Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 188
________________ श्रीपृथ्वीधराचार्यप्रणीतं लघुसप्तशतीस्तोत्रम् [ॐ अस्य श्रीलघुसप्तशतीस्तोत्रमन्त्रस्य भगवान् सदाशिव ऋषिः शिरसि, : अनुष्टुपछन्दसे नमो मुखे, त्रिमूर्तिर्देवता हृदये, वाग्भवं ऐं वीजं, माया ही शक्तिः, . श्रीलक्ष्मीः कीलकं, मम चतुर्विधपुरुषार्थे जपे विनियोगः सर्वाङ्गे ।। नमो विरञ्चेरवल्लभायै नमोस्तु ते शङ्करवल्लभायै । नमोस्तु नारायणवल्लभायै श्रीचण्डिकायै शरणं प्रपद्ये ॥१॥ ब्रह्मादयो देवि भजन्ति देवा वसिष्ठमुख्या ऋषयश्च सर्वे । सिन्दूरवी तरुणाकान्ति श्रीचण्डिके! त्वां सततं स्मरामि ॥२॥ सहस्रचन्द्रार्कसमानकान्ति बन्धूकपुष्पारुणपङ्कजाभाम् । देदीप्यमानाग्निसमानकान्ति श्रीचण्डिके ! त्वा सततं स्मरामि ॥३॥ श्रीसिद्धिनाथ ! भवतो भुवनैक भर्नु र्भाषा परामृतमयी निगमान्तरस्था । एषा त्वनन्धशरणस्य ममाश्रुतस्य वृत्ता निसर्गकरुणावरुणालयस्था ॥]'. ॐ नमश्चण्डिकायै यत्कर्म धर्मनिलयं प्रवदन्ति तज्ज्ञा ___ यज्ञादिकं तदखिलं सकलं त्वयैव । त्वं चेतना यत इति प्रविचार्य चित्तं . . नित्ये ! त्वदीयचरणौ शरणं प्रपद्ये ॥१॥ १. कोष्ठान्तर्वर्ती भागस्तु द्वितीयपुस्तके नोपलब्धः । २. ख. श्रीगणेशाय नमः । ३. ख. कलयन्ति ।

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207