Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कारणानि च करणापाटवादीन्यतिरिच्यन्तेऽपि अन्तर्भवन्ति च रागद्वेषमोहेष्वपीत्यत आह । रागेण व दोसेण व, मोहेण व भासई मुसं भासं ॥ तहवि दसहा विभागो, अणाइणिद्देस संसिद्धो ॥५३॥ "रागेण वा द्वेषेण वा मोहेन वा भाषते मृषां भाषाम् ॥ यदुक्तं ॥ "रागाद्वा द्वेषाद्वा, मोहाद्वा ।। वाक्यमुच्यते ह्यनृतम् || यस्य तु नैते दोषा-स्तस्यानृतकारणं किं स्यात् ॥ १ ॥ इति ।" इदं चावधारणमितरासाधारण कारणनिषेधार्थम्, क्रोधभयादिकषायनोकषायाणां द्वेषे, मायाहास्यादिकषायनोकपायाणां च राग एवान्तर्भावात्, पराभिमतानां भ्रमप्रमादविप्रलिप्साकरणापाटव हेतूनामपि मध्ये, अतस्मिंस्तदध्यवसायरूपस्य भ्रमस्य, चित्तानवधानतारूपप्रमादस्य, इन्द्रियासामर्थ्यरूपकरणापाटवस्य च फलतो मोहे विप्रलिप्सायाश्च द्वेष एवान्तर्भावात् ।। यद्येवं तर्हि त्रिधैव विभागः क्रियतामत आह । तथापि दशधा विभागोऽनादिनिर्देशसंसिद्धः । अयं भावः ॥ सङ्ग्रहाभिप्रायेण त्रिधाविभागसङ्क्षेपेऽप्यनतिविस्तरं सङ्क्षेपरुचितयाभिप्राय सिद्धोऽनादिर्दशधा विभागः, यथाप्रयोगमेव प्रयोगार्हस्तथैव व्यवहारसिद्धेरिति ॥ ५३ ॥ भङ्ग्यन्तरेण चतुर्द्धापि मृषाभाषाविभागमाह ।
संभावस्स णिसेहो संग्भू युग्भावणं च अत्थम्मि अत्थतरं च गैरहा, इय चउहा वा मुसा भासा ||२४|| सद्भावस्य निषेधो धर्मिमात्रे नास्तिप्रतिपादनम्, यथा नास्ति जीवो, नास्ति पुण्यं नास्ति पापमित्यादि १। असद्भूतोद्भावनम् अभ्युपगते धर्मिणि विरुद्धधर्मप्रतिपादनं, धर्म्यभ्युपगमदर्शनायैवार्थ इति पदं, यथास्ति जीवः परमणुपरिमाणो व्यापको वेत्यादिः २। अर्थान्तरं नाम 'अन्यत्र वस्तुनि अन्यशब्दप्रयोगो, 'यथा गव्यश्वशब्दाभिधा
For Private and Personal Use Only
असत्य भेदानां नया
न्तरेण भेद|त्रिकेऽन्त
र्भावेऽपि दशभेदनि
रूपणोप
पत्तिः प्रकारान्तरेण
४) चतुर्धा निरूपणं च ॥

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126