
नतं पादाम्भोजे नयनसभगं वीक्ष्य तनुज
परिष्वज्य प्रेम्णा शिरसि पुनराशाय च मुहुः । दृशा पायं पायं तनयवदनाम्भोरुहसुधां
श्रवोभ्यां वाङमाध्वीं सुखममितमातेनतुरिमौ ॥ १ ॥ वाचामभूमि मुदमाससाद गन्धर्वदत्ता तमिमं समीक्ष्य ।
उपागतं गेहमुदारसत्त्वमुवाच चैवं कमलायताक्षी ॥ २ ॥ आर्यपुत्र, सा खलु गुणमाला भवदीयविरहाशुशुक्षणिकशित. तनुलता, क्षणे क्षणे ताम्यति मुह्यति मूर्च्छति च; अतस्तामम्भोरुहाक्षी प्रथमतः संभाव्यात्रागन्तुमर्हसीति ।
विवेश गुणमालायास्ततो गेहं कुरूद्वहः । एकान्ते तां विलोक्यायमालिलिङ्ग च संगतः ॥ ३ ॥
For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
जीवंधरचम्पुकाव्ये
आर्यपुत्र मन्नित्तं खल्वेतावहुखमनुभूतवानस्यतो मन्दभाग्यां मां मा संस्टशेति सविषादमुक्तो जीवंधरः, तरुणि तरुणारुणकिरणविकसदम्बुनवदने भवदीयपूर्वकृतसुकतप्रभावेनैवैतादृशः संवृत्तोऽन्यथा पुनर्बहुतरदुःखमनुभवेयमिति तां समाश्वास्य, क्रमेण गन्धर्वदत्तानिलयं निजालयं चागत्य, तत्र मन्त्रविदामग्रणीर्गन्धोकटेन साकं मन्त्रयित्वा, वयस्यवलयविलसितपार्श्वभागो मनोजवगन्धर्वबन्धनेन स्यन्दनेन कामनीयकसीमाकोशं विदेहदेशमशिश्रियत् । धरणीतिलकाख्यया प्रतीतां नगरी तत्र जगाम कौरवः । अधितिष्ठति यां स्वमातुलः स पति गोविन्दमहीपचन्द्रमाः ॥४॥ तावद्विदितोदन्तेन गोविन्दमहीकान्तेन प्रशासितपुरुषपरिष्कृतामु विकीर्णविकचविमलकुसुमकुलसौगन्ध्यसमाहूतपुष्पंधयझङ्कारमेदुरविविधवाद्यरवमुखरासु दिदृक्षापरवशपौरजनसंमर्दनिवारणपररानचरकरचपलकनकवेत्रलताकान्तिबालातपशीलासु हाग्रनिबद्धपताकापटवितानछत्रचामरादिभिर्निवारितदिनकरकरजालासु प्रतोलीपु संक्रीडद्भिः शताङ्गैः प्रविशमानाः वेलातीतविलोकनकुतूहलचन्द्रशालासमिलितलोलाक्षीजनकटाक्षखेलाकलितनीलोत्पलमालामादधानास्ते जी. वंधरपुरःसराः कुमाराः क्रमेण राजमन्दिरमाविविशुः । तत्र च ।
गोविन्दभूपतिरिमं कुरुवंशकेतु
मालिङ्गय मोदविवशः स्फुटरोमहर्षः । आप्टच्छय सौख्यमखिलांश्च यथोचित ता
समान्य साधु विदधे विविधोपचारान् ॥५॥ अथ सचिवकुलेन जीवंधरेण च सहितो गोविन्दमहीपतिः कुरुवीरं पञ्चाननचञ्चदासने काष्ठाङ्गारं च मृत्युवदने कदनेन निधत्सुमन्त्रशालामधिष्ठितो मितजनपरिवृतोऽपि रत्नभित्तिसंक्रान्तप्रतिमाभि.
For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
१०७
रनेकपुरुषपरिवृत इव शोशुभ्यमानः संमन्त्रयितुमारेभे ।
ततो विदितमेदिनीकमनभावकूलंकषा नयाम्बुनिधिपारगा जगदुरञ्जसा मन्त्रिणः । महीश स हि वञ्चनाकलितचित्तवृत्ती रिपुः
प्रतारयितुमद्य नो विनयपत्रिका प्राहिणोत् ॥ ६ ॥ कदाचिन्मत्तदन्तावलः पाटितालानो निर्मूलितनिगलः संक्षुभितकटकः सकलभटघटादुरासदः सत्यंधरवसुंधरापतिमन्दिरोपकण्ठसञ्चा रः, कोपान्निर्गतं तमेनमस्मत्प्राणायमानं निहत्य, निखिलपौरलोकंशोकपारावारे मामकीर्तिपूरे च निमन्जयामास ।
अधेन मयि विस्तृतां मिलदकीर्तिमेतां भवा
न्प्रभाकर इवाम्बुनाकरवरे हिमानी तताम् । विनाशयितुमर्हति क्षितिपते दयावारिध
ततः पुरमुपागतो मम च मित्रतां लालय ॥ ७ ॥ इति शात्रवसंदेशमाकर्ण्य कन्दलितमन्दहासो गोविन्दमहीपति. जीवंधरवदनारविन्दनर्तितनयनखजनो बभूव ।
नृप मातुल निःशङ्कं मद्भुजोष्मा निरङ्कुशः । इमं न सहते शत्रु तत्कालस्तु प्रतीक्ष्यते ॥ ८॥ इति कुरुवीरवचनचातुरीनिशमनधीरधीरमना धरापतिश्चतुरङ्ग. बलेन राजपुरी प्रति गमनं तत्र निजनन्दिनीस्वयंवरततनं नाना. देशनरपतिसंमेलनमरातिनिधनं च निश्चित्य काष्ठाङ्गारेण संजात. सख्यं प्रख्यापयन्डिण्डिमं संताडयामास ।
चलन्तमिव सागरं निजबलं नराणां पति. विलोक्य स समादिशन्निखिलतः प्रयाणोद्यमम् ।
For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधर चम्काव्ये
चकार च जिनेशिनः पदपयोजपूजां मुदा
बहूनि कुतुकान्वितः सपदि पात्रदानानि च ॥९॥ शुभे लने धीरस्तदनु विचचाल क्षितिपती
रथारूढो जीवंधरमुखकुमारैः परिवृतः । विदूरे सैन्येशाः प्रणतशिरसस्तं परिगताः पुरस्तात्तत्सैन्यं मुकुलितधराभोगमगमत् ॥ १० ॥ तदा मेरीघोषैयनिचय हेषापटुरवै
रथानां चीत्कारैर्मदगजघटावृंहितभरैः । जगत्सर्वं तूर्णं स्थगितमभवद्भास्कररथो
रथैरीयवेिशादिव स पिहितो रेणुनिकरैः ॥ ११ ॥ तदानीं धवलातपत्रडिण्डीरविचित्रा रङ्गत्तुरङ्गमतरङ्गसंगता मत्तडिपष्टथुयादः कुलकलिता विलोलासिलतामत्स्यव्रातपरिवृता तद्वाहिनी वाहिनीव प्रजवं निर्जगाम ।
चलति निखिले सैन्ये यद्वेणुपुज्जमजृम्भत
प्रमृतममितं व्योम्नि स्फारेभयूथमदाम्बुभिः |
तदिदमगमच्छान्ति शुण्डोद्गतैर्जलशीकरै
यमुखगलछालामाला जालैश्च समन्ततः ॥ १२ ॥ तदनु दुरासदमदाकुलतया ईषदामीलितलोचनैर्दण्डकोटिनिप शुण्डाद डेरुभयपार्श्वविलम्बितवर्णकम्बलतया गैरिकधातुसान्द्रागिरीन्द्रांस्तुलयद्भिः कर्णान्तावलम्बिकन काङ्कुशतया कृतकर्णपूरैरिव जङ्गमैरिव कुलाचलैः संख्यातीतैर्दन्तावलैराक्रान्त सकलविशावकाशम्, मुखभागकलितकनकखलिनैः संमुखागतमाकाशमापिवद्भिरिव चलाचलोष्ठपुटैर्मुहुर्मुहुः कम्पितोदररन्त्रेण परिपूरितभुवनोदरेण हेपारवेण वेगगर्वधूर्व गुरुत्मन्तं निर्भरिव सादिकृतजवनिरोधकोष
For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
घुर्घरायमाणोणेः परिस्फुरत्प्रोथपुटेन पदे पदे मुक्तपूत्कारेण जवनिपीतमनिलमित्र नासिकाविवरेगोहमद्भिर्मूर्तिमद्भिरिव रंहःसमूहैर्गन्धर्व. बन्धुरम्, अतिदूरोन्नतपताकापटतिरोहितरविरथैः सैन्यसागरावर्ताय. मानैः संदानितघण्टावणवणात्कारमुखरेश्चकक्षुण्णक्षोणीतलैः स्यन्दनैः परिशोभितम्, भिण्डिपालमण्डलाग्रपटसपरश्वथघणप्रमुखायुधधारिणा पादातेन सनाथम्, मायूरातपत्रसहस्त्रान्धीकृताष्टदिङ्मुखमनीकं पुरोधाय, कैश्चित्प्रयागोविन्दराजः क्वचन राजपुरीं निकषा निषसाद ।
तदनु विदितवार्तो माययासौ कृतघ्नो
दधदिव बहु सख्यं प्राहिणोत्प्राभूतानि । अयमपि नरपालो लालयंस्तानि सद्य
स्तदतिशयितमेतत्प्रेषयामास तस्मै ॥ १३ ॥ ततः काष्ठाङ्गारेण निनबलशवलेनाभ्यागत्य बहुधा समानितो गोविन्दमहीपतिः, राजराजपुरीनिकाशां राजपुरीं प्रविश्य, तत्र विविधरत्नचयविचित्र स्वयंवरशालां परिकल्प्य, वराहत्रयशोभितचन्द्रक. यन्त्रभेदं कन्याशुल्कतया सकलदेशेषु चोपयामास ।
परःसहस्त्रं प्रथिता महीपाः प्रापुस्तदा तां नगरी गरिष्ठाम् । भेरीरवालोलसमस्तलोकाः सेनारजोभिः पिहितप्रभागाः ॥ १४ ॥
स्वयंवरगृहे तत्र महीशाः सानुयायिनः ।
मचेषु मिलिता मेरुशृङ्गेष्विव सुरेश्वराः ॥ १५ ॥ तत्र मध्यनिबद्ध संभ्रमद्यन्त्रभेदिनमतिपानमहिमानं युवानमस्सनन्दिनी शशिकलेव प्रदोपं शचीदेवीव पुरंदरमलंकरिष्यतीति गोविन्दरानेन कारितमारावं निशम्याहमहमिकया चलितेन, वक्षःस्थलविलसितपाटीरपङ्कसंगतकुङ्कुमस्थासकःपुजपिञ्जरितदशदिशेन, आ.
10
For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
जीवंधरचम्पुकाव्ये क्षेपडालायमानमुक्ताकलापेन चलितनवमालिकोडीनभृङ्गसङ्घसंस्तृयमानयशोविभवेन, अर्धावलम्बितकर्णपूरचुम्ब्यमानगण्डस्थलेन राजकेन स्वयंवरमण्डपं स्वयमुच्चलितमिवाभवत् ।
वराहयन्त्रमभितो धराधीशाश्चकाशिरे । कुलाद्रि परितः कीर्णाः शिलाखण्डलवा इव ॥ १६ ॥ ततश्च मगधाधिपे विदितशक्तिलोपे भृशं
कलिङ्गनरनायके विषयमस्टशत्सायके । नृपे च विनतापुरो निहितलक्ष्यधूलीहरे
शरव्यचलनोदरे प्रथितपौदनाधीश्वरे ॥ १७ ॥ अयोध्याभूपाले भुवि पतति धैर्येण विकले
तथावन्तीनाथे वितथभुजशौर्ये मितकथे । नृपेप्वन्ये वेव कुवलयदृशां हासविषये
प्वयं काष्ठाङ्गारः कुतुकवशचित्तः प्रचलितः ॥ १८ ।। तदनु काष्ठाङ्गारो दर्पदुर्ललिताकारः कलभनिभचारः, लद्यन्त्राधोभागभ्रमञ्चके पादं निधाय पारवश्येन भुवि पतितः, क्षितिपतिवलयस्य कमलाक्षीजनस्य च हास्यवदान्यो बभूव । कुमारेऽस्मिन्धीरे सहचर घटामध्यलसिते
यथा प्रोद्यत्तारागणपरिवृते शीतकिरणे । तदानी गोविन्दसितिपतिरदादृष्टिमधिका
मुदस्थात्सोऽप्येष स्मितविशदवत्रः कुरुवरः ।। १९ ।। तइनु सखेलं भुवि पदानि निदधानं जयलक्ष्मीनिवन्धननिगल. कटकशङ्कावहमरकताङ्गदशोभितं सञ्चरणसञ्चलन्मुक्तादामबाभास्यमा. न वक्षःस्थलं जीवंधरमवलोक्य तवत्या एवमेवं विदामासुः ।
For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
१११ कुमारं भूपालाः कतिचन विदुर्भूपतिलकं
परे मांकारस्थगितममरं संजगदिरे । सदेहं कंदर्प कुवलयदृशोऽवादिषुरमुं
तथा काष्ठाङ्गारप्रमुखमहिता मृत्युमविदन ॥२०॥ एवं सर्वैविलोक्यमानो जीवंधरो यन्त्रसमीपमासाद्य विद्याजलधिसुधाकरश्चन्द्रकलानुकारिदंष्ट्राविराजितवराहयन्त्रं चिरं विलो. कमानस्तच्छेदनावसरमीक्षमाणः क्षणादधिचक्रमुत्प्लुत्य सज्जीकृतधनुष्टङ्कारकम्पितवसुधातलस्तद्यन्त्रं महीभुजां दर्प मानिनां खेदं गोविन्दपार्थिवस्य शङ्कां च युगपञ्चापसमारोपितरोपेण विव्याध ।
आनन्दोद्रिक्तहृदयो गोविन्दमहिपस्तदा । राज्ञां धुरि जगादोच्चैः प्राज्ञानामग्रणीरिदम् ॥ २१ ॥ धीरो वारिधिमेखलां वसुमती प्राक्पालयामास य.
