Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 376
________________ तत्त्वबोधिनीविवृतिविभूषितम् ३१५ अथ द्रव्य-गुणयोर्भेदैकान्तवादिनो द्रव्य-गुणलक्षणानुपपत्तिमुद्भावयन्ति "दवस ठिई जम्म-विगमा य गुणलक्खणं ति वत्तवं । एवं सइ केवलिणो, जुज्जइ तं णो उ दवियस्स ॥" [सम्मतिकाण्ड० ३, गाथा-२३] द्रव्यस्य लक्षणं स्थितिः, जन्म-विगमौ लक्षणं गुणानाम् , एवं सति केवलिनो युज्यत एतल्लक्षणम् , तत्र किल केवलात्मना स्थित एव चेतना-ऽचेतनरूपा अन्येऽर्था ज्ञेयभावेनोत्पद्यन्ते, अज्ञेयरूपतया च नश्यन्ति, न तु द्रव्यस्य-अण्वादेर्लक्षणमिदं युज्यते, नह्मणौ रूपादयो जायन्ते अत्यन्तभिन्नत्वाद् गव्यश्वादिवत् , अथवा केवलि. द्रव्य-गुणयोर्भेदैकान्तवादिनां स्याद्वाद्यभिमतद्रव्य-गुणलक्षणानुपपत्तिमुद्भावयतां मतस्योपदर्शिकां सम्मतिगाथामवतार्योल्लिखति-अथेति । दव्वस्स इति-"द्रव्यस्य स्थितिर्जन्म-विगमौ च गुणलक्षणमिति वक्तव्यम् । एवं सति केवलिनो युज्यते तन्न तु द्रव्यस्य ॥” इति संस्कृतम् । विवृणोति-द्रव्यस्य तु लक्षणं स्थितिरिति। केवलिनि निरुक्तद्रव्य-गुणलक्षणसङ्गमनं करोति-तत्रेति-केवलिनीत्यर्थः । केवलिनि ज्ञेयभावेनान्येषामर्थानामुत्पत्तौ तद्राहकत्वेन केवलिनोऽप्युत्पत्तिः, एवमन्येषामर्थानामज्ञेयभावेन तत्र विनाशे तदग्राहकत्वेन केवलिनोऽपि विनाश इत्येवं केवलात्मना स्थितिमतः केवलिनो जन्म-विनाशयोरपि सद्भावान्निरुक्तद्रव्य-गुणलक्षणयोगित्वमित्यर्थः । केवलिनोऽपि द्रव्यत्वात् तस्योक्तलक्षणयोगस्य दर्शितत्वात् 'न तु द्रव्यस्य' इति सामान्यतो द्रव्यस्योक्तलक्षणायुक्तत्वकथनमयुक्तमतः। 'अण्वादेः' इति, अनेन केवलिभिन्नस्य सर्वस्य द्रव्यस्य ग्रहणम् । ननु अण्वात्मना स्थित एवाणौ रूपादयो जायन्ते नश्यन्ति चेति रूपाद्यात्मना जन्म-विनाशौ सम्भवत एवाणोरपीत्यत आह-न हीति-अस्य 'जायन्ते' इत्यनेनान्वयः । अणौ रूपादीनामुत्पादेऽपि तदैवाणोरुत्पाद आयाति यदि रूपादिभिः सममणोरभेदः स्यात् , मेदे तु नास्योत्पादेऽन्यस्योत्पाद इत्यभिसन्धानेनाणौ रूपादयोऽभिन्नतया नहि जायन्त इत्येवार्थः, तत्र हेतुमाह-अत्यन्तमिन्नत्वादिति । गव्यश्वादिवदिति-यथा गोभिना अश्वादयो न गवि जायन्ते

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442