Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 451
________________ ४२० काव्यमाला । इति युद्धधरावलोकिनी पतितं वीक्ष्य सुतं सुयोधनम् । : सुबलस्य सुता विमूच्छिता पुनरुद्बुध्य जगाद केशवम् ॥ ११४ ॥ यदवादि मया रणोद्यमे न सुतः सैष जयेति भाषया । तदिमां ध्रुवमाययौ दशां सह बन्धुखजनैः सुयोधनः ॥ ११५ ॥ विविधैरपि भाषणैर्मुहुर्विदिताक्रन्दभरा हृदीशितुः । बत भानुमती हगम्बुभिः स्वयमेन्तस्त्रपनं करोत्यसौ ॥ ११६ ॥ वपुषो हरते रजोञ्चलैर्विकृषत्यङ्गुलिभिस्तृणं मुखात् । गमयत्य सृगश्रुभिः स्नुषानिवहोऽयं दयितेषु मामकः ॥ ११७ ॥ इयमच्युत मौलिमीशितुः स्वयमङ्के विनिवेश्य बालिका । स्वजने त्वयि दत्तदीदृग्विलपन्ती वदतीदमुत्तरा ॥ ११८ ॥ स्वसुरेष सुतः प्रियः सहक्तव रूपे विनये न ये जये । किमु सर्वग पश्यति त्वयि च्छलिभिर्भूरिभिरेकको हतः ॥ ११९ ॥ अभिचुम्ब्य हृदीशितुर्मुखं पुनरालोक्य निजाश्रुभिः प्लुतम् । स्मृतसात्विकवारिविभ्रमा विधुरेयं रुदती वदत्यमुम् ॥ १२० ॥ प्रिय विप्रियवानहं (?) त्वया न हि पृष्टापि युधि द्रुतं यता । किमु विप्रियकारिणीमिव प्रलपन्तीमपि मां न भाषसे ॥ १२१ ॥ यदि दत्तमुरः सुरस्त्रियः प्रिय तन्मां चलितारुणेक्षणः । ४ कटु रे रटसीह किं वदेत्यपि रोषादियतापि मे मुदः ॥ १२२ ॥ प्रिय तादृशगौर पौरुषः स्फुटमेकोऽपि रणैककर्कशः । मदभाग्यसहायतां विना व सहस्रैरपि हन्यसे द्विषाम् ॥ १२३ ॥ सततं मयि साम तन्वतः प्रिय मन्ये तव विस्मृता रुषः । धृतकोपलवस्य तेऽद्य ते पुरतः स्थातुमपीश्वराः परे ॥ १२४ ॥ तनयस्य तवैव वैरतः कति तातेन निजघ्निरे परे । नयनोत्सव तैर्घनैरपि प्रिय नैको ववले पुनर्भवान् ॥ १२५ ॥ १. 'मन्तः स्रपनं' क-ख. २. 'विप्रियवान्भवानहं' क. ३. 'द्वितया' क. ४. 'मो , मुदः' ख ५. 'सामतत्त्वत:' ख. ६. 'तत्कृते' ख. · Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522