स्तस्य श्लाध्यगुणस्य मान्ययशसः सत्यंधरस्यात्मजः । एष द्वेषिमहीपदावदहनः प्रख्यातदोर्विक्रमः
श्रीमान्मे भगिनीसुतो विजयते वीरश्रिया वल्लभः ॥२२॥ वसुधाधिपा धनुषि पाटवाात्तथा __ वपुषि स्फुरद्विशदलक्षणात्क्षणात् । क्षितिपालमूनुरयमित्यथास्मर
नवलोक्य तं ललितमभ्यनन्दिषुः ॥ २३ ॥ एवंविधगोविन्दनरपतिवचनेनाशनिगर्जनेन भुजग इव भीतमानसविकारः काष्ठाङ्गारो मनसि चिन्तामेवं तरङ्गयामास ।
सत्यंधरस्य मनुश्चेदयं हन्त हता वयम् ।।
जागरूका भवन्त्यस्मिन्वीर्यशौर्यपराक्रमाः ॥ २४ ॥ पुरास्मदीयामाज्ञां मालामिव शिरसा समादधानो मथनो वणि
For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
जीवंधर चम्पुकाव्ये कपाशमेन कथमवधीत् । अतः सर्वः स्वार्थपरो लोक इति सत्यमेतत् । किं वास्य मातुलः समाहूतः । घिमां मां मूढपरिवृढ मात्मवधाय कृत्योत्थापनमाचरन्तम् । किं करिष्यति वा किंकु. वणिराजसंदोहेन गोविन्दमहीपालेन कनसाहाय्यकोऽयं समीरपुर. स्कृत इव समीरसखः ।
इति चिन्तां कुर्वाणः खर्वतरगर्वविजृम्भित सोधेन तुमुलसमीकेन कन्यामाहर्तुमना मनागितरबलमेदुरेण क्षुद्रक्षितीशनिकरेण साकं संमन्त्रयितुं स दुर्मेधसामग्रणीनिजनिवेशमाविवेश ।
पराशयविदा ततः कुरुवरेण राज्ञा सहा
स्थितेन नयकोविदाः सपदि सोपदाः केचन । पितुर्विषयसंगतान्नरपतीन्प्रति प्रेषिता
स्तथा परिचितान्नृपान्विशदपत्रिकाभिः सह ॥ २५ ॥ सत्यंधरक्षितिपतेर्विजयामहिष्यां
सजात एष खलु जीवकनामधेयः । दैवात्तदा विरहितः कुटिलापितृभ्यां
वैश्याधिपस्य समवर्धिषि मन्दिरेऽहम् ।। २६ ॥ अयं किल दुराचारः काठाङ्गारः काष्ठाङ्गारादिविक्रयेण प्राणसंधारणं कुर्वाणः क्रमेण युप्मदुर्वीपतिना मन्त्रिपदवीमारोपित स्तमेव निहतवानिति विदितमेव हि भवताम् ।
अतो मम यथा सोऽयमुच्छेद्यो भवतामपि ।
शत्रुत्वांद्राजवत्वाच्च कृतघ्नत्वाद दुराशयः !! २७ ॥ रसातले वा वसुधातले वा महीधरे वा विपिनान्तरे वा । तिरोहितश्चेदपि हन्यतेऽसौ ततः समागच्छत वाहिनीभिः ॥२८॥ संदेशमेवं कुरुकुञ्जरस्य सामन्तभूपाः शिरसा दधानाः ।
For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
११३
सत्यंधरे भक्तिवशेन नुन्नाः सेनासमेता मिलिता बभूवुः ॥ २९ ॥ तावन्नयविशाल नाम कुरुवीरदूतः, सचिववृद्धस्य नयपारगस्य धर्मदतस्य निकेतने प्रविश्य तेन विदितोदन्तेन संघानाय नरेन्द्रमन्दिरं नीयमानः, तत्र परिमितैर्नरपालैः परिवृतम्, अनतिदूरावस्थितेन सविनयमवनमितपूर्वकायेन मथनेन सवित्रम्भमालपन्तम्, कोधकृशानुविस्फुरन्निश्वासधूमविवर्णमुक्ताहारं काष्ठाङ्गारमुपजगाम । तत्र धर्मदत्त एवं जगाद |
2
जानाति देवः सकलं तथापि श्रोतव्यवाचः सचिवा नृपेण । नाकाधिराजोऽपि निरीक्ष्यकृत्यो बृहस्पतेर्वाग्विसरं शृणोति ॥ ३० ॥
इदानीमुदारसत्वैर्गरुडवे गगोविन्दपल्लववल्लभप्रभृतिभिः खेचरतदितरमहीपालैर्नन्दाव्य प्रमुखैर्महावीरैः सहचरैश्च परिवृतः कल्पान्तजलधिरिव निरर्गलप्रसरः सकलजगतीतलविख्यातवीरो जीवंधरकुमारः क्रुद्धो युद्धाय बहादरो वर्तते ।
व्याधान्दुः साधवाधान्गजतुरगमुखैर्मद्वलैः संप्रवृत्तै
लामात्रेण जित्वा निखिलपशुगणं मोचयामास यः प्राक् । वीणाशुल्के च दृप्यन्नरपतिनिचयं धावयामास संख्ये सोऽयं नैकोऽपि जय्यः किमुत खगनराधीश्वरैः संगतश्चेत् ॥ ३१ ॥
अत इदमनिर्दप्रथमप्रवृत्तं तदीयराजपदं तनुजे समर्प्य यथापुरं सचिवपदमधिष्ठातुमर्हति देव इति ।
एवं मन्त्रिगिरं निशम्य समयं तुष्णीं स्थितः सोऽवद कर्णे प्रमुखेन तत्र मयनेनादीपितक्रोधनः ।
रे रे केन ससाध्वसं बहुतरं पृष्टोऽसि वक्तुं पुरो भीरुवं यदि ति
पनि सुधा लीवोऽसि किं भाषितैः ॥ ३२ ॥
For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
जीवधरचम्पुकाव्ये माद्यद्दन्तिघटापटुस्फुटनटबोटप्रहृष्यद्भटा
टोपाच्छादितदिक्तटे रणतले खगोल्लसद्वारया । आहृत्य श्रियमाहवोद्यतरिपुक्षोणीभृतामुज्ज्वलां
कीर्त्या कोमलया दिशो धवलयाम्युत्फुल्लकुन्दनिया ॥३३॥ किंच ।
आ जन्मतो न लिखितं भुवनाधिपत्यं
यद्गालसीमनि परं तु वणिक्रियैव । तेनाधमेन वणिजस्तनयेन किंवा ___संधानमद्य नरपालमणीशिनां नः ॥ ३४ ॥ ध्वजिनीरुद्धपार्श्वस्य मथनस्य शरावलेः । विघसोऽजनि यः पूर्व कबलीक्रियतेऽधुना ॥ ३५ ॥ इति दर्पदुर्ललितवचनविलसितमाकर्ण्य कोपारुणीकृतभालो नयविशालो गम्भीरमिमां गिरमुज्जगार ।
पुलिन्दवृन्देन गवां कुले हृते बलेन साकं मथने पलायिते । पिधाय वेगेन कवाटमन्ततो धृतो वधूभिस्तनुकम्पमत्यजः ॥३६॥
एवंविधपराक्रममण्डितभुजदण्डमण्डितस्य न युक्तमेव कौरवेण संधानम् । किं धर्मदत्तेन हि षण्डवृत्त्या प्रचण्डवृत्या भवतापि किंवा । कुरुप्रवीरस्य कराग्रनुन्नं राज्यश्रियं चक्रमलं प्रदातुम् ॥ ३७ ॥
इति निगद्य जवान्निर्गत्य यथावृत्तं कुरुवीरं विज्ञापयति नयविशाले विशालतरसमीकसंनाहः कुरुकुमारः पद्मास्यं वरू थिनीनामाधिपत्ये विधाय यथायोग्यं गरुडवेगगोविन्दलोकपालपल्लवमहीपालप्रभृतीनाप्टच्छच रणाङ्गणावतरणाय सेनामादिदेश ।
काष्ठाङ्गारोऽपि सेनायाः पति मथनमादिशत् ।
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः।
११५
टतनायाः प्रयाणाय रणरङ्गस्थलं प्रति ॥ ३८॥ तदनु विकटकटविगलद्दानधाराप्रवाहानुभयतः सृजद्भिः सनिझरैरिव नीलाचलर्विशददन्तप्रभादन्तुरिताङ्गतया रजनिकरकरनिकरचुम्बितसंवर्तकालाम्बुदविडम्बकैः कर्णद्वयसंदानितधवलचामरशोभिततया पद्मिनामसाम्येन समागतमरालशङ्कामङ्कुरयद्भिः पादन्यासेन महीं कम्पयद्भिः बनावनधनगर्जितानुकारिबृंहितरवेण गिरिदरीसुख. सुप्तपञ्चास्यान्क्रोधेनोप्तत्य कुत्रत्योऽयं करिशब्द इति निरीक्षमाणान्कुर्वाणैरिणैः सञ्छादितदिग्भागाः, सूर्याश्वशिरस्ताडनायेवोर्ध्वप्रसा. रितपूर्वचरणयुगलैः प्रलयजलधरविमुक्तवर्षोपलासारपरुषेण जर्झरयतेव वसुधातलमतिनिष्ठुरेण खरखुरपुटविन्यासेन जनितपांसु. पारंपरीभिः सकलजगदन्धंकरणधुरीणै हेषितरवेण गगनतलं पूरयद्भिः प्रतिपक्षैरिव गरुत्मतः पर्यायैरिव मारुतस्य प्रत्यादेशैरिवोच्चैःश्रवसो निदर्शनैरिव मनसो मूरिव नर्गन्धर्वैरुपशोभिताः, सुरविमानसकाशैश्चक्रक्षुण्णसोणीतलैर्मनोरथैरिवामितरथैः परिपूर्णाः, वेलारवबधिरीकृतलोकैर्विविधायुधविचित्रर्विधृततनुत्रैः पदातिभिः परिवृताः, उभयेऽपि सैनिकाः, क्रमेणानिरङ्गणमगाहन्त । तत्र च,
अभ्रंलिहानां पटमन्दिराणां पतिर्बभौ शारदमेघशुभ्रा । विचित्रयुद्धस्य विलोकनाय समागता राजपुरीव साक्षात् ॥३९॥
तदनु विनिर्मितविशालविशिखासहस्त्रविराजमानम्, मदमेदुरसिन्धुरवटान्धकारितदिङ्मुखतया जलघरदिवसायमानम्, अभ्रकरैरपहसितरजताचलशोभैरमलसुधावदातैर्मन्थानगिरिमथ्यमानदुग्धसिन्धुगर्भविलुठ त्तरङ्गायमानानिलडोलायितसितध्वजतया उपरिपरिपतदभ्रगङ्गाप्रवाहैरिव तुषारगिरिशिखरैः पटमन्दिरैर्विभ्रानितम्, नीलकवचावगुण्ठित. देहैः सितोष्णीषैरत्युन्नतवेत्रासनोपरिविष्टैर्धममयैरिव धर्माधिकारिभि
For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
जीवंधरचम्पुकाव्ये महापुरुषैस्तन्तन्यमानसेनासंविभागसंविधानम्, स्फुरितनिशितकर - घृतकरवाल प्रतिबिम्बप्ररोहकरालितातपेनोविरुद्धभौलिकलापेन धव. लचन्दनलिप्तभुजदण्डेन सेवकजनेनाध्यासितद्वारदेशम्, विविधवस्तुविचित्रितैः पण्याहरणसंमदनपरक्रयिकविक्रयिकलोकैर्महाविपणिपथैरुपशोभितम्, योवनमहमततरुणजनानुसार्यमाणतरुणीजननिरन्तरवेशवाटम्, विविधायुधसंस्कारपरजनबंभ्राम्यमाणशाणचक्रप्रभृतिसंस्कारसाधनसंञ्छादितं तद्रङ्गस्थलमशोभत । युद्धप्रारम्भकेलीपिशुनजयमहावाद्यघोषैरशेषै
हेषारावैर्हयानां मदमुदितकरिवहित नुम्भमाणैः । रथ्याध्वानैः पदातिप्रचुरतरगलत्सिहनादैरमन्दैः
शब्दैकाम्भोधिमग्नं जगदिदमभवत्कम्पमानं समन्तात् ॥४०॥ रणान्तरायं कुर्वाणा धूल्यो या व्योम्नि जृम्भिताः । तन्नाशाय ध्वजा मृत्युसंमार्जन्य इवारुचन् ॥ ४१ ।। उद्यन्निस्साणराणप्रसरमथ सुरा जृम्भमाणं निशम्य
क्षीवक्षोगीपतीनां कदनविलसितं वीक्षितुं संप्रवृत्तम् । पुप्पाण्याहृत्य कल्पक्षितिरुहवनतः सौरभाकृष्टभृङ्ग
व्यूहव्यारावपूराण्यधिककुतुकतः संगता व्योमसीम्नि ॥४२॥ सेनापयोधी समदाट्टहासौ शनैः शनैः संघटितौ व्यभाताम् । कल्पावसाने खलु वर्धमानावम्भोनिधी यद्वदमन्दवेगौ ॥ ४३ ।। पदाति पदातिस्तुरङ्गं तुरङ्गो मदेभं मदेभो रथस्थं रथस्थः । इयाय क्षणेण स्फुरद्युद्धरङ्गे ध्वनज्जैववादैः स्वनच्छिञ्जिनीके ॥४४ दृप्यद्दन्तिकरोद्यता जलकणा व्योम्नि स्फुरत्तारका
कारा रजुरभूच्च नाकसुदतीवकं निशानायकः ।
For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
११७
धूलीभिः पिहिते च चण्डकिरणे संग्रामलीला बभौ
निर्दोषापि विभावरीव सततं क्रीडद्रथाङ्गापि च ॥ ४५ ॥ यावन्नाक्षिपति क्षणेन करिणो ववच्छंद विस्तृतं
हस्त्यारोहवरः प्रतिद्विपगतो वीरः शरैस्तावता । शुण्डां तस्य मदं च लोपमनयत्कोपेन सोऽप्युद्धतः छिन्नेनैव करेण तं प्रतिभटं मूस्पिदं द्राग्व्यधात् ॥ ४६ ॥ भल्लैः प्रतिद्विरदमल्लधनुर्विमुक्तैः ___ कुम्भेषु मग्नशिखरैय॑लसन्गजेन्द्राः । आरावहीनवदनैः शिखिनां समूहै.
