Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतत्कथानकोपदर्शनं च श्रोतृणां संवेगस्थैर्यार्थम् । इदं च चरणकरणानुयोगमधिकृत्योक्तम् ।। द्रव्यानुयोग- मधिकृत्य तु द्रव्याद्यपेक्षयात्मादेरेकान्तनित्यतादिवादिनां सुखदुःखाभावप्रसङ्गादिनिदर्शनं द्रष्टव्यम् १॥ उपायो अभिलषितवस्त्वबाप्त्यों व्यापारः' तद्विषयमुदाहरणमुपायोदाहरणं, सोपि च द्रव्यादिभेदादपायवच्चतुर्विधस्तत्र द्रव्योपायो लोके धातुर्वादादिः, लोकोत्तरे त्वध्वादौ पटलादिप्रयोगतः प्रासुकोदककरणादिः ॥ क्षेत्रोपायो लौकिको लाङ्गलकुलिकादिः, लोकोत्तरस्तु विधिना प्रातरशनाद्यर्थमटनादिना क्षेत्रसञ्चारः ॥ कालोपायो नाडिकादिलौकिकस्तस्य तज्ज्ञानोपायत्वेन तथाव्यपदेशात् , लोकोत्तरस्तु सूत्रपरावर्तनादिः ॥ भावोपायस्तु देवनिर्मितैकस्तम्भप्रासादोपशोभितसर्वतुकारामस्थरसालपादपस्य फलमवनामिन्या विद्यया गुर्विण्याः स्वगृहिण्या दोहदपूरणार्थ गृहीतवतश्चाण्डालचौरस्याभिप्रायपरिज्ञानार्थमभयस्येवाख्यायिकाप्रबन्धोपदर्शनादिक इति । इदं च लौकिकमाक्षिप्तं चरणकरणानुयोगमधिकृत्य चोक्तम् ॥ द्रव्यानुयोगमधिकृत्य पुनरादानाद्युपायेनात्मास्तित्वसाधननिदर्शनं द्रष्टव्यम् २॥ स्थापना च 'दोषाच्छादनेनाभीष्टार्थप्ररूपणा, तत्र लोके हिङ्गुशिवप्रवर्तकस्य निदर्शनम् , लोकोत्तरे च प्रमादवशाद्गच्छस्खलितस्य छादनेन कयाचित्कल्पनया प्रवचनं प्रभावयत इति चरणकरणानुयोगं लोकं चाधिकृत्य ॥ द्रव्यानुयोगमधिकृत्य तु नयभेदमतापेक्षया दुष्टहेत्वभिधानेपि तथाविधाभिप्रायेण तत्समर्थनं द्रष्टव्यम् ३ ॥ प्रत्युत्पन्नविन्यासश्च ' तदात्वोपस्थितानिष्टनिरासः,' तस्योदाहरणमेकस्य वणिजो गृहसमीपे बद्धगानतानानां गान्धर्विकाणां गीतश्रवणेनोत्पन्नकामोद्रेकनिजकामिनीपरिजनर औपम्यसत्यास्वरूपविचारे प्रथमोदाहरणभेदप्रतिभेदविचार: सनिदर्शनः॥ ॐ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126