Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 235
________________ आर्यासप्तशती। बहुतरपरिप्रहाभावेऽप्यतितृष्णाशालिनं कंचन कश्चिदन्योक्त्या वक्ति शिरसा वहसि कपद रुद्र रुदित्वापि रजतमर्जयसि । अस्पाप्युदरस्याचं भजतस्तव वेत्ति कस्तत्त्वम् ॥ ५८१॥ शिरसेति । हे रुद्र, शिरसा कपर्द जटाजूटमथ च वराटिकां वहसि । रोदनं कृत्वापि रजतमर्जयसि । 'सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्' इत्याद्यर्थवादादरोदनाद्रजतोत्पत्तिरिति । यद्यपि 'असो वामं वसु च संदधत' इत्यनिरोदनाद्रजतोत्पत्तिस्तथाप्यष्टमूर्तितयामिरूपो रुद्र इत्यर्थः । अस्य । एवं चापलापानर्हत्वं ध्वन्यते। उदरस्यार्ध समांशकम् । 'अर्ध समेंऽशके' इत्यमरः । एवं च विभागकाले किंचिदधिकाग्रहणेनातिकृपणत्वं ध्वन्यते । भजतोऽपि तत्त्वं को वेत्ति । न कोऽपीत्यर्थः । एवं च परिग्रहभावेऽतिदैन्यादिना द्रव्यार्जनकरणमनुचितमिति व्यज्यते ॥ कश्चित्कांचित्मामान्यवनितामन्योक्त्या वक्ति श्रोतव्यैव सुधेव श्वेतांशुकलेव दूरदृश्यैव । दुष्टभुजंगपरीते त्वं केतकि न खलु नः स्पृश्या ॥ ५८२ ॥ श्रोतव्यैवेति । हे केतकि, दुष्टसर्पव्याप्ते, नोऽस्माकं त्वं निश्चयेन स्पृश्या न। किं तु सुधेव श्रोतव्यैव । न तु ग्रहीतुं शक्येत्यर्थः । तत्रापि भुजंगसंरक्षणस्य मत्त्वादिति भावः । सुगाश्वेतांशुकलयोः केतक्युपमानत्वे गौरत्वं समानो धर्मः । एवं च सर्वथा स्पृहणीयत्वेऽपि विटनैकट्येन दुर्घटा त्वत्संगतिरस्माकमिति व्यज्यते। यद्वा सुधैव श्रोतव्यैवेति काका नेत्यर्थः । किं तु दृश्यादृश्यत्वेऽपि चन्द्ररेखेव दूरहश्यैवेति काका नेत्यर्थः । कि तु निकटदृश्या। एवं चेन कुतः संगति संपादयसीत्यवाह-दुष्टसपेव्याप्ते केतकि, त्वं नो न स्पृश्या । एवं च जीवनदाननिदानतापापनोदनखरूपायास्तव नैकव्येऽपि खिड्गभिया नास्माकमागमनं भवतीति व्यज्यते ॥ नायको नायिकादूतीं वति श्रवणोपनीतगुणया समर्पयन्त्या प्रणम्य कुसुमानि । मदनधनुर्लतयेव त्वया वशं दूति नीतोऽसि ॥ ५.३ ।। श्रवणेति । गुणः सौन्दर्यादिः । अर्थान्नायिकायाः । ज्या च । नमस्कृत्य । नमनं प्राप्य च । पुष्पाणि । अर्थान्नायिकाप्रेषितानीति भावः । मदनबाणानां पुष्पमयत्वाच्च । समर्पयन्त्या मदनधनुर्लतयेव हे दूनि, त्वया खाधीनतां प्रापितोऽस्मि । एवं च मयावश्यमागम्यत एवेति व्यज्यते ॥

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284