रारूढतुङ्गशिखरा इव शैलवर्गाः ॥ ४७ ॥ इह खलु, कौचन मत्तदन्तावलौ क्रोवतरलौ समीककलाकुशलौ परस्परदण्डसंबनननितगम्भीरारावेण बंहितभरेण च गगनतलं पूरयन्तौ, गण्डतलविसृत्वरमदधारासौरभप्रचुरकर्णतालविगलत्समीरैराजिरङ्गतले मूच्छितान्भटान्प्रबोधयन्तौ, भुग्रवालौ, सक्थि. जवघटितपदविन्यासेन वसुंधरां स्थपुटितामादधानौ, पूर्वपश्चिमसमीरसमीरिती सजलजलदाविवापतन्तौ, सकललेखजनतनूरुहसौख्यशायनिकं भयानकं समीकमातेनतुः ।
आयोधनं विदधतोगजयोः कयोश्चि
दन्तप्रघट्टजनिताग्निकणाः स्फुरन्तः । हेमप्रदीप्रवलयावलिखण्डतुल्या
माञ्जिष्ठचामरगताः सुभेटेर्नु दृष्टाः ॥ ४८ ॥ कश्चिद्गजः प्रतिभटं चरणे गृहीत्वा
संभ्रामयन्दिवि रुषा परुषप्रचारः ।
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
जीपंधरचम्पुकाव्ये चिक्षेप दूरतरमूर्ध्वमयं च मानी
द्रागेत्य कुम्भयुगलीमसिना बिभेद ॥ ४९ ॥ इभोगतानां नवमौक्तिकानां वर्षेण संख्ये निरवग्रहेण । मुक्तामयत्वं दधती च रङ्गस्थली गदाच्या बत संबभूव ॥५०॥ निपात्य कंचिद्भुवि शुण्डयारिं दन्तेन हन्तुं करिणि प्रवृत्ते । दन्तान्तरालं प्रविशन्स धीरश्चिच्छेद शुण्डां करवालवल्लया ॥५१॥ चक्रेण कृतं निजमेव हस्तमग्रप्रदेशाद्धरणौ पतन्तम् । पिपेष पादेन रुषा परीतः करेणुराजः स्तुतरक्तपङ्कम् ॥ ५२ ॥
गृहीतो नागेन प्रतिभटवरः पुष्करगतो _ वितन्वानो डोलामसिनिहितहस्तेन करिणा । पदा पेष्टुं नीतः सपदि पदमध्ये प्रचलितो
गृहीत्वा वालाग्रे व्यसुममुमधान्मुष्टिहतिभिः ॥ ५३ ।। तत्र फुल्लकुन्दकुसुमावदाता जितवातजवना वाजिनो गगनतलोक्षिप्तानपादतया नभःस्थलमाक्रमितुमिव प्रवृत्ताः, पुरतः पतितानि महाशैलकुलानीव दन्तावलशरीराणि लवयन्तः, संगरसागरे परस्परं कलहायमानाः कल्लोला इव विनिरे ।
खुराघातैः कश्चित्प्रजवनहयः कम्पितधरः ___ पृषकैः कीर्णाङ्गोऽप्यविरहितशिक्षानुसरणः । पदे खगच्छिन्नोऽप्यहितसुभटेनापतदसौ
न तावद्यावत्तं न निनवरसादी निहतवान् ॥ ५४ ॥ छिन्नेऽपि दक्षिणभुने करवालवल्ली
वामे करे विचलयात्रपुमाप सादी । वीरस्य तस्य रिपुखण्डनकलिकाया
मक्षीणशक्तिरगमत्स हि दक्षिणत्वम् ॥ ५५ ॥
For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
अश्वारोहैः कृत्तदण्डानि भूमौ पर्यस्तानि स्फारच्छत्राणि रेजुः । रूप्यस्थालानीव क्लत्तानि मृत्योराहाराय प्रौढचन्द्रातीनि ॥५६ ।। खङ्गैः कृत्ता वाजिनां वक्रभागा रक्तस्रोतो नीयमाना जवेन । मनाङ्गानामुन्मुखानां हयानां भ्रान्ति तेनुः पश्यतामाजिरङ्गे ॥ ५७ ॥
भटानां रोषेण प्रतिभटसमीपं प्रचलतां
समुदाता रेजुश्चलदसिलताः पाणिकलिताः । भुजश्रीखण्डद्रुप्रकरकुहरोद्यद्विपधरा
रिपूणां प्राणालिं कबलयितुकामा इव तदा ॥ १८ ॥ समीकपदवीविदः समदसिंहनादा भटा
ववल्गुरमितैः शरै रचितमण्डपा : पुष्करे । निरस्ततपनातपश्रमभराः क्षणाद्गुरै :
शरीरनिकरैर्यशःस्थिरतनूर्भुवि प्रेप्सवः ॥ १९ ॥ तत्र समीककलाविपश्चिदाश्चर्यवृत्तिः पदातिः, केनचित्पदगेन भुनध्वजतिर्यगर्पितवैजयन्तीतुलितां कृपाणीलतां बिभ्राणेन 'इदं मदीयनामधेयपूर्वभागं बिभर्ति' इति रोषादिव पदद्वये निकत्तोऽपि, अखण्डितमात्मसत्वमिव घनवंशजातं चापमालम्ब्य, शूरो न पपात ।
नीलाभ्रतुल्ये कवचे भटस्य नीते प्रभेदं करवालवल्लया । तत्र प्रवृत्ता घनशोणितालिः सौदामिनीसाम्यमवाप दीर्घा ॥६॥ कश्चिद्भटः शत्रुशरैः परीतसमस्तदेहः समिति व्यलासीत् । यथा महीनः प्रचुरप्ररोहो यथा च नागाततचन्दनद्रुः ॥ ६१ ॥ वीराग्रेसरः पदचरः प्रथितरिपुमण्डलायखण्डितमस्तकविगलदसृग्धाराभयङ्करमुखभागतया बहिःप्रसृतया क्रोधपरंपरया परीत इव मृत्युमूर्धानं दृढतरमुष्णाषेण प्रभुकार्यापरिसमाप्तीप्राणोत्क्रमणं
For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीबंधर चम्पुकाव्ये निरोडुमिव निबध्य करे कृपाणं मनसि धैर्य सपत्ने दृष्टिं महीतले रिपुशिरःसहस्त्रपतनं च युगपदातन्वानः क्रतुभुनां श्लाघानां पुष्पवृष्टीनां च पात्रमजायत ।
सैन्यद्वये तत्र विमिश्रितेऽपि विशेष एष व्यलसद्रणाग्ने । स्वीयाः पराश्च पदगाः पुरस्ताद्ये संमुखास्ते रिपुसैन्यवर्गाः ॥६२॥
तदानीं रिपुशरनिकृत्तचापलताश्चापलकरवालैभन्नकरवालाः पाणिभिश्छिन्नपाणयश्चरणभिन्न चरणा दुर्वचनैः क्रोधपरीता योधाः परस्परमाजनुः । एवं शब्दपूरितगगनजयानके भयानके समीके विजृम्भिते मथननिर्मुक्तनाराचधारापातेन दीनां निजसेनामालोक्य करकलितकार्मुकलताविस्फारघोषेण द्विविधानपि महीभृतः कम्पयन्कोपारुणास्यः पद्मास्यो वेगविततचक्रस्पन्दनेन स्यन्दनेन वि. पक्षवाहिनीं दिधक्षन्निवाभिदुद्राव । पद्मास्यप्रहिताः प्रभूतविशिखाः सेनान्तराले रिपो__ोधास्तत्र सहस्त्रशो निपतितान्भमौ व्यधुः पतिशः । घोटान्पाटितविग्रहान्गजवटाः प्राणालिभिटाः
कूजञ्चापधरान्वहछरधिकांश्चकुर्व्यसून्संयुगे ॥ ६३ ॥ तस्यामितैः शरगणैर्गगनं रिपूणां
सैन्यं च पूरितमभूवनसंप्रहारे । भूमिश्च भनभटवाजिगजैः परीता __ हाहारवैररिवलस्य दिशावकाशः ॥ ६४ ॥ द्विषतां तत्पतीनां च नवास्त्रेनिम्नगाः सृजन् । पद्मास्यः प्रीणयामास निजसैन्यनदीपतिम् ॥ ६५ ।। शरास्तदानीं जलजाननस्य नामाक्षराणां मलिता न भयात् । इतीव राज्ञां हृदये प्रविष्टाः प्राणानगृह्णन्त न रक्तलेशम् ।। ६६ ।।
For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः । एवं निनध्वनिनीक्षोभमालोक्य तत्क्षणकन्दलितकोपौ मगधमागधभूपो कुटिलीकृतचापौ निर्निरोधप्रचारेण रथेन क्षोणीतलं क्षोभयन्तौ निजसैनिकशिखावलधनगर्जितायमानसिंहनादेन वैरिजनधैर्यमुन्मूलयन्ती जवेन पद्मास्यमापतताम् ।
तं मागधमहीपालं वर्भानुरिव भास्करम् ।
दधाव रथिनं वीरो देवदत्तो धनुर्धरः ॥ १७ ॥ तदनु करलाघवकोरकितधनुर्लतारिनिरन्तरनिर्मुक्तशरनिकरदूरोसारितनभःस्थलसंमिलितामरलोकं पाणिपात्रस्थकीलालपाननिरुत्सुकैविस्मयस्तिमितलोचनैस्तुषोत्तालेर्वेतालविलोक्यमानशरसंधानमोक्षणम - न्योऽन्यास्त्रसंवसातपोञ्चलत्प्रचुरविस्फुलिङ्गपरंपरावित्रासितकुञ्जर. कुलं वैमानिकजनसीमातीतश्लाघाविषयभूमाञ्चितं सकलवीरजनोत्साहदानशौण्ड प्रचण्डतरदोर्दण्डयोमथनपद्मास्ययोर्मागधदेवदत्तयोश्च वा. चामगोचरं समरमुदजृम्भत । मथनदलितान्बाणान्दृष्ट्वा निनान्बहुशस्तदा
कमलवदनः सोऽयं कर्णान्तनर्तितशिञ्जिनिः । विततविशिखैः सूतं केतुं च तस्य विभेदय
निनगलगलत्सिंहध्यानैर्नभः समभेदयत् ॥ ६८ ॥ ततश्च दुर्धर्षामर्षपाटलवदनेन मथनेनार्धचन्द्रेण निकत्ते निजकामुकगुणे, पद्मास्यः, करतलताण्डवितकोदण्डान्तरसमारोपितकाण्ड प्रकाण्डै रिपुमण्डलानि खण्डयन, तस्य सपत्नस्य शरासन समरोत्साहं च युगपद्विदारयामास । तत्तादृग्देवदत्तप्रचलकरतलात्पत्रिणो युद्धरङ्गे
पेतुः प्रोद्धृतपक्षाः कतिचन गगने तस्थुरुद्यद्याच्याः । श्लो. ६९. उद्यद्भयाझ्याः, आविर्भअन्त्या कान्त्या पूर्णाः ।
11
For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
जीवधरचम्पुकाव्ये लेखानां मेघमार्गे पिहितपरिलसत्सौरभाणि प्रकामं
तस्थुः पेतुश्च जीवंधरनिखिलबले कानिचित्पुष्पकाणि ॥६९॥ यत्र यत्र रिपुवाहिनीतले पुण्डरीकमुदयत्कबन्धके । आविरास बहुधा शिलीमुखास्तत्र तस्य जयिनः समापतन् ॥७०
एवं देवदत्तस्य रणमत्तस्य दुर्ललितदोर्दर्पविलसितमसहमानः किरीटखचितकुरुविन्दमणिबृन्दप्रभापुनरुक्तवदनवनजकोपारुणकान्तिप्रसरः परंतपप्रतापो मागधभूपः करनर्तितचापलतानिर्मुक्तवाणगणाचान्तविपक्षपक्षदुर्मदः पञ्चषैः पृषकैर्देवदत्तस्य रथयोदान्पाटयामास । . निशितविशिखवयैर्विश्रुतो देवदत्तः
___ कवचमथ विभिन्दन्मागधेशस्य कोपात् । उरसि निहितशक्तिस्तस्य शक्तिं विलुम्प
न्समिति विमलकीर्तिः पातयामास शत्रुम् ॥ ७१ ।। ततश्च प्रभोः प्रतापमिव भुवि पातितं महावीरं मगधभूपालमवलोक्य क्रोधसंज्वलन्नयनविगलद्विस्फुलिङ्गः कलिङ्गभूपालः कुटिलितभ्रूभङ्गभीषणवदनः कर्णान्ताकृष्टचापचोदितरोपवर्षेण धर्षितपरमदो हर्षितनिजचतुरङ्गवलः पाटितवोटगजघटाभटपटलः सरभसमेव कौरवसेनां क्षोभयामास । विहायसि विहारिभिः शरगणैः कलिङ्गेशितु..
र्भयाद् द्रुतमपासरन परमाकुला निर्जराः । क्षितौ च रिपुसैनिका दिशि दिशि क्षणाद्वाविताः . ___ स्वसैनिकभयोद्यमा निनयशस्तरङ्गास्तथा ।। ७२ ॥ विस्फारघोषैर्गगनं पूरयन्हर्षयन्बलम् ।
श्रीदत्तोऽभिनगामैतं मृगेन्द्र इव कुञ्जरम् ॥ ७३ ।। श्लो. ७०. पुण्डरीकम्, श्वेतच्छत्रं सिताम्भोजं च । ।
For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्वः ।
१२३ तदानीं सकलवीरजनकर्णाभरणायमानभुजप्रतापयोः श्रीदनकलिङ्गभूपयोः परस्परनिकृतविशिखमनिमेषैरप्यलक्ष्यशरसंधानमोक्षणमगोचरजयपराजयमदृष्टपूर्व दिविषदामद्भुततरं समरमुदजृम्भत |
श्रीदत्त एष करनर्तितचापदण्ड
माकृष्य संयति तथा विशिखान्मुमोच । एको यथा दशगुणक्रमतः प्रवीरा___ नाक्रम्य कन्तति जवाद्रिपुसैन्यवर्गे ॥ ७४ ॥ श्रीदत्तो रन्ध्रमन्विष्य शरैस्तस्य महीपतेः । पातयामास मकुटं प्रगञ्छिरसा सह ॥ ७९ ॥ तदीयमकुटोद्गतैरमितमौक्तिकैः पातितै
ररान समराजिरं पतितभूमिभृन्मस्तकम् । कलिङ्गवसुधापतिप्रथितराज्यलक्ष्म्यास्तदा
- विकीर्णमिव विस्तृतैर्नयनबाप्पबिन्दूत्करैः ॥ ७६ ॥ . तदनु भासां निधौ पश्चिमपाथोनिधौ निमज्जति शोकहर्षपारावारनिमग्नाः, कमलेषु मुकुलीभवत्सु मुकुलीकृतसमरविलासाः, जगदेकवीरे मारे समधिरोपितशरासनगुणे क्षणादवरोपितचापगुणाः, उभयेऽपि सैनिकाः स्वकटकभुवमासेदुः । अपरेधुः काठागारेण रिपुजनगहनाङ्गारेण बहुधा प्रोत्साहितविजयकथनो मथनः प्रतिफलि. ततपनबिम्बप्रभापिञ्जरितदिशावकाशः कबलयन्निव रिपुसेनासमुद्रमाजिरङ्गमाजगाम ।
अनीकिनी पुरोधाय पद्मास्योऽपि रणाङ्गणम् ।
आससाद धराधीशखेचराधीशसंगतः ॥ ७७ ।। तदनु मथनपद्मास्याभ्यां तिलकितमुखभागाः कोणताडितनिस्साणप्रभृतिविविधवाधरवाहूतनिर्जरनिरन्तरान्तरिक्षप्रदेशाः, श्वेलारवविजृ
For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
जीवंधरचम्पुकाव्ये म्भितसिंहगर्ननभयतर्जितदिशावशावल्लभाः, नूतननिकषकषणनिर्मूलीकृतकरचलितकरवालवालिकाप्रतिबिम्बितरविबिम्बतया मूर्तीकृतमिव निजप्रतापमाबिभ्राणाः, उभयेऽपि वीराः श्लाघायोग्यं युद्धं विधातुमारभन्त ।
कदनदुर्दिनमत्तशिखावलः करतलोतकार्मुकनीकरः । स मथनः प्रचचाल रणाजिरे विपिनदेश इवोद्वतकेसरी ॥७८ ।। विधाय बोटान्गजतां निपात्य भटान्विभिद्य क्षितिपैः सहायम् । संक्षोभयामास कुरूद्वहस्य बलाम्बुधि मन्दरवत्पयोब्धिम् ।। ७९ ।। प्रवाव्य वेगाथमानिसीम्नि पद्माननस्तस्य पुरो बभूव । काम्पिल्यकेशस्य स पल्लवेशो लाटाधिरानस्य च बुद्धिषणः।। ८०॥
