Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
ध्वन्यालोकः
[३-१९
स्वतन्त्रतया व्यापारान्तरवर्णने । अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रकृद्धविविक्वीरसड़ये कल्पसङ्ख्यकल्पे सलाम देवप्रायस्यापि तावन्नायकस्यानुपक्रान्तविप्रलम्भशृङ्गारस्य निमित्तमुचितमन्तरेणैव शृङ्गारकथायामवतारवर्णने । न चैवंविधे विषये दैवव्यामोहितत्वं क्यापुरुषम्य परिहारो यतो रसबन्ध एव कवेः प्राधान्येन प्रवृत्तिनिबन्धनं युक्तम् । इतिवृत्तवर्णनं तदुपाय एवेत्युक्तंःप्राक् ' आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः' इत्यादिना ।
अत एव चेतिवृत्तमात्रवर्णनप्राधान्येऽङ्गाङ्गिभावरहितरसभावनिबन्धने च कवीनामेवंविधानि स्खलितानि भवन्तीति रसादिरूपव्यङ्गयतात्पर्यमेवेषां युक्तमिति यत्नोऽस्माभिरारब्धो न ध्वनिप्रतिपादनमात्राभिनिवेशेन । पुनश्चायमन्यो रसभङ्गहेतुरवधारणीयो यत्परिपोषं गतस्यापि रसस्य पौनःपुन्येन दीपनम् । उपभुक्तो हि रमः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमाणः परिम्लानकुसुमकल्पः कल्पते । तथा वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव । यथा नायकं प्रति नायिकायाः कस्याश्चिदुचितां भङ्गिमन्तरेण स्वयं सम्भोगाभिलाषकथने । यदि वा वृत्तीनां भरतप्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तरप्रसिद्धानामुपनागरिकाद्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभङ्गहेतुः । एवमेषां रसविरोधिनामन्येषां चानया दिशा स्क्यमुप्रेक्षितानां परिहारे सत्कविभिखहितैर्भवितव्यम् । परिकर श्लोकाश्चात्र -
मुख्या व्यापारविषयाः सुकवीनां रसादयः । तेषां निबन्धने भाव्यं तैः सदैवाप्रमादिभिः ॥ नीरसस्तु प्रबन्धो यः सोऽपशब्दो महान् कवेः ।. म तेनाकविरेव म्यादन्येनाम्मृतलक्षणः ।। पूर्वे विशृङ्खलगिरः कवयः प्राप्तकीर्तयः । तान्ममाश्रित्य न त्याज्या नीतिरेषा मनीषिणा ।।

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530