________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
प्राणिनः किंचिज्ज्ञानसंभवान्मुक्तौ बन्धप्रसक्तेश्च, तत्र सकलज्ञानाभावस्य बन्धहेतोः संभवात् , असंप्रज्ञातयोगावस्थायां च " तदा द्रष्टुःस्वरूपेऽवस्थानम्" इति वचनात् । स्वरूपं च पुंसश्चैतन्यमात्र सकलज्ञानरहितम् । इति मोक्षहेतुरेव बन्धहेतुः स्यात् । यदि पुनस्तत्त्वज्ञानस्य प्रागभावाद्वन्धो न प्रध्वंसाभावादिति मतं, तदा समाविर्भूततत्त्वज्ञानस्य कस्यचित् कुतश्चिद्विपर्ययज्ञानकारणादन्तरङ्गादहिरङ्गाहा विपर्ययज्ञानोत्पत्ती तत्त्वज्ञानप्रध्वंसाइन्धः कथं युज्येत?, स्यान्मतं,-सकलतत्त्वज्ञानोत्पत्ती निःशेषमिथ्याज्ञाननिवृत्तेरसंप्रज्ञातयोगोत्पत्ती तु तत्त्वज्ञानस्यापि नाशादशेषज्ञानाभावाख्यादज्ञानान्मोक्ष एव, ततोन्यस्मात् सम्यग्ज्ञानप्रागभावप्रध्वंसरूपाद्भन्ध एवेति, तदप्यसाधीयः, केवल्यभावप्रसङ्गस्याभिधानात् । स्तोकतत्त्वज्ञानाप्रतिबद्धात्तथाविधादज्ञानाद्बन्ध इत्यपि विरुद्धं, प्रवर्तकधर्महेतोः स्तोकतत्त्वज्ञानात्प्रतिहताशेषाज्ञानशक्तिकात् पुण्यबन्धाभावानुषङ्गात् । ततो ज्ञानाभावलक्षणादज्ञानान्नावश्यंभावी बन्ध इति पक्षः क्षेमंकरः स्तोकतत्त्वज्ञानान्मोक्ष इति पक्षवत् । अथ मिथ्याज्ञानलक्षणादज्ञानाद् ध्रुवो बन्धः स्यात् , “ धर्मेण गमनमूवं, गमनमधस्ताद्भवत्यधर्मेण ॥ ज्ञानेन चापवर्गों, विपर्ययादिष्यते बन्धः ॥१॥" इति वचनात् । विपर्ययो मिथ्याज्ञानं सहजमाहार्य चानेकविधमित्यभिमतं, तदप्यसत्यं, केवल्यभावप्रसक्तः, समयान्तरश्रवणजनितानेकविधाहार्यविपर्ययस्य सांख्यागमभावनाबलोद्भूततत्त्वज्ञानाद्विनाशेपि सहजस्य विपर्ययस्यानिवृत्तेः । केवलज्ञानात् प्राग् बन्धस्यावश्यंभावात्तन्निबन्धनमिथ्याज्ञानान्तरोद्भूतः केवलोभृतिविरोधात् । न चागमबलात्सकलतत्त्वज्ञानाविभूतिरुपपद्यते, झेयस्य विशेषतोनन्तत्वादागमाविषयत्वादनुमानाद्यविषयत्ववत्, यतः कृत्स्नमिध्याज्ञाननिवृत्तः केवलाविर्भावः संभाव्यते । स्तोकतत्त्वज्ञानान्मोक्ष इत्यप्यनेन निराकृतं, बहुतो मिथ्याज्ञानाद्वन्धस्य प्रसक्तेः । स्तोकतत्त्वज्ञानप्रतिहताद्बहुतो मिथ्याज्ञानान्न बन्ध इति चेत्, कथमेव मिथ्याज्ञानाद् ध्रुवो बन्धः स्यात् ? कथं वा स्तोकतत्त्वज्ञानात् प्रवर्तकधर्मनिबन्धनात्पुण्यबन्धः ? इति दुरवबोधम् ।
ACCOACAGA
For Private And Personal Use Only