महाराष्ट्रमहीशस्य गोविन्दधरणीपतिः । अन्येषां पुरतस्तस्थुनन्दाव्यविपुलादयः ॥ ८१ ॥ समापतन्तीः सहसा समन्तादनीकिनीः पद्ममुखप्रवीरः । प्रत्यग्रहीदेष शरप्रचारैः स्रोतस्विनी रेक इवाम्बुराशिः ॥८२॥ • सौजन्यमानते कुर्वअन्यमुद्धतशत्रुषु ।।
शरान्मुमोच पद्मास्यो न परान्मापि लाघवम् ॥ ८३ ॥ मथनेन शरावलिं तमित्रां सुनता तत्र निशामुखायिम् । विशिखैः किरणेंविभिन्दता तां जलनास्येन निशाकरायितम्।।८४॥
एवं परस्परशरखण्डनेन व्रणकथानभिज्ञगात्रयोः, विस्मयविस्तारितलोचनैः श्लाघोन्मुखेबहिर्मुखैर्निरन्तरं निरीक्ष्यमाणयोः, दिगन्त विसारिभिः शरासारैराकाशं मूर्तमिवादधानयोः, प्रवीराभिलाषणोभयोः समीपं मुहुर्मुहुर्गतागतक्लेशमविगणय्योत्सर्पन्त्या जयश्रिया दृढ. मालिङ्गितवपुषोः, साहसविलोकनसमयसुरवृष्टकल्पतरुकुसुमसुरभिल. भुजयुगलयोः, चक्रीकृतचापलीलामध्यविराजमानशरीरतया परिवेष
For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्यः ।
११५ मध्यगयोः परस्परसंमुखयोरिव दिवाकरयोः, प्रवीरयोरनयोः समर. क्रीडामातन्वतोः, कुपितवदनो मथनः, पद्माननस्य कार्मुकगुणं विभिद्य हर्षेण प्रगर्जन् , इमं व्याहारमुररीचकार ।
चापस्य जीवविच्छेदात्व धावसि भयाकुलः ।
ननु रे भवतोऽप्येवं जीवमेष हरिष्यति ॥ ८५ ॥ इति लपितमवेत्य पद्मवक्रः स्फुटतरमाह गिरं गभीरनादः । अयि मथन ममास्ति चन्द्रहासः परिहतशत्रुसतीमुखेन्दुहासः ॥८६॥ __इति कृपाणमुत्पाट्य करे विचलयन्, शताङ्गोत्सङ्गादुत्प्लुत्यामन्दतरलाघवाक्रान्तशात्रवानीकः पञ्चाननप्रत्यानीकपराक्रमः पद्माननः, कदनदुर्मदविलासितस्य मथनस्य शिरसि समुत्खातकरवालं निचखान ।
मथने भुवि पातिते रणाग्रे जलजास्ये निपपात पुष्पवृष्टिः । रिपुसैनिकनेत्रतोऽम्बुवृष्टिः कुपिताद्राजगणाञ्च बाणवृष्टिः ॥ ८७ ॥
तदानी कौरवबलकोलाहलमाकर्ण्य प्रवृद्धकोपौ कुटिलीकृतचापी तपननिकाशप्रतापौ लाटकाम्पिल्यकभूपो बुद्धिषेणपल्लवराजयोरभिमुखं तस्थिवांसो दिशावकाशनिबिडितसायकं हर्षितनिजनांयकं वैमानिकजनसीमातीताद्भुतहर्षदायकं भयानकं समीकमांकलय्य कल्पान्तदहनसकाशे तयोः शरनिकरहुताशे पतङ्गो बभूवतुः ।
महाराष्ट्रविदेहेशोः समरं समजृम्भत । दारुणं शरसंभिन्नवारणं जयकारणम् ॥ ८८ ॥ प्रदीप्रशरसङ्कटं प्रचुरदीर्णदृप्यद्भटं . निलिम्पजनलालितं निखिलशस्त्रलीलायितम् । प्रदर्शकनिदर्शनं प्रथितयुद्धविद्याविदा वितेनतुरिमौ तदा विविधसंगरं भीकरम् ।। ८९ ॥
For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
जीवंधरचम्पुकाव्ये गोविन्दराजस्य शरेण लूनं शीर्ष रणे तस्य धराधिपस्य । राहुभ्रमं तीव्रकरस्य कुर्वस्तत्कीर्तिनुत्यै दिवि केतुरासीत् ॥१०॥
एवं निजटतनायां महतां राज्ञां निधनं निशम्य विशालतरामर्षः काष्ठाङ्गारः, सर्वाभिसारण निजबलं पुरोधाय, तेजोविभवविनितविकर्तनप्रतापान्भूपानहितजनमृत्युसरूपान्कौरवजनसंक्षोभाय प्रेषयामास ।
कारं कारं बलोत्साहं तेषां क्षोणीशिनां रुषा।
पुरो बभूव नन्दाढयः करिणामिव केसरी || ९१ ॥ ततश्च यदुचितं सकलवीरश्लाघानाम्, यद्युक्तं जीवंधरानुजस्य, यदुदाहरणं पाण्डवयुद्धानाम्, यत्समुचितं नीतिमार्गाणाम, यदासेचनकं लेखलोचनानाम्, यदानन्दनं निजसैनिकानाम्, यन्निदानं कुन्दनिर्मलकीर्तिकल्लोलानाम्, यद्रङ्गस्थलं जयलक्ष्मीताण्डवस्य, यदधिकरणं कल्पद्रुमानल्पपुष्पवृष्टीनाम्, यदगोचरपदं कविवचनविलासानाम्, तादृशमायोधनं नन्दाढचः कन्दलयामास ।
वीरस्य तस्य निशितैर्घनकङ्कपत्रैः ___ संपूरिते नभसि युद्धमपश्यमानाः । जोषं निषेदुरमरा युधि वीतदेहा
वीराश्च सूर्यमनिरीक्ष्य चिरं ववल्गुः ॥९२ ॥ तस्य मार्गणविभिन्नशरीरैरुत्पलायितमरिव्रजवीरैः । शोणितप्रसृतवाहिनीगतैरुत्पलायितमिभावलिखण्डैः ॥ ९३ ।। अनासया तेन निपीड्य मुक्ता विलक्षतां प्रापुररिप्रवीराः । न पत्रिणस्तत्र महाहवाग्रे सुरासुराणामपि दुनिरीक्ष्ये ॥९४ ॥
तदानी मन्थानाचलमिव रिपुबलजलधि क्षोभयन्तमतिविस्मयनीयकरलाघवं रणरङ्गे निर्निरोधशताङ्गप्रचारं निस्तुलसेनासंपदमप्य
For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
१२७
द्वितीयम्, निरस्तदोषमपि महादोषम्, अमितगजतुरमादिसहायमपि चापैकसहायम, रथगतमपि धनुषि निषण्णम्, समुत्सारितविद्विडिंन्धनमपि ज्वलत्प्रतापानलम्, आयतलोचनमपि सूक्ष्मदर्शनम्, नन्दाढ्यं एकमपि द्विधा त्रिधा चतुर्धा च वीक्ष्य बहवो मेदिनीपतयस्तत्क्षणमभ्यसूययेव स्वयं पञ्चत्वमाजग्मुः ।। नपुले विपुले च चापवल्लीं भृशमाकृष्य किरत्यतीव रोपान् । खगमण्डलमेदुरं बतानं पिहितोद्यत्खगमण्डलं बभूव ॥९५ ॥
तावत्कोङ्कणभूपतिर्दुततरं धावद्रथेनागतः ___ क्रोधान्धो नपुले ववर्ष विशिखासारं महागर्जनः । यद्वद दुर्धरवज्रपातमधिकं संवर्तकालोद्यतो ।
जीमूतो वसुधाधरस्य शिखरे निःसीमघोरारवः ॥१६॥ दिशं प्रतीचीमिव पद्मबन्धुं मूर्छा गतं मन्दतरप्रतापम् ।
अपासरत्संगरभूमिभागविहायसो वीरमिमं नियन्ता ॥९७॥ तदिदमाकर्ण्य शोककातरं निजजामातरं कोपारुणवदनं कुरुपञ्चवदनं समीक्ष्य विद्याधरक्षोणीपतिर्गरुडवेगः प्रथितनिजबलकोलाहलव्यालोललोकः स्तोकेतरपराक्रमः क्रमेण संग्रामसीमामवनगाहे । संग्रामोपरि जृम्भितः खगपतिः कोपात्कसलाननः
शक्तीस्तोमरशूलनालपरिघान्कुन्तानसीन्पर्वतान् । वर्षन्भीममदाट्टहासरभसक्षुभ्यदिशामण्डल
श्चिक्रीडाम्बरसीनि संगरकलातुङ्गीभवद्दोर्मदः ॥ ९८॥ दृष्ट्रमं रुधिराणि तत्र ववमुः केचिद्भटाः शत्रुषु .प्राणान्केचन तत्यजुर्भयभरात्पेतुः क्षितौ केचन । केचिद्दावनलालसा वसुमतीपालाश्च दिङ्मोहतो
भ्राम्यन्तो रणसीनि शिक्षितहयाभ्यासप्रकर्ष दधुः ॥९९
For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८.
जीवघरचम्पुकाव्ये
रे रे कुत्र पलायितोऽसि समरे मा कम्पनं प्राप्नुया
स्तिष्ठाग्रे हत कोङ्कणेश शमनस्त्वामीहते भक्षितुम् । शीर्ष ते विनिपात्य कर्णविगलद्रक्तप्रवाहैः परां
तृप्ति कल्पयति क्षणात्क्षितिपतिर्भूतावलीनामिह ।।१ ० ० ।। एवं जगर्जुः खचरसैनिकाः सिंहविक्रमाः ।
सपत्नकण्ठकदलीकाण्डताण्डवितासयः ॥ १०१ ॥ तदानीं पुष्पितकिंशुककाननमिव पल्लविताशोकवनमिव पारिभद्रद्रुमविपिनमिव च परितः क्षतं निजबलमवलोक्य कृताभिषेणनं कोकणमहीपतिं कर्णपूरसौरभ्यसमाकृष्टभृङ्गावलिशङ्कावहशिञ्जिनीविगलद्विशिखधाराभिर्गगनतलं पूरयन्तमेनममन्दवेगो गरुडवेगः क्षणेन वक्षसि शक्त्या विव्याध ।
भेत्स्यन्ति मे मण्डलमद्य वीरा विद्याधरेन्द्रेण विदीर्णदेहाः ।
इतीव वेगेन पयोजबन्धुरस्ताचलोदग्रदरी विवेश ॥ १०२ ।। तदनु गरुडवेगविक्षिप्तगण्डशैलचण्डिताङ्गेन हतशेषेण सैन्येन काष्ठाङ्गारसेनाधिपे कटकं प्रविष्टे, गरुडवेगमहीपालोऽपि समरावलोकनसमुखबर्हिमुखकरवृष्टकल्पकतरुपमूनसुरभिलभुजदण्डघटितकोदण्डः, सहर्षपरस्परसल्लापकल्लोलकोरकितकुतुकेन समरकलाविलासविजयसंस्मरणनितनिजस्वामिश्लाघापरेण सैनिकनिकरेण प्रतिक्षणमीक्ष्यमाणः, पल्लवक्षितिवल्लभगोविन्दमहीपाललोकपालप्रभृतिभिः संभाषमाणो, ग्रहोन्मुक्तेनेव चन्द्रेण मूर्टोन्मुक्तेन नपुलेन पुरस्कृतं स्वकटकभुवमाससाद ।
अपरेऽहनि वाहिनीपतीनां मणिमालामकुटाङ्गदाम्बरादीन् । रथसूततुरङ्गकङ्कटादीन्प्रतिपाद्याशु कृतघ्नकः प्रतस्थे ॥ १०३ ॥ एवं पारितोषिकप्रदानपरिवर्धितोत्साहेनाहमहमिकापरवशेन सर्वा
For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः।
१२९
भिसारेण बलेन स्थगितक्षितितलाभोगः, पर्वतनिकाशं विजय गिरिनामधेयं गन्धसिन्धुरमधिरूढो, भाविचक्रपातसूत्रन्यासरेखाशङ्कावदान्यरेखात्रयशोभितं गलमभितो लम्बमानेन चक्रपतनसंप्रतीक्षस्य स्कन्धगतस्य मृत्योः करवितीर्णेनेव पाशेन मुक्ताहारेण भासुरवक्षःस्थलः, कोटीरमणिगणप्रतिविम्बितमार्ताण्डमण्डल. तया 'कुरुवीरशरसमाच्छादिते गगने सोऽयं न मत्संनिधानमागन्तुमर्हति' इति करुणाकरेण दिवाकरेण पूर्वमेव गृहीतमस्तक इव बाभास्यमानः, कुटिलितभृकुटीघटितवदनः काष्ठाङ्गारः स्वयमेव संग्रामाङ्गणमाजगाम ।
कुरूणां वीरोऽपि प्रचुरबलकोलाहलकला
विलासव्याप्ताशापतिसदनवातायनमुखः । क्रमात्क्रामन्गन्धद्विपमशनिवेगाभिधमयं
रणाग्रं संप्राप सितिविदितदोर्दण्डमहिमा ॥ १०४ ॥ जडीकृतश्रवःपुटे दिवौकसां जयानका.
वे सुराचलोल्लसदरीविशत्यनेकशः । सुपर्वकामिनीजनप्रहर्षगीतकौशलं
बभूव निष्फलं तदा प्रतिध्वनगुहारवैः ॥ १०५ ॥ रथक्षुण्णक्षोणीतलगलितपासून्मुखगता
न्दिशानागाः शुण्डोद्गतजलकणैः शान्तिमनयन् । रहः स्त्रीणां रूप्याचलकुहरतल्पेषु खचराः
विवस्त्राणामङ्गेष्वतिबहललग्नान्वसनतः ॥ १०६ ॥ अदृष्टचरमाहवं सुरगणैरथोज्जृम्भितं
क्षणेन मदमेदुरं प्रचुरवीरवादोत्कटम् । चलाचलरूपाणिकाप्रतिफलद्विवस्वत्प्रभा
For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
जीवंधरचम्पुकाव्ये दुरीक्षमतुलं तदा जयरमातुलारोहणम् ॥ १०७ ॥ वीर्यश्रीप्रथमावतारसरणी तस्मिन्कुरूणां पतौ
बाणान्मुञ्चति हस्तनर्तितधनुर्वल्लीसमारोपितान् । दीर्णक्षत्रभटच्छटाभिरभितः संभिद्यमानान्तरं __ भास्वद्विम्बमहो बभार गगनश्रेणीमधुच्छत्रताम् ॥१०॥ दृप्यसिन्धुरदीर्णकुम्भयुगलीप्रोन्मुक्तमुक्ताफलै
र्बाणावासिजयश्रियः प्रविगलन्मादाश्रुबिन्दुप्रभैः । लेखानां कुसुमोत्करं सुरभिलं द्राग्वषतां हर्षतां
प्रत्यर्चा चतुरश्चकार समरे सोऽयं कुरूणां पतिः ॥१०९ एवं भिन्दन्बलं वीरः कृतन्त्रमभियाय सः ।
वीरश्रियानुधावन्त्या समालिङ्गितविग्रहः ॥ ११ ॥ एवं जयश्रीताण्डवरङ्गस्थलायमानभुनयुगलं कुरुवीरमवलोक्य काष्ठाङ्गार एवमुवाच । क वैश्यपुत्रस्त्वमतीष भीरुर्वयं क चापागमपारनिष्ठाः । अथापि ते संयति संप्रवृत्तावमात्मवेदित्वमवेहि हेतुम् । १११ ॥
तुलादण्डधृतौ वैश्य तव यत्करकौशलम् । विस्तारयसि सच्चापे धिक्कापलमहो तव ॥ ११२॥ साहसेन रणे तिष्ठन्मुमूर्षुरसि मुग्धधीः ।
त्वत्प्राणवायोः कः पाता मकृपाणाहिना विना ॥ ११३ ॥ इति काष्टाङ्गारदपविलसितदुर्वचनमाकर्ण्य कुरुवीरोऽप्येवं जगाद । त्रपां विना मे पुरतः प्रजल्पसे
कृतघ्न वीर्य तव दृष्टपूर्वम् । त्वया समः कोऽपि न लक्ष्यते क्षितौ
नूनं प्रभुद्रोहविधौ समर्थः ॥ ११४ ।।
For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः। विरम विरम शत्रो विश्रुतोऽसि त्वमेक.
