Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
२६२
काव्यमाला
'अथ च खमुखेनामिहितं मया दानं कृतमिति । किमप्यनिर्वचनीयं प्रकृष्टमत्तत्वकारणम् । दानमपि । अपिनान्यकर्मणः का वार्तेति भावः । गजस्य खलस्य च मदमेव चकार । एवं च खलसंगतिरनुचितेति व्यज्यते ॥ नायकस्य मौब्यादियमपि मूढेवेति मन्वानमुपपतिं दूती वक्ति
सत्यं पतिरविदग्धः सा तु खधियैव निधुवने निपुणा ।
मार्चिकमाधाय गुरुं धनुरधिगतमेकलव्येन ॥ ६६४ ॥ सत्यमिति । पतिरचतुर इदं सत्यम् । अत एव पतिपदं सामिप्रायम् । सा तु खबुद्धयैव सुरते निपुणा । एनमेवार्थमर्थान्तरन्यासेन द्रढयति-मृत्खरूपं गुरुं संस्थाप्यैकलव्यनाम्ना निषादेन धनुरधिगतम् । एवं च 'उपदेशक्रमो राम व्यवस्थामात्रपालनम् । ज्ञप्तेस्तु कारणं तात शिष्यप्रज्ञैव केवलम् ॥' इति वसिष्ठवचनात् । मार्तिकं द्रोणाचार्य विधायकलव्येन धनुर्विद्याभ्यस्तेति भारते । एवं च तस्यामचातुर्य नाशङ्कनीयं त्वयेति धन्यते ॥ नायकदूती नायिका वक्ति
सौभाग्यमानवान्स त्वयावधीर्यापमानमानीतः ।
खं विरहपाण्डिमानं भरसस्त्रानोपमं तनुते ॥ ६६५ ॥ सौभाग्येति । सौभाग्यामिमानवान्स त्वयावगणय्यापमानं प्रापितः । भस्ममानसदृशं खं खकीयं विरहपाण्डिमानम् । कचित् । 'तव' इति पाठः । तनुते । यथा कश्चिदभिमानी अवगणितः सर्वाङ्गे भस्म संप्लाव्य सर्व परित्यज्य दुःखवशात्तिष्ठति तथायं त्वद्विरहरूपभस्मनानं करोति, अत एनं प्रसन्नीभूयाङ्गोकुर्विति व्यज्यते ॥ काचित्कांचिद्वक्ति
सखि मम करञ्जतैलं बहुसंदेशं प्रहेष्यसीत्युदिता।
श्वशुरगृहगमनमिलितं बाष्पजलं संवृणोत्यसती ॥ ६६६॥ सखीति । हे सखि । एवं चोपदेशार्हत्वं व्यज्यते । बहूनां संदेशो यत्र। बहुतररोगिप्रार्थ्यमानमित्यर्थः । एवं चावश्ययाचनीयत्वप्रेषणीयत्वे व्यज्यते । अथ च बहुतरकामुकसंकेतविषयमित्यर्थः । एवंविधं करजतैलं प्रहेष्यसीयुक्ता श्वशुरसदनगमनावसरसंजावबापजलमसतीति ग्रंण्यति । एवं च तत्रापि मया करजक्ष

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284