Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 724
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्राणिनः किंचिज्ज्ञानसंभवान्मुक्तौ बन्धप्रसक्तेश्च, तत्र सकलज्ञानाभावस्य बन्धहेतोः संभवात् , असंप्रज्ञातयोगावस्थायां च " तदा द्रष्टुःस्वरूपेऽवस्थानम्" इति वचनात् । स्वरूपं च पुंसश्चैतन्यमात्र सकलज्ञानरहितम् । इति मोक्षहेतुरेव बन्धहेतुः स्यात् । यदि पुनस्तत्त्वज्ञानस्य प्रागभावाद्वन्धो न प्रध्वंसाभावादिति मतं, तदा समाविर्भूततत्त्वज्ञानस्य कस्यचित् कुतश्चिद्विपर्ययज्ञानकारणादन्तरङ्गादहिरङ्गाहा विपर्ययज्ञानोत्पत्ती तत्त्वज्ञानप्रध्वंसाइन्धः कथं युज्येत?, स्यान्मतं,-सकलतत्त्वज्ञानोत्पत्ती निःशेषमिथ्याज्ञाननिवृत्तेरसंप्रज्ञातयोगोत्पत्ती तु तत्त्वज्ञानस्यापि नाशादशेषज्ञानाभावाख्यादज्ञानान्मोक्ष एव, ततोन्यस्मात् सम्यग्ज्ञानप्रागभावप्रध्वंसरूपाद्भन्ध एवेति, तदप्यसाधीयः, केवल्यभावप्रसङ्गस्याभिधानात् । स्तोकतत्त्वज्ञानाप्रतिबद्धात्तथाविधादज्ञानाद्बन्ध इत्यपि विरुद्धं, प्रवर्तकधर्महेतोः स्तोकतत्त्वज्ञानात्प्रतिहताशेषाज्ञानशक्तिकात् पुण्यबन्धाभावानुषङ्गात् । ततो ज्ञानाभावलक्षणादज्ञानान्नावश्यंभावी बन्ध इति पक्षः क्षेमंकरः स्तोकतत्त्वज्ञानान्मोक्ष इति पक्षवत् । अथ मिथ्याज्ञानलक्षणादज्ञानाद् ध्रुवो बन्धः स्यात् , “ धर्मेण गमनमूवं, गमनमधस्ताद्भवत्यधर्मेण ॥ ज्ञानेन चापवर्गों, विपर्ययादिष्यते बन्धः ॥१॥" इति वचनात् । विपर्ययो मिथ्याज्ञानं सहजमाहार्य चानेकविधमित्यभिमतं, तदप्यसत्यं, केवल्यभावप्रसक्तः, समयान्तरश्रवणजनितानेकविधाहार्यविपर्ययस्य सांख्यागमभावनाबलोद्भूततत्त्वज्ञानाद्विनाशेपि सहजस्य विपर्ययस्यानिवृत्तेः । केवलज्ञानात् प्राग् बन्धस्यावश्यंभावात्तन्निबन्धनमिथ्याज्ञानान्तरोद्भूतः केवलोभृतिविरोधात् । न चागमबलात्सकलतत्त्वज्ञानाविभूतिरुपपद्यते, झेयस्य विशेषतोनन्तत्वादागमाविषयत्वादनुमानाद्यविषयत्ववत्, यतः कृत्स्नमिध्याज्ञाननिवृत्तः केवलाविर्भावः संभाव्यते । स्तोकतत्त्वज्ञानान्मोक्ष इत्यप्यनेन निराकृतं, बहुतो मिथ्याज्ञानाद्वन्धस्य प्रसक्तेः । स्तोकतत्त्वज्ञानप्रतिहताद्बहुतो मिथ्याज्ञानान्न बन्ध इति चेत्, कथमेव मिथ्याज्ञानाद् ध्रुवो बन्धः स्यात् ? कथं वा स्तोकतत्त्वज्ञानात् प्रवर्तकधर्मनिबन्धनात्पुण्यबन्धः ? इति दुरवबोधम् । ACCOACAGA For Private And Personal Use Only

Loading...

Page Navigation
1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793