स्त्रिजगति परिशुद्धः पातकिप्राग्रगण्यः । प्रसरति मम बाणः प्राणहारी पुरस्ता___त्वमपि कुरु समीके जीवरक्षाप्रयत्नम् ॥ ११५ ॥ इति वदतः कुरुवीरस्य विस्फारघोषणाशनिगर्जनशङ्कावदान्येन हढार्तिसंघटितं* कम्पमानजीवं चापभुजगमारुष्य विषज्वालाय. मानान्मल्लान्काष्ठाङ्गारः कौरवं प्रति दुर्धर्षामर्षेण ववर्ष । विच्छिद्य विच्छिद्य शराननेकात्रिपोः शरासाद्गलितान्गभीरान् । अलक्ष्यसंघानविकर्षमोक्षान्वाणान्सपत्ने स ववर्ष वीरः ॥ ११६ ।।
गृहीतपक्षाः पटवः पुजाः कौरवचापतः ।
प्रसस्त्रुः संगरे शब्दा वादिनो वदनादिव ॥ ११७ ॥ विपाठवर्षेण कुरूद्वहस्य नभःस्थली द्रापिहिताब्नबन्धुः । तिरोहितारिक्षितिपालसेना बभूव धात्री युगपद्रणाग्रे ॥ ११८ ॥
विपाठपञ्जरेणासौ विद्विषत्पक्षिणां कुलम् ।
बबन्ध स्पन्दनायोग्यं मन्देतरपराक्रमः ।। ११९ ॥ तदानीमुदारपराक्रमप्रथितभुनदण्डयोः समकालमिव गीर्वाणगणलक्ष्यमाणमार्गणग्रहणसंधानविकर्षणमोक्षयोरन्योन्यं विजयाशाविजृम्भितरन्ध्रान्वेणयोराश्चर्यकर्मकलाविलोकनसमयसंतुष्टबृन्दारकजन. करारविन्दसंदीयमानमन्दारकुसुमतुन्दिलसविधप्रदेशयोः मध्यप्रसृतमृत्युनासायमानबाहुदण्डविधृतचक्री कृतकोदण्डतया कोपकुटिलितमृत्युभ्रयुगलशङ्कासंपादकयोः प्रवृद्धोत्साहयोर्भयानकसमरमादधानयोः कुरुवीरकाष्ठाङ्गारयोः . परस्परशरघट्टनजनितविस्फुलिङ्गपरंपरामेवमालामु प्रविष्टापि न शान्तिमाससाद । पङ्किः ६. * दृट्या धनुष्कोन्या सहितम् । श्लो. ११८. विपाठ वर्षेण, शरवर्षेण ।
For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
जीवंधरचम्पुकाव्ये ताहक्षे समरे प्रसन्नमनसो वीरस्य सात्यंधरे
ढुणालीशरदा विभिन्नवपुषि क्षीणे क्षणेनाखिले । टेषिक्ष्मापशिलीमुखाभ्रपटले स्वीया तदा वाहिनी
प्रोन्मीलन्मुखवारिजा प्रविलसच्छीराजहंसा बभौ ॥१२० जीवंधरस्य करपद्मगतं सपत्न__ शस्त्रालिवारणपरं घनदीप्रखेटम् । अर्धे विभिद्य युधि राहुनिगीर्णचन्द्र
बिम्बार्धवत्प्रविदधत्स नगर्न शत्रुः ॥ १२१ ॥ कोपेनाथ कुरूद्वहः प्रतिदिशं ज्वालाकलापोर्मिलं
चक्रं शत्रुगले निपात्य तरसा चिच्छेद तन्मस्तकम् । देवाः पुष्पमवाकिरन्नविकलं श्लाघासहलैः समं
लोकान्दोलनतत्परः कुरुबले कोलाहलः कोऽप्यभूत् ॥१२२।। तदानीं संत्रासपलायमानं शात्रवबलमवलोक्य, कुरुवीरः करुणाकरः क्षणादभयघोषणां विधाय, तद्वन्धुतां दीनामाहूय, तत्कालोचितसंभाषणादिभिः परिसान्त्वयामास । विजया विजयाधिकेन पुत्रप्रवरेणाद्य बभूव वीरमाता । अधुना विधुना समानवका मम पुत्री च चिराय वीरपत्नी ॥१२३॥ इत्युक्त्वा मातुलः सोऽयं गोविन्दधरणीपतिः ।
कुरुवीरं कुलोद्धारं कुतुकादभ्यनन्दयत् ॥ १२४ ॥ वसुंधरा क्षुद्रसतनसंगात्संमाष्टुकामा समवेतदोषम् । कुरुप्रवीरस्य विशालदोषमुपाश्रिताभूदिति चित्रमेतत् ॥ १२५ ॥
तदनु जीवंधरो मुकुलिताञ्जलिकानां समन्ततः सामन्तवसुमतीपालानामानतीरालोकनेनाङ्गीकुर्वाणः, पूर्वाचलमिव पयोजबन्धुर्गन्धसिन्धुरमधिरूढो, दूरादनुगच्छद्भिः सेनाध्यक्षेरनुक्षणं प्रतिपाल्य
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः । मानेक्षणावसरः, सामनविराजितैर्गरुडवेगगोविन्दपल्लवपतिलोकपाल. प्रभृतिभिर्महीपालैः परिवृतसविधप्रदेशः, शताङ्गसंगतैनन्दाढयप्र. मुखैः सहोदरैः पद्मास्यप्रभृतिभिः सहचरैश्च परिशोभितः, प्रस. ननिनमुखसुधाकरालोकैरुलसता बलजलधिना मेदुरपुरोभागः, सह
द्वेगमहमहमिकया सरभसापनीतातपत्रान्परस्परोत्पीडनकुपिततुर ङ्गमनिवारणायाससहानेकैकशः प्रतिनामग्रहणं समीपगतैः काठाङ्गारवन्धुभिरावेद्यमानान्प्रणामसमयप्रचलितमकुटतटघटितपारागप्रभा. प्रसरणकैतवेन प्रकटीकृतानुरागाञ्छात्रवपक्षलक्षितक्षोणीपतीन्यथाई बहुमन्यमानः, समरसमानीतसपत्नलक्ष्मीनिवासविकचपुण्डरीकाय. मानेन निजबलजलधिफेनकूटशङ्कावहेनातपत्रेण विभ्रानितः, पार्श्वद्वयसमुधूयमानचामरसमीरनर्तितकर्णावतंसः, पुरतो 'जय जय' इति मधुरमुच्चैः पठता वन्दिवृन्देन पापयमाननिजबिरुदवैभवः, क्रमेण समासाद्य तत्र ध्वजकलशतोरणवितानाद्यष्टशोभाभिरलंकृतायु. रथ्यासु प्रविशमानः, सकलपुरतरुणीजनबाहुवंशगलितमुक्ताफलाय . मानैः पुष्पलाजोपहारैः संभाव्यमानो रानमन्दिरमाससाद । तत्र च,
विसृष्टनिखिलावनीपतिचयः कुरूणां पति
मितेः परिजनेयुतः प्रविशति स्म सोऽन्तःपुरम् । निमग्नमरिकामिनीजनमतीव शोकाम्बुधौ
निरीक्ष्य करुणाकरः सपदि सान्त्वनायोद्यतः ॥ १२६ ।। ततः कुरुवीरः शोकसन्त्रासदीनमन्तःपुरिकाजनं समीपमानीय तत्र कुररीमिव क्रन्दन्ती काठाङ्गारमहिषीं तत्पुत्रांश्चावलोक्य कृपातरङ्गितः परिसान्त्वनकलाप्रवीणः पीयूषमधुराभिर्विचित्राभिर्गिरां परंपराभिः समाश्चासमानिन्ये ।
पङ्गिः १. साम जविराजितः, गजारूटैः ।
For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
जीवघरचम्पुकाव्ये तदनु जलधौ भासां पत्यौ निमन्जति पश्चिमे __करधृतमणिश्रेणीदी जनैः परिसेवितः । सखिपरिवृतः सोऽयं कोशं विवेश शनैः शन.
र्धनमणिगणैर्वस्त्रैरन्यैश्च वस्तुभिरुज्ज्वलैः ॥ १२७ ॥ तदनु कोशधनादिकं निजमुद्रया मुद्रयित्वा निद्रामुखमनुबुभूषुः कुरुवीरः प्रासादमधिरुह्य मणिमञ्चोपरि हंसतूलशयने सुष्वाप । ततश्च निशायामवसन्नायां प्राबोधिकननहृद्यपद्यालापैर्मङ्गलविचित्रबादित्रारावैश्च प्रबुद्धोऽसौ जीवंधरः कृतप्रामातिककृत्यः सकलपरिवारसहितो गोविन्दराजेन सह भगवन्जिनभवनमासाद्य तत्र पूजा विस्तारयामास ।
ततः सर्वैः साकं नृपभवनमासाद्य सहसा
विदेहलोणीशः सचिवगणमानीय पुरतः । समादिश्य श्रीमान्प्रजवमभिषेकप्रयतनं
___ समाप्टच्छच्चैवं कुतुकितमनाः कञ्जनयनः ॥ १२८ ॥ किं नवरत्नप्रभापरिहसितपुरंदरसभामण्डपमभिषेकमण्डपं विनि. मितम् । किं वा तत्र सर्ववर्णवृद्धाः संमिलिताः । कञ्चित्स. जीकृतानि सुरभिशीतलप्रसन्नतीर्थपूर्णानि कनककलश कुलानि । कञ्चित्तत्र संभृतानि तदुपयुक्तोपकरणानि । किं कार्तान्तिका मङ्गल. मुहूर्तरुतावधानाः । कञ्चिन्नानादेशनरपालाः सज्जीकृतोपायनाः संनद्धाः । किं वा नगररथ्याः परिष्कृताः ।
इति प्रश्नं समाकर्ण्य सचिवाः सञ्चितादराः । सर्व सुघटितं देवस्याज्ञयेति बभाषिरे ॥ १२९ ॥ क्षीराम्भोधिपयःप्रपूर्णकलशानाहृत्य यक्षेश्वरो
यक्षैः खानुचरैस्तदा परिवृतः सूर्यप्रतीपच्छविः ।
For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः । संप्रापत्कुरुकुञ्जरं पितृपदे राज्येऽभिषेक्तुं मुदा
___ तत्रत्यक्षितिपावलिः स्म भजते वैलक्यवीक्षारसम् ॥१३०॥ ततश्चाभिषेकमण्डपमध्यस्थापितरत्नपीठोपरि विराजमानं कौरवं क्षी. रवाराकरवारिभिर्यक्षराजगोविन्दमहाराजप्रमुखाः सहर्षमभिषिषिञ्चः । तदानीमनेकप्रहतपटहमृदङ्गशङ्खझल्लरीप्रभृतिवाद्यारावस्तयन्निव घनाघनमण्डलमास्फोटयन्निवाखिलजनश्रुतिमान्दोलयन्निव लोकमाह्वयन्निवाभिषेकदिवाननमाक्रमन्निव भवनोदरमुदपादि ।
तदनु दिव्यदुकूलविभूषणाश्चितशरीरकुरूद्वहमूर्धनि । मकुटमुज्ज्वलरत्नविभासुरं करधृतं निदधे स हि यक्षराट् ॥१३१॥
आप्पच्छच कुरुभूपालमारुह्य व्योमयानकम् ।
आदिश्य परिवारं स्वमयाद्यक्षोऽपि मन्दिरम् ॥ १३२ ॥ तदानीं निखिलनरपाल कुलविलसितसल्लापं गोविन्दमहीवल्लभमग्रतो विधाय सप्रश्रयमवनतपूर्वकायेन पद्मास्येन दीयमानहस्तावलम्बः, सुरस्तम्बेरमसकाशं महान्तमौपवावं गजराजमुदयधराधरमिव सरोजबन्धुरैरावणमिव गीर्वाणपतिरधिरूढः, प्रकृतिजनकुमुदपण्डचन्द्रमण्डलेन क्षीरोदधिडिण्डीरधवलेन स्थूलमुक्ताफलजालकावृतेनातपत्रेण परिक्रियमाणोलभागः, पार्श्वद्वयोडूयमानाभ्यां राज्यलक्ष्मीकटाक्षतरङ्गाभ्यामिव पयःपारावारपरिलोलर्मिसंकाशकनकदण्डविलसितचामराभ्यां किंचिञ्चञ्चलवसनाञ्चलः, सर्वतः सममपावृतकवाटपुटप्रकटवातायनतया कुरुपतिदर्शनकुतूहलसमुन्मीलितलोचनस्येव तत्पुरस्य हाग्रावलम्बिनीनां पौरनितम्बिनीनां कासांचिदर्धपरिसमाप्तप्रसाधनव्यापाराणां वामहस्तगत. मणिदर्पणानां परिलसत्कोकारिपूर्णमण्डलानामिव राकारजनीनाम्, कासांचन सरभसगमनविगलितमेखलाकलापाकुलितचरणपछवानां
For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये शृङ्खलावटितचरणमारमदपट्टकरिणीनामिवापरासाम्, आर्द्रलाक्षारसारुगचरणसरोजानां कमलपरिपीतवालातपानामिव कमलिनीनामन्यासाम्, मरकतमणिखचितवातायनदत्तवदनारविन्दानां सुन्दरीमणीनां विकसितैकशतपत्रशोभितां गगनतलविलसितां कमलिनी तुलयन्तीनाम्, करारविन्दगलितमरन्दविन्दुशङ्कासंपादकैनवसुधाकरपरिगल तपारशीकरसंदेहसंदायकैः सकुसुमैलानाञ्जलिभिरवकीर्यमाणः, पुरःसरविविधवाद्यरवविमिश्रितेन पुरोयायिनां मङ्गलपाठकानां 'जय जय' इति मधुरवचनरचनानुयातेन संक्षोभसमुत्पतत्पुष्पलीनघुप्पंधय. झंकारगेदुरेण प्रासादपुञ्जसञ्जातप्रतिध्वानेन दीर्वतरतामुपगतेन कोलाहलेन मुखरितदिगन्तरः, तां पुरी प्रदक्षिणीकृत्य द्वारदेशमवतीर्णः. प्रज्ज्वलद्दीपशोभितकनकपात्रं वहन्तीनां वारवनितानां निचयेन विरचितनीराजनमङ्गलः, सत्यधरात्मनो, विततवितानविलम्बिमुक्तादामविस्तारिते दन्दह्यमानधूपसुरभिले मणिमण्डपे प्रविश्य, कुलक्रयागतं सिंहासनमलंचकार । मोदाम्बुराशिय॑लसत्प्रजानां कुरुप्रवीरेन्दुमहोदयेन । पौरागनानां नयनोत्पलेषु मरन्दधारानुजलच्छलेन ॥ १३३ ॥ क्षुद्रक्षितीशेन कृतं प्रजानां संक्षोभमालक्ष्य दयालुरेषः ।
राजा समा हादश नैनकीर्तिगौरां धरित्रीमकरां चकार ॥१३४॥ वृद्धक्षत्रपदे निषण्णमकरोद्गन्धोत्कटं भूपति
नन्दाध्याय च यौवराज्यपदवी प्रादात्करूणां पतिः । तत्तयोग्यपदे चकार निखिलान्पद्मास्यमुख्यान्सखीनन्यांश्चापि धराधिपान्करुणया स्वे स्वे पदेऽस्थापयत् ॥१३॥ विद्याधरविशालाक्ष्या भाले चन्द्रार्धकोमले । पबन्धनमातेने सोऽयं वसुमतीपतिः ॥ १३६ ।।
For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्पः ।
गज्ञामुपायनान्येर गृहीत्वा कुरुकुञ्जरः । ततो द्विगुणरत्नादिसार्थ प्रादान्मुदा नृपः ॥ १३७ ॥ यथार्ह मन्लिवृद्धानां बहुमान धरापतिः । लतान वर्णवृद्धानामपि प्रत्येकमादरात् ॥ १३८ ॥ आदार्यप्रथमावतारसरणो जीवंधरे भूपता
वर्थिभ्योऽभिमतप्रदानपदवीबद्धादरे जाग्रति । नाकानोकहदेवधेनुविल सच्चिन्तामणीनां कथा
हास्याय प्रवदन्ति सभ्यविबुधाः शास्त्राब्धिपारंगताः ॥१३९।। तदनु चतुरङ्गबलसंगतेन नन्दाव्येन समानीतां निज्जननी विजयामहादेवीं पादयोः प्रणिपत्य, तामानन्दपयोनिधिमनामाषाय. तया सह समागतस्य तापससंदोहस्य वाञ्छितादधिकं दूविणजातं प्रदाय, मुदा तेषां पुण्यैकलभ्यां मोक्षपदवीमुपदिदेश । अन्यैः समानीताः पद्मादिदेवीः समागत्य रहसि समालिङ्गय परिचुम्ब्य च सकलमनोव्यथानामवसानभूमि हर्षातिभूमि प्रापयामास । गोविन्दक्षितिपालकस्य तनुजां सल्लक्षणां लक्ष्मणां
कान्त्या काञ्चनक्ल्लरीसहचरी वृत्तान्जकोशस्तनीम् । राकाशीतकराननां रतिपतेश्चापायमानभ्रवं
लग्ने सद्गुणगुम्भिते क्षितिपतिर्भग्राह पाणी मुदा ॥१४०।। तदानीं मरभसमितस्ततः प्रधावितस्य परिजनस्य करघृतवेत्रलतापरस्परघट्टनजनितशब्दमेदुरेण विशृङ्खलमन्त्रविद्वचनारावविनु. म्भितेन सभास्तारजनकताशीवादविस्तृतेन पूर्णमानान्तःपुरजनाभरणाअङ्कारमनोहरेण पुरतो जननिःसारणपरक किजनशब्दबन्धुरेण निर्दयाहतदुन्दुभिप्रभृतिवाद्यध्वनिनिर्भ रेणानेकसहस्त्रकलकलबहलेनो - त्सवकोलाहलेन त्रिभुवनमपूर्यत ।
For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८ .
