Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 507
________________ संसृष्टवन । स्वन्यालोकः अत्र ग्रुपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्गचस्य ध्वनेः - ४४,४५,४६ एवं ध्वनेः प्रभेदाः प्रददाव केन शक्यन्ते । संख्यातुं दिङ्मात्रं तेषामिदमुक्तमस्माभिः || ४४ ॥ कथितम् । अनन्ता हि नः प्रकारः महयानां व्युत्पत्तये तेषां दिमात्रं इत्युक्तलक्षणो यो ध्वनिविवेच्यः प्रयत्नतः सद्भिः । सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तः ॥ ४५ ॥ उक्तस्वरूपध्वनिनिरूपणनिपुणा हि सत्कवयः महदयाच नियतमेव काव्यविषये परां प्रकमासादयन्ति । अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम् । अशक्नुवद्भिव्याकर्तुं रीतयः सम्प्रवर्तिताः ॥ ४६ ॥ एतद्वनिप्रवर्तनेन निर्णीत काव्यतत्त्वमस्फुटम्फुरितं मदशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः । रीतिलक्षणविधायिनां हि काव्यतत्त्वमेतम्टतया मनाक्स्फुरितमासीदिति लक्ष्यते तदत्र स्फुटतया सम्प्रदर्शितमित्यन्येन रीतिलक्षणेन न किञ्चित् । शब्दतत्त्वाश्रयाः काश्विदर्थतत्त्वयुजोऽपराः । वृत्तोऽपि प्रकाशन्ते ज्ञातेऽस्मिन् काव्यलक्षणे ॥ ४७॥ अस्मिन् व्यङ्ग्यव्यञ्जकभावविवेचनमये काव्यलक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागरिकाद्याः शब्दतत्त्वाश्रया वृत्तयो याश्वार्थतत्त्वसम्बद्धाः केशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति । अन्यथा तु तासामदृष्टार्थानामित्र वृत्तीनामश्रद्धेयत्वंमंत्र स्यान्नानुभवसिद्धत्वम् । एवं स्फुटतयैव लक्षणीयं स्वरुपमस्य ध्वनेः । यत्र शब्दानामर्थानां च केषाञ्चित्प्रतिपत्तविशेषसंवद्यं :

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530