Book Title: Anuttaropapatik Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 227
________________ ||७|| दीर्घसेनादि १३ कुमारवर्णनम् ( भुजङ्गप्रयातवृत्तम् ) गुरोभक्तिभावेन युक्तः क्रियावान , प्रसन्नः प्रवीणो विगों गुणी च । तपोभावयुक्तः सदा राजते यः, तपस्वी मुनिमाँगिलाल प्रशान्तः (मन्दाक्रान्तावृत्तम् ) शान्तो दान्तः स्थविरपदवीशोभितः शुद्धभावो, मोहोद्रेकप्रमथनपरो मोक्षसौख्यामिलापी । सम्यश्रद्धाविमलहृदयः पदविधमाणिपालो, देवीलालः सुमुनिरिह यो राजते सच्चरित्रः ॥८॥ द्वयधिकद्विसहस्राब्दे (२००२), विक्रमस्य गुरोर्दिने । ज्येष्ठकृष्णदले टीका, द्वादश्यां पूर्णतामगात् ॥१॥ टीकासमाप्तिसमये, साधवः सत्य उत्तमाः। सन्त्यत्र तेपां नामानि, कथ्यन्ते गुणद्धये ॥१०॥ तथाहि ( अनुष्टुवृत्तम् ) लिम्बडीसम्पदायस्थो,-धनजीस्वामिनामकः । गुरुभ्रात्रा समायुक्ता, राजते चन्द्रवद् गणे ॥११॥ ( शादूर्लविक्रीडीतवृत्तम् ) छोटालालमुनिर्वयोमधुरिमाऽऽनन्दमदः प्राणिनां, चश्चचन्द्रकलेव यस्य करुणा पकायतापापहृत् । पूर्णश्चन्द्र इत्र प्रतप्तजनताज्ञानामृताऽऽचर्पणः, लोकानन्दगुणेन यः किल सदानन्दी मसिद्धोऽभवत् ॥१२॥ वैयावृत्तिगुणममोदितमुनिजेता कपायस्य यः, माणिताणपरायणः करुणया यस्य द्रवत्यन्तरम् । लक्ष्मीचन्द्रमुनिः स शान्तहृदयो धीरस्तथैतावुभौ, राजेते मृदुमानसौ मुनिवरौ यो लिम्बडीगच्छके ॥१३॥

Loading...

Page Navigation
1 ... 225 226 227 228