जीवंधरचम्पुकाव्ये जयश्रिया साकममन्दकीति विन्दन्कुरूणां पतिरेष धीरः । राज्यश्रिया सार्धमिमां कुमारी लब्ध्वा प्रजानां वलयं जुगोप ॥१४१॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुनीवंधरे
लक्ष्मणालम्भो नाम दशमो लम्बः ॥
एकादशो लम्बः।
दोष्णा कुन्दसमानकीर्तिविसरैरामोदिनी मेदिनी
वाचा सत्यविलासमुतममधुस्यन्दप्रतीपश्रिया । चित्तेन सितिपालनीतिपदवीं नेत्रेण सर्वप्रजायोगक्षेमकलां वभार नृपतिहस्तेन दानोदकम् ॥ १ ॥ तस्मिन्नरपतौ तत्र प्रजापालनतत्परे ।
राजन्वती च भूरासीदूनगर्भा वसुंधरा ॥ २ ॥ तस्य च यशोमण्डलं शिशिरमपि शात्रवजनसंतापकारणम्, स्थिरमप्यनवरतभ्रमणशीलम्, निर्मलमपि मलिनीकृतारातिमुखकमलम्, धवलमपि प्रजानुरागपरिमेदुरम्, निन्दितराजमण्डलमप्यानन्दित. महाराजमण्डलमुदजृम्भत । तस्य च प्रतापाङ्कुरा दिक्सुन्दरीणां केशपाशेषु कल्हारशङ्काम, कर्णदेशेषु किसलयस्तोमविभ्रमम्, वनकुचकुम्भेषु काश्मीरशोभाम्, कटिप्रदेशेषु कोसुम्भपटसंभावनाम्, कराम्बुजेषु कुरुविन्दमयकङ्कणविलासम्, पादतलेषु लाक्षारस. विच्छित्तिं संपादयामासुः ।
वह्निप्रतप्तद्रुतहेमवर्णैः प्रतापलेशैः कुरुकुअरस्य । लिप्तेषु सर्वेष्वपि भूमिभृत्सु मेरुभ्रमोऽभूत्सुरसुन्दरीणाम् ॥३॥
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशो लम्बः ।
१३९
पद्माकराञ्चितस्यास्य राजहंसस्य सन्ततम् । बहुधावननिघ्नत्वमद्भुतं च न चाद्भुतम् ॥ ४ ॥ इयं सुमधुराकारा लक्ष्मणा वरलक्षणा ।
राजहंसस्य पत्नीति परमाद्भुतमीक्ष्यते ॥५॥ अयं खलु लक्ष्माञ्चितोऽपि पद्माभिख्याविराजितोऽपि मुमित्रा. नन्दनो, विजयानन्दनोऽपि कुण्डलाञ्चितकर्णो, धृतराष्ट्रोऽपि धर्ममयो, गन्धर्वदत्ताधिकहर्षोपि देवदत्ताधिकहर्षो, महिषीसंभवोऽपि वृषोत्पादी विरराज ।
लक्ष्मणाञ्चितगात्रोऽपि निर्मलः कुरुचन्द्रमाः ।
सदा कुवलयाहादी पद्मानन्दीति चाद्भुतम् ॥ ६ ॥ कदाचिदमो धरापतिविविधरत्नराशिभिमहाचैर्महनीयकान्तिकन्दलितमानन्दकरं सकलभव्यजनानामासेचनकं लेखलोचनानामकृत्रिम.
चैत्यालयप्रतिम भगवन्जिनमन्दिरं शिल्पशास्त्रपारंगतैः शिल्पकैनिर्मापयामास । तत्र च भगवतो नित्योत्सवपक्षोत्सवप्रमुखोत्सवपरंपरानिरन्तरनिष्पत्तये तत्समुचितानि प्रशस्तक्षेत्राणि प्रतिपाद. यितुकामे शात्रवजनविरामे निखिलगुणाभिरामे साक्षात्कामे विजया. देवी पूर्वकृतोपकारस्मरणजनितहर्षेण तत्क्षेत्राधिपत्यं तापसजनाय प्रदापयामास ।
नृपस्य जननी ततो निखिलशीलमालाखनि
य॑रज्यत विशालधीः कुटिलसंसृतावेकदा । अपश्यमिह पैतृकं पदममन्दकीर्ती सुते
पराक्रमजिताहिते किमधुनेति सा जानती ॥ ७ ॥ ततश्च सा देवी, अष्टापि स्नुषाः समीपे विधाय, हे वामालका हेमायितवल्लिकायमानतनुलताः सीमातीतगुणगुम्भिता मराल
For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाव्ये गामिन्यः पूर्वमेव यूयमष्टमालारूपेण मम स्वप्ने दृष्टाः, इदानी धृतनवमालारूपेण, इत्युत्तरोत्तरं भवतीनां वैभवातिशयो विजृम्भतामिति प्रतिपाद्य, प्रकृतमर्थमेवं प्रकटयामास ।
अपारे घोरसंसारे विरक्तिविस्तृता हृदि । दीक्षाये त्वरयत्यद्य मां राकेन्दुनिभाननाः ॥ ८॥ यूयं खलु कुरुवंशलतामुक्ताफलायमानान्पुत्रानुत्पाद्य सन्तत कान्तेन साकं सौख्यमनुभूय वयोऽन्ते दीक्षामुपागन्तुमर्हथेति ।
श्वश्रूगिरमिमां श्रुत्वा शोकवितलमानसाः ।
देव्यस्तस्याः पुरस्तस्थुनमिताननपङ्कजाः ॥९॥ ततश्च देवी विजया कुमारं समीपमानाय्य धराधिराजम् । कादम्बिनी हंसमिवारभव्या वैराग्यवाचा विधुरीचकार ॥ १० ॥
तदनु वैराग्यपदवीमनुगच्छन्त्या सुनन्दया सह महादेवी महीनाथं कच्छायमाणं कृच्छ्रेणानुज्ञाप्य यथाविधि श्रमणीवर्यायाः पद्मायाः सकाशेऽदीक्षिष्ट । श्रमणीनामग्रगण्या पद्मार्या विजयासुनन्दाभ्यां विश्राणितश्रमणीपदा नभसो निपतिता रत्नवृष्टिरिव प्रव्रज्या न प्रतिषेध्येति महीनाथं बोधयामास ।
इति मधुरगिरा प्रबोधितोऽसौ नरपतिरानतमातृपादपद्मः । विनयभरवशाद्विवेश धीरो निजसदनं परिवारसंपरीतः ॥ ११ ।।
तदनु कतिपयदिवसापगमे क्रमेण देवीनामुदराणि सरसीनां जलानीव शशिबिम्बा गर्भा विविशुः ।
गर्भच्छलेन संक्रान्तं प्रतिबिम्ब धरापतेः ।। उहुर्गन्धर्वदत्ताद्यः सनिभा दर्पणश्रिया ॥ १२ ॥ देवीजनस्य विकचोत्पलशोभि वक्त्रं
कोकद्वयस्य सदृशं कुचयुग्ममासीत् ।
For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४१
एकादशो लम्बः । आनीलचूचुकतलं विलसत्तमाल
पत्राञ्चिताग्रनवहेमघटप्रतीपम् ॥ १३ ॥ मणिकाञ्चीकलापेन दूयमानो दिने दिने ।
महिषीणां मध्यभागः कशिमानं जहौ तदा ॥ १४ ॥ तदनु प्राप्ते प्रसवसमये शुभदिवसे सावधानैर्नाडिपरिज्ञानसाधनस्वाधीनचित्तेर्गणकैगृहीते लग्ने देवीततिः कादम्बिनीवरंमदान्पुत्रानसूत । ततः प्रहर्षविस्तारितलोचनः पृथ्वीकमनः पुत्रान्दृष्ट्वा शुभदिवसे कलितमहोत्सवस्तेषां गन्धर्वदत्ताप्रभृतिदेवीपुत्राणां सत्यंधरसदर्शन - धरणि - गन्धोत्कट - विजय - दत्त - भरत · गोविन्दनामधेयानि प्रकटीचकार ।
एवं सौख्येन वसतः पाकारिसदृशश्रियः । धराधिपस्य धीरस्य त्रिंशद्वर्षाण्ययासिषुः ।। १५ ॥ ख्यातौ श्रीभरताधिराजसदृशो नीतौ च रामप्रभो
स्तुल्यः संपदि पाकशासनसमः पृथ्वीपतिः कौरवः । धर्मे धर्मतनूभवेन तुलितस्तुल्योऽर्जुनेनाहवे
सोऽयं भाग्यनिधिः शशास वसुधां धृत्वा चिरं बाहुना ॥१६ कदाचिद्वसन्ते विरहिजनदुरन्ते प्रसाधितवनान्ते वनमियबिरुतमुखरिताशान्ते संप्रवृत्ते, पुष्पफलादिकमुपहारीकुर्वता वनपालेन वनविहाराय विज्ञापितो वसुधापतिः, अष्टाभिः कान्ताभिः समं नगरान्निर्याय, पर्याप्तफलकुसुमपल्लवतल्लजमुपवनमासाद्य वनपालेन तत्र निवेद्यमानानेकैकशः पल्लवितपुष्पितफलिततरुनिकरानिरीक्षमाणश्चिरं विजहार ।
वल्गत्कुत्रं सपदि भङ्गुरमध्यभागं
स्विद्यत्कपोलमलकाकुलवक्रबिम्बम् ।
For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये
व्यालोलकङ्कणझणत्कृति तत्र देव्यः ___ पुष्पग्रहं करतलैः कुतुकादकापुः ॥ १७ ॥ एवं चिरं विस्तारितद्विविधवनक्रीडाश्रान्तानां क्रीडासंमर्दविलुलितलतान्तानां व्यालोलनयनान्तानां संदोहेन सह वचन निषण्णस्तत्र गन्धर्वदत्ताकुचकुम्भयुगले मारमदेभमदधारायमाणां कस्तूरीधारां निपातयन् , गुणमालावक्षःस्थले सुरभिलमृगमदमेदुरमलयनरसं लिम्पन्, सुरमञ्जर्या नाभिकुहरादारभ्य काश्मीरपडून लतां विलिखन्, पद्मायाः कपोलयोर्मकरिकां विस्तारयन्, क्षेमश्रियो वदने मृगमदतिलकं विरचयन्, लक्ष्मणायाः स्तनमुकुलयुगले मकरिकापत्रं विचित्रयन्, अन्यासां च यथोचितं प्रसाधनानि विदधानो जीवंधरः सहर्षमवर्तिष्ट । वृक्षादृक्षमुदारशाखमचिरादाक्रम्य भूमीरुहा
न्व्यालोलान्निदधानमाहितभयादुड्डानपक्षिव्रजान् । कीशानां निचयं ददर्श वसुधापालो वनाभ्यन्तरे
शश्वद्वालकगृह्यमाणजठरोद्यद्वानरीभिर्वृतम् ॥ १८ ॥ ततान्यसंपर्कमवेक्ष्य रुष्टां स्वां वानरी कोऽपि युवा प्लवङ्गः । दीनस्वभावो विविधैरुपायैः शान्तां विधातुं न चिरं शशाक ॥१९॥
तदनु रोषोत्कटमर्कटीं प्रकृतिस्थां कर्तुमक्षमतया बहुदीनदशामापन्नं मृतमिव भूमौ पतितं मायाविनं शाखामृगमवलोक्य भयविह्वलाङ्गी प्लवङ्गी समीपमासाद्य तदवस्थामपाचकार । प्लवङ्गतरुणस्ततः पनसपक्वपुष्यत्फलं
ददौ वनमृगीमुदे विततहर्षनद्धान्तरः । जहार वनपालकः सपदि तत्फलं पेशलं
करप्रचलयष्टितो मुदितवानरी भर्स्यन् ॥ २० ॥
For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशो लम्बः ।
१४३ इति सदयमशेषं वक्षिमाणो धरायाः ___ पतिरथ विषयेषु व्याहताशाविशेषः । अतनुत हृदि चिन्तामेवमाजानधीरः ___ कृतसुकृतविपाकः काललब्ध्या समेतः ॥ २१ ॥ काष्ठाङ्गारायते कीशो राज्यमेतत्फलायते ।
मद्यते वनपालोऽयं त्याज्यं राज्यमिदं मया ॥ २२ ॥ या राज्यलक्ष्मीबहुदुःखसाध्या दुःखेन पाल्या चपला दुरन्ता । नष्टापि दुःखानि चिराय सूते तस्यां कदा वा सुखलेशलेशः ॥ २३ ॥ कल्लोलिनीनां निकरैरिवाब्धिः कृपीडयोनिर्बहलेन्धनैर्वा । कामं न संतृप्यति कामभोगैः कन्दर्पवश्यः पुरुषः कदाचित् ॥२४॥ राज्यं स्नेहविहीनदीपकलिकाकल्पं चलं जीवितं
शम्पावत्क्षणभङ्गुरा तनुरियं लोलाभ्रतुल्यं वयः । तस्मात्संमृतिसन्ततौ न हि सुखं तत्रापि मूढः पुमा.
नादत्ते स्वहितं करोति च पुनर्मोहाय कार्य वृथा ॥२५॥ विलोभ्यमानो विषयैर्वराको भङ्गरैर्भृशम् । नारम्भदोषान्मनुते मोहेन बहुदुःखदान् ॥ २६ ॥ ममेयं मृढङ्गी मम तनय एषः प्रचुरधी
रिमे मे पूर्वार्था इति विगतबुद्धिर्नरपशुः । अणुप्रख्ये सौख्ये विहितरुचिरारम्भवशगः
प्रयाति प्रायेण क्षितिधरनिभं दुःखमधिकम् ॥२७॥ ये मोक्षलक्ष्मीमनपायरूपां विहाय विन्दन्ति नृपाललक्ष्मीम् । निदाघकाले शिशिराम्बुधारां हित्वा भजन्ते मृगतृष्णिकां ते ॥२८॥ तस्मात्लेशचयाल्लब्ध्वा मानुषं जन्म दुर्लभम् । प्रमादः स्वहिते कर्तुं न युक्त इह धीमता ॥ २९ ॥
For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
जीवधरचम्पुकाव्ये
_इति मनसि चिन्तयन्कुरुकुमुदिनीकान्तो द्वादशानुप्रेक्षया तत्क्षणमक्षोभ्यां विरक्तिं व्यवस्थापयन्, राज्यादिकं तृणाय मन्यमानः, तस्मादनान्निर्गत्य निर्वत्य च भगवजिनेन्द्रपूजाम, धर्मामृतप्रदान. निरस्ततन्द्राद्योगीन्द्रान्मणिमयकिरीटकोटिविन्यस्तहस्ताम्भोरुहकुलः कुम्भिनीपतिधर्म शुश्राव । श्रुत्वा धर्म वल्लभोऽयं धरित्र्या धीरः श्रीमान्धार्मविद्यो बभूव । तत्संस्कारे कोविदैर्बुद्धियद्भिः शाणोल्लीढः सन्मणिनिर्मलो हि ॥ ३०
ततश्चारणयोः पूर्वं पूर्वजन्मबुभुत्सया । पप्रच्छ नरपालोऽयं प्रश्रयस्य वशंवदः ॥ ३१ ॥ नृपेण परिष्टष्टोऽयमवधिस्टष्टलोचनः । यथावत्कुरुवीरस्य समाचष्ट पुराभवम् ॥ ३२ ॥ अस्ति निखिलभुवनतलललामभूतं धातकीषण्डमण्डनायमानमति. विशालतया द्वितीयष्टथिवीशङ्कासमागतेन पारावारेणेवातिगम्भीरेण परिघावलयेन परीतम, विजयागिरिशिखरशङ्कावहैरभ्रंकषैरनवरततन्तन्यमानमहोत्सवदिदृक्षासमागतवैमानिकजनविमानैरिव सुधाधवलेः सौधैः परिष्कृतम्, समुत्तुङ्गहर्म्यतलसंगतनितम्बिनीजनतरङ्गितसंगीतमङ्गलरवाकृष्यमाणाधोमुखहरिणाङ्कहरिणम्, कामिनीजनमणिभूषणप्रभानिरस्ततमःसङ्घातव्युत्पत्तिशुन्यपौरलोकतया विघटितचक्रवाकयुगलं व्यर्थीकतप्रदीपम्, भूमितिलकं नाम नगरम् ।
तत्राभवत्पवनवेग इति प्रतीतो - राजा विराजितगुणो विलसत्प्रतापः । कीर्त्या पयोनलधिफेननिकाशकान्त्या
व्यालिप्तविस्तृतसमस्त दिशावकाशः ॥ ३३ ॥ सती जयवती नाम रतिगर्वविमोचना ।
For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशो लम्बः । कान्ताभवन्नृपालस्य कर्णान्तायतलोचना ॥ ३४ ॥ यशोधर इतीरितो नरपतेः कुमारो भवा
न्बभूव जितमन्मथः स्ववपुषा घनश्रीपुपा । तवाष्ट सुदृशो बभुः कमलजेन निष्पादिता
गिरिद्वयधुरा स्थिरा इव मनोहरा विद्युतः ॥ ३५ ॥ कदाचिद्भगवान्योवनपरिपुष्टाभिः कान्ताभिः करिणीभिरिव करीन्द्रः सहर्षमुपवनविहाराय चलितः, पुरतः परिस्फुरन्तं पद्माकरमागत्य, तत्र कान्ताजनगतिनिरीक्षणलज्जितेष्विव मञ्जुलमञ्जरीरवानुकारिविरावमुखरितारामेषु क्षणादुड्डीनेषु राजहंसेपु, निरवशेषमसातपक्षतया गगनोद्गमनायासमर्थम्, विकचवारिजे सत्रासं विलुटन्तम्, पद्मिनीमुखकमलचलाचलनासामुक्ताफलायमानम्, पद्माकरवास्तव्यपद्मावदनसरोनविगलन्मन्दहासखण्डसंभाव्यमानम्, वनदेवताविकचकुसुमकन्दुकशङ्काकरम्, अतिपेशलं राजहंसशाबकं केनचिदनुचरेण भवनमानाय्य, कनकशलाकाकलितपञ्जरे निवेश्य, मधुरक्षीरोदनाद्युपचारेण निरवद्यं विवर्धयामास ।
कदाचित्कान्तानां कुचकलशसीनि प्रियतमो __ भवान्बालं हंसं नरवर निधायैवमवदत् । अये त्वं पद्मानां विरहमुनुभोक्तुं न हि पटु
___ यतस्तद्वक्षोजाम्बुजमुकुलयुग्मेऽद्य विहर ॥ ३६ ॥ __ एवं मरालपोतमरालकुन्तलाभिः कान्ताभिः सह सन्ततं क्रीडयति भवति सहर्षमास्थिते, धर्मविदामग्रणीस्ते पिता हंसाभकबन्धनोदन्तमाकर्ण्य कुपितस्त्वामाय बहुधा धर्मपरिपाटी प्रकटयामास । तदनु कर्णामृतायमानधर्मबोधनविजृम्भितनिर्वेदः पित्रा निवारितोऽपि भवान्वैराग्यसमासादितजिनदीक्षादुश्चरतपश्चरणदक्षः,
13
For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकान्ये
कान्ताभिरष्टाभिः साकं लोकोनरं तपःप्रकारमासाद्य, कनसुकृतविकसितं सहस्रारकल्पे देवभूयं चिरमनुभूय, सहीतले महिलाभिरेताभिरष्टाभिः सह महीपतिरजायत । इति ।
राजहंसशिशोः पूर्वं मातापितृवियोजनान् । पित्रोश्चिराय विरहं राजहंस त्वमास्थितः ।। ३७ ।। एवं योगीन्द्रवाणीमनुजनिजसतीस्निग्धबन्दैः समेतः
श्रुत्वा राज्याद्विभीतः कुरुपतिरशनेः पातनाहा सुनङ्गः । आनानम्य चैनं पुरवरमगमत्संसृतिव्यङ्गयसौख्यं ___ मन्वन्हालाहलामं तपसि निनमति सुस्थिरां संदधानः ॥३८॥
तदनु वसुमतीवल्लभेन राज्यपरिपालनाय समादिष्टे युवराजे नन्दाढ्ये तपःसाम्राज्यमेव वरीतुकामे, कुरुवीरः पुनः संगतमङ्गलमुहूर्ते भगवत्पूजापुरःसरं विस्तारितमहोत्सवः प्रथितपराक्रमलक्ष्मीविहारप्रसादायमानभुजं गन्धर्वदत्तानन्दनं सकलकलाविलासनिधि चापविद्यापारीणगुणं कीर्तिप्रतापविभवेन रूपसंपदा चात्मानमनुकुर्वन्तं सत्यंधराह्वयं राज्यभारेऽभिपिच्य तमेवयवादीत् ।
असत्या वाणी ते तनय रसनाग्रे न वसता__ च्वःप्रान्ते वक्रं पिशुनवचनं नेत्रसरणौ । परस्त्रीणां रूपं मनसि च कुमार्गे व्यवसिति
मुंखे कोपावेशः सकलशशिबिम्बाभवदन ॥ ३९ ॥ मनसि भगवतो जिनस्य पादौ श्रवसि धर्ममयामृतं विधेहि । प्रक्रतिचयहिते च नेत्रवृत्ति तनय सुखेन महीं प्रपालयेति ।। ४० ॥
एवं प्रकारेण निजनन्दनं सत्यंधरं बोधयित्वा, इमरानपि तनयान्यथायोग्यं पदेषु प्रतिष्ठाप्य, श्रीवीरजिनचरणसरोजभक्तिभरेण वैरा. ग्यवशेन च प्रेरितो महीपालः, सकलसहचरनिकरपरिवृतपार्श्वभागः,
For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशो लम्बः ।
१४७
तुष्टाभिरष्टाभिः कान्ताभिर्दन्तुरितसविधप्रदेशः, पश्चादनुधाविन्या सत्यंवरप्रमुखनन्दनपुरस्सरया वेलामतिक्रम्योद्गच्छन्त्येव वारिनिधिवारिवाहिन्या निर्दय संताडितपटहप्रभृतितूर्यघोषविशेषप्रतिध्वानितकुलाचलकन्दरया मन्धरया पृतनयानुगम्यमानः, क्रमेण सप्रणाम तया विपृष्ठः, श्रीसभासमीपमासाद्य तां त्रिः प्रदक्षिणीकृत्य प्रमुदितमना मनागितरविस्मयविस्तारिताक्ष: प्राविक्षत् । यस्याः पार्चे रक्षरेणुप्रक्लप्तो धूलीजालः शक्रचापानुकारी । अर्हन्नाथं मुक्तिलक्ष्म्या वरीतुं क्षिप्तं रेजे कङ्कणं वा समीपे ।। ४१॥
यस्यां च गगनतलचुम्बिनः स्पन्दमानमन्दपवमानकन्दलवलमानवजाग्रमानस्तम्माः क्रोधादीनां चतुणां निरसनाय प्रसृतसंसृल्लक्ष्मीतर्जनीकार्यधूर्वहा व्यराजन्त ।
सालकान्तं भुखाभागं दधत्यास्तत्समाश्रियः ।
लीलादर्पणतां प्रापुः सरस्यो यत्र निर्मलाः ॥४२॥ या च विकचपुण्डरीकपण्डमण्डिता म्फटिकस्वच्छसलिला स. तारकेव व्योमलक्ष्मीः, महामहिमविराजितं विभुं विलोकितुमागतेव बर्लोककल्लोलिनी सुराङ्गनानेत्रविलासविजिताभिरिव हियान्त हिताभिः शकरीभिर्विराजिता खातिका विभाति स्म ।
पदिः ७.-~~१३. "नाहीयस्था: प्रेयसा विप्र भव्याख्यादक्षां तेन वेणी विमोच्य । धली जारच्छमना पार्थतोऽस्या: क्षितं मुद्राकरणं मुक्तिलक्ष्म्याः ॥२० । ७० ॥ त प्रत्याश बागुलजागा मानस्तम्भस्तित्र चत्वार आसन् । क्रोधादीनां से चतुर्णा निरासे संसल प्यास्तर्जनीकार्यमीयुः ॥ २० । ७१॥ आत्यं तस्याः सालकान्तं दवावाः शोभामो संपई स्वां दिदृक्षोः । तलाश माटिकाम्वच्छतागण्यापुर्कीलादर्पणत्वं सगंसि ॥” २० । ७३॥
इति धर्मशर्माभ्युदये.
For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
जीवधरचम्पुकाव्ये प्रसूनानां वाटी सुरभिलतमा यत्र वितता
ततः सालो लोलन्मणिगणपरीतः समलसत् । चतुद्वारप्रान्तान्तरविलसिते नाट्यसदने ___ततो मार्गे धृपाश्चितकनककुम्भी व्यलसताम् ॥ ४३ ॥
या . खलु तत्र संमिलितभव्यसंदोहतो भगवदर्शनेन निर्गच्छल्पापपरंपराभिरिव धूपघटनिर्यहमरेखाभिः परीताभ्रभागा, ककुकामिनीजनकर्णपूरायमाणपल्लवतल्लजविराजितानामिन्द्रोद्यानजया - र्थमुदस्तहस्तानामिवाभ्रंकषशाखानां चैत्यवृक्षाणां चतुष्टयेन विभ्रानितैविविधविचित्रधारायन्त्रलतामण्डपकाञ्चनकोडाशैलपेशलेश्चतुर्भिरुष - वनैरुपेता, नानाविधमणिगणखचिततोरणया सुवर्णपेदिकयालंकृता, शिखावल दन्तावलदन्तिवैरिप्रमुखलाञ्छनलाञ्छिताभिर्गगनतलोद्वेलन - समाकृष्टसुरतरङ्गिणीतरङ्गसंभावनासंपादकव्यामुक्तमुक्ताफलरुचिनिन्च - यरुचिराभिर्वैजयन्तीभिर्विलसिता, भगवन्मुखसरसिजविगलदिव्यध्वनिश्रवणकुतुकेन कुण्डलीभूयोपतस्थुपा मेरुणेव कनकमयसालेन विलसिता, सकलचित्तहारिणा पुष्पितकल्पकवनेन परिशोभिता, निखिलजगदानन्दकन्दलसंदायिन्या चतुर्गापुरचारुतमवजवेदिकया संघटिता, जिनपतिदर्शनकुतूहलेन प्रादुर्भूतान्नवपदार्थानिव नवनव
पति ६–१५. "क्रीडोद्यानान्यत्र चत्वारि ताभ्यामासन्नवप्रोल्लसप्ताहवानि । इन्द्रोद्यानं तच्चतुर्यागवृक्षव्याजाजेतुं यैरुदस्ता: स्वहस्ताः ॥ २० ॥ ८१ ॥ प्रेङ्घदोलासीनसेव्याम्बुधारैर्धारायन्त्रैस्तैलतामण्डपैश्च । स्वैरक्रीडलोकचित्तेक्षणैणास्तेऽप्यारेजुः काश्चनक्रीडशैलाः ॥२०। ८२ ।। कर्णाकारं गोपुराणां चतुष्कं बिभ्रत्सालस्तत्परं काञ्चनोऽन्यः । धर्मव्याख्यामाईती भोतुमिच्छन्मन्ये मेरुः कुण्लीभूय तस्थौ ॥” २० । ८५ ।।
इति धर्मशर्माभ्युइये.
For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशो लम्बः ।
१४९ स्तूपान सनाथान्धारयन्ती, भगवद्दिदृक्षया समागतेन मूर्तेन वायुमार्गेणेव स्फाटिकप्रकारेण परिवृता, सन्ततपरिस्फुरन्निशाकान्तकान्तविनिर्मितव्यसंदोहाध्यासितैदशको?ः प्रतिष्ठिता विरराज ।
तत्र प्रविश्य स च गन्धकुटीसमाख्ये
स्थान मणिस्फुरितसिंहहतासनाने । पूर्वाचले रविमिव प्रविराजमान
वीरं ददर्श कुतुकेन जिनाधिराजम् ॥ ४४ ।। प्रदक्षिणीकृत्य धराधिराजो भक्त्या जगत्पूज्यमथैष वीरम् । इयाज पूजाविधिना विधिज्ञस्तुष्टाव चैवं परितुष्टचित्तः ॥ ४५ ॥ स्वामिन्नम्बुदमार्गचुम्बिविटपैरुद्वाम्बराशान्तरो ___ गायन्भृङ्गरवैस्तवामलगुणान्नृत्यंश्चलैः पल्लवैः । रक्तस्तावकदर्शनेन विविधैः पुष्पप्रवालोत्करै
मुर्तो वा मधुरेव वीर भवतो राजत्यशोकद्रुमः ॥ ४६ ॥ वृष्टिः पौ-पी वरजिनपते तावकी सातिशुभ्रा .. .
संद्रष्टुं त्वां गगनसरणेरागता चन्द्रिका किम् ।। यहा भीत्या कुसुमधनुषो हस्तपद्माच्च्युता द्रा___ ग्बाणश्रेणी नियतमखिलस्पधविज्ञानवार्धे ॥ ४७ ।। केयं लभीरपारा क खलु जिनपते निश्चलं निःस्टहत्वं
कासो सुस्पष्टवोधः सकलविषयकः क्वेशानुद्धतत्वम् । श्लो. ४६-४८. " गायनादेनेव भृङ्गाङ्गनानां नृत्यहोलैः पलवानामिवावैः । किं भूमोऽन्यत्तस्य वत्तं गुणोधैर्जझे रक्तो यस्य वृक्षोऽप्यशोकः ॥ २० । ९३॥ वृष्टिः पौष्पी सा कुतोऽभूनभस्तः संभाव्यन्ते नात्र पुष्पाणि यस्पात । यद्वा ज्ञातं द्रागनङ्गस्य हस्तादहीत्या तत्र बाणा निपेतुः ॥ २० । ९४ ॥ क्वयं लक्ष्मी: वेदृशं नि:स्पृहत्वं वेद ज्ञान कास्त्यनौद्धत्यमीहक् ।
For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये रे रे सर्वे कुतीर्था वदत निजधियेत्येवमामन्द्रनादो
भोः स्वामिन्दुन्दुभिस्ते वदति जलघरध्वान पूरानुकारी ॥ ४८ ।। सकलजगदीश्वर विश्ववेदनचतुर सुरधराधरधीर श्रीवीर, भवदीयातीतानागतवर्तमानविज्ञानमतमानं भुवनत्रयेश्वर्यमहिमानं प्रकटीकुर्वाणम्, अमत्यैः स्वप्राभवप्रकाशनाय चक्रीकृत्य गगने विधा विन्यस्तमिव क्षीरवाराशिसलिलम् , अत्यच्छ स्वभावमपि भव्यौघा. नुरागमादधानं छत्रत्रयं विराजते ।
भामण्डले जिनपते तब दर्शनार्थ
संप्राप्ततिग्मरुचिमण्डलशङ्क-यमाने । स्वातीतजन्म सरणिं मणिदर्पणाभे
संपश्यति प्रविशदं खलु भव्यसङ्घः ॥ ४९ ॥ स्वामिञ्जिनेन्दौ त्वयि जृम्भमाणे व्यर्थीकतानामुडुरानभासाम् । द्राग्वेधसा दण्डनियन्त्रितानां राजीव ते राजति चामरालिः ॥ ५० ॥
कुरङ्गैरुद्गतग्रो वैः श्रूयमाणा निरन्तरम् ।
जितपीयूषधारा ते दिव्यभाषा विराजते ॥ ३१ ॥ सन्ततविनमदमरनिकरमकुटतटघटितमुक्तारूचिपुनरुक्तनखचन्द्रिकानन्दितनिखिलजननयननीलोत्पल श्रीवीर, तब पञ्चाननासनम्, उपवनमिव नानापत्रलतान्त्रितं व्याजम्भमाण वदनैः पञ्चवदनैरश्चितं च, रे रे ब्रूत द्राक्कुतीर्थी इताव ज्ञाने भर्तुदुन्दुभिव्यज्यिवादीत ॥” २० । ९९ ।। श्लो. ५० --- ५१. रेजे मुक्तिश्रीकटाक्षच्छटामा पार्श्वे पश्चिामराणां जिनस्य । ज्ञानालोके निष्फलानामिवेन्दो सामुच्चैर्दण्डानयन्त्रितानाम् ॥ २० ॥ ९७ ॥ अप्युगीवैः श्रूयमाणा कुरङ्गैः कर्णाभ्यर्णस्फारपीयूषधारा । था गब्यूतिद्वन्द्वमभ्युलपन्ती दिव्या भाषा कस्य नासीत्सुखाय ॥” २० । ९८॥
इति धर्मशर्मा युदये.
For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशो लम्बः ।
वाराकरनीरमिव सरत्नमकरम्, हेमाचलशृङ्गमिवात्युन्नतम्, सकलजगदानन्दं कन्दलयति । एवंभूतैरष्टभिः प्रातिहाथै ष्टः श्रीमन्मां भवाब्धौ निमन्नम् । वीर स्वामिन्नुडरेति क्षितीशो भक्त्याधिक्याद्देवदेवं ननाम ॥ १२ ॥
अनुज्ञां लब्ध्वासावथ जिनपतेर्मातुलमुखैः
समेतो भूपालो गणधरमिहानम्य कुशलः । गृहीत्वा निस्सङ्गं जिनपगदितं संयमवरं
तपस्तपे जीवंधरमुनिवरस्तस्य सविधे ॥ ५३॥ कुरूपशोभितोऽप्येष सुरूप इति विश्रुतः ।
मदनोऽपि बभूवाद्य शिवसौख्यसतादरः ॥ ५४ ॥ आस्तां तावदिदमन्यदद्ततममालक्ष्यते ।
संगीतिव्यपदिछो यः सुदृग्भिरभिनन्दितः । सोऽयं मुढग्जनेष्वासीदसंगीति प्रथां गतः ॥ ५५ ॥ दव्यो गन्धर्वदत्ताद्याः सहिताः स्वस्वमातृभिः । समीपे चन्दनार्यायाः संयमं जगृहुः परम् ॥ ५६ ॥ जीवधरोऽयं तपसि प्रवीणो यथाक्रमं नष्टघनाष्टकर्मा । रत्नत्रयं पूर्णमवाप धीरो महामुनिर्मान्यगुणाभिरामः ॥ १७॥ अष्टाभिः स्वगुणैरयं कुरुपतिः पुष्टोऽथ जीवंधरः
सिद्धः श्रीहरिचन्द्रवाङ्मयमधुस्यन्दिप्रसूनोच्चयैः । भक्त्याराधितपादपद्मयुगलो लोकातिशायिप्रभां निस्तुल्यां निरपायसौख्यलहरी संप्राप मुक्तिश्रियम् ॥१८॥ प्रजानां क्षेमाय प्रभवतु महीशः प्रतिदिनं
सुवृष्टिः संभूयाद्भजतु शमनं व्याधिनिचयः । श्री. ५५. संगी, संगीतकलाभिज्ञः । असंगी, संगरहितः.
For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
जीबंधाचम्पुकाव्ये
विधत्तां वाग्देव्या सह परिचयं श्रीरनुदिनं
मतं जैन जीयाद्विलसतु च भक्तिर्जिनपतौ ॥ ५९ ॥ कुरुकुलपतेः कीर्ती राकेन्दुसुन्दरचन्द्रिका - विमलविशदा लोकेप्वानन्दिनी परिवर्धताम् । मम च मधुरा वाणी विद्वन्मुखेषु विनृत्यता
द्विलसितरसा सालंकारा विराजितमन्मथा ॥ ६० ।। इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे
मुक्तिलम्भो नामैकादशो लम्बः ।
समाप्तोऽयं ग्रन्थः ।
For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
READY FOR SALE.
THE GADYACINTAMANI
OF VADIBHASIMHA, A TEXT-BOOK IN SANSKRIT FOR THE B. A. DEGREE
EXAMINATION OF 1905.
Price, 1 rupee 12 annas.
SELECT PRESS OPINIONS.
Dr. E. HULTZSCH REVIEWS IN THE INDIAN ANTIQUARY BOMBAY;TIIE GADYACHINTANANI OP VADIBH ASIMHA, by T. S. KUPPUSWAMI SASTRI and S. SUBRAMANYA SASTRI, Madras, 1902. (Sarasvativilosa Series, No. 1.)
This is the citio princeps of a romance in Sanskrit prose, which resembles in style the Kailanbari of Bana. The first of the two editors is lavourably known to students of Sanskrit literature by his valuable article on Ramabhadra Dikshita and his contemporaries (printed in the Karyamala as a preface to the Patanjalicharita.) He is one of the small band of native scholars who coinbine a Pandit's erudition with a koen appreciation of modern Oriental research.
Odaya deva, surnamed Vådibhasimha, ihe author of the Gadyachintamani, was a Southern Digambara and the pupil of Pushpasēna. IIe also composed a pocm entitled Kshatrachvlanari, the beginning of which was printed at Bangalore a few years ago in an--unfortunately cxtinct--magazine of Jaina works. Both the Gadyachintamani and the Kshatrachudamani have for their subject the legend of Jivaka or Jiyaindharą and soom to be based on the Jivamdharapurana.
For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
The same legend has been treated in two other works-the Jiram tharachampu of Harichandra and the Tamil poem Jirakıchintamani.
The Cradyachintamani is divided into cleven lumits. The first lamba relates that king Satyanıdbara of Rajapuri in Hemangada lost his life and kingdom through the treachery of his minister Kúslıthingåra. Following the cxample of the Fridambari, the author dovotes 23 pages to the description of Hemangada 4 pages to that of Satyamdhara, and 23 pages to that of his queen Vijaya. The pregnant queen escaped on a sort of flying-machine which had the shapo of a peacock, and gave birth in a ccmctery to princo Jivaka or Jiyamdhara, who was adopted by merchant named Gandhotkata and, as the second lambe narrates, educated by Aryanandyacharyav. In the meantime the usurper Kaslthangara despatched an army against robbers who had carried away cattle. As this ariny was repulsed, Nandagopa, the owner of the cattle, proclaimed publicly that he would give his daughter Govinda in marriage to the recoverer of the cattle. Prince Jivaka accomplished this feat and roccived, as promiscd, Nandagopa's daughter, whom lic made over to his companion Padmamukha. In the third lamba we are told that a merchant of Rajapuri, named Sridatta was shipwrecked on an island and thence carried away on a flying camel by il man who turned out to be Dhara, the minister of the Villyathara king Garudavega of Nityaloka. This king possessed a daughter Gandharvadatta, at whose birth it had been foretold that she would become the wifo of a prince at Rajapuri. Thither the king sent his daughter on a zimina along with Sridatta, who gave her out for his own daughter and had it proclaimed that she would be given in marriage to any one wlio surpassed her In playing thic vird. As will be expected, prince Jivamdhara succeeded in this competition, and tlic fair Gandarvadattá chose bim for her husband from the midst of all royal suitors. Here ends the third lumba.
For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
The above fiasty notes will, I hopc, induce others io peruse the interesting Sanskrit work which bas been made accessible through the disinterested labours of Mr. Kuppuswami Sastri and liis collaborator, It may be added that the text of (ivulyachintamani is based on six MSS, and is edited and printed in a most scholarly inanner. The rules of division of words and of interpunctuation are as carefully oliserved as in the standard Europeau editions of Sanskrit books--- point which adds greatly to the usefulness of the new work and recommends it for adoption as a text-book for University examinations. Mr. Kuppuswami Sastri is now editing anotlier unpublished prose work Viranarayanacharita of Vámanabhattalana.
(Sd.) E. HULTZSC.4. Camp), u february, 1903.
THE INDIAN REVIEW, MADRAS: GADYACHINTAMANI of Vadhibbasimha in Devanagari, Edited by T. S. Kuppuswami Sastri and S. Subrahmanya Sastri of Tanjore (G. A. Natosan and Co., Madras).
This is a rare work in Sanskrit prose which now appears for the first time in print. Its author is one Vadhibhasimha, who belonged to the Jaina sect. His original name was Odayadeva, il word commonly met with in the nomenclature of Southern India. His erudition and literary fame brougut him the appellation of " the vanquisher of opponents, as a lion of eleplants." The Editor's, in a well-written preface, fix bis date to be subsequent to 650 A. D.
The story itself is very simple. It tells us of a king Satyamdhara who transferred the burden of his state to his scheming minister, and lived with his queen in retirement without bestowing a thought on Jiis subjects. The minister usurps the kingdom, the king dies, and the queen, after giving birth to il son nained Jivamdhara, follows her husband to heaven, The boy is bred up by a merchant and educated, and is also informed as to the details of his birth and position. His wrathi
For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
is aroused against the treacherous minister of his father, and, after many adventures, in the course of wbich he marries a number of princesses and wealthy heiresses, ho attacks and kills the usurper in battle. IIc ruled the kingdom as an ideal king, and when old age doprived active life of all its charm, he settled his son on the throne and betook himself to a forest and lived the life of an ascetic.
The style is a close imitation of Bana's, though lacking the peculiar grace of that unparalleled master of Sanrkrit prose. The longest compounds of Bana have it musical diction about them, and the lengthiest sentence of his, extending as it does over seven or eight pages of closely printed matter, is still perfect in unity and balance. It is to be regretted that, apart from the numerous philosophic commentaries, there are not a dozen classical prose works in Sanskrit—though the present work must be ranked as one of the best among them. Such a book might occasionally replace the works of Bana and Dandin as a text-book for the B. A. or M. A. examination of our Indian Universities. The book derives additional importance from the fact that it is the production of a Jaina, others of whose persuasion, like Amara * * * * have left a permanent influence on Sanskrit literature.
A SHORT HISTORY
OF
THE TANJORE NAYAK PRINCES
(IN TAMIL BY. T. S. KCPPUSWAMI SASTRI.
Price, 2 annas. 6 pies.
SELECT OPINIONS. PROFESSOR K. SUNDARARAMA AIYER M.A., Govt. Col. lege Kumbakonam.-* * * * I feel still more so for sending me so valuable a gift as your most instructive pamphlet on the Nayaka dynasty.
For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I have real with special interesü your notes on the authors of the age and their works, My only regret is that, while escowlingly valuable, they are so brief. I liope you will write is separate essay ou these Sanskrit writers. In the Antry, there is il nentio of it forthcoming paper of yours on Biswabhadra Dikshitar and the poet of his tiine. I suppose that essay will give mo what I want,
[ala very much delighted to learn that your Sanskrit scholarship and powers of research are leaving such ripe and valuable fruits. Your Wuly umibles pairiotism is shown in your use of the vernacular as the medium for conveying your learning and wisdom to the public. * *
M. R. RY V. VOYKIYYA AVERGAL, M. A., Ofig. Epigraphing to the Maciras Government.--. Many thanks for your vory interesting booklet on the Nåjakas of Tanjore.
M. R. Ry: S. RIDILAKRISTINA ANAR AVERGAL B. A., PRINCIPAL,
M l a's COLLEGE, l'ODUKOTAN: -I thank you for your kindness is sending met Copy of "A Short History of th: Tanjore Nayak Princes," which I have read with much interesi. 11 is wel written and shows historic research. I hope that your look will have an encouraging sale and that you will publish other works showing similar researchi.
THE SOUTH INDIAN MAL, MADURA:-- The public are indebtedio N; puwan Sustrial Assistant Master, Government Upper Secondary Training School, Tanjoro, for a vivid 1?interunting 1.utise on the Nuyak Kings of Tanjore. The Inscripcions to be found in soilie of the temples and other public places and ide works of various Sanskrit authors who were occupying responsible position in the Raj, during the reign of the Nayak Kings, suppy Mr Kuppuswami Sustrial with a lot of information whi:) !c has presented for the deleiaction of the public in it very readable forin in Tanıil. சென்னை' டன்ஸி காலேஜ் தமிழ்ப்ப போடிநர் ஸ்ரீ வே, சாமி 5 ரூயார்:- தாங்களன்புடனலுப்பிய தஞ்சாவூர் நாயக ராஜவம்ச
For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
சரித்திரச் சுருக்கம் வாப்பெற்று முற்றும் படித்துப்பார்த்து அதிலு ள்ள சிறந்த விஷயங்களையறிந்து மிக்க மகிழ்ச்சியடைந்தேன்.
இதுபோன்ற சிறந்த காரியங்களை தங்களை க்சொண்டு எப்பொழு தும் செய்வித்தருளும்படி யீசுவரனைப் பிரார்த்தித்துக்கொண்டிருக்கி றேன்,
மகா-ா - ஸ்ரீ கே. சந்தரராமய்யாவர்களும் மிஸ்டர் ஹென்ளு மெனவர்களும் இப்புத்தகம் வரப்பெற்று மிகுந்த சந்தோஷமடைந்த தாகச்சொன்னார்கள். இதுபோலவே இனி தாங்களெழுதும் புத்த கங்களையுமனுப்பும்படி மிகவும் பிரார்த்திக்கிறேன். மதுரைச் செந்தமிழ் :- சிலகாலமாக மேற்றேயக் கல்வியின் பெரும்பயனாக, நந்தாட்டறிஞர் சிலர், முற்காலவரசர் முதலியோர் சரிதங்களைப் பலகருவிகள் கொண்டு ஆராய்ந்து வெளியிட்டு வரு தல் பலரும் அறிர்ததே. இப்பொழுது தஞ்சாவூர்க் குப்புஸா மிசாஸ்திரிகள் என்பார், தஞ்சாவூரையாண்ட நாய கவரசரது சரிதங்களை எழுதிவெளியிட்டுள்ளார்கள் என்றறிந்து மகிழ்வுறு கின் றோம். இந்நூலில் தஞ்சாவூர் நாயகவாசரில் முதல்வரான சேவப்ப நரயகர், அச்சுதப்பநாயகர், இரகுநாதநாயகர், விஜயராகவ நாயகர் என்னும் அரசர்களைப்பற்றியும், அவர் காலத்து நிகழ்ந்த அருஞ்செய ல்கள், தர்மங்கள், அவசைபால் அபிமானிக்கப்பெற்ற வித்வான்கள், அவர்கள இயற்றிய நூல்கள் முதலியவற்றைக்குறித்தும் பல சாதன ங்களைக்கொண்டு நன்கெழுதப்பட்டுள்ளன. அந்நூலினிறுதியில், எக் கியநாராயண தீட்சிதர் முதலியோரால் இயற்றப்பட்ட நூல்களில் அவ்வரசர் சரிதங்களை விளக்கும் சுலோகங்கள் நாகரலிபியிற்றொகு த்துக் காட்டப்பட்டுள்ளன. விலை அணா 2--6.
IN PREPARATION.
CRITICAL AND EXPLANATORY NOTES
ON Gadyachintamani